लक्ष्मीतन्त्रम्/अध्यायः ५३

विकिस्रोतः तः
← अध्यायः ५२ लक्ष्मीतन्त्रम्
अध्यायः ५३
[[लेखकः :|]]
अध्यायः ५४ →
लक्ष्मीतन्त्रस्य अध्यायाः

त्रिपञ्चाशोऽध्यायः - 53
श्रीः---
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर।
परिच्युतमलः स्नातो यथावच्छास्रदर्शनात् ।। 1 ।।
एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम्।
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् ।। 2 ।।
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् ।। 3 ।।
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते ।। 4 ।।
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् ।। 5 ।।
उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम्।
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् ।। 6 ।।
मनोऽभिमान इत्येतदहंकारे शमं नयेत्।
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् ।। 7 ।।
सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत्।
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् ।। 8 ।।
तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ।। 9 ।।
परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत्।
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् ।। 10 ।।
मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।। 11 ।।
शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद्‌ बुधः ।। 12 ।।
बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान्।
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् ।। 13 ।।
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् ।। 14 ।।
सोमायुताभमद्वक्त्रजेन सिञ्चेतेतथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु ।। 15 ।।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे त्रिपञ्चाशोऽध्यायः
********इति त्रिपञ्चाशोऽध्यायः********