लक्ष्मीतन्त्रम्/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३५ लक्ष्मीतन्त्रम्
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ३७ →
लक्ष्मीतन्त्रस्य अध्यायाः

षट्‌त्रिंशोऽध्यायः - 36
श्रीः---
ब्रह्मानन्दमयी शक्र भोगैर्यत् पारमार्थिकैः।
इज्येयं हृदयान्तःस्था सोऽन्तर्याग इति स्मृतः ।। 1 ।।
1. - - - - - - - - - - - - -
पद्मं वा स्वस्तिकं वापि बद्ध्वा योन्यासनं तु वा।
नाभिमेढ्रान्तरे ध्यायेच्छक्तिमाधाररूपिणीम् ।। 2 ।।
2. आधारशक्तिस्थानमुच्यते---नाभीत्यादिना।
देवीं केनाप्यनादेयां नीरूपां ज्योतिरात्मिकाम्।
तदूर्ध्वे कालकूर्मं तु विमलं दीप्तविग्रहम् ।। 3 ।।
3. तदूर्ध्वे इति। आधारशक्तेरूर्ध्वभाग इत्यर्थः।
कूर्माकारं परं देवं शङ्खचक्रगदाधरम्।
तस्य चोपरि नागेन्द्रं पूर्णचन्द्रनिभाननम् ।। 4 ।।
4. तस्येति। कूर्मस्योपरीत्यर्थः।
फणासहस्रसंपूर्णं मदाघूर्णितलोचनम्।
चक्रलाङ्गलहस्तं च प्रणमेत्तं परात् परम् ।। 5 ।।
5. - - - - - - - - - - - - -
तदूर्ध्वं {1}वसुधां देवीं कुङ्कुमक्षोदसंनिभाम्।
हेमरत्नविचित्राङ्गीं प्रसन्नवदनेक्षणाम् ।। 6 ।।
6. तदूर्ध्वमिति। नागेन्द्रासनादूर्ध्वमित्यर्थः।
{1. वसुधा C. }
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभुं स्मरेत्।
चतुर्धा भाजिते क्षेत्रे नाभिमेढ्रान्तरस्थिते ।। 7 ।।
7. संस्मरन्तीमिति। ध्यायन्तीमित्यर्थः।
एवमाधारशक्त्यादिदेवताः संस्मरेदिमाः{2}।
नाभौ क्षीरार्णवं ध्यायेत् कुन्देन्दुधवलाकृतिम् ।। 8 ।।
8. - - - - - - - - - - - - -
{2. शक्त्यादीः संस्मरेद्देवता इमाः A. G. }
स्रोतोरश्मिभिराकीर्णं पूर्णचन्द्रनिभाननम्।
गम्भीरविग्रहं ध्यायेद्रूपवन्तमरूपिणम् ।। 9 ।।
9. - - - - - - - - - - -
ततः समुत्थितं पद्मं ध्यायेत् क्षीरार्णवोदरात्।
प्रशान्तपावकाकारमुदयादित्यवर्चसम् ।। 10 ।।
10. - - - - - - - - - - -
लम्बोदरं हसन्तं च सितदन्तं शुभाननम्।
द्विभुजं वेष्टितं शश्वच्छुभैर्विविधषट्‌पदैः ।। 11 ।।
11. - - - - - - - - - - - -
सहस्रदलसंपन्नं{3} सहस्रकिरणावृतम्।
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ।। 12 ।।
12. तत्पृष्ठ इति। पद्मपृष्ठ इत्यर्तः। न्यसेत्; न्यस्तं ध्यायेदित्यर्थः।
{3. पर्यन्तं A. B. G. }
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमादिमान्।
आसनस्य स्मरेत् पादानाग्नेयादिविदिग्गतान्{4} ।। 13 ।।
13. आसनस्य पादाः धर्मज्ञानादयः आग्नेयादिविदिक्षु ज्ञेयाः।
{4. दिशः क्रमात् C. }
{5}पुरुषाकृतयः सर्वे सिताः सिंहानना इमे।
महोत्साहा महावीर्या मद्धारणकृतोद्यमाः ।। 14 ।।
14. - - - - - - - - - - - - -
{5. B. C. omit five lines from here. }
पूर्वादिदिग्गता ज्ञेया धर्मादीनां विपर्ययाः।
अधर्मं च तथाज्ञानमवैराग्यमनैस्वरम् ।। 15 ।।
15. विपर्ययाः अधर्माज्ञानादयः प्रागादिदिक्षु।
पुरुषाकृतयश्चेमे बन्धूककुसुमोपमाः।
प्रागीशानदिशोर्मध्ये प्रागाग्नेयदिगन्तरे ।। 16 ।।
16. - - - - - - - - - - -
यातवीवारुणीमध्ये पाशिवायुदिगन्तरे।
{6}ऋग्वेदाद्यं चतुष्कं च पीतं हयनराकृति ।। 17 ।।
17. यातवी निर्ऋतिदिक्। पाशी वरुणः।
{6. F. omits three lines from here. }
ईशानसोमदिङ्मध्ये वह्न्यन्तकदिगन्तरे।
राक्षसान्तकदिङ्मध्ये वायुसोमदिगन्तरे ।। 18 ।।
18. - - - - - - - - - - - -
कृताद्यं युगबृन्दं तु कृष्णं वृषनराकृति।
सर्वे चतुर्भुजा एते द्वाभ्यां पीठधृतस्तथा ।। 19 ।।
19. - - - - - - - - - - - -
द्वाभ्यामञ्जलिबद्धाभ्यां प्रणमन्त्यासनस्थिताम्।
तेषामुपरि संचिन्त्यं पीठं बुद्धिमयं परम् ।। 20 ।।
20. द्वाभ्यामिति। भुजाभ्यामिति शेषः। अञ्जलिबद्धाभ्यामिति। बद्धाञ्जलिभ्यामित्यर्थः।
अव्यक्तमम्बुजं श्वेतं तदूर्ध्वेऽष्टदलं स्मरेत्।
तदूर्ध्वे सूर्यबिम्बं तु {7}सूर्यकोटिसमप्रभम् ।। 21 ।।
21. - - - - - - - - - - - - -
{7. सूर्यकोट्ययुत G. }
तदूर्ध्वे चन्द्रबिम्बं तु चन्द्रकोटिसमप्रभम्।
तदूर्ध्वे वह्निबिम्बं तु वह्निकोट्ययुतप्रभम् ।। 22 ।।
22. - - - - - - - - - - - - -
तमो रजश्च सत्त्वं च गुणानेतान् क्रमात् स्मरेत्।
प्रणवस्य नतेश्चैव तत्तत्संज्ञास्तु मध्यगाः ।। 23 ।।
23. सूर्येन्दुवह्निबिम्बानि क्रमात् तमोरजःसत्त्वमयानि जानीयात्। ओं सूर्यबिम्बाय नमः इत्यादयो मन्त्राः।
बुद्ध्यादिसत्त्वपर्यन्ततत्त्वमन्त्रगणाः स्मृताः।
ततश्चिदासनं दद्यात् पराहंतास्वरूपकम् ।। 24 ।।
24. - - - - - - - - - - - -
आ नाभेर्हृदयान्तात्तु पञ्चधा भाजिते पदे।
समुद्राद्यासनान्तं तु चतुर्भिः {8}कल्पयेत् पदैः ।। 25 ।।
25. नाभिमारभ्य हृदयपर्यन्तं भागं पञ्चधा विभज्य तत्रादौ चतुर्षु भागेषु क्षीरार्णवाद्यासनान्तं भावयेत्।
एकेन पञ्चमेनैव पद्माद्यासनकल्पनम्।
भूतान्याधारशक्तौ तु कूर्मे तन्मात्रकं गणम् ।। 26 ।।
26. पञ्चमे तु भागे अव्यक्तपद्मं भावयेत्। उक्तेषु स्थानेषु पदार्थानामवस्थितिमाह---भूतानीति। स्थूलानि पञ्च भूतानीत्यर्थः।
वागादिकं तथानन्ते भुवि श्रोत्रादिपञ्चकम्।
मनः क्षीरार्णवे ध्यायेदहंकारं ततोऽम्बुजे ।। 27 ।।
27. - - - - - - - - - - - - -
द्विरष्टकं च धर्माद्यमासनं चापि धीः स्मृता।
अव्यक्तं च तदूर्ध्वस्थमवदातं सरोरुहम् ।। 28 ।।
28. अवदातं सरोरुहम्; अव्यक्तपद्ममित्यर्थः।
तमःप्रभृतयश्चोक्ता गुणा ह्यब्जत्रयात्मकाः।
एके कालं वदन्त्येतद् भूतादित्रितयात्मकम् ।। 29 ।।
29. एतत्; अव्यक्तपद्ममित्यर्थः। पारमेश्वरे (5-14) कालचक्रमित्यस्य व्यवहारः।
चिदासनमनन्ताख्यं{9} पुमांसमपरे जगुः{10}।
एके चिदासनादूर्ध्वं गरुडं परिचक्षते ।। 30 ।।
30. - - - - - - - - - - -
{9. अहंताख्यं A. F. }
{10. विदुः B. F. }
खर्वव्योमान्वितं पश्चात् {11}खगानननमोयुतम्।
मन्त्रमाहुः सुरेशान तन्मन्त्रं नवमं बुधाः ।। 31 ।।
31. खं खगाननाय नमः।
{11. खगासन A. }
इत्थं बहुविधैर्मन्त्रैरासने विहिते क्रमात्।
विष्णुं विश्वात्मकं देवं नारायणमनामयम् ।। 32 ।।
32. - - - - - - - - - - - - -
भावयेत् परमात्मानं शङ्खचक्रगदाधरम्।
चतुर्भुजं पीतवस्रं पुण्डरीकनिभेक्षणम् ।। 33 ।।
33. "तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी" इति श्रुत्यर्थोपबृंणमत्र।
उदितं संस्मरेद्देव स्वशक्तेः स्पन्दनात्मनः।
सम्यग् ध्येयं यथैतत्ते तथा भूयो निबोध मे ।। 34 ।।
34. - - - - - - - - - - - - -
सुसम्यङ् न्यस्तमन्त्राङ्गः{12} सुसंक्लृप्तान्तरासनः।
दर्शिताशेषमुद्रश्च संस्मरेन्मन्त्रवैभवम् ।। 35 ।।
35. - - - - - - - - - - -
{12. सर्वाङ्ग A. }
परं ब्रह्म परं धाम यत् पारे तमसः स्थितम्।
शक्तिमच्छक्तिभावेन लक्ष्मीनारायणं महः ।। 36 ।।
36. - - - - - - - - - - - -
सर्वं सर्वातिगं सर्वसंस्थितं सर्वयन्तृ{13} च।
{14}चिदानन्दघनं पूर्णषाड्‌गुण्यामृतविग्रहम् ।। 37 ।।
37. सर्वान्तरात्मत्वात् सर्वनियन्तृनत्वाच्च सर्वरूपिणमित्यर्थः।
{13. धर्तृ F. }
{14. B. omits four lines from here. }
भावानां चिदचिद्रूपभावाभावादिभेदिनाम्।
अन्तरात्मतया तत्तदहंकारपदास्पदम् ।। 38 ।।
38. तदेवोच्यते---अन्तरात्मतयेत्यादिना।
अचिन्त्याननुयोज्येन हेतुना येन केनचित्।
शक्तिमच्छक्तिभावेन तद्‌ द्विधा व्यवतिष्ठते ।। 39 ।।
39. - - - - - - - - - - - - -
अहमित्येव यः प्रोक्तः पदप्रत्यययोर्द्वयोः।
नारायणः स भविता तस्याहंता तु या परा ।। 40 ।।
40. - - - - - - - - - - - - -
तद्धर्मधर्मिणी लक्ष्मीः शक्तिः सा भावरूपिणी।
सर्वकार्यकरी सैव शक्तिर्वितनुते जगत् ।। 41 ।।
41. - - - - - - - - - - - -
शक्तिमन्तमधिष्ठाय ज्योत्स्नेव हिमदीधितिम्।
सा वितिस्तीर्षमाणा हि शब्दब्रह्मात्मना पुरा ।। 42 ।।
42. देव्या जगद्व्यापारकर्तृत्वं भगवन्तमाश्रित्यैव, न स्वातन्त्र्येणेत्यनेन जगज्जन्मादिकारणत्वस्य भगवदसाधारणलक्षणस्य नानुपपत्तिरित्युक्तं भवति। प्रयोजककर्ता सर्वेश्वरः, प्रयोज्यकर्त्री देवीत्युक्तं भवति। अनेनास्य पाञ्चरात्रसिद्धान्तस्य शाक्तमतप्रवेशशङ्काया नावकाशः।
वितत्यात्मानमथ सा वितनोत्यर्थवर्त्मना।
शब्दब्रह्ममयः पूर्वो यो नाम प्रथमोदयः ।। 43 ।।
43. - - - - - - - - - - - -
अकलङ्गः {15}कलाद्वात्मा योगस्थैरनुभूयते।
धारासंतानवर्णात्मा वर्णमार्गः स शब्द्यते ।। 44 ।।
44. कलाध्वात्मा; ज्ञानशक्त्यादिगुणात्मा। धारासंतानेति वर्णाध्वनिर्देशः।
{15. कलङ्कात्मा A.; कलात्मासौ B. }
कलाध्वानमधिष्ठाय स पुनर्मन्त्रवर्त्मना।
उदेति सकलं शक्तिचक्रमादाय वैष्णवम् ।। 45 ।।
45. शक्तिचक्रं लक्ष्म्यादिकम्।
परात्मना परं ज्योतिर्मयमानन्दलक्षणम्।
त्रिविघेनैव रूपेण यथा ते वर्णितं पुरा ।। 46 ।।
46. - - - - - - - - - - - -
रूपं परं तदेवाथ वर्तते सूक्ष्मवर्त्मना।
मन्त्रप्रसररूपेण तच्च ते दर्शयिष्यते ।। 47 ।।
47. - - - - - - - - - - - -
सूक्ष्मं तत् त्रिविधं भूयो वर्तते स्थूलवर्त्मना।
स्थूला चादितनुर्येयमङ्गोपाङ्गविभेदिनी ।। 48 ।।
48. - - - - - - - - - - - -
लक्ष्मीनारायणस्यैषा मूर्तिः षाड्‌गुण्यबृंहिता।
चेतनाचेतनं विश्वमनुसंधेयमत्र तु ।। 49 ।।
49. अत्र तु; मन्त्रात्मकस्थूलमूर्तावित्यर्थः।
{16}तत्तदैश्वर्यदत्वं तदधिष्ठातृत्वमेव च।
मन्त्रस्य वैष्णवं रूपं तद्विज्ञेयं विपश्चिता ।। 50 ।।
50. मन्त्रमूर्तौ सर्वतत्त्वावस्थितिमाह---तत्तदित्यादिना।
{16. तत्तदैश्वर्यदं तत्त्वम् F. }
तत्तत्कार्यकरी तस्या या शक्तिः साहमम्बुजा।
मन्त्रस्य यद्धि चैतन्यं पुमांसं तं प्रचक्षते ।। 51 ।।
51. - - - - - - - - - - - - -
फलप्रसवसामर्थ्यं प्राकृतं रूपमुच्यते।
{17}यद् दृढव्यवसायित्वं {18}महतो यो गुणस्तु सः ।। 52 ।।
52. महतः ; महत्तत्वस्य।
{17. B. omits six lines from here. }
{18. मन्त्रतो A. C. G. }
मन्त्राणां यदहंयुत्वमहंकारगुणस्तु सः।
मन्त्राणां मानसं रूपमैन्द्रियज्ञानहेतुता ।। 53 ।।
53. - - - - - - - - - - -
यच्छब्दरूपता मन्त्रे सा ज्ञेया नभसि स्थिता।
कम्पो मन्त्रसमावेशे वायव्यं रूपमुच्यते ।। 54 ।।
54. - - - - - - - - - - - - -
{19}प्रकाशकरता ध्याने मान्त्री या तैजसात्मिका।
या तृप्तिर्मन्त्रसद्भावे{20} परिज्ञेयाम्भसी तु सा ।। 55 ।।
55. - - - - - - - - - - - - - - -
{19. C. omits three lines from here. }
{20. तद्ध्याने F. }
यो हि मन्त्रस्थितो भावः स भौमो गुण उच्यते।
इत्येवं सर्वगां व्याप्तिं मन्त्री मान्त्रीं सुसंस्मरेत् ।। 56 ।।
56. - - - - - - - - - - - - - -
अचिरान्मन्त्रसामर्थ्यात्तेन भावेन जायते।
इत्थं संवित्तिसामर्थ्यात्तारिकाशक्तिमातताम् ।। 57 ।।
57. तेन भावेनेति। तत्तद्धर्मेणेत्यर्थः।
स्पन्दमानां पुरा पश्येद्व्योम्नि सौदामिनीमिव।
हृदम्बुजगुहामध्ये पूर्वोक्ते चित्प्रभासने ।। 58 ।।
58. पूर्वोक्त इति। आधारशक्त्यादिनिरूपणावसरोक्त इत्यर्थः।
स्फुरन्त्यां तारिकामूर्तौ शब्दब्रह्मणि संस्मरेत्।
मिथुनं शाश्वतं दिव्यं {21}यथावदवधारय ।। 59 ।।
59. अनेन तारिकायाः शब्दब्रह्मरूपत्वमुक्तं भवति।
{21. यथा तत् A. B. G. }
सूर्यानलांशसंस्थानं नारायणमनामयम्।
स्मरेच्चिदासनासीनं पुण्डरीकायतेक्षणम् ।। 60 ।।
60.नारायणाक्यपुरुषोत्तमस्य मानसीं पूजां वक्तुं तद्रूपमाह---सूर्येत्यादिना।
पीताम्बरमुदाराङ्गं काञ्चीनू पुरशोभितम्।
हारकुण्डलकेयूरकिरीटकटकोज्ज्वलम् ।। 61 ।।
61. - - - - - - - - - - - - -
{22}युगानुसारिकान्तिं वा नीलाम्बरनिभं तु वा।
शङ्खचक्रधरं देवं वरदाभयदायिनम् ।। 62 ।।
62. - - - - - - - - - - -
{22. युगानुसार A. G. }
प्रभयेव मणिं पूर्णं गाम्भीर्येणेव सागरम्।
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम् ।। 63 ।।
63. - - - - - - - - - - - - -
पुरा ध्यात्वा हृषीकेशं प्रसन्नमुखपङ्कजम्।
पुराष्टादशभिर्भोगैरर्चयेत् पुरुषोत्तमम् ।। 64 ।।
64. - - - - - - - - - - -
सूक्तेन पौरुषेणाथ प्रणवेन च वासव।
द्विष्ट्‌चतुस्रिकार्णऐस्च तथैव च जितंतया ।। 65 ।।
65. द्विषडित्यादि। षडक्षराष्टाक्षरद्वादशाक्षरमन्त्रैरित्यर्थः। जितंतया; "जितं ते पुण्डरीकाक्ष" इत्यादिश्लोकरूपमन्त्रेणेत्यर्थः।
अर्चयित्वाथ देवेशं लक्ष्मीं सर्वाङ्गगां स्मरेत्।
लयात्मनार्चयित्वाथ लक्ष्मीमावाहयेत्ततः ।। 66 ।।
66. - - - - - - - - - - - -
वामोत्सङ्गे निषण्णां तामथ देवस्य शार्ङ्गिणः।
अर्चयेद्विविधैर्भोगैर्यथावच्छास्रचोदितैः ।। 67 ।।
67. - - - - - - - - - - -
शक्रः---
देवप्रिये देवदेवि नमस्ते पङ्कजेक्षणे।
विधिं पुरुषसूक्तस्य तारादीनां च मे वद ।। 68 ।।
68. - - - - - - - - - - - - -
श्रीः---
एको नारायणो देवः श्रीमान् कमललोचनः।
एकाहं परमा शक्तिः सर्वकार्यकरी हरेः ।। 69 ।।
69. - - - - - - - - - - - -
तावावां परमे व्योम्नि क्षेमाय सकलात्मनाम्।
आसीनौ सकलेशानौ सूरिभिः सेवितौ सदा ।। 70 ।।
70. - - - - - - - - - - - - -
तयोर्नौ हृदि संकल्पः कश्चिदाविर्बभूव ह।
उत्तारणाय जीवानामुपायोऽन्विष्यतामिति ।। 71 ।।
71. - - - - - - - - - - - -
आवाभ्यामुत्थितं{23} तेजः शब्दब्रह्ममहोदधिः।
मथ्यमानात्ततस्तस्मादभूत् सूक्तद्वयामृतम् ।। 72 ।।
72. - - - - - - - - - - - - -
{23. मथितं B. }
पुरुषस्य हरेः सूक्तं मम सुक्तं तथैव च।
अन्योन्यशक्तिसंपृक्तमन्योन्यार्णपरिष्कृतम् ।। 73 ।।
73. मम सूक्तमिति। श्रीसूक्तमित्यर्थः।
नारायणार्षमव्यक्तं पौरुषं सूक्तमिष्यते।
अन्यन्मदार्षकं सूक्तं श्रीसूक्तं यत् प्रचक्षते ।। 74 ।।
74. नारायणः पुरुषसूक्तस्य ऋषिरित्यर्थः। मदार्षकमिति। श्रीरहमृषिरित्यर्थः।
प्रणवाद्याः पुरा मन्त्राः पञ्च सम्यक् प्रदर्शिताः।
इदानीं शृणु संक्षेपात्तेषामाराधनक्रमम् ।। 75 ।।
75. पञ्चेति। तारानुताराषडक्षराष्टाक्षरद्वादशाक्षरा इत्यर्थः।
अष्टादश ऋचः प्रोक्ताः पौरुषे सूक्तसत्तमे।
ताभिस्तु प्रणावाद्याभिर्भोगानष्टादशोत्तमान् ।। 76 ।।
76. - - - - - - - - - - - - -
कुर्यादावाहनाद्यांश्च त एतेऽष्टादश स्मृताः।
आवाहनासने सार्घ्यं पाद्यमाचमनं तथा ।। 77 ।।
77. - - - - - - - - - - - - -
स्नानं च परिधानं च सोत्तरीयोपवीतकम्।
गन्धः सुमनसो दीपो धूपश्च मधुपर्ककः ।। 78 ।।
78. - - - - - - - - - - - - -
प्रापणं {24}सेन्दु ताम्बूलं पादयोः कुसुमाञ्जलिः।
आत्माराधनदानं च यथेष्टस्थानचिन्तनम् ।। 79 ।।
79. प्रापणम्; अन्नादिकं नैवेद्यम्। इन्दुः; घनसारः।
{24. स्वादु F. }
सर्वलक्षणसंपन्ना सर्वाधारमयी परा।
नित्या संपूर्णषाड्‌गुण्या या विष्णोर्मूर्तिरुज्ज्वला ।। 80 ।।
80. - - - - - - - - - - - - - -
सैवेयं कथ्यते मूर्तिर्मान्त्री मन्त्रैश्चिदात्मकैः।
स्वीकारयति तां मन्त्री{25} देवं यत् स्वेन तेजसा ।। 81 ।।
81. - - - - - - - - - - - - - - - -
{25. तन्मन्त्री B. F. }
तदावाहनमित्युक्तं मन्त्रविज्ञानपारगैः।
स्वस्तिकृत्यै स्वभावेन चेतनाचेतनं हरिः ।। 82 ।।
82. आवाहयति स्वीकारयति मन्त्रतनूमिति यौगिकार्थः।
अधितिष्ठति यद्विश्वमासनं तदनु क्रिया।
ममानन्दमयी शक्तिर्देवस्त्वाप्यायते यया ।। 83 ।।
83. - - - - - - - - - - - -
{26}सैवार्घ्याचमनीयादिरूपेत्यर्घ्यादिचिन्तनम्।
अम्मयाः सकला लोका जीवाश्चैव {27}तदाश्रयाः ।। 84 ।।
84. सैवेति। आनन्दमयी शक्तिरेवेत्यर्थः। अम्मयाः; अपां परिणामभूताः; "अप एव ससर्जादौ" इति सर्वलोकानां तदुपादानकत्वोक्तेः। तदाश्रयाः; अद्भिर्जीवनधारिणः। जीवानामप्परिणामत्वाभावात् तदाश्रयत्वोक्तिः।
{26. The printed edition and all MSS. except F. and I. add wrongly चिदानन्दमयी शक्ति before this line. }
{27. समाश्रयाः A. B. F. }
तच्छेषा {28}उभयेऽपीति द्योत्यते पाद्यदानतः।
षोढा विभज्य रूपं स्वं तर्पयामि सनातनम् ।। 85 ।।
85. शब्दादिरूपेणाहमेव भगवन्तमाराधयामीत्यर्थः।
{28. उभयोः प्रीतिः A. }
शब्दाद्यैः पञ्चभिर्भावैरन्तश्चाप्यभिमानतः।
समावेशितसद्भावैर्भोगैः सांदृष्टिकादिकैः ।। 86 ।।
86. - - - - - - - - - - - - -
आराधयेज्जगन्नाथं सावधानेन चेतसा।
दृष्ट्यैव जन्यते प्रीतिर्येषां{29} सांदृष्टिका मताः ।। 87 ।।
87. भोगान् सांदृष्टिकाभ्यवहारिकसांस्पर्शिकाभिमानिकभेदेन चतुर्धा विभज्य वर्णयति---दृष्ट्यैवेत्यादिना।
{29.यैस्ते C. }
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः।
भोगाः शुभकराः शश्वत्तर्पयन्ति रसौर्हि ये ।। 88 ।।
88. - - - - - - - - - - - - -
प्रापणाचमनीयाद्यास्ते स्युराभ्यवहारिकाः।
{30}सुखा रम्या मृदुस्पर्शाः स्पर्शैर्ये तर्पयन्त्यजम् ।। 89 ।।
89. - - - - - - - - - - - - - - -
{30. सुखरम्य F. }
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः।
गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके ।। 90 ।।
90. - - - - - - - - - - - - -
निविष्टा {31}अनिलाद्याः स्युरन्त्याः पाकजगन्धिनः{32}।
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ।। 91 ।।
91. - - - - - - - - - - - - -
{31. अनुलोमाः G. }
{32. पङ्कजगन्धिनः A. B. F. }
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः।
इत्थं चतुर्विधैर्भोगैः शास्रदृष्टेन वर्त्मना ।। 92 ।।
92. - - - - - - - - - - - -
ऋग्भिः सप्रणवाद्याबिस्तोषयेत् पुरुषोत्तमम्।
मन्त्रान्ते भोगनिर्देश- प्रीतिश्च तदनन्तरम् ।। 93 ।।
93. - - - - - - - - - - - - -
ओंकृत्यर्चमथोच्चार्य प्रणवादीनि पञ्च च।
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ।। 94 ।।
94. प्रणवादीनि पञ्चेति। तारानुतारिकाषडक्षराष्टाक्षरद्वादशाक्षरमन्त्रानित्यर्थः।
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया।
श्रिया सार्धं जगन्नाथो दिव्यो नारायणः पुमान् ।। 95 ।।
95. - - - - - - - - - - - - -
इत्यञ्जलिप्रसूनस्थं स्वमूर्ताववतार्य च।
प्रणम्य स्वागतं पृष्ट्वा क्षामयेदनया धिया ।। 96 ।।
96. स्वमूर्तौ; स्वपरिकल्पितायां मूर्तौ।
प्रणम्य{33} भगवन् पश्चादासनेनार्चयामि च।
उक्त्वा मन्त्रानथोच्चार्य त्रिर्निर्दिश्येदमित्यतः ।। 97 ।।
97. - - - - - - - - - - - - -
{33. प्रणत्वा B. F. G. }
पश्चात् सनाम निर्दिश्य प्रीतिं पश्चात् समाचरेत्।
प्रीयतां भगवान् पश्चाद्वासुदेवस्ततः परम् ।। 98 ।।
98. सनामेति। इदमिदमिदं पाद्यमित्यादिरीत्या भोगनामनिर्देशपूर्वकमित्यर्थः।
अर्घ्यं निःस्रावयेद्वेद्यामयं भोगविधिक्रमः।
आसनार्घ्यादि भोगेषु यथालिङ्गं विनिर्दिशेत् ।। 99 ।।
99. - - - - - - - - - - - - -
आद्ययावाहनं कुर्यादासनं च द्वितीयया।
अर्घ्यं तृतीयया देयं मूर्ध्न्यापः कुसुमोद्धृताः ।। 100 ।।
100. पुरुषसूक्तऋचां भोगप्रदाने विनियोगमाह--आद्ययेत्यादिना।
पाद्यं देयं चतुर्थ्या तु पञ्चम्याचमनीयकम्।
षष्ठ्या स्नानविधिः कार्यः सप्तम्या परिधानकम् ।। 101 ।।
101. - - - - - - - - - - - - - -
अष्टम्योत्तरवासश्च नवम्या गन्धलेपनम्।
दशम्या स्रगलंकारा{34} एकादश्या तु दीपकः ।। 102 ।।
102. - - - - - - - - - - - - -
{34. अलंकारः C. }
द्वादश्या सुरभिर्धूपः परया मधुपर्ककः।
प्रापणं तु चतुर्दश्या पञ्चदश्यानुवासनम् ।। 103 ।।
103. अनुवासनं नाम भोजनानन्तरदेयं सुगन्धि ताम्बूलादि।
षोडस्या तु नमस्कारः परया कुसुमाञ्जलिः।
अष्टादश्या प्रदानं च समाराधनकर्मणः ।। 104 ।।
104. - - - - - - - - - - - -
स्नानवासःप्रदीपेषु दद्यादाचमनक्रियाम्।
पुरस्तादर्हणं कार्यं मधुपर्कान्नदानतः ।। 105 ।।
105. अर्हणम्; आपोशनम्।
{35}तर्पणाचमने पश्चात् प्रणवद्वितयेन तु।
इत्थं स्नानादिभोगेषु देशकालाद्यपेक्षया ।। 106 ।।
106. - - - - - - - - - - - -
{35. दर्पणा B. }
कुर्याद्राजवदाचारं तत्तन्मन्त्रेण साधकः।
संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् ।। 107 ।।
107. - - - - - - - - - - - - -
कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया।
समाहितोऽञ्जलिं कृत्वा तत ओं भगवन्निति ।। 108 ।।
108. - - - - - - - - - - - - -
आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम्।
मन्त्रमुच्चार्य निर्दिश्येदिदमासनमित्यतः ।। 109 ।।
109. - - - - - - - - - - - - -
ओमों प्रीयतां भगवान् वासुदेव इति ब्रुवन्।
अर्घ्यादिजलमादाय स्थापयेद्देवसंनिधौ ।। 110 ।।
110. - - - - - - - - - - -
आभिरर्घ्याभिरित्येवमाभिः पाद्याबिरित्यपि।
आभिराचमनीयाभिरर्हणीयाभिरित्यपि ।। 111 ।।
111. आभिरर्घ्याभिरित्यादीनामद्भिरिति विशेष्यमुत्तरवाक्यादनुषञ्जनीयम्।
तर्पणीयाभिरध्भिश्च स्नानीयाभिरितीदृशम्।
प्रीतिसंकल्पयोर्वाच्यमिमा अर्घ्या इतीदृशम् ।। 112 ।।
112. - - - - - - - - - - - - -
वाच्यं प्रदानवेलायां यथालिङ्गमिति क्रमः।
अर्घ्यादिकल्पनं चाग्रे बहिर्यागे विधास्यते ।। 113 ।।
113. - - - - - - - - - - - - -
इति स्रगादिभिः षड्‌भिर्देवदेवं जनार्दनम्।
पञ्चभिर्वा चतुर्भिर्वा त्रिभिर्द्वब्यामथापि वा ।। 114 ।।
114. स्रक्, दीपः, धूपः, मधुपर्कः, प्रापणम्; अनुवासनमिति षड्‌भिरित्यर्थः।
एकेन वा समाराध्य देशकालानुकूलतः।
मयैव पूजितं ध्यात्वा देवदेवं जनार्दनम् ।। 115 ।।
115. - - - - - - - - - - - - -
चन्द्रोदय इवाम्भोधिं सर्वाङ्गपरिबृंहितम्।
अनिर्देश्यामनौपम्यामनन्तां भाविनीं सदा ।। 116 ।।
116. अनौपम्यामिति। अनुपमामित्यर्थः। उपमैवौपम्यम्। स्वार्थे ष्यञ्‌प्रत्ययः।
आमोदमिव पुष्पस्थं दीपस्थामिव च प्रभाम्।
{36}विनिष्क्रष्टुमशक्यां मामनन्यां पुरुषोत्तमात् ।। 117 ।।
117. विनिष्क्रष्टुम्; विनिप्क्रमयितुमित्यर्थः।
{36. विनिष्कर्तुं A. B. C. }
भावयन् विधिवन्मन्त्री लययागेन मां यजेत्।
तारिकाविधिमन्विष्य तया मां तारिकां यजेत् ।। 118 ।।
118. - - - - - - - - - - - - -
अथ मेघादिवोद्यन्तीं विद्युतं पुरुषोत्तमात्।
समुद्यन्तीं तदिच्छातो विबाव्य मनसा सुधीः ।। 119 ।।
119. - - - - - - - - - - - - -
वामोत्सङ्गे{37} निषण्णां मां देवदेवस्य चिन्तयेत्।
ऐकध्यमावयोर्ज्ञात्वा स्वबावं च सुशीतलम् ।। 120 ।।
120. ऐकद्यम्; एकविधत्वम्।
{37. उत्सङ्ग B. F. }
ऋग्भ्यां हिरण्यपूर्वाभ्यां प्रपद्येत जनार्दनम्।
सान्त्वयेच्च पराभ्यां तां मां तावदपृथक्कृताम् ।। 121 ।।
121. ऋग्भ्यामिति। हिरण्यवर्णाम्, तां म आवहेति द्वाभ्यामित्यर्थः।
पञ्चम्या च प्रपद्येत प्रसन्नां भावयन् धिया।
ज्ञात्वा पूर्वोक्तसामर्थ्यं तारिकाया यथार्थतः ।। 122 ।।
122. - - - - - - - - - - - - -
मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः।
पूरकेण सुरेशान मनसा समुदीरयन् ।। 123 ।।
123. - - - - - - - - - - -
मामथावाहयेद्देवादुत्सङ्गे परमात्मनः।
प्रसन्नवदनां शस्वत् सर्वलक्षणलक्षिताम् ।। 124 ।।
124. - - - - - - - - - - - -
पद्मगर्भनिभां कान्तामसितायतलोचनाम्।
स्फुरत्कटककेयूरहारकुण्डलमण्डिताम् ।। 125 ।।
125. - - - - - - - - - - - -
गम्भीरनाभिं{38} त्रिवलीविभूषिततनूदराम्।
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् ।। 126 ।।
126. - - - - - - - - - - -
{38. नाभि B. F. }
चलद्विरेफपटलसमाक्रान्तालकावलिम्।
आरक्ताधरबिम्बां च वंशमुक्ताफलद्विजाम् ।। 127 ।।
127. द्विजाः दन्ताः।
अर्धचन्द्रललाटस्थराजमानललाटिकाम्।
सर्वलक्षणसंपन्नां कृष्णकुञ्चितमूर्धजाम् ।। 128 ।।
128. ललाटिका तिलकम्। अलंकारे कन्।
वरदां पङ्कजकरां पद्ममालाविभूषिताम्।
विष्णुवामभुजास्लिष्टां तदंसस्थकराम्बुजाम् ।। 129 ।।
129. - - - - - - - - - - - - -
वामेन बाहुना दिव्यां वहन्तीं पुष्पमञ्जरीम्।
वरदाभयपाणिं वा पाशाङ्‌कुशकरां तु वा ।। 130 ।।
130. - - - - - - - - - - - - -
अर्धस्वस्तिकसंलीनां स्फुरन्मौलिविराजिताम्।
ध्यात्वा मां संमुखीं कुर्यान्मन्त्रमूर्तिं सनातनीम् । 131 ।।
131. स्वस्तिकम् आसनविशेषः।
मूलमन्त्रादिकैर्भूयो मन्त्रैः सर्वैश्च पूर्ववत्।
{39}करन्यासं विना देहन्यासं मयि समाचरेत् ।। 132 ।।
132. - - - - - - - - - - - - - - -
{39. G. omits this line. }
पुष्पमर्ध्यं तथा दीपं धूपं माल्यं विलेपनम्।
चेतसा सादरेणैव पाद्यमाचमनं ततः{40} ।। 133 ।।
133. - - - - - - - - - - - - -
{40. तथा B. }
प्रणाममथवाष्टाङ्गं जयशब्दांश्च मानसान्।
प्रदर्शयेत्ततो मुद्रा यास्ते पूर्वं प्रदर्शिताः ।। 134 ।।
134. - - - - - - - - - - - -
स्वागतं तव पद्माक्षि संनिधिं भज मेऽम्बुजे।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ।। 135 ।।
135. - - - - - - - - - - - - -
लब्ध्वानुज्ञां ततो मत्तो मानसं यागमाचरेत्।
संकल्पजनितैर्भोगैः पवित्रैः पारमार्थिकैः ।। 136 ।।
136. - - - - - - - - - - - -
बाह्यप्रक्रियया शश्वत् परस्ताद्वक्ष्यमाणया।
मां यजेत सुनिष्णातो भोगैः सांस्पर्शिकादिकैः ।। 137 ।।
137. - - - - - - - - - - - - -
प्रापणान्तं विधायान्ते{41} कारिणं संस्मरेद् गुरुम्।
जीवन्तमथवातीतं तस्मै दद्यात्ततोऽखिलम् ।। 138 ।।
138. - - - - - - - - - - - - -
{41. विधायाथ C. }
वित्तं संविभजेच्चैव प्रापणांशेन मन्त्रवित्।
जीवतोऽप्यथवातीतान्यथार्थेनैव चेतसा ।। 139 ।।
139. - - - - - - - - - - -
परिवारान् स्मरेत् सर्वान् वक्ष्यमाणान् विशेषतः।
कारणे मयि संलीनान् धानास्थानिव भूरुहान् ।। 140 ।।
140. - - - - - - - - - - - - -
तत्तन्मन्त्रप्रयोगेण लयप्रक्रियया यजेत्।
कुर्यान्महानसे होमं मोक्षलक्ष्मीप्रदं शुभम् ।। 141 ।।
141. - - - - - - - - - - - - -
त्रिगुणाधारमध्यस्थे त्रिकोणे त्रिगुणेऽनले।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ।। 142 ।।
142. - - - - - - - - - - - - -
संस्कारैः संस्कृतं कृत्वा वक्ष्यमाणधिया सुधीः।
त्रिलक्षणाधारगते वैष्णवे जातवेदसि ।। 143 ।।
143. संस्कारैरिति। वैष्णवीकरणप्रक्रिययेत्यर्थः।
नादावसानगगनात्तारिकायाः परिस्रतम्{42}।
ब्रह्म हविर्गृहीत्वाथ ब्रह्मरन्ध्रेण संविशेत् ।। 144 ।।
144. - - - - - - - - - - - - -
{42. द्रुतम् B. C. }
ततो वह्निगृहं गत्वा सर्पिः {43}संस्कृत्य शास्रतः।
कुर्वीत सकलं कृत्यं तेनाज्येन यथाविधि ।। 145 ।।
145. - - - - - - - - - - - - -
{43. संगृह्य A. B. C. }
ततो होमावसाने तत्संकल्पः कर्म मानसम्।
संन्यसेन्मयि भावेन वक्ष्यमाणधिया सुधीः ।। 146 ।।
146. - - - - - - - - - - - - -
यः क्रमोऽबिहितो{44} बाह्ये स सर्वो मानसेऽत्र तु।
अवधानेन वा कार्यो मन्मयैर्द्रव्यसंचयैः ।। 147 ।।
147. - - - - - - - - - - - - -
{44. विहितो B. E. }
सर्वोपसर्गशमनः सोऽयं सर्वफलप्रदः।
कथितो मानसो यागः कार्य आदेहपातनात् ।। 148 ।।
148. आदेहपातनादिति। अनेन पाञ्चकालिकधर्मनिरतस्य परमैकान्तिनः प्रतिपुरुषं प्रत्यहं च भगवदाराधनमवश्यकर्तव्यं नित्यकर्मेत्युक्तं भवति।
अथ द्रव्याणि सर्वाणि मन्मयीकृत्य यत्नतः।
{45}बाह्योत्थवासन शान्त्यै बाह्ययागमथाचरेत् ।। 149 ।।
149. - - - - - - - - - - - - - - -
{45. बाह्यार्थ B. F. }
इत्येवमन्तर्यागस्ते मदीयः शक्र वर्णितः।
बहिर्यागस्वरूपं तु तत्त्वतो मे निशामय ।। 150 ।।
150. - - - - - - - - - - - - -
इति श्रीपाञ्चरात्रसारे{46} लक्ष्मीतन्त्रे अन्तर्यागप्रकाशो नाम षट्‌त्रिंशोऽध्यायः
{46. श्रीपञ्चरात्र A; श्रीपाञ्चरात्रे B. }
********इति षट्‌त्रिंशोऽध्यायः********