लक्ष्मीतन्त्रम्/अध्यायः ३१
← अध्यायः ३० | लक्ष्मीतन्त्रम् अध्यायः ३१ [[लेखकः :|]] |
अध्यायः ३२ → |
एकत्रिंशोऽध्यायः - 31
श्रीः---
या सा षाड्गुण्यतेजःस्था क्रियाशक्तिः प्रकाशिता।
आग्नेयं रूपमाश्रित्य सा धत्ते पौरुषं वपुः ।। 1 ।।
1. षाड्गुण्ये तत्रापि तेजसि प्रधानतयावस्थितेत्यर्थः।
सर्वास्रशस्रसंस्यूतं{1} सूर्यसोमाग्निमूलकम्।
महत् सुदर्शनं नाम {2}नानारूपोपशोभितम् ।। 2 ।।
2. सुदर्शनस्य सर्वशस्रास्रनिबिडत्वमहिर्बुध्न्यसंहितायां विशाद्याये उक्तम्। सहस्रारेत्यक्षरस्वरूपमभिप्रेत्य सूर्यसोमाग्निमूलकत्वोक्तिः।
{1. संस्थं तं A. B. C. G. }
{2. नानाव्यूहो A. B. C. }
तस्य मध्ये {3}स्थिता शक्तिः पौरुषीं तनुमास्थिता{4}।
{5}सौम्याग्नेयस्वरूपेण तत्तत्कालव्यवस्थया ।। 3 ।।
3. भक्तपरिपालनदुष्टशिक्षणरूपकार्यमनुरुध्य सौम्याग्नेयस्वरूपत्वोक्तिः।
{3. क्रिया B. }
{4. आश्रिता B. }
{5. स्वसौम्याग्नेयरूपेण A. B. C. G. }
पुरस्ताद्दर्शितस्तस्या{6} वाचकस्ते चतुर्विधः।
तत्र संज्ञामयो मन्त्रो भूयसा बलवत्तरः ।। 4 ।।
4. बीजपिण्डसंज्ञापदरूपेण चातुर्विध्यम्।
{6. तस्य B. C. }
तस्य व्याख्यामिमां शक्र गदन्त्या मे निशामय।
या सा सोमात्मिका शक्तिरुन्मेषः प्रथमो हरे ।। 5 ।।
5. - - - - - - - - - - - - -
मूलशक्तिरहं श्रीः सा प्रथमाक्षरसंस्थिता।
अमृता तृप्तिरूपा च सोमात्मा चाखिलेश्वरी ।। 6 ।।
6. प्रथमाक्षरः सकारः। तस्यामृतादिरूपत्वमाह---अमृतेत्यादिना। तृप्तिसोमावपि सकारपरौ।
अमृतीकरणं कुर्यात् सर्गस्येन्दुकलास्थिता{7}।
शिरःपद्मादयो मन्त्राः परमेश्वरयुक्तया ।। 7 ।।
7. - - - - - - - - - - -
{7. कलास्तथा A. B. C. }
अनया {8}सृतया कुर्यात्तृप्तिं संसिद्धिमेव च।
सृष्टिकृत्संयुता सेयं जीवशक्तिः सनातनी ।। 8 ।।
8. - - - - - - - - - - - - -
{8. सूतया B. }
त्रैलोक्यैश्वर्यदोपेता वायुवेश्माक्षरस्थिता।
ताराकारा रिपोर्मूर्ध्नि {9}चिन्त्योच्छेदनसिद्धये ।। 9 ।।
9. - - - - - - - - - - - - - -
{9. चिन्त्ये A. B. }
अप्रमेयोपगूढाया अग्नीषोममयीजुषः।
अस्याः शक्तेः समुद्भूतं सूक्तं पौरुषमुज्ज्वलम् ।। 10 ।।
10. अस्या इति। प्रथमाक्षररूपाया इत्यर्थः। सकारात् पौरुषं सूक्तमुद्भूतमित्यर्थः। तथा चाहिर्बुध्न्यसंहिता---"अक्षरादादिमादस्याः सूक्तं पौरुषमुद्गतम्। द्वितीयाक्षरसंभूतं श्रीसूक्तं नाम यन्मुने।।" (18. 33) इति।
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
नित्यमाप्यायते मन्त्रः सोऽयमग्निजुषा मया ।। 11 ।।
11. - - - - - - - - - - - - -
तत्तत्कार्यजुषा तत्तद्वर्णशक्तित्रयीजुषा।
अनया यन्न साध्येत न तदन्सित जगत्त्रये ।। 12 ।।
12. शक्तित्रयी सूर्यसोमाग्निशक्तयः।
सूते सा सकलाः शक्तीरनुजानाति ताः पुनः।
संहरन्ती पुनश्चैता{10} इति च स्मर्यते ततः ।। 13 ।।
13. - - - - - - - - - - - - - -
{10. एनाः B. D. }
स्वमुन्मेषमधिष्ठाय परमात्मा स शक्तिराट्।
उदितो जगतोऽर्थाय हेतिदेवः सनातनः ।। 14 ।।
14. हेतिदेवः सुदर्शनः।
सूर्यश्च भोक्तृतां प्राप्य प्राणयन् प्राण इष्यते।
{11}आत्मानं दर्शयत्येष त्रैलोक्यैश्वर्यदान्वितः ।। 15 ।।
15. सूर्यो हकारः। प्राणोऽपि स एव।
{11. B. omits four lines from here. }
हृत्पुण्डरीकमध्यस्थं यं विचिन्वन्ति योगिनः।
यथावद् ध्यायतो वेध्यं मुक्तेषोर्वेगवत्तया ।। 16 ।।
16. मुक्तस्येत्यादि। अतिवेगेनेत्यर्थः।
प्रकर्षेणोन्नयन् प्राणान् प्राण इत्येष{12} शब्द्यते।
इन्दुमण्डलसंवीतो व्यापिमानप्रमेयवान् ।। 17 ।।
17. व्यापी अनुस्वारः।
{12. एव A. C. }
जिह्वामूलस्थितो ध्यातो वाक्प्रवृत्तिं नियच्छति।
अंमण्डले स्थितो ध्यातः स एव हि सुधां{13} स्रवन् ।। 18 ।।
18. जिह्वामूलेति कण्ठस्थानम्। अंमण्डलमनुस्वारः।
{13. सुधाः C. }
{14}निर्विषीकरणं ध्यातः करोति जगतामपि।
रामोपगूढादस्माद्धि{15} श्रियः सूक्तं समुद्गतम् ।। 19 ।।
19. रामोपगूढादिति। इकारसहितादित्यर्थः।
{14. D. breaks abruptly here. }
{15. तस्माद्धि B. }
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
तत्तत्कालजुषा तत्तद्वर्णशक्तित्रयीजुषा ।। 20 ।।
20. - - - - - - - - - - -
अनेन यन्न साध्येत न तदस्ति जगत्त्रये।
हन्यते सकलं लोकं गमयत्यमलं पदम् ।। 21 ।।
21. हन्यत इत्यादिना हकारनिर्वचनं क्रियते। "हन हिंसागत्योः" इति धात्वर्थमभिप्रेत्याह---गमयतीति।
त्याजयत्यखिलं क्लेशं गम्यते योगचिन्तकैः।
हेत्येवं कथ्यते सद्भिरेवं निर्वचनस्थितैः ।। 22 ।।
22. - - - - - - - - - - - - -
अशेषभुवनाधारा संकल्पप्रबलीकृता।
प्रत्यभिज्ञायते सैव शक्तिर्या परमात्मनः ।। 23 ।।
23. अशेषभुवनाधारो रेफः।
सरत्यस्याश्चलं सर्वं स्रियते सकलैः सदा।
पृथिवी संस्थिता सेयं स्तम्भे सृत्या नियुज्यते ।। 24 ।।
24. स्रा इत्यस्य निर्वचनमाह---सरतीति। सरति; गच्छतीत्यर्थः। स्रियते; गम्यते प्राप्यत इत्यर्थः। सृत्याः गमनात् स्तम्भे स्तम्भने निश्चलत्व इति यावत्। गमनात् निवर्त्य स्तब्धतया नियम्यत इत्यर्थः।
सहो नाम बलं तत्र रमते तत् सहस्रधा।
सहस्रति सहस्रा स्यादग्नीषोमात्मनो मम ।। 25 ।।
25. सहस्रा इति समुदायस्य प्रकारान्तरेण निर्वचनमर्थं चाह--सह इत्यादि। सहस्शब्दात् बलार्थकादुपरि रमधातोर्निष्पन्नस्य र इत्यस्य संयोजने सहस्रेति रूपम्।
अग्नीषोममयी सा मे शक्तिः सर्वक्रियाकरी।
सुसंकल्पसमिद्धा सा तेजसां राशिरूर्जिता ।। 26 ।।
26. र इत्यस्य निर्वचनमाह---अग्नीत्यादिना। कालपावकतां रेफरूपताम्। केवलीति शक्तिविशेषणम्।
संप्राप्यैवानलं भावं कालपावकतां गता।
रेत्येवं केवली भूत्वा ज्वलत्यविरतोदया ।। 27 ।।
27. - - - - - - - - - - - - -
परमेश्वरभूता सा परमाश्चर्यकारिणी।
र इत्येव महाशक्तिर्मदीयाद्या क्रियाह्वया ।। 28 ।।
28. - - - - - - - - - - - - -
संख्यानन्त्यं सहस्रं स्यादरानन्त्यं तदुच्यते।
वर्मास्रयोः स्वरूपं च दर्शितं ते पुरंदर ।। 29 ।।
29. निर्वचनान्तरमाह--संख्येत्यादिना। सहस्राण्यनन्तानि अराणि यस्येति समासः।
ध्रुवश्च प्रणवोऽस्यादिः पूर्वमेव निरूपितः।
एवमेव महामन्त्रः शब्दब्रह्मोद्गतो रसः ।। 30 ।।
30. ध्रुवः प्रणवः।
आथर्वणी महाशक्तिः क्रियाशक्तेः {16}प्रिया तनुः।
त्रयीसारो ह्यथर्वाख्या पञ्चपर्वा महाश्रुतिः ।। 31 ।।
31. पञ्चपर्वेति। नक्षत्रविधानविधिविधानसंहिताशान्तिरूपपञ्चकल्पेत्यर्थः।
{16. महा C. }
मन्त्रेण सूयतेऽनेन सारेणेव वनस्पतिः।
अस्य त्वङ्गविधानज्ञाः षडङ्गानि प्रचक्षते ।। 32 ।।
32. भूसारेण वृक्ष इवाभिवृद्धेत्यर्थः। षडङ्गानि हृदयादिषडङ्गानि।
गायत्रीमपि चक्राख्यां प्राकारं चाग्निसंज्ञितम्{17}।
गोपनाद्वरुणोत्सेधात् सोदयादमृतात्तथा ।। 33 ।।
33. गोपन आकारः। वरुणो वकारः। उदय उकारः। अमृतः सकारः। वां सुं इति मन्त्रः।
{17. संज्ञकम् C. }
ऊर्ध्वं चक्राय च स्वाहा हृदादिस्तु शिखावधि।
सूर्यज्वालापदाच्चोर्ध्वं महायुक्तात् सुदर्शनात् ।। 34 ।।
34. हृदादिः हृदयशिरःशिखारूपः। महायुक्तेति। महासुदर्शनायेति विवक्षितम्।
ऊर्ध्वं चक्राय च स्वाहा वर्माद्योऽस्रान्तको विधिः।
नमश्चक्राय तस्यान्ते विद्महेऽसौ चतुर्युगः ।। 35 ।।
35. वर्माद्य इति। कवचनेत्रास्राणि। चतुर्युगः; अष्टाक्षरः। `नमश्चक्राय विद्महे' इति।
ज्वालाय च सहस्रान्ते धीमहीति नवार्णकः।
{18}तन्नः प्रचोदयान्मध्ये चक्र इत्यष्टवर्णकः ।। 36 ।।
36. `सहस्रज्वालाय धीमहि। तन्नश्चक्रः प्रचोदयात्' इति मन्त्रः।
{18. A. B. C. omit this line. }
मुष्टिं वितर्जनीं कृत्वा तर्जनीं तर्जसंस्थिताम्।
परितो भ्रामयेद्वह्निं ध्यायन् प्राकारसंस्थिम् ।। 37 ।।
37. - - - - - - - - - - - - -
अन्योन्यसंमुखे पाणितले वै दक्षिणोत्तरे।
कनिष्ठाङ्गुष्ठयोरग्रे श्लिष्टे दीर्घास्तथापराः ।। 38 ।।
38. - - - - - - - - - - - - -
परितो भ्रामयेदेवं चक्रमुद्रेयमीरिता।
अह्गमुद्रास्तु वक्ष्यन्ते शक्तिग्रासमनुं शृणु ।। 39 ।।
39. - - - - - - - - - - - - -
पवित्रमनलारूढं सव्यापि प्रणवात् परम्।
महासुदर्शनेत्येवं चक्रराजं महाध्वगम् ।। 40 ।।
ततोऽस्तगततेत्यस्मात् सर्वदुष्टभयंकर।
छिन्धि छिन्धीत्यतः पश्चाद्भिन्धि भिन्धि प्रकीर्तयेत् ।। 41 ।।
विदारयद्वयं पश्चात् परमन्त्रान् ग्रस ग्रस।
द्विर्भक्षयेति भूतानि त्रासयेति द्विरुच्चरेत् ।। 42 ।।
वर्मास्रवह्निजायाः स्युः शक्तिग्रसनकृन्मनुः।
स्वयं सुदर्शनो भूत्वा मन्त्रमुच्चारयन्निमम् ।। 43 ।।
40-43. पवित्रमित्यादि। `ओं प्रं महासुदर्शन चक्रराज महाध्वग अस्तगत सर्वदुष्टभयंकर छिन्धि छिन्धि भिन्धि भिन्धि विदारय विदारय, परमन्त्रान् ग्रस ग्रस भक्षय भक्षयय भूतानि त्रासय त्रासय' इत्यस्यानन्तरं कवचमन्त्रमस्रमन्त्रं च संयोज्यान्ते स्वाहापदं संयोजयेत्। एष शक्तिग्रासमन्त्रः।
शक्तिं मुखहृदादिभ्यः परस्याचूषयेद्धिया।
षडक्षरस्य मन्त्रस्य शृणु ध्यानं पुरंदर ।। 44 ।।
44. - - - - - - - - - - - -
{19}न्यस्ताङ्गश्चक्रमुद्राभिर्वह्निप्राकारमध्यगः।
सहस्रारमहाचक्रमयुताग्निचयोत्कटम् ।। 45 ।।
षडद्वमयमुद्भ्रान्तं ध्यायेन्मच्छक्तिजृम्भितम्।
अक्षस्थं परमात्मानं नारायणमनामयम् ।। 46 ।।
चक्ररूपिणमीशानं ध्यायेत् कुङ्कुमसंनिभम्।
पीताम्बरधरं दिव्यं मुक्तालंकारमण्डितम् ।। 47 ।।
एनमष्टभुजं ध्यायेन्महाव्यसनसंप्लवे।
उद्यज्जानुमनेकास्रं स्थितं परमशोभनम् ।। 48 ।।
चक्रं मुसलमुद्दाममङ्कुशं सरसीरुहम्।
याम्ये करचतुष्केऽथ वामे भुजचतुष्टये ।। 49 ।।
शङ्खं बाणयुतं चापं पाशं गुर्वीं गदामपि।
दधानं दक्षिणं दिव्यं दंष्ट्राभास्वरिताननम् ।। 50 ।।
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वालामालापरिष्कृतम्।
अथ षोडशहस्तं च ध्यायेद्देवं सुदर्शनम् ।। 51 ।।
45-51. सुदर्शनध्यानमाह--न्यस्ताङ्ग इति। कृताङ्गन्यास इत्यर्थः। चक्रमुद्रा चात्रैवाद्याये अष्टत्रिंशे श्लोके प्रतिपादिता; वह्निप्राकारश्च सप्तत्रिंशे श्लोके। सुदर्शनवर्णनं सहस्रारेत्यादिना। चक्रमध्ये चक्ररूपिणः परमात्मनः ध्यानं प्रस्तौति---अक्षस्थमित्यादिना। दक्षिणकरधृतायुधान्याह--चक्रमित्यादिना। वामकरस्थायुधान्याह---शङ्खमित्यादिना। दक्षिणं; समर्थमित्यर्थः। अष्टभुजसुदर्शनध्यानं विस्तरतोऽहिर्वुध्न्यसंहितायां चतुश्चत्वारिंशाध्याये प्रतिपादितमनुसंधेयम्। उद्यज्जानुमिति प्रत्यालीढाख्या समरोद्यमावस्थितिः विवक्षिता।
{19. न्यस्ताभिः B. }
परैः परिभवे प्राप्ते प्रतीकारविवर्जिते।
स्थितावनवक्लृप्तायामपि निर्जित्य वैरिणः ।। 52 ।।
52. - - - - - - - - - - - - -
भये महति संजाते चोरव्याघ्रद्विपादिभिः।
प्रत्यालीढस्थितं देवं वैरिवर्गदिगुन्मुखम् ।। 53 ।।
प्रहारोद्योगिभिः पीनैर्भुजैरूर्ध्वैरलंकृतम्।
शक्त्या दीप्तेन खड्गेन वह्निना च शतार्चिपा{20} ।। 54 ।।
अङ्कुशेनाथ दण्डेन कुन्तेनाथ ज्वलत्त्विषा।
परश्वधेन चक्रेण दक्षिणाधःकरैः क्रमात् ।। 55 ।।
शङ्खेन {21}चापमुक्येन पाशेनाथ हलेन च।
कुलिशेन गदास्रोण मुसलेनाथ शूलतः ।। 56 ।।
ऊर्ध्वादधः स्थितैर्वामैः प्रदीप्तैरायुधैर्युतम्।
दंष्टानिष्ठ्यूतघोराग्निज्वालाकोलाहलाकुलम् ।। 57 ।।
संस्यूततत्त्वयाकीर्णं दिव्यया वनमालया।
घोराट्टहाससंत्रासद्रव्ददैत्येन्द्रदानवम् ।। 58 ।।
{22}ज्वालाकुलज्वलद्दैत्यमेदोमेदुरपावके।
अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् ।। 59 ।।
अध्वषट्कमये चक्रे चक्रिणं चक्रमुत्तमम।
ध्यायेदेवंविधं देवं भये महति मानवः ।। 60 ।।
53-60. प्रत्यालीढाख्या स्थितिः उद्यज्जानुमिति पूर्वं सूचिता। षोडशु भुजेषु दक्षिणभुजाष्टकायुधान्याह---शक्त्येत्यादिना । वामभुजाष्टकायुधान्याह---शङ्खेनेत्यादिना। संस्यूततत्त्वयेति। चतुर्विशतितत्त्वमय्येत्यर्थः। वनामालास्वरूपकथनमेतत्। अत एवास्या भूतमालेत्यपि व्यवहारः। अध्वषट्कं वर्णाध्वादि।
{20. हुतार्चिषा B. F. }
{21. पाशमुख्येन चापेनाथ B. F. }
{22. ज्वालाकुलं दैत्यमेदोमेदुरं पावके तथा C. F. }
एवं ध्यात्वा पुनर्ध्यायेच्चतुर्बाहुं सुदर्शनम्।
अन्यथा नैव शान्तिः स्यादस्ति तेजस्तथा हरेः ।। 61 ।।
61. एतस्य ध्यानेन सर्वारिष्टशान्तिरहिर्बुध्न्यसंहितायां सप्तचत्वारिंशाध्याये वर्णिता द्रष्टव्या।
{23}घोरशान्तविभेदेन पौरुषं ध्यानमीरितम्।
इति ते सुरशार्दूल ध्यानमन्यच्च मे शृणु ।। 62 ।।
62. - - - - - - - - - - - - -
{23. घोरशान्तादि B. }
प्रकाराः पौरुषा ये ये ध्यानेऽस्मिन् परिवर्णिताः।
{24}तान् सर्वान मन्मयानेव संस्मरेच्छीघ्रसिद्धये ।। 63 ।।
63. - - - - - - - - - - - - - - -
{24. तांस्तान्नाम A. G. }
अत्यद्भुतमिदं शक्र रहस्यं ते प्रकीर्तितम्।
भूयो रहस्यमन्यच्च शृणु मे सुरपुंगव ।। 64 ।।
64. - - - - - - - - - - - -
आग्नेयी या मदीया ते पुरा शक्तिः प्रकीर्तिता।
सूर्यकोट्यर्बुदाभासा वह्निकोट्यर्बुदोपमा ।। 65 ।।
65. - - - - - - - - - - - - -
इन्दुकोट्यर्बुदाभासा मम स्पन्दमयी तनुः।
अमृतं परमात्मानमशेषभुवनाधृतिम् ।। 66 ।।
66. स्पन्दमयी क्रियामयी। अमृतं सकारः। परमात्मा हकारः। अषेषभुवनाधृतिः रेफः।
आस्थाय पञ्चबिन्द्वात्मा स्पृशन्ती व्यापिनं परम्।
हिताय सर्वभूतानामुदेति परमेश्वरात् ।। 67 ।।
67. पञ्चबिन्दुः ईकारः। व्यापी अनुस्वारः।
तामक्षं कल्पयेच्छक्तिं तत्प्रभां नाभिमण्डलम्।
{25}अराणि षण्मनोरर्णान् सूर्योद्दामौ सबिन्दुकौ ।। 68 ।।
68. अराणि षडिति षडरचक्रं विवक्षितम्। सूर्योद्दामौ हु इति।
{25. B. omits two lines from here. }
सुस्थितौ नेमिगौ ध्यायेच्छेषं तु प्रधिमण्डलम्।
आत्मानं मध्यतो ध्यायेत् स्वं मायापरमात्मनोः ।। 69 ।।
69. शेषमिति। फडित्येतदित्यर्थः।
सूर्यानलान्तरस्थं च निरस्यन् संस्मरेज्जनम्।
ध्यायन्ननिशमेवं हि योगी ध्यानपरायणः ।। 70 ।।
70. - - - - - - - - - - - -
विधूय निखिलं दोषं सांसारिकमशेषतः।
मयि भक्तिं परां प्राप्य मामेवान्ते समश्नुते ।। 71 ।।
71. - - - - - - - - - - - - -
अन्तरा परमात्मानममृतं च स्थितो जपन्।
मनीषी मनसा नित्यं पीयूषाप्यायनं स्मरेत् ।। 72 ।।
72. - - - - - - - - - - - - -
सुधयाप्लाव्यमानो हि {26}स्रुतया शक्तिकोटरात्।
प्राणेन प्राण्यमानश्च दग्धदोषोऽनलत्विषा ।। 73 ।।
73. प्राणेन हकारेण। अनलो रेफः।
{26. सुधया B. C. }
पञ्चबिन्दुक्रियालाभादैश्वर्यं परमास्थितः।
संतताब्यासयोगेन वशी युक्तो जितेन्द्रियः ।। 74 ।।
74. - - - - - - - - - - - -
विहाय सकलं क्लेशं वेषमास्थाय मामकम्।
दृप्तो जातबलो योगी क्रियया सर्वतो वशी ।। 75 ।।
75. - - - - - - - - - - - - -
ईश्वरः परमो भूत्वा सर्वव्याप्तिमयः स्थितः।
मामेव मामकं धाम मत्प्रसादादुपाश्नुते ।। 76 ।।
76. - - - - - - - - - - - -
या क्रिया सा चिदाख्याता या चित्तिः सा परा क्रिया।
एते सपरमानन्दास्रयस्ते परिकीर्तिताः ।। 77 ।।
77. स्वस्वरूपस्य क्रियाचिदानन्दरूपतामाह---येति।
अखण्डैका परा शक्तिश्चित्क्रियानन्दरूपिणी।
वैष्णवी सा पराहंता साहं सर्वार्थपूरणी ।। 78 ।।
78. - - - - - - - - - - - -
स्वाच्छन्द्यान्मम {27}संकल्पो द्विधैवं प्रविजृम्भते।
एका शक्तिः क्रियाह्वाना महाभूतिरथापरा ।। 79 ।।
79. द्विधेति। क्रियाविभूतिभेदेनेत्यर्थः।
{27. संकल्पात् F. G. }
सामानय्तोऽन्योः शक्र स्थिताहं परमेश्वरी।
एषा ते सकला शक्तिः क्रियारूपा प्रदर्शिता ।। 80 ।।
80. - - - - - - - - - - - - -
स्थूलसूक्ष्मपरत्वेन तारिकाया निशामय।
निमीलितक्रियाकारा स्पष्टैश्वर्यस्वरूपिणी ।। 81 ।।
81. अनन्तराध्यायविषयभूतभूतिशक्तिवर्णनमवतारयति---निमीलितेति। भूतिशक्तिरूपे क्रियाशक्तिः निमीलितास्त इत्यर्थः। स्पष्टेति। ऐश्वर्यं विस्पष्टं भवतीत्यर्थः।
तनुः षाड्गुण्यरूपा मे भूतिः सा तारिकाह्वया।
तस्याः स्थूलादिरूपाणि यथावन्मे निशामय ।।
उच्यमानानि देवेश सावधानेन चेतसा ।। 82 ।।
82. - - - - - - - - - - - -
इति {28}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे सुदर्शनप्रकाशो नामैकत्रिंशोऽध्यायः
{28. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इत्येकत्रिंशोऽध्यायः********