लघुसिद्धान्तकौमुदी/उणादिप्रकरणम्
दिखावट
(उणादिप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
← पूर्वकृदन्तप्रकरणम् | लघुसिद्धान्तकौमुदी उणादिप्रकरणम् वरदराजः |
उत्तरकृदन्तप्रकरणम् → |
अथोणादयः
कृवापाजिमिस्वदिसाध्यशूभ्य उण्॥ १॥
करोतीति कारुः। वातीति वायुः। पायुर्गुदम्। जायुरौषधम्। मायुः पित्तम्। स्वादुः। साध्नोति परकार्यमिति साधुः। आशु शीघ्रम्॥
उणादयो बहुलम्॥ लसक_८५१ = पा_३,३.१॥
&न्ब्स्प्॑ेते वर्तमाने संज्ञायाम् च बहुलं स्युः। केचिदविहिता अप्यूह्याः॥
&न्ब्स्प्॑संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
&न्ब्स्प्॑कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु॥
इत्युणादयः॥