लक्ष्मीतन्त्रम्/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३४ लक्ष्मीतन्त्रम्
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ३६ →
लक्ष्मीतन्त्रस्य अध्यायाः

पञ्चत्रिंशोऽध्यायः - 35
श्रीः---
अन्तर्यागादिसिद्ध्यर्थं भूतशुद्धिं निशामय।
कथ्यमानं मया शक्र सावधानेन चेतसा ।। 1 ।।
1. भूतशुद्धिर्नाम साधकस्य प्राकृतदेहस्थानां मांसमेदोऽस्थिभूयिष्ठानां भूतानां शुद्धीकरणम्। तच्च भगवदाराधनयोग्यतासंपत्त्यै। तत्प्रकारश्च प्राकृतानां तेषां स्वस्वकारणेषु लयचिन्तनपूर्वकं भगवति समर्पणं कृत्वा पुनस्तत्सकाशात् भगवन्मयाप्राकृतभूताविर्भावपूर्वकं तदारब्धदेहावस्थितिभावनम्। एषा च भूतशुद्धिः सर्वैरपि तान्त्रिकैः स्वस्वसमयानुसारेण स्वस्वतन्त्रेषु प्रतिपादिता दृस्यते।
{1}प्रकृत्यन्तस्य पृथ्व्यादेः {2}कादिभान्ततयैव च।
मन्मयीकरणं बुद्ध्या भूतशुद्धिरिहोच्यते ।। 2 ।।
2. कादि भान्तमिति। ककारेण पृथिवी भकारेण प्रकृतिश्च गृह्यते।
{1. F. omits verses 2 to 23. }
{2. कादिहान्त A. }
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं स्थितम्।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं विदुः ।। 3 ।।
3. - - - - - - - - - - - -
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता यत्र तत्तु तन्मात्रमुच्यते ।। 4 ।।
4. - - - - - - - - - - - -
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीश्च तत्र तत्र निवेशयेत् ।। 5 ।।
5. - - - - - - - - - - - -
घ्राणादि पायूपस्थादि गन्धादीति त्रयं त्रयम्।
तन्मात्रवर्गे पृथ्व्यादौ प्रातिलोम्याच्छमं नयेत् ।। 6 ।।
6. - - - - - - - - - - - - -
तरङ्गा जलधौ यद्वदस्तं यान्ति समीरणात्।
विषयेन्द्रियकल्लोला महाभूतमहोदधौ ।। 7 ।।
7. पूर्वोक्तं लयं निदर्शनमुखेनाह---तरङ्गा इति।
सुसमीचीनया बुद्ध्या तद्वदस्तं नयेद् बुधः।
{3}मनोऽभिमान इत्येतावहंकारे शमं नयेत् ।। 8 ।।
8. - - - - - - - - - - - - -
{3. G. omits this line. }
प्राणमध्यवसायं च बुद्धितत्त्वे {4}निबर्हयेत्।
सत्त्वं रजस्तमश्चैव त्रैगुण्यं प्रकृतौ नयेत् ।। 9 ।।
9. - - - - - - - - - - - -
{4. निगूहयेत् A. }
यत्तत् त्रैगुण्यमव्यक्तं कारणं महदादिके।
त्रैगुण्यं च प्रसूतिश्च मायेत्येतत् त्रिधा तु तत् ।। 10 ।।
10. त्रैगुण्यमिति। एषां क्रमेण प्रधानमव्यक्तं तम इत्यौपनिषदौ व्यवहारः।
एवं {5}तत्त्वविदां ज्ञेया एताः प्रकृतयो दश।
स्थूलसूक्ष्मविबेदेन ताः पुनर्विंशतिः स्मृताः ।। 11 ।।
11. - - - - - - - - - - - -
{5. तत्र विधा B. }
स्थूलानां प्रकृतीनां तु दश मन्त्रा इमे स्मृताः।
तत्तत्संज्ञा हुंफडन्तास्तारिकाद्या ध्रुवादिकाः ।। 12 ।।
12. तत्तत्संज्ञा इति। आदौ प्रणवः, ततस्तारिका, ततो भूतसंज्ञाः, ततो हुं फट्। आहत्य ओं ह्नीं पृथिव्यै हुं फट् इति मन्त्रः। जयाख्ये तु (10-15) तारिकास्थाने मन्त्रान्तराण्युक्तानि।
मांसं मेदस्तथा स्मृत्वा रसो व्योमाक्षरत्रयम्{6}।
परात् परद्वयं चैव बिन्दुनादविभूषितम् ।। 13 ।।
13. - - - - - - - - - - - -
{6. व्योमाक्षरं पुनः C. }
दशानां सूक्ष्मरूपाणां शक्त्याद्यास्ता नव स्मृताः।
देहेषु जीवभूता याः शक्तयः परसंज्ञिताः ।। 14 ।।
14. - - - - - - - - - - - -
मायाव्योमयुतानेतान् शक्त्यादींस्तदनु स्मरेत्।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।। 15 ।।
15. जीवशक्तीनां नामान्याह---निवृत्तिरित्यादि।
शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
गुणसूक्ष्मा निर्गुणा च एताः संज्ञाः क्रमात् स्मृताः ।। 16 ।।
16. - - - - - - - - - - - - - -
बीजानां {7}दशके तस्मिन् वह्निविष्ण्वर्धचन्द्रकान्{8}।
संयोज्य मन्त्रान् जानीयादधिष्ठात्रीगतानिमान् ।। 17 ।।
17. वह्नीत्यादि। रीं इत्येतत् संयोज्येत्यर्थः।
{7. दश शक्तेऽस्मिन् A. B. }
{8. चन्द्रमाः A. B. C. }
गन्धश्रीश्च रसश्रीश्च रूपश्रीः स्पर्शपूर्विका।
शब्दश्रीरभिमानश्रीः प्राणश्रीर्गुणपूविका ।। 18 ।।
18. गन्धश्रीरित्यादीनि शक्तिनामानि।
तथैव गुणसूक्ष्मश्रीर्मायाश्रीरिति संज्ञया।
अधिष्ठात्र्योऽपि{9} वर्तन्ते शक्तयो दशके मम ।। 19 ।।
19. - - - - - - - - - - - - - -
{9. हि B. C. }
एवं परिकरं बुद्ध्वा भूतशुद्धिं समाचरेत्।
स्थानशुद्धिं पुरा कुर्याद्यथा तदवधारय ।। 20 ।।
20. पुरेति। भूतशुद्धेः पूर्वमित्यर्थः।
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम्।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद्भुवम् ।। 21 ।।
21. - - - - - - - - - - - - - -
सोमायुताभमद्वक्त्रजेनासिञ्चेदथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमथो शृणु ।। 22 ।।
22. एवं निर्दग्धस्य स्थानस्य पुनरुज्जीवनमाह---सोमेत्यादि।
चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थानस्थां लयं नयेत् ।। 23 ।।
23. मन्त्रेणेति। अत्र मन्त्रः श्लां इति जयाख्ये उक्तः (10-17).
गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत्।
मय्यधिष्ठानभूतायां मां च बाह्याम्भसि क्षिपेत् ।। 24 ।।
24. - - - - - - - - - - - - - -
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च दैवत्म्।
स्वस्थाने विलयं नीत्वा रसमात्रे स्वमन्त्रतः ।। 25 ।।
25. - - - - - - - - - - - - -
मन्त्रेण तं प्रतिष्ठाप्य तच्च मय्यानयेल्लयम्।
मां च बाह्ये क्षिपेद्वह्नावामायं तत्क्रमस्त्वयम् ।। 26 ।।
26. मन्त्रेणेति। ष्वां इति जयाख्ये मन्त्र उक्तः। आमायमिति। मायापर्यन्तमित्यर्थः।
सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः।
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् ।। 27 ।।
27. नैकमिति। लयं सर्वत्रैकविधं न बुध्येतेत्यन्वयः। तदेव निदर्शनमुखेनाह--यथा हीति। तन्मथनोद्भवमिति सर्पिर्विशेषणम्।
सर्पिरन्यत्र च क्षीरे तत्सर्पिष्यपि{10} चान्यकम्।
एवमा प्रकृतेः शक्तीरधिष्ठात्रीः स्मरेद् बुधः ।। 28 ।।
28. - - - - - - - - - - - - -
{10. सर्पिरपि B. G. }
एवं {11}मां परमां शक्तिं नवशक्तिसमन्विताम्।
{12}निर्गुणान्तविधां ध्यातां मायाधिष्ठानकारिणीम् ।। 29 ।।
29. - - - - - - - - - - - - - - -
{11. तां B. C. }
{12. निर्गुणां तु विधामेतां A. B. }
दशमीं तत्परं नीत्वा शक्तिमेकादशीं स्थिताम्।
महाक्षोभमयीं लक्ष्मीं व्यूहाभ्युदयरूपिणीम् ।। 30 ।।
30. - - - - - - - - - - - -
एकादशीं च तां नीत्वा द्वादशीं परमात्मिकाम्।
अनिर्देश्यामनौपम्यां द्वादशीं तां मयि क्षिपेत् ।। 31 ।।
31. - - - - - - - - - - - - - -
एवं तां परमां शक्तिं द्वादशीमशिलात्मिकाम्।
द्वादशान्तान्तमुन्नीय वर्णमय्यां मयि स्मरेत्{13} ।। 32 ।।
32. द्वादशान्तेति। मूर्ध्न उपरि मायातो द्वादशाङ्गुलादूर्ध्वं स्थानं द्वादशान्तमिति सांप्रदायिको व्यवहारः।
{13. अनुस्मरेत् C. }
अग्नीषोमार्ककोट्याभा{14} सर्वतोऽक्षिशिरोमुखी।
धारासंतानरूपा मे सूक्ष्मा वर्णमयी तनुः ।। 33 ।।
33. वर्णमयीं तनुं विशिनिष्टि---अग्नीत्यादि। धारासंतानेति। अमृतधारासंतानरूपेत्यर्थः।
{14. कोट्यास्च B. }
सर्वजीवोपकाराय सर्वसंभारसंभृता।
उदिता सा {15}पुरा विष्णोर्मेघाद्विद्युदिवोज्ज्वला ।। 34 ।।
34. - - - - - - - - - - - - - -
{15. परा B. }
शक्रः---
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात्।
कीदृशानि च बिम्बानि भूम्यादीनां वदाम्बुजे ।। 35 ।।
35. - - - - - - - - - - - - - -
श्रीः---
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम्।
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः ।। 36 ।।
36. - - - - - - - - - - - - - -
आ कर्णान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः।
आ भ्रुवोर्महतः स्थानमाकाशे तु{16} परं स्मृतम् ।। 37 ।।
37. - - - - - - - - - - - - - - -
{16. आकाशेभ्यः A. }
ततः प्रादेशमात्राग्रे मूर्धतश्चतुरङ्गुले।
स्थाने प्रकृत्याः शेषं तदङ्गुलीनां द्विरष्टकम् ।। 38 ।।
38. प्रकृत्याः स्थानमाकाशे आह---तत इति। मूर्ध्नश्चतुरङ्गुलोर्ध्वभागे प्रकृत्या अवस्थानम्। ततः षोडशाङ्गुलोपरि भागे अव्यक्तस्यावस्थानम्।
एकादश्यां द्विषट्‌कायां स्थानं तत्त्वक्षरश्रियः।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ।। 39 ।।
39. तत एकादशाङ्गुलोपरि भागे मायास्थानम्। ततो द्वादशाङ्गुलोपरि भागे शब्दब्रह्मस्थानमिति विवेकः। इदमेव द्वादशान्तमित्युच्यते।
अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तैजसमुच्यते ।। 40 ।।
40. - - - - - - - - - - - - - -
{17}धूम्रं षड्‌बिन्दुसंयुक्तं{18} वृत्तं वायव्यमुच्यते।
अञ्जनाभं तथाकाशं बिम्बमात्रं स्मृतं परम् ।। 41 ।।
41. बिम्बमात्रमिति। प्रधानादीनां बिम्बमात्रमेव। न वर्णादिकमित्यर्थः।
{17. C. omits this line. }
{18. पिण्डसंयुक्तं F. }
एवं तत्त्वोपसंहारे कृते हृत्कुहरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमानुगप्त् ।। 42 ।।
42. - - - - - - - - - - - - - -
ऊर्ध्वमाजानुमुन्नीय शक्तिसोपानपङ्‌क्तिभिः।
द्वादशान्तान्तराजीवं मध्यस्थायां मयि क्षिपेत् ।। 43 ।।
43. मयि क्षिपेदिति। देहस्य दहनचिन्तने तदन्तःस्थजीवस्यापि दहन्चिन्तनप्रसक्तौ तन्निवारणाय जीवस्य देव्यां निक्षेप उच्यते।
तदन्ते च{19} महापद्मं सहस्रदलसंयुतम्।
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ।। 44 ।।
44. तदन्ते द्वादशान्ते। महापद्ममिति। अस्तीति शेषः।
{19. तु A. C. }
अग्नीषोममयान्तःस्था महानन्दमयी तनुः।
अनिर्देश्योपमा संविन्मयी सा मामिका परा ।। 45 ।।
45. - - - - - - - - - - - - - -
अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा।
स्वानन्दमेनमानीय महानन्दमयीं नयेत् ।। 46 ।।
46. अस्याः; मम तन्वाः।
ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालैर्महावेगैश्चिन्मयैः परितो दहेत् ।। 47 ।।
47. जीवे देहान्निर्गमथ्य द्वादशान्तं प्रापिते सति, देहस्य दहनचिन्तनमुच्यते---तत इत्यादिना। लवणकूटाभमिति निर्गमितजीवस्य देहस्य निर्देशः।
युक्तः सरसकः षष्ठो बिन्दुमान् दाहपावकः।
तारिकानतिमध्यस्थो विज्ञेयः शास्रचक्षुषा ।। 48 ।।
48. दाहकाग्निमन्त्र उच्यते। ह्रीं र्थूं नम इति।
सोममय्या ममास्योत्थैः पीयूषैः प्लावयेत्ततः।
चन्द्री सूक्ष्मस्तु सव्योमा पिण्डस्याप्यायने स्मृतः ।। 49 ।।
49. पुनः अप्राकृतदेहसंपत्तिचिन्तनमाह--सोममय्या इति। तत्र मन्त्रः---ठ्यं इति। जयाख्ये तु व्सं इत्युक्तः (10-78)।
सिसृक्षया मयोद्यत्या संवित्प्राणोपगूढया।
प्रेरितास्ताः स्मरेच्छक्तीर्वर्णमय्यां मयि स्थिताः ।। 50 ।।
50. - - - - - - - - - - - - - -
ततस्ताभिः स्वशक्तीभिश्चोदनाद्वारपूर्वकम्{20}।
मायादि क्षितिपर्यन्तं निर्मितं संस्मरेत् क्रमात् ।। 51 ।।
51. माया प्रधानस्य सुसूक्ष्मावस्था; यां तम इत्यौपनिषदा वदन्ति।
{20. पूर्वतः A. B. }
ततः पिण्डसमुत्पत्तिं करणव्यञ्जनोज्ज्वलाम्।
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् ।। 52 ।।
52. - - - - - - - - - - - - -
{21}पूर्वोक्तमार्गेण ततो हृदयं जीवमानयेत्।
पिण्डभूतास्रयो वर्णा अनलः सोमचन्द्रिणौ ।। 53 ।।
53. जीवमन्त्रमाह---पिण्डभूता इति। र्ट्स इति जातः। जयाख्येऽप्येवमेवोक्तः।
{21. पूर्वोक्तेन च मार्गेण B. }
तारिकानतिमद्यस्था जीवमन्त्र उदाहृतः।
विशुद्धविग्रहस्त्वेवं मन्त्रन्यासं समाचरेत् ।। 54 ।।
54. - - - - - - - - - - - - -
अधिकाराय पूजायां पूजकानां मुदेऽपि च।
{22}निबर्हणाय दैत्यादेविग्नानां विजयाय च ।। 55 ।।
55. - - - - - - - - - - - - - -
{22. B. omits this line. }
क्षितावुपरि विन्यस्तं यत् पुरा फलकादिकम्।
स्वेन स्वेन तु मन्त्रेण तं मन्त्री{23} पञ्चधा स्मरेत् ।। 56 ।।
56. - - - - - - - - - - - - - - - -
{23. तन्मन्त्रं B. }
आधारशक्तिकूर्मोर्वीदुग्धाब्ध्यम्बुजरूपतः।
तार्क्ष्यं तत्र स्थितं ध्यायेत् खर्वबीजात्मना स्थितम् ।। 57 ।।
57. खर्वबीजमिति। खमित्याकारकमित्यर्थः।
तत्रोपविश्य लक्ष्मीशं रूपं स्वमनुचिन्त्य च।
दिशो निबध्य चास्रेण पुनरेवं मुहुर्मुहुः ।। 58 ।।
58. स्वं रूपमिति। "आत्मेति तूपगच्छन्ति" इत्युक्तरीत्या स्वात्मकमित्यर्थः।
शरजालोपमं कृत्वा प्राकारं चासनाद्बहिः।
{24}सप्राकारं तु तत् स्थानं कवचेनावकुण्ठयेत् ।। 59 ।।
59. अस्रेण; अस्रमन्त्रेण वीर्यायास्राय फडित्यनेन। एवं कवचेन; कवचमन्त्रेण बलाय कवचाय हुमित्यनेन।
{24. सत्प्रकारं B. C. }
गगनस्थैरदृश्यं स्याद्यथा न्यासं समाचरेत्।
करन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ।। 60 ।।
60. - - - - - - - - - - - - - -
अङ्गुष्ठे तारिकां न्यस्येत्तच्छक्तीरङ्गुलीषु तु।
तर्जन्यां तु न्यसेल्लक्ष्मीं मध्यायां कीतिमप्यथ ।। 61 ।।
61. - - - - - - - - - - - - - -
अनामायां जयां मायां कनिष्ठायां ततो न्यसेत्।
सतारतारिकासंज्ञानत्यन्तस्तन्मनुक्रमः ।। 62 ।।
62. सतारेत्यादि। ओं ह्रीं लक्ष्म्यै तर्जनीभ्यां नमः इत्यादि प्रकारेणेत्यर्थः।
कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात्।
अङ्गानि पञ्च विन्यस्य नेत्रमङ्गेषु संस्मरेत् ।। 63 ।।
63. - - - - - - - - - - - - - -
कौस्तुभं दक्षिणतले वनमालां तथापरे।
दक्षिणे मध्यतः पद्मं न्यसेद्वामतलेऽपि च ।। 64 ।।
64. अथ करन्यासः---कौस्तुभमित्यादिना। मध्यतः; तल इत्यर्थः।
अड्कुशं दक्षिणे न्यस्येत् पाशं वामतले तथा।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ।। 65 ।।
65. - - - - - - - - - - - - -
ततस्तु विग्रहन्यासं यथा कुर्यात्तथा शृणु।
आ मूर्ध्नश्चरणान्तं चाचरणाच्च शिरोऽवधि ।। 66 ।।
66. मूर्धानमारभ्य चरणपर्यन्तं चरणमारभ्य मूर्धपर्यन्तं च देहन्यासमाह---आ मूर्ध्न इति।
{25}तारकं तारिकां चैव तौ च चन्द्रातपोपमौ।
वामस्कन्धे ततो लक्ष्मीं न्यसेत्कीर्तिं च दक्षिणे ।। 67 ।।
67. - - - - - - - - - - - - - -
{25. B. omits five lines from here. C. omits four lines from here. }
जयां दक्षिणपाणिस्थां माया वामकरस्थिताम्।
नासान्तरे च हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि ।। 68 ।।
68. - - - - - - - - - - - - - -
शिखां चैव शिखास्थाने स्कन्धयोः कवचं ततः।
विन्यस्य नेत्रयोनेत्रमश्रं पाणितलद्वये ।। 69 ।।
69. - - - - - - - - - - -
नाभौ पृष्टे करद्वन्द्व ऊरुजानुपदेषु च।
न्यसेत् सम्यगुपाङ्गानि त्रियुगं मन्त्रवित्तमः ।। 70 ।।
70. - - - - - - - - - - - - -
वक्षःस्थं कौस्तुभं मध्ये कण्ठे च वनमालिकाम्।
पङ्कजे करयोर्न्यस्य मन्त्रमावर्तयन् द्विधा ।। 71 ।।
71. - - - - - - - - - - - - -
वामहस्ते ततः पाशमङ्कुशं दक्षिणे करे।
पादयोस्तारिकां स्थूलां सूक्ष्मां चैवोपसंधिके ।। 72 ।।
72. - - - - - - - - - - - - - -
चरमां ब्रह्मरन्ध्रे तु मन्त्राणां नायिका हि सा।
चन्द्रिकातपसंकाशं न्यासे न्यासे मनुं स्मरेत् ।। 73 ।।
73. - - - - - - - - - - - - - -
मनसा भावयेन्मुद्रास्तत्र तत्र च साधकः।
तारिका या परा देवी तया व्याप्ताननुस्मरेत् ।। 74 ।।
74. - - - - - - - - - - - - - -
विन्यस्तान् सकलान् मन्त्रान् सर्वतः संप्लुतोदवत्।
एवं कृतेऽनुसंधाने मन्त्राणां भिन्नवर्त्मनाम् ।। 75 ।।
75. - - - - - - - - - - - -
अपामिवोदधिस्थानामेकीकारः{26} प्रजायते।
एवं न्यासे कृते मन्त्री साक्षाल्लक्ष्मीमयो भवेत् ।। 76 ।।
76. - - - - - - - - - - - - - -
{26. एकाकारः B. }
सर्वाधिकारभागी स्यादाश्रित्य ध्यानजं बलम्।
ध्यायिनः सर्वसिद्धीनामाविर्भावश्च जायते ।। 77 ।।
77. - - - - - - - - - - - - -
न्यस्ताङ्गो निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयेतापमृत्यूंश्च सर्वांश्चैवौपसर्गिकान् ।। 78 ।।
78. - - - - - - - - - - - -
न्यस्ताङ्गो विधिवन्मन्त्री यथाशास्रेण चेतसा।
तनुं मन्त्रमयीं तां तु मां ध्यायेत् परमेश्वरीम् ।। 79 ।।
79. - - - - - - - - - - - - - -
अहं स भगवान् विष्णुरहं लक्ष्मीः सनातनी।
इत्येवंभाववान् योगी भूयो नैव प्रजायते ।। 80 ।।
80. - - - - - - - - - - - -
इतीयं भूतशुद्धिस्ते यथावच्छक्र वर्णिता।
अन्तर्यागमथो वक्ष्ये तत्त्वतस्तन्निशामय ।। 81 ।।
81. - - - - - - - - - - - -
इति {27}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे भूतशुद्धिप्रकाशो नाम पञ्चत्रिंशोऽध्यायः
{27. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इति पञ्चत्रिंशोऽध्यायः********