लक्ष्मीतन्त्रम्/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ लक्ष्मीतन्त्रम्
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
लक्ष्मीतन्त्रस्य अध्यायाः

दशमोऽध्यायः - 10
शक्रः---
क्षीरोदमथनायासफलरूपे मधुद्विषः।
नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये ।। 1 ।।
भावोत्तराः प्रकारास्ते श्रुतास्त्वद्वक्त्रपङ्कजात्।
इदानीं श्रोतुमिच्छामि प्रकारान् भवदुत्तरान् ।। 2 ।।
वैष्णवा अवतारास्ते किंरूपाः {1}कति वाम्बुजे।
एतत्पृष्टा मया ब्रूहि नमस्ते पङ्कजासने ।। 3 ।।
{1. कथिता बुधैः E. }
श्रीः---
{2}हन्त ते शक्र वक्ष्यामि प्रकारान् भवदुत्तरान्।
वैष्णवा अवतारास्ते यावन्तो यद्विधाश्च ते ।। 4 ।।
{2. अहं ते B. C. }
षाड्‌गुण्यममलं ब्रह्म निर्दोषमजरं ध्रुवम्।
सर्वशक्ति निरातङ्कं निरालम्बनभावनम् ।। 5 ।।
तदुन्मिषति वैपूर्वं शक्तिमच्छक्तिभावतः।
नारायणः परो देवः संस्थितः शक्तिमत्तया ।। 6 ।।
स्थिरा शक्तिरहं तस्य सर्वकार्यकरी विभोः।
तावावां जगतोऽर्थाय बहुधा विक्रियावहे ।। 7 ।।
यथाहमास्थिता भेदैस्तथा ते कथितं पुरा।
विकारानविकारस्य विष्णोः श्रृणु मयोदितान् ।। 8 ।।
अप्राकृताननौपम्यानचिन्तयमहिमोज्ज्वलान्।
स्वां शक्तिं मामधिष्ठाय प्रकृतिं परमाद्भुताम् ।। 9 ।।
त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते।
आद्येन पररूपेण व्यूहरूपेण चाप्यथ ।। 10 ।।
तथा विभवरूपेण नानाभावमुपेयुषा।
व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ।। 11 ।।
अनौपम्यमनिर्दश्यं {3}वपुः स भजते परम्।
विश्वाप्यायनकं{4} कान्त्या पूर्णेन्द्वयुततुल्यया ।। 12 ।।
{3. पुनः A. B. G. I. }
{4. करं E.I. }
वरदाभयहस्तं च द्विभुजं पद्मलोचनम्।
रेखामयेन चक्रेण शङ्खेन च करद्वये ।। 13 ।।
अङ्कितं निर्विकाराङ्‌घ्रिस्थितं परमशोभनम्।
अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्‌भिरलंकृतम् ।। 14 ।।
समं समविभक्ताङ्नं सर्वावयवसुन्दरम्।
पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः ।। 15 ।।
रश्मिभूतैरमूर्तैः स्वैरच्युताद्यैरविच्युतम्।
एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा ।। 16 ।।
योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम्{5}।
अथ व्यूहस्बरूपं ते द्वितीयं वर्णयाम्यहम् ।। 17 ।।
{5. श्रयाम् E. F. }
व्यूह्यात्मानं चतुर्धा स्वं देवः प्रागादिभेदतः{6}।
वासुदेवादिभेदेन {7}सौषुप्ताध्वनि तिष्ठति ।। 18 ।।
{6. भेदिनः A. }
{7. सुषुप्त्यध्वनि B.; सुषुप्तात्मनि E. }
{8}संस्थानमादिमूर्तेर्वै सर्वेषां तु समं स्मृतम्।
षड्‌गुणं प्रथमं रूपं द्वन्द्वैर्ज्ञानादिसंभवैः ।। 19 ।।
{8. सृष्ट्यादिसंस्था मूर्तिर्वै A. B. C. }
इतराणि स्वरूपाणि कथितानि मया पुरा{9}।
वह्न्यर्केन्दुसहस्राभमानन्दास्पन्दलक्षणम्{10} ।। 20 ।।
{9. पुनः E. }
{10. आनन्दस्पन्दलक्षणम् E. F. }
बीजं सर्वक्रियाणां तद्विकल्पानां तदास्पदम्।
सौषुप्तं चातुरात्म्यं तत्प्रथमं विद्धि वासव ।। 21 ।।
अथ स्वाप्रे पदेऽप्येवं विभज्यात्मानमात्मना।
देवः प्रागादिभेदेन वासुदेवादिरूपतः ।। 22 ।।
समासव्यासभेदेन गुणआनां पुरुषोत्तमः।
सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः ।। 23 ।।
आदिमूतिसमै{11} रूपैश्चतुर्धा {12}व्यवतिष्ठते।
कैवल्यभोगफलदं भवबीजक्षयंकरम् ।। 24 ।।
{11. समो B. }
{12. ह्यव A. B. C. F. }
चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम्।
अथ जाग्रत्पदे देवः सितरक्तादिभेदतः{13} ।। 25 ।।
{13. भेदितैः G. }
चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः।
नानाध्वजविचित्राङ्गैर्वासुदेवादिसंज्ञितैः ।। 26 ।।
व्यूहैः {14}स्वं प्रविभज्यास्ते विभुर्नाम स्वलीलया।
तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् ।। 27 ।।
{14. स्वयं विभज्य E. I. }
चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम्।
पीतकौशेयवसनं सुपर्णध्वजभूषितम् ।। 28 ।।
मुक्यदक्षिणहस्तेन भीतानामभयप्रदम्।
तथाविधेन वामेन दधानं शङ्खमुत्तमम् ।। 29 ।।
अपरेण दधानं च दक्षिणेन सुदर्शनम्।
वामेन च गदां गुर्वीं निषण्णां वसुधातले ।। 30 ।।
संचिन्तयेत् पुरो भागे वासुदेवमितीदृशम्।
सिन्दूरशिखराकारं सौम्यवक्त्रं चतुर्भुजम् ।। 31 ।।
अतसीपुष्पसंकाशवसनं ताललाञ्छितम्{15}।
मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः ।। 32 ।।
{15. लाञ्छनम् F. }
सीरं तच्चक्रहस्तेऽस्य मुसलं तु {16}गदाकरे।
दक्षिणे चिन्दयेद्भागे संकर्षणमितीदृशम् ।। 33 ।।
{16. गदां E. }
प्रावृण्निशासमुदितखद्योतनिचयप्रभम्।
रक्तकौशेयवसनं मकरध्वजशोभितम् ।। 34 ।।
सौम्यवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम्।
मुख्यहस्तद्वयं चास्य प्राग्वत्तुल्यं महामते ।। 35 ।।
वामेऽपरस्मिन् शार्ङ्गं च दक्षिणे बाणपञ्चकम्।
अपरे चिन्तयेद्भागे प्रद्युम्नमिति कीर्तितम् ।। 36 ।।
अञ्जनाद्रिप्रतीकाशं {17}सुपीताम्बरवेष्टितम्।
चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् ।। 37 ।।
{17. सुसिताम्बर B. E. I. }
आदिवत् पाणियुगलमाद्यमस्य{18} विचिन्तयेत्।
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्‌गखेटकौ ।। 38 ।।
{18. आद्यं तस्य F. }
दधानमनिरुद्धं तु सौम्यभागे विचिन्तयेत्।
वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः{19} ।। 39 ।।
{19. लाञ्छनाः E. }
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि।
जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् ।। 40 ।।
स्थित्युत्पत्तिप्रलयकृत्सर्वोपकरणान्वितम्।
दिव्यं तच्चिन्तयेद्यस्य{20} विश्वं तिष्ठति शासने ।। 41 ।।
{20. चिन्तयेत्तस्य A. B. }
त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ।। 42 ।।
ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः।
व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया ।। 43 ।।
तृतीयं विभवाख्यं तु{21} विश्वमन्दिरमध्यगम्।
नानाकारक्रियाकर्तृ रूपं विष्णोर्निशामय ।। 44 ।।
{21. तं F. }
इति {22}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे परव्यूहप्रकाशो नाम दशमोऽध्यायः
{22. श्रीपञ्चरात्र A.; श्रीपञ्चरात्रे B. E. }
********इति दशमोऽध्यायः********