लक्ष्मीतन्त्रम्/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४९ लक्ष्मीतन्त्रम्
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ५१ →
लक्ष्मीतन्त्रस्य अध्यायाः

पञ्चाशोऽध्यायः - 50
शक्रः---
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये।
सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे ।। 1 ।।
1. विश्वारणे। विश्वोत्पत्तिस्थानभूते इत्यर्थः।
आदिदेवात्मभूतायै नारायणकुटुम्बिनि।
समस्तजगदाराध्ये नमस्ते पद्मयोनये ।। 2 ।।
2. आत्मभूतायै। प्राणवल्लभायै इत्यर्थः।
त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया।
आराधनं च सर्वेषां यथावदवधारितम् ।। 3 ।।
3. - - - - - - - - - - -
इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिः सृतम्।
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो ।। 4 ।।
4. त्वत्सूक्तस्य; श्रीसूक्तस्य।
श्रीः{1}---
देवो नारायणो नाम जगतस्तस्थुषस्पतिः।
आत्मा च सर्वलोकानां षाड्‌गुण्यानन्दविग्रहः ।। 5 ।।
5. जगत इत्यादि। जङ्गमस्थावराणां पतिरित्यर्थः।
{1. श्रीरुवाच B. F. I. }
सर्वप्रकृतिरीशानः सर्वज्ञः सर्वकार्यकृत्{2}।
{3}निरनिष्टोऽनवद्यस्च सर्वकल्याणसंश्रयः ।। 6 ।।
6. प्रकृतिः ; उपादानकारणम्।
{2. वित् I. }
{3. निरधिष्ठः I. }
तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः{4} ।। 7 ।।
7. "तस्य भासा सर्वमिदं विभाति" इति श्रुत्यर्थोपबृंहणमत्र। भावाभावेति। भावाभावपदार्थरूपतया निर्धारित इत्यर्थः।
{4. विभावनः A. B. C. }
शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः।
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती ।। 8 ।।
8. - - - - - - - - - - -
निरस्तनिखिलावद्या सर्वकामदुघा विभोः।
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी ।। 9 ।।
9. सर्वकामेति। मयैव सः अवाप्तसमस्तकाम इति भावः। आत्मभित्तीति। शुद्धाशुद्धरूपः प्रपञ्चः सर्वोऽपि मदेकावलम्बन इत्यर्थः।
अनुव्रता हृषीकेशं सर्वतः समतां गता।
तावावां परमे व्योम्नि पितरौ जगतः परौ ।। 10 ।।
10. - - - - - - - - - - -
अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ।। 11 ।।
11. - - - - - - - - - - - -
सुखिनः स्युरिमे जीवाः प्राप्नुयुर्नौ कथं न्विति{5}।
{6}उपायान्वेषणायत्तौ परमेण समाधिना ।। 12 ।।
12. समाधिना; ध्यानेन।
{5. त्विति A. B. G. }
{6. उपायान्वेषणे ण. }
मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम्।
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् ।। 13 ।।
13. मथ्नीवः स्मेति। अमथ्नीवेत्यर्थः।
तत् सूक्तमिथुनं दिव्यं दध्नो घृतमिवोत्थितम्।
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् ।। 14 ।।
14. सूक्तमिथुनम्; पुंसूक्तं श्रीसूक्तं च। अनाहतम्; अव्याहतम्। अनस्पष्टम्; अतिस्पष्टम्।
सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम्{7}।
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् ।। 15 ।।
15. - - - - - - - - - - - -
{7. अनाकुलमनातुरम् I. }
{8}शक्तिशक्तिमदाविद्धं तत्तदक्षरमिश्रितम्।
तत्र पुंलक्षणं सूक्तं सद्‌ब्रह्मगुणभूषितम् ।। 16 ।।
16. - - - - - - - - - - - -
{8. I. omits this line. }
स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम्।
तत्र स्रीलक्षणं सूक्तं सद्‌ब्रह्मगुणभूषितम् ।। 17 ।।
17. स्वीचकारेति। तन्मन्त्रद्रष्टृतया तदृषित्वेन तत्प्रतिपाद्यत्वेन तद्देवतात्वेन चात्मानमभावयदित्यर्थः। अरविन्दाक्ष इत्यनेन "तस्य यथा कप्यासं पुण्‍डरीकमेवमक्षिणी" इति श्रुत्युपवर्णित इति सूच्यते।
स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम्।
ते एते परमे सूक्ते महर्षिगणसेविते ।। 18 ।।
18. - - - - - - - - - -
{9}अधीते च विमृष्टे च नयेतां परमां गतिम्।
विहितानि विधानानि कल्पकृद्भिः पुरातनैः ।। 19 ।।
19. अधीते; शब्दतः। विमृष्टे; अर्थतः। कल्पकृद्भिः; शौनकादिभिः।
{9. C. omits four lines from here. }
अघोराण्यमराध्यक्ष तानि तानि सहस्रशः।
तत्र संप्रति {10}मत्सूक्तविधानं विहितं शृणु ।। 20 ।।
20. अघोराणि। फलदशायामिव साधनदशायामपि परमभोग्यानीत्यर्थः।
{10. मत्सूक्ते B. }
मामेवास्य{11} मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते।
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी ।। 21 ।।
21. - - - - - - - - - - - -
{11. आद्यं I. }
विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने।
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् ।। 22 ।।
22. अङ्कस्थामिति। वामाङ्कस्थामित्यर्थः।
वामेनालिङ्गितां शश्वद्बाहुना परमात्मना{12}।
{13}तदंसलग्नबाहुं च दिव्यपङ्कजधारिणीम् ।। 23 ।।
23. - - - - - - - - - - - - -
{12. परमात्मनः A. }
{13. तदङ्गलग्नां मां चैव I. }
अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ।। 24 ।।
24. - - - - - - - - - - - -
कुर्यात् प्रथमया चर्चा त्वावाहनमतन्द्रितः।
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः ।। 25 ।।
25. - - - - - - - - - - - -
तृतीययार्घ्यमीशाने {14}पाद्यं चापि प्रकल्पयेत्।
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् ।। 26 ।।
26. - - - - - - - - - - - -
{14. पश्चात्पाद्यं I. }
षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ।। 27 ।।
27. - - - - - - - - - - - -
गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां {15}धूपदीपौ तु परया मधुपर्ककम् ।। 28 ।।
28. पराभ्यामिति। एकादशीद्वादशीभ्यामृग्भ्यामित्यर्थः।
{15. दीपधूपौ B. }
प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ।। 29 ।।
29. तारिकामित्यादि। ह्रीं श्रीं इति मन्त्रद्वयमित्यर्थः।
प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि।
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् ।। 30 ।।
30. - - - - - - - - - - - -
तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ।। 31 ।।
31. पक्षान्तरमाह---ऋग्भिरिति।
पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा।
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः ।। 32 ।।
32. आप इति। "आपः सृजन्तु" इत्यादिद्वादश्येत्यर्थः।
आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम्।
गन्धद्वारेति{16} गन्धाः स्युरुपैतु स्यादलंकृतिः ।। 33 ।।
33. आर्द्रामित्यादि। त्रयोदश्या चतुर्दश्या चेत्यर्थः। कर्दमेनेति। एकादश्येत्यर्थः। गन्धद्वारेति। नवम्येत्यर्थः। उपैत्विति। सप्तम्येत्यर्थः।
{16. द्वारेण C. F. I. }
कां सोस्मि {17}धूपदीपौ च षष्ठ्या चैवोपहारकम्।
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् ।। 34 ।।
34. कां सोस्मीति। चतुर्थ्येत्यर्थः। अस्या आचमनेऽप्युपयोगः पूर्वमुक्तः। षष्ठ्येति। "आदित्यवर्णे" इत्यनयेत्यर्थः। मनस इति। दशम्येत्यर्थः।
{17. दीपधूपौ B. }
क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका।
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् ।। 35 ।।
35. क्षुदित्यादि। अष्टम्येत्यर्थः। अन्त्ययेति। "तां म आवह" इति पञ्चदश्येत्यर्थः।
सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत।
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन ।। 36 ।।
36. पञ्चाशत् त्रीणीति। त्रिपञ्चाशदित्यर्थः।
निहिता सर्वभूतेषु रणे{18} भृङ्गवधूरिव।
जनयन्ती परं नादं तैलधारावदच्युतम् ।। 37 ।।
37. निहितेत्यादिना हिरण्यवर्णेतिनामनिरुक्तिः। हिशब्दार्थो निहितेति। रणे; शब्दं करोमीत्यर्थः। तादात्विकनादस्य विवरणम्---भृङ्गवधूरिवेति। अच्युतम्; अविच्छिन्नमित्यर्थः।
{18. व्रणे C. }
निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता।
मूलमाधारमारभ्य द्विषट्‌कान्तमुपेयुषी ।। 38 ।।
38. - - - - - - - - - - - -
उदितानेकसाहस्रसूर्यवह्नीन्दुसंनिभा।
{19}चक्रकात् पवनाधाराच्छान्ता पश्याथ मध्यमा ।। 39 ।।
39. वर्णशब्दं निर्विक्ति---चक्कादिति। आधारचक्रादित्यर्थः। शान्ता; परेत्यर्थः। पश्या; पस्यन्ती।
{19. I. omits three lines from here. }
वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी।
वर्णानां जननी भूत्वा भोगान् प्रश्नौमि गौरिव ।। 40 ।।
40. वैखरीस्थानम्; कण्ठादीन्यष्टौ।
हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः।
स्तुत्वा तु{20} मत्प्रसादात् स योगानां धर्ममूचिवान् ।। 41 ।।
41. - - - - - - - - - - - - - - - -
{20. अथ I. }
प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः।
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः ।। 42 ।।
42. ओं हिरण्यवर्णायै नमः इति नवाक्षरो मन्त्रः।
दूराद्‌ दूरतरं यामि हरिणी योगिमानसात्।
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः ।। 43 ।।
43. हरिणीति नाम निरुच्यतेऽत्र। हरिणीवत् दूरधावनादिति, हरन्ति बध्नन्ति योगिन एनामिति च निर्वचनद्वयम्।
षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ।। 44 ।।
44. - - - - - - - - - - - -
हरिणाजिनसंवीतां हरिणाजिनसंस्तराम्।
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् ।। 45 ।।
45. निर्वचनान्तरमाह---हरिणेत्यादि। हरिणस्येवाश्लिष्टमसंसृष्टं मध्यं यस्याः, हरिणा विष्णुना आश्लिष्टं मध्यं यस्या इति वा निर्वचनम्।
हरिणीं मामनुस्मृत्य परां शान्तिमवाप्रुयात्।
{21}हरिं नयामि कार्येषु नीये च हरिणा स्वयम् ।। 46 ।।
46. निर्वचनान्तरं हरिमिति। "यदिङ्गितपराधीनो विधत्तेऽखिलम्" इत्यभियुक्ताः।
{21. I. omits nine lines from here. }
सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ।। 47 ।।
47. हरिणभासेति हारिणीति च निर्वचनद्वयम्। ओं हरिण्यै नमः।
सर्वार्थसाधकः साक्षाद्योगसाधनमुत्तमम्।
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः ।। 48 ।।
48. सुवर्णस्रक् रजतस्रगिति नामद्वयम्।
सृजामि शोभनान् वर्णान् {22}सुष्ठु विश्वं वृणामि वा।
सृताश्चापि मयाजस्रं बद्धमुक्तादयो ह्यजाः ।। 49 ।।
49. सृजामीत्यादिना निर्वचनान्तरम्। सुष्ठु विश्वमित्यादिना तृतीयं निर्वचनम्। "विश्वं विष्णुः" इति नामपाठात् विष्णुं पतित्वेन वृणे इति वा, विश्वं लोकं वासस्थानतया वृणे इति वा निर्वचनं भाव्यम्। स्रक्‌शब्दनिर्वचनमाह---सृता इति।
{22. स्रष्टुं A. G. }
सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः।
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् ।। 50 ।।
50. उपाख्यानमुच्यते---गुह्यकानामिति।
राजतैर्मे स्रजः पद्मै राजन्ते च स्रजोऽमलाः।
{23}राजिताश्च स्रजः सर्वे स्रष्टारो जगतां मया ।। 51 ।।
51. रजतस्रगिति नाम निरुच्यते---राजतैरिति। निर्वचनान्तरं राजन्त इति। राजिता इति च निर्वचनान्तरम्।
{23. राजतास्च I. }
रजतस्रजमित्येव रुद्राणां प्रवरः पुरा।
{24}कैलासे समुपस्थाय रजताधिपतां ययौ ।। 52 ।।
52. उपाक्यानमुच्यते---रुद्राणामिति।
{24. कैलासं I. }
अष्टाक्षराविमौ मन्त्रौ {25}सतारौ नमसा युतौ।
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः ।। 53 ।।
53. ओं सुवर्णस्रजे नमः। ओं रजतस्रजे नमः।
{25. सतार A. B. }
चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम्।
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च ।। 54 ।।
54. चन्द्रेति नाम निरुच्यते---चंक्रम्यमाणेति। क्रम्‌धातोर्यङि चंक्रम्येति रूपम्। तत्र चं इति पदमादाय द्रा इत्यनेन योगे चन्द्रेति भवति। द्रा इति पदं निर्वक्ति---द्रावयामीति। द्रा इत्यस्यैव निर्वचनान्तरं चन्द्रवदिति।
उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा।
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च ।। 55 ।।
55. निर्वचनान्तरमाह---उदेमीति। चतुर्थी दशा तुरीयावस्था।
योगान्तरायनिहतो वसिष्ठः परमो मुनिः।
अन्तस्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् ।। 56 ।।
56. उपाख्यानमुखेन निर्वचनान्तरमाह---योगेत्यादिना।
{26}नाडीस्थां मामनुस्मृत्य {27}पुनः स्वं योगमाप्तवान्।
आनन्दजनकः सद्यो मन्त्रोऽयं मे षडक्षरः ।। 57 ।।
57. ओं चन्दारयै नमः।
{26. नाभिस्थां I. }
{27. पुनस्तं A. G. }
भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम्।
आधाराब्जाद् द्विषट्‌कान्तं सूर्यभासा हिरण्मयी ।। 58 ।।
58. हिरण्मयीति नाम निरुच्यते---आधारेत्यादि। द्विषट्‌कान्तम्; द्वादशानत्म्। सूर्यस्येव भासा यस्या इति आकारान्तः शब्दः।
उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ।। 59 ।।
59. शब्दसंकल्पाः पश्यन्त्यादयः। तदात्मनोदेमीति इत्थंभूतलक्षणे तृतीया। निरुक्त्यन्तरं प्रकृतेरित्यादि।
हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ।। 60 ।।
60. - - - - - - - - - - - -
स्तुत्वा समाप्रुवन् कामं योगिनो योगमुत्तमम्।
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः ।। 61 ।।
61. ओं हिरण्मय्यै नमः।
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ।। 62 ।।
62. इत आरभ्य सप्त श्लोकाः लक्ष्मीनामनिर्वचनपराः। दर्शनार्थात् लक्षधातोर्निर्वचनमाह---साक्षिणीति। लक्ष्मीश्चेति। हरेः लक्ष्मीः सर्वसंपदित्यर्थः। अत्र "श्रद्धया देवो देववमश्नुते" "अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इत्यादिकं भाव्यम्। लक्ष्यमिति। सर्वप्रमितेः प्रमेयेत्यर्थः।
ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ।। 63 ।।
63. क्षिप्‌धातोर्निर्वचनमाह---क्षेपणीति। तस्यैव विवरणं त्रिप्रेरणीति। कायवाङ्‌मनसानां प्रेरयित्रीत्यर्थः। अत्र "ला दाने" "क्षिप प्रेरणे" इति धातुद्वयान्निष्पत्तिरभिप्रेता। तथाहं ज्ञानस्वरूपा लक्षणीया।
लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ।। 64 ।।
64. लये इति। सृष्टिस्थितिसंहारेषु प्रकृतिं प्रेरयामीति लक्ष्मीरहम्। लक्ष्यन्ते प्रमीयन्ते इति लक्षणानि सर्वे भावाः। तेषां क्षेपणी इति निरुक्तिः।
अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ।। 65 ।।
65. लक्षमित्यादि निरुक्त्यन्तरम्। तथा लामीत्यपि। लीना भवामीत्यर्थः। क्षिपामि; प्रेरयामि। लीदातुं क्षिपधातुं चादाय निर्वचनम्।
क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ।। 66 ।।
66. निर्वचनान्तरमाह---क्षिपामीति। क्षमधातोः व्युत्पत्तिमाह---क्षमे इति। मीशब्दव्युत्पत्तिमाह---मिमे इत्यादिना।
इत्येतान् मयि दृष्ट्वार्थान् परमर्षिरुदारधीः।
{28}लक्ष्मीर्लक्षय मेत्येव कपिलो मुनिरुक्तवान् ।। 67 ।।
67. हे लक्ष्मीः मा मां लक्षय कटाक्षयेति कपिलो मुनिरुवाचेत्यर्थः।
{28.लक्ष्मीलक्षणलक्ष्मीं मां I. }
पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः।
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः ।। 68 ।।
68. ओं लक्ष्म्यै नमः।
तनुर्ज्ञानमयी सा मे {29}विष्णोर्हृदि च वर्तते।
आत्मज्ञानमिदं पुण्यं {30}योगज्ञानमिदं परम् ।। 69 ।।
69. अनपगामिनीति नाम निर्वक्ति---तनुरिति। विष्णोरनपायित्वात् अनपगामिनीति नाम।
{29. विष्णोरिव विवर्तते I. }
{30. योगरूपसमन्वितम् I. }
{31}भानामिव गता कान्तिः शीतरश्मौ सदा तथा।
शक्तिः शक्तिमतो विष्णोः स्थिताहमनपायिनी ।। 70 ।।
70. - - - - - - - - - - - -
{31. I. omits this line. }
अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ।। 71 ।।
71. निर्वचनान्तरमाह---अपश्चेति। अप्सु द्रवाख्यो गुणोऽहम्। तस्मात् ताभ्यो नापैमीत्यर्थः। निर्वचनान्तरमाह---अपावाहयमिति। अपोपसर्गात् वाहयतेर्लङ्।
सारस्वते जले पूर्वं {32}विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ।। 72 ।।
72. विश्वामित्रेणोक्ता सती तत्प्रतिद्वन्द्विनं वसिष्ठं जले सहमपोवाहेति लिट्।
{32. विश्वामित्रे सितात्मनि I. }
ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते।
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति ।। 73 ।।
73. एवमपगामिनीशब्दं निष्पाद्याधुना तद्विपर्ययवाचितामाह---ऋषय इति। शात्रवात् पाहीति मां प्राहुरित्यन्वयः।
साहं सरस्वती भूत्वा तमपोवाह शात्रवात्।
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् ।। 74 ।।
74. अहं तं वसिष्ठं शात्रवादपोवाह अपावाहयम्; अपासारयमित्यर्थः।
नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ।। 75 ।।
75. ओं अनपगामिन्यै नमः। अहं बुद्ध्यादिरूपे पुरे अश्वरूपा पूरूपा वाहनी चास्मि। तत्र वसामि च। बुद्धिं नानाविषयेष्वाकृष्य धावनात् अश्वा। प्राणावासस्थानभूता पूः। आत्मतया शरीरवहनात् वाहनी। अतः अश्वपूर्वेति नाम।
बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना।
अश्वानां {33}हेषवन्नादं योगारम्भे सरोमि च ।। 76 ।।
76. पक्षान्तरमाह---अश्वानामिति। पूर्वं योगारम्भे अश्वेव नदामि। अश्वपूर्वायै नमः।
{33. हेषणानादं I. }
नाडीमध्यं समायाता करोमि रथवद् ध्वनिम्।
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी ।। 77 ।।
77. रथमध्यानामनिर्वचनम्---नाङीति। हस्तिनादप्रबोधिनीति नाम निर्वक्ति---व्योमेत्यादि। ओं अश्वपूर्वायै नमः। ओं रथमध्यायै नमः। ओं हस्तिनादप्रबोधिन्यै नमः।
योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ।। 78 ।।
78. - - - - - - - - - - - -
अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः।
शृणोमि करुणां वाचं शृणामि दुरितं सताम् ।। 79 ।।
79. श्रीनामनिर्वचनमारबते---शृणोमीत्यादिना। "श्रु श्रवणे" "शॄ हिंसायाम्""शॄ विस्तारे" इति धातवः।
शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया {34}चेप्सिता सुरैः ।। 80 ।।
80. श्रद्धयेति। अस्मात् शकारं रेफं चादाय ईप्सितपदादीकारं संयोज्य श्रीशब्द इति भावः।
{34. सेविता F. I. }
शान्ताधारपदस्थास्मि {35}पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ।। 81 ।।
81. शान्तेत्यादि। शान्तापदात् शकारं रन्तीपदात् रेफं प्रेरणीपदादीकारं चादाय श्रीशब्द इति भावः। अर्णसां वर्णानां सृष्टिरिति वैखरीरूपमुच्यते।
{35. विश्वतन्त्री I. }
चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी{36} रेमि रामि च ।। 82 ।।
82. श्रयामि विष्णुम्। श्रयणीया; शक्तिभिः जयादिभिः सेव्या। रेमि; आश्रितपापानि क्षिणोमि। रामि; सर्वान् कामान् ददामि।
{36. शक्नोमि A. }
शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता।
इति त्रय्यन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा ।। 83 ।।
83. शक्तेः प्रकाशयित्री। शंतमा; मङ्गलतमा। रतिरूपा। ईप्सिता; प्रार्थनीया। अत्रापि पदत्रयात् शकाररेफेकारान् संयोज्य श्रीशब्दनिष्पत्तिरभिप्रेता।
{37}अपि नाथो विभूतिर्मे त्रैलोक्यं सेश्वरामरम्।
परां मदीयवर्णस्य कलां नार्हति षोडशीम् ।। 84 ।।
84. - - - - - - - - - - - -
{37. अहं नाथो विभूतिश्च त्रैलोवयं च सुरेश्वर I. }
आद्ये पदत्रये वर्णाः श्रींह्रीमोमिति मन्मयाः।
{38}एष वैभिश्चतुर्भिस्तैर्मदीयं धार्यते वपुः ।। 85 ।।
85. एष वेति। ओं श्रियै नमः इति मन्त्रश्चेत्यर्थः। एभिश्चतुर्भिरिति। श्रीं, ह्रीं, ओं, ओं श्रियै नमः इत्येतैश्चतुर्भिरित्यर्थः।
{38. एषु A. G. }
एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ।। 86 ।।
86. - - - - - - - - - - - -
प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम्।
अन्योन्यफलितं सर्वैरशेषैरदिकं गुणै ।। 87 ।।
87. - - - - - - - - - -
{39}मिमे मीयेऽखिलैर्मानैर्मयि माति जगत् क्षये।
आत्मेश्वरवती चाहं व्याप्तायां मयि मेति धीः ।। 88 ।।
88. मेति नामनिर्वचनम्---मिमे इत्यादिना। सर्वं प्रमिनोमि। मीये; प्रमीये। माति; परिमितं भवित। आत्मेत्यादि; अस्मच्छब्दान्निष्पन्नं मशब्दमादायार्थ उपवर्ण्यते। णेति धीरिति। आहमर्थधीरित्यर्थः।
{39. शुष्मिणो मेऽखिलैर्मायैर्महिमा हि जगत्क्षये I. }
आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ।। 89 ।।
89. आत्मवदिति। म इव मेति व्युत्पत्तिरिति भावः। ओं मायै नमः।
प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम्।
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः ।। 90 ।।
90. देवीशब्दं निर्वक्ति---प्रदात्रीति। दाधातुमवधातुं चादाय निरुच्यते। देवस्य दयितेति। पुंयोगे ङीषिति भावः। ओं देव्यै नमः।
पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः।
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा ।। 91 ।।
91. "कां सोस्मिताम्" इत्यत्र कामिति पृथक् पदम्। केति नाम निर्वक्ति---शब्दाये इति। शब्दं करोमीत्यर्थः।
काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ।। 92 ।।
92. काये इति। प्रतिपाद्ये इत्यर्थः। किंशब्दमादायाह---अन्विष्ये इति। क इति ब्रह्मणो नामेति मत्वाह---ब्रह्मेत्यादि। ओं कायै नमः।
सृजामि विविधान् {40}भावान्स्वाध्यायाद्यायतत्परान्।
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः ।। 93 ।।
93. - - - - - - - - - - - - -
{40. सर्वान् A. B. C. }
पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः।
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् ।। 94 ।।
94. सोस्मितेति नाम निर्वक्ति---उदितीति। "तस्योदिति नाम" इति श्रुत्यर्थोऽत्राभिप्रेतः। तस्य ब्रह्मणो या विकस्तिर्विकासो बृहत्त्वमिति यावत्; सा विकस्तिरेव स्मितम्। उस्मितमिति रूपम्। तेन सहिता सोस्मिता। भगवतो नारायणस्य यत्‌ बृहत्त्वं, तत् एतदायत्तमित्युक्तं भवति। यदाहुः---"अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्" इति। ओं सोस्मितायै नमः।
मय्यायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत्{41} ।। 95 ।।
95. - - - - - - - - - - - - - - - -
{41. सहेत् A. B. C. }
हिता च रमणीया च मदीया प्रकृतिः परा।
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः ।। 96 ।।
96. हिरण्यप्राकारेति नाम निरुच्यते---हिता चेति। प्राकारशब्दः प्रकृतिपरः। ओं हिरण्यप्राकारायै नमः।
{42}अतो हिरण्यप्राकारामृषयो मामुपासते।
दशाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ।। 97 ।।
97. - - - - - - - - - - - -
{42. I. omits this line. }
आरादशेषदोषाणां द्राविणी मामुपेयुषाम्।
अधोमुखाच्छिरःपद्मात् स्रुतयामृतथारया ।। 98 ।।
98. आर्द्रेति नाम निर्वक्ति---आरादिति। दूरे इत्यर्थः। निर्वचनान्तरम्---अधोमुखादिति।
अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च।
ज्वलामि {43}सर्वभूतान्तर्गगने परमे सदा ।। 99 ।।
99. ज्वलन्तीति नाम निर्वक्ति---ज्वलामीति।
{43. भूतगगने पराच्च I. }
शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ।। 100 ।।
100. शब्दब्रह्मस्वरूपत्वमाह---शुद्धेति। अशिखेति परारूपमुच्यते। पश्यन्तीमध्यमावैखरीभेदेन त्रिशिखा। स्पर्शात्मना पञ्चविंशतिशिखा।
सप्तधा च पुनस्रेधा ज्वलामि वपुषि स्थिता।
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ ।। 101 ।।
101. यादिसान्तधारणाव्यूहात्मना सप्तधा। हळक्षात्मना त्रिधा चेत्यर्थः। ओं आर्द्रायै नमः। ओं ज्वलन्त्यै नमः।
हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ।। 102 ।।
102. तृप्तेते नाम्नो निर्वचनमाह---हराविति। प्राकृतैर्विनेति। अप्राकृतैरित्यर्थः। ओं तृप्तायै नमः।
तां मां तृप्तामनुध्याय मुनयो {44}वेदपारगाः।
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् ।। 103 ।।
103. - - - - - - - - - - - - -
{44. योग F. G. I. }
षडक्षरो ह्य यं मन्त्रस्तर्पयत्यखिलं जगत्।
तर्पयामि गुणैर्विष्णुमात्मानं तद्‌गुणैरपि ।। 104 ।।
104. तर्पयन्तीति नामाह---तर्पयामीति। तर्पणं च बहूनां बहुभिः साधनैर्वर्णयति---गुणैरित्यादिना।
द्विसप्तत्या सहस्रेण नाडीनां देहसागरम्।
तर्पयामि रसैर्नित्यं {45}प्राणानां प्रेरणावशात् ।। 105 ।।
105. देहे द्वासप्ततिर्नाड्यः योगशास्रप्रसिद्धाः। अत्र देहस्य सागरत्वेन, नाडीनां नदीत्वेन, प्राणानां वायुत्वेन, रसानां जलत्वेन चाध्यवसायो विवक्षितः।
{45. प्राणायामवशात् सदा I. }
सौषुम्नेनाद्वना नित्यं परं भावमुपेयुषाम्।
{46}बिम्बभावमुपेताहं विमले योगदर्पणे ।। 106 ।।
106. प्रकारान्तरमाह---सौषुम्नेनेति।
{46. विश्व I. }
आत्मबिम्बसमुद्भूतैः परमार्थैः सुधारसैः।
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् ।। 107 ।।
107. - - - - - - - - - - - - -
प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा।
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः ।। 108 ।।
108. प्रकारान्तरमाह---प्रकृत्यादीति। सदा परिणामोन्मुखमित्यनेन प्रकृतेः नित्यपरिणामस्वभावत्वमुक्तं भवति।
आपगाभिरिवाम्भोधिं प्राणाधानेन{47} तर्पये।
स्नेहेनेव सदा दीपं प्राणिनां करणानि च ।। 109 ।।
109. तात्पर्यान्तरमाह--स्नेहेनेति।
{47. प्राणदानेन B. C. F. I. }
निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना।
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः ।। 110 ।।
110. - - - - - - - - - - - -
सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं{48} जगत्।
पद्यमानं {49}मिनोतीति कालं पद्मं प्रचक्षते ।। 111 ।।
111. ओं तर्पयन्त्यै नमः। पद्मे स्थितेति नाम निर्वक्ति---पद्यमानमिति। सकलं प्रमेयमित्यर्थः। मिनोति; परिच्छिनत्ति। ओं पद्मे स्थितायै नमः।
{48. अनिशं A. B. I. }
{49. मनोतीति A. B. }
कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा।
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् ।। 112 ।।
112. - - - - - - - - - - - - - - -
पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा।
पद्माकारैस्च वर्णैर्मे भूषिता तनुरुत्तमैः ।। 113 ।।
113. पद्यमानत्वात् पुंप्रधानेश्वराः पद्मशब्दार्थाः। तात्पर्यान्तरं पद्माकारैरिति। ओं पद्मवर्णायै नमः।
पद्मवर्णेति मां स्तुत्वा शास्रवैशद्यमाप्नुयात्।
उद्गतः प्रथमो योंऽशुः क्षरसागरमन्थने ।। 114 ।।
114. चन्द्रेति नाम निरुच्यते---उद्गत इति। ओं चन्द्रायै नमः।
चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः।
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते ।। 115 ।।
115. - - - - - - - - - - - - -
यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः।
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः ।। 116 ।।
116. - - - - - - - - - - - - -
प्रकृष्यमाणा बासो मे सर्वावस्थासु सर्वदा।
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् ।। 117 ।।
117. प्रकृष्यमाणा इत्यादि। प्रभासानामनिर्वचनमत्र। भासां प्रकर्षमेवाह--येनेति। सूर्यादिर्येन तेजसान्येषां तेजस्तिरयितुमिच्छति, तदपि मत्तेजसा तिरोधीयते।
यथा हि स्वशिरश्छाया स्वपदा नैव लङ्‌घ्यते।
सा पदादप्रतो याति येन लङ्घनमिच्छति ।। 118 ।।
118. अप्रधृष्यत्वे लौकिकं निदर्शनमाह---यथेति।
नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ।। 119 ।।
119. प्रकारान्तरमाह---नित्येत्यादि। श्रद्धामित्यादि। एतच्च छान्दोग्ये प्रसिद्धम्। द्वितीयान्तानां श्रद्धामित्यादीनाम् अस्यन्तीत्युत्तरेणान्वयः।
भोग्यशक्तिप्रभा एता अस्यन्ती षट्‌सु वह्निषु।
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः ।। 120 ।।
120. षट्‌सु वह्निषु; स्वर्गादिष्वित्यर्थः। प्रभा अस्यतीति व्युत्पत्तिः। ओं प्रभासायै नमः।
सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः।
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् ।। 121 ।।
121. यशसेति नाम निरुच्यते---यश इति।
मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ।। 122 ।।
122. तच्च यशश्च नानारूपं भवति। तदेवाह---यशस इत्यादिना।
अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रो {50}यशोदो जपतो भवेत् ।। 123 ।।
123. ओं यशसायै नमः। एतदनुसारेण "चन्द्रां प्रभासां यशसां ज्वलन्तीम्" इति सूक्तपाठः।
{50. यशस्तेजःप्रदो C. }
स्वर्गपर्जन्यभू पुंस्रीवैश्वानरविभागतः।
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् ।। 124 ।।
124. ज्वलन्तीति नाम निर्वक्ति---स्वर्गेत्यादिना।
षोढात्मानं विभज्याहमग्निभावमुपागता।
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्जवला ।। 125 ।।
125. भोक्तृशक्तीत्यनेन भोग्यशक्तितात्पर्यकप्रभासानामवैलक्षण्यं प्रतिपादितं भवति। ओं ज्वलन्त्यै नमः।
अग्नीषोमविभागेन विश्वमेवं {51}भजाम्यहम्।
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् ।। 126 ।।
126. - - - - - - - - - - - - -
{51. भवाम्यहम् A. B. G. }
देवेन हरिणा जुष्टा सदा देवैश्च सेविता।
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः{52} ।। 127 ।।
127. देवजुष्टानामनिर्वचनं देवेनेत्यादिना। देवशब्दस्येन्द्रियपरत्वमादायोच्यते---देवाश्चेति।
{52. प्रत्यवस्थितान् A. B. }
परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः।
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् ।। 128 ।।
128. - - - - - - - - - - - - -
विषयेषु प्रवर्तन्ते श्रोत्रवाङ्मनआदयः।
{53}वृत्त्यर्थ सेवितामक्षैर्देवजुष्टां तु मां विदुः ।। 129 ।।
129. देवशब्दस्येन्द्रियपरत्वादाह---श्रोत्रेत्यादि। वृत्त्यर्थे; विषयव्यापृतिरूपार्थे। अक्षैः; इन्द्रियैः। ओं देवजुष्टायै नमः ।
{53. प्रत्यक्षे I. }
सर्वशक्तिप्रदामन्तर्देवजुष्टामबस्थिताम्।
शश्वन्मामनुसंचिन्त्य देवान्‌ विजयतेऽखिलान् ।। 130 ।।
130. - - - - - - - - - - - - -
मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ।। 131 ।।
131. उदारानामनिरुक्तिः मत्त एवेत्यादिना। ओं उदारायै नमः।
विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति ।। 132 ।।
132. - - - - - - - - - - - - -
तनोमि पञ्च कृत्यानि ताये च जगदात्मना।
{54}तां मां तामिति तत्त्वज्ञाः प्राहुर्वेदान्तपारगाः ।। 133 ।।
133. "तां पद्मनेमीम्" इत्यत्र तामिति पृथक् नामाभिप्रेत्य निर्वचनमाह--तनोमीति। पञ्च कृत्यानि सर्गादीनि। ताये; विस्तृता भवामीत्यर्थः। "तायृ संतानपालनयोः" इति धातुः। ओं तायै नमः।
{54. तां तु मामिति I. }
पञ्चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम्।
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा ।। 134 ।।
134. पद्मनेमीनामनिर्वचनम्---प्रकृतिमित्यादिना। नयामीति पदधात्वर्थः। नेमिशब्दार्थः बहिरिति। ओं पद्मनेम्यै नमः।
कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ।। 135 ।।
135. - - - - - - - - - - - - -
{55}आदित्यं वर्णयाम्येका तेजसा यशसा श्रिया।
आदित्यस्था च वर्णात्मा भूत्वा दिव्या त्रयीमयी ।। 136 ।।
136. आदित्यवर्णेति नामाह---आदित्यमिति। वर्णयामि; वर्णवन्तं तेजस्विनं करोमि। वर्णशब्दस्याक्षरपरत्वमभिसंधायाह---वर्णात्मेति।
{55. आदित्यवर्णं B. C. }
प्रकाशयन्ती सर्वार्थानतीतानागतानपि।
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् ।। 137 ।।
137. चक्षुरिति। "चक्षुर्मित्रस्य वरुणस्याग्नेः" इति श्रुत्यर्थो ज्ञातव्यः।
आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ।। 138 ।।
138. आदौ त्यः सिद्ध इत्यर्थं मत्वाह---आदिभूत इति।
तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी{56}।
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः ।। 139 ।।
139. - - - - - - - - - - - - -
{56. विनादिनी F. }
तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ।। 140 ।।
140. तत्र ब्रह्मणीति। प्रणवशिखायामित्यर्थः। आदित्यवर्णजातं प्रणवाज्जातं सर्वमपि वाङ्‌मयमित्यर्थः। ओं आदित्यवर्णायै नमः।
शान्तापश्यादिरूपेण वैखरी वर्णनादिनी।
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता{57} ।। 141 ।।
141. - - - - - - - - - - - - - - -
{57. दुघास्मि सा A. B. }
एतानादित्यवर्णेति {58}मय्यर्थानृषयो विदुः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः ।। 142 ।।
142. - - - - - - - - - - - -
{58. I. omits six quarters from here. }
किरन्ती किरणान् लोके {59}किरन्ती चोत्तरोत्तरम्।
वायुना देवमित्रेण मणिनाधारवह्निना ।। 143 ।।
143. कीर्तिनामनिर्वचनम्--किरन्तीत्यादि। कॄ विक्षेपे। पिक्षेपः किरणानां शब्दानां च। तत्र शब्दानामाह---उत्तरोत्तरमिति। पश्यन्तीमध्यमावैखरीरूपेणेत्यर्थः। श्रुतौ "देवसखः" इति व्यत्ययेन तृतीयार्थे प्रथमा। मणिनेत्यस्य विवरणम्---आधारवह्निनेति।
{59. किरती A. B. }
शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम्।
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् ।। 144 ।।
144. श्रुतौ "उपैतु" इत्यस्यार्थवर्णनम्---भजामीति। ओं कीर्त्यै नमः।
कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ।। 145 ।।
145. - - - - - - - - - - - - -
{60}ऋद्धास्म्यहं गुणैविष्णोरर्धयामि च योगिनः।
पत्रेषु योगपद्मानामाधारान्तरचारिणाम् ।। 146 ।।
146. ऋद्धिरिति नाम निर्वक्ति---ऋद्धेति। समृद्धेत्यर्थः। अर्धयामि; प्रीणयामि। वृद्धिमेवाह---पत्रेष्विति।
{60. ऋध्याम्यहं I. }
उत्तरोत्तरमृथ्यामि {61}भजन्ती विस्तृतिं पराम्।
{62}ऋद्धिं वृद्धास्ततः प्राहुर्योगिनो योगदीपिनीम् ।। 147 ।।
147. ऋध्यामि; वृद्धिं प्राप्नोमि। ओं ऋद्ध्यै नमः।
{61. भजेऽहं I. }
{62. I. omits five lines from here. }
गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने।
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती ।। 148 ।।
148. गन्धशब्दो रूपरसादीनामप्युपलक्षकस्तदाश्रयपृथिव्यादीनि लक्षयति। "अन्नं ब्रह्मेति व्यजानात्" इत्यत्रान्नमयकोशो ब्रह्मज्ञानद्वारत्वेन श्रुतौ विहितः। "पृथिवी वा अन्नम्" इति श्रुतिरेवान्नशब्दं पृथीवीपरमाचष्टे। अतो देवीज्ञाने पृथिव्यादयो द्वारबूयमापद्यन्ते। ओं गन्धद्वारायै नमः।
गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः।
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् ।। 149 ।।
149. - - - - - - - - - - - - -
शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ।। 150 ।।
150. - - - - - - - - - - - - -
ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति।
ज्ञाता कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् ।। 151 ।।
151. तत्; अपनयनम्।
शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम।
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा ।। 152 ।।
152. तदभावा; धर्षणाभावरूपेत्यर्थः। ओं दुराधर्षायै नमः।
दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः{63} ।। 153 ।।
153. - - - - - - - - - - - - -
{63. भीतिविमोचनः I. }
{64}नित्येन विष्णुना पुष्टा नित्यं पुष्टा च सद्गुणैः।
विषयैर्मे विना पुष्टा नित्यं संवित् परा तनुः ।। 154 ।।
154. नित्यपुष्टानामनिर्वचनम्---नित्येनेत्यादिना। सद्गुणैः; ज्ञानशक्त्यादिगुणैः। विषयैर्विनापि मे संविद्रूपा परा तनुः पुष्टेत्यन्वयः। ओं नित्यपुष्टायै नमः।
{64. नित्या च I. }
सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ।। 155 ।।
155. - - - - - - - - - - - - -
अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्रिक्रियापराः ।। 156 ।।
156. करीषिणीति नाम निर्वक्ति---करिण इति। कर्तार इति। करिन्‌शब्दः कृधातोर्निष्पन्न इति भावः। त्रिशुद्धाः; कायवाङ्मनसशुद्धाः। त्रिक्रियाः; यजनदानाध्ययनरूपाः।
तानिच्छामि सदा द्रष्टुं मनसा {65}यामि तान् सदा।
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः ।। 157 ।।
157. इच्छार्थकमुधातुमादायार्थमाह---तानिच्छामीति। "इष गतौ" इत्येतदबिसन्धायाह--मनसा यामीति। करिशब्दस्य गजपरत्वप्रसिद्धिमभिप्रेत्याह--गजेन्द्रा इति। ओं करीषिण्यै नमः।
{65. धारितान् B. }
तैरीश्वरा सदा यामि कर्त्री चान्तवती{66} सदा।
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते ।। 158 ।।
158. - - - - - - - - - - - - -
{66. अन्नवती I. }
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः।
भूतानामीश्वरा चास्मि {67}प्रियेणेशेन सर्वदा ।। 159 ।।
159. ईश्वरीति नाम निराह---भूतानामित्यादिना। ईश्वरेति; ईष्टे इत्यर्थे "स्थेशभास" इत्यादिना वरचि रूपम्। भूतशब्दो निखिलचेतनाचेतनपरः। प्रियेणेशेनेति सहयोगे तृतीया। वनिता; ध्यातेत्यर्थः। ओं ईश्वर्यै नमः।
{67. प्रिया चेशेन I. }
वरदा भुवनेशाना वनिता{68} च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ।। 160 ।।
160. - - - - - - - - - - - - -
{68. भुवनेशानामीडिता I. }
ईश्वरीत्येव मे नाम तेन वेदे निरूपितम्।
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः ।। 161 ।।
161. - - - - - - - - - - - - -
भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे।
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः ।। 162 ।।
162. - - - - - - - - - - - - -
मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ।। 163 ।।
163. मनसः काम इति नाम्नो निर्वचनान्तरमाह---मनोरथानामिति। ओं मनसः कामाय नमः।
मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ।। 164 ।।
164. - - - - - - - - - - - - -
लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ।। 165 ।।
165. वाच आकूतिरिति नाम निर्वक्ति---लौकिक्य इति।
मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया।
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् ।। 166 ।।
166. अभिप्रेत्येति। आकूतिशब्दोऽभिप्रायपर इति भावः। सर्ववचसां तात्पर्यभूमिरित्यर्थः। ओं वाच आकूत्यैनमः।
तेन तेन प्रकारेण वाचामुच्चारणक्रमे।
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता ।। 167 ।।
167. - - - - - - - - - - - -
अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद्‌ द्वेधा यत् प्रमाणेन दृश्यते ।। 168 ।।
168. सत्यमिति नाम निराह---सच्चेति। "सच्च त्यच्चाभवत्" इति श्रुतिरत्राभिप्रेता। ओं सत्याय नमः।
तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रवन्।
षडक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः ।। 169 ।।
169. - - - - - - - - - - - - -
पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ।। 170 ।।
170. पशूनां रूपमिति नाम निराह---पश्यन्तीति। पशुशब्दो जीवपरः। तिसृभिर्विधाभिरिति। देवतिर्यङ्भनुष्यरूपाभिः, बद्धमुक्तनित्यरूपाभिर्वेत्यर्थः।
तद्रूपमहमेवास्मि चिद्धनानन्दरूपिणी।
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः ।। 171 ।।
171. - - - - - - - - - - - - -
आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ।। 172 ।।
172. आग्नेयी शक्तिः; भोक्तृशक्तिः। ओं पशूनां रूपाय नमः।
नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः।
त्रैगुण्यं {69}षड्‌गुणोत्थं च द्विधान्नं परिकीर्तितम् ।। 173 ।।
173. अन्नस्य यश इति नाम निराह---त्रैगुण्यमिति। त्रैगुण्यमन्नं प्राकृतभोग्यजातम्। षाड्‌गुण्यमन्नम् अप्राकृतभोग्यजातम्; यदभिप्रेत्य "अहमन्नादोऽहमन्नादोऽहमन्नादः" इति मुक्तानां गानं श्रुतिराह।
{69. षाड्‌गुणोत्थं B. F. }
त्रैगुण्यमनुबद्धानामितरेषामथेतरत्।
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् ।। 174 ।।
174. - - - - - - - - - - - - -
तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता।
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः ।। 175 ।।
175. - - - - - - - - - - - - -
सोमशक्तिर्मदीया या सा हि जाता तथा तथा।
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः ।। 176 ।।
176. सोमशक्तिः; भोग्यशक्तिः। ओं अन्नस्य यशसे नमः।
नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ।। 177 ।।
177. "मातरं पद्ममालिनीम्" इत्यत्रत्यं मातेति नाम निर्वक्ति---मिमे इति। भुवनपदमन्त्रतत्त्वकलावर्णाख्यान् षडध्वनः परिच्छिनद्मीत्यर्थः।
मितिश्च सक्वमानानां माति चान्तर्ममाखिलम्।
तारयामि जगत् सर्वमपारं{70} भवसागरम् ।। 178 ।।
178. मितिः; ज्ञानम्। माति; परिमितं वर्तते। एवं माशब्दार्थमुक्त्वा तृशब्दार्थमाह---तारयामीति। "तॄ प्लवनतरणयोः" इति धातुः।
{70. सर्वं परमं I. }
उत्तीर्णा सर्वदोषाब्देः प्लवे भूतेषु चेतसा।
प्लावयामि जगद्विश्वं{71} पयसा मेघतां गता ।। 179 ।।
179. प्लवनार्थमाह--प्लावयामीति। ओं मात्रे नमः।
{71. सर्वं I. }
प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ।। 180 ।।
180. - - - - - - - - - - - - -
पञ्चाक्षरो ह्ययं मन्त्र सर्वभोगसमृद्धिदः।
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका ।। 181 ।।
181. - - - - - - - - - - - - -
मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ।। 182 ।।
182. सुषुम्नापर्यायनामान्याह---मुक्तियानमिति।
संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते।
ऊर्ध्वं चाधस्च या भित्त्वा प्रतिजीवं {72}वपुर्गतिम् ।। 183 ।।
183. - - - - - - - - - - - - - - - -
{72. पुनर्गतिम् B. F. }
व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ।। 184 ।।
184. परममाकाशम्; ब्रह्मरन्ध्रम्।
साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम्।
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर ।। 185 ।।
185. वस्तिः; नाभेरधोबागः।
आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ।। 186 ।।
186. द्वात्रिंशदिति। योगशास्रप्रसिद्धानि आधारपद्मानि।
प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ।। 187 ।।
187. द्वत्रिंशदिति। योगशास्रप्रसिद्धानि आधारपद्मानि।
अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः।
पोष करोमि सर्वेषां रूपेण यशसा श्रिया ।। 188 ।।
188. पुष्करिणीनाम निर्वक्ति---पोषमिति। पुष्‌धातुं कृधातुं चादाय निरुक्तिर्विवक्षिता।
पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ।। 189 ।।
189. पद्मपर्यायात् पुष्करशब्दात् व्युत्पत्तिमाह--पुष्करमिति। ओं पुष्करिण्यै नमः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः।
इष्टास्मि सर्वदेवानां संगता हरिणा सदा ।। 190 ।।
190. यष्टिरिति नामाह---इष्टास्मीति। सर्वदेवैः पूजितेत्यर्थः।
दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ।। 191 ।।
191. यष्टिशब्दस्य दण्डार्थकत्वाभिप्रायेणाह---अवलम्बनमिति। ओं यष्टये नमः।
यष्टिरित्येवमृषयो मां ततः संप्रजक्षते।
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः ।। 192 ।।
192. - - - - - - - - - - - -
पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया।
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् ।। 193 ।।
193. पिङ्गलानामाह---पिङ्गायेति। "ला दाने" इति धातुमभिसंधायाह---अदामिति। ओं पिह्गलायै नमः।
यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान्।
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः ।। 194 ।।
194. - - - - - - - - - - - - -
तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः।
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः ।। 195 ।।
195. तुष्टिनामनिर्वचनम्---तोषयामीत्यादिना। ओं तुष्टये नमः।
तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः।
पडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः{73} ।। 196 ।।
196. - - - - - - - - - - - - -
{73. कारकः I. }
सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ।। 197 ।।
197. सुवर्णेति नाम निराह---सुवर्णयामीति। सुवः नयामीति छेदः। आर्षं णत्वम्। अपरं सुवः स्वर्गः। परं सुवः परमपदम्। सु शोभनाः वर्णा वाचकाः यस्या इति व्युत्पत्तिमाह---अनिदमित्यादि।
नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम्।
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता ।। 198 ।।
198. अर्थान्तरमाह---शोभनमित्यादि। ओं सुवर्णायै नमः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः।
{74}हैमं च पर्वतं दिव्यं चन्द्रार्कग्रहपूरितम् ।। 199 ।।
199. हेममालिनीति नाम निरुच्यते---हैममिति। महामेरुमित्यर्थः। ओं हेममालिन्यै नमः।
{74. हेमनं B. C. }
धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ।। 200 ।।
200. - - - - - - - - - - - - -
अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः।
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् ।। 201 ।।
201. सूर्येति नाम निर्वक्ति---हितायेति। प्रसूये इति सूशब्दार्थः।
रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः।
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् ।। 202 ।।
202. रमयामीति रेफार्थः। यथार्हतः; अधिकारिभेदेनेत्यर्थः। नियच्छामीति यकारार्थः।
सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले।
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः ।। 203 ।।
203. अर्थान्तरमाह--सूरिभ्यश्चेति। हितेति; यत्प्रत्ययार्थ इति भावः। ओं सूर्यायै नमः।
षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः।
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता ।। 204 ।।
204. - - - - - - - - - - - - - -
कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ।। 205 ।।
205. - - - - - - - - - - - - -
न तावदेव माहात्म्यमेषां चिन्त्यं विपश्चिता।
{75}आ मोक्षान्निर्विचारेण सर्वा सर्वफलप्रदा ।। 206 ।।
206. - - - - - - - - - - - - -
{75. आमोक्षं I. }
नामावली यतो ह्यस्याः श्रीरहं देवता परा।
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ ।। 207 ।।
207. - - - - - - - - - - - - -
वसुधायां यथा भोगा यथा कामाः सुरद्रुमे।
महिमानो यथा गोषु तेजांसि ब्राह्नणे यथा ।। 208 ।।
208. - - - - - - - - - - - - -
यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ।। 209 ।।
209. - - - - - - - - - - - - -
यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ।। 210 ।।
210. - - - - - - - - - - - - -
सैषा वेदविदां निष्ठा सैषा {76}तन्त्रविदां गतिः।
मां प्रपद्येत सततं सूक्तेनानेन मानवः ।। 211 ।।
211. शैषेत्यस्य प्रतिसंबन्धी यदिति शब्द अध्याहार्यः। मां प्रपद्येतेति यत् सैषेति निष्ठाशब्दानुगुणः स्रीलिङ्गनिर्देशः; "शैत्यं हि यत्‌ सा प्रकृतिर्जलस्य" इतिवत्।
{76. मन्त्र I. }
सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च।
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् ।। 212 ।।
212. - - - - - - - - - - - - -
प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम्।
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः ।। 213 ।।
213. इत्येवमिति। वक्ष्यमाणरीत्येत्यर्थः।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम्।
मया सर्वेषु भूतेषु यथाशक्ति यथामति ।। 214 ।।
214. प्रातिकूल्यमित्यादिना सप्तदशेऽध्याये प्रोक्तान्यङ्गान्यत्र स्मार्यन्ते।
अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ।
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः {77}सापि नश्यतु ।। 215 ।।
215. - - - - - - - - - - - - -
{77. साधु I. }
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः।
उपायाश्चोदिताः शास्रैर्न मे स्युस्तारकाश्रयः ।। 216 ।।
216. त्रयः कर्मज्ञानभक्त्यादय उपाया इत्यर्थः।
तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु{78} तत्।
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः ।। 217 ।।
217. तथापीति। चोदितानामनुपायत्वेऽपीत्यर्थः। अत्र; उपायेषु। आज्ञापरिपालनमिति। "ब्राह्नणा विविदिषन्ति यज्ञेन दानेन तपसानाश केन" "ओमित्येवं ध्यायथ" "ओमित्यात्मानं युञ्जीत" "मुमुक्षुर्वै शरणमहं प्रपद्ये" "नियतं कुरु कर्म त्वम्" "मामेकं शरणं व्रज" "प्रपद्येन्नियतः श्रियम्" इत्यादिविधिरूपाज्ञापरिपालनमित्यर्थः।
{78. हि I. }
छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम्।
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः ।। 218 ।।
218. छायामिति; त्वत्कृपामिति यावत्।
त्वमेव सर्वशास्रेषु शरणत्वेन गीयसे।
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् ।। 219 ।।
219. - - - - - - - - - - - - - - -
{79}तत् सर्वं तव विन्यस्तं शुभयोः पादपद्मयोः.
उपेयायास्तव प्राप्त्यै त्वामुपायं तथा वृणे ।। 220 ।।
220. सर्वं विन्यस्तमित्यनेनात्मात्मीयनिक्षेप उच्यते।
{79. F. omits six lines from here. }
उपायो भव मे देवि शरणं भव मेऽम्बुजे।
प्लुष्य मेदुरितं सर्वं पुष्य मे त्वद्गतां धियम् ।। 221 ।।
221. पुष्य धियमित्यनेन फलभक्तिः प्रार्थ्यते।
इत्येवमनुसंधाय मां प्रपद्येत वै गतिम्।
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ।। 222 ।।
222. - - - - - - - - - - - - -
परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम्।
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः ।। 223 ।।
223. - - - - - - - - - - - - -
समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ।। 224 ।।
224. समर्थयति; फलप्रदानसमर्थानि करोति। मायाम्; प्रकृतिसंबन्धम्। अलक्ष्मीं च मलैः सहेत्यनेन "क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्" इति श्रीसूक्तार्थः स्मार्यते।
एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ।। 225 ।।
225. त्रायत इत्यादिना अनिष्टनिवृत्तिरिष्टप्राप्तिश्चोच्यते।
इति ते कथितं शक्र तन्त्रमेतदनुत्तमम्।
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् ।। 226 ।।
226. - - - - - - - - - - - - -
मोक्षशास्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ।। 227 ।।
227. - - - - - - - - - - - - -
लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ।। 228 ।।
228. - - - - - - - - - - - - -
{80}इन्द्रियाणां मनः श्रेष्ठं चलतां च मरुद्यथा।
मेरुः श्रेष्ठो गिरीणां च त्रिस्रोताः सरितां यथा ।। 229 ।।
229. - - - - - - - - - - - - -
{80. I. omits three lines from here. }
आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ।। 230 ।।
230. आश्रमाणामिति। आश्रमिणामित्यर्थः।
श्रीवासाभिधसंयमीन्द्रवरिवस्यासादिताध्यात्मधीराम्नायान्तनितान्तचिन्तनरतः श्रीकृष्णनामा सुधीः।
लक्ष्मीतन्त्रमनाविलेन सुपथा व्याचष्ट सत्प्रितये प्रीणातु प्रियभक्तरक्षणविधादक्षा मुकुन्दप्रिया।।
तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम्।
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः ।। 231 ।।
231. - - - - - - - - - - - - -
अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः।
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः ।। 232 ।।
232. - - - - - - - - - - - - -
एतां निक्षेणिकां गृह्य ह्यारोहन्ति परं पदम्।
तन्त्राणां {81}परमं तन्त्रं मुद्रितं मत्समाख्यया ।। 233 ।।
233. - - - - - - - - - - - - - -
{81. मे परं तन्त्रं मन्त्रितं I. }
नाव्रतस्नायिने देयं न {82}कृतघ्नाय वै तथा।
न चातन्त्रविदे नित्यं नासूयादूषिताय च ।। 234 ।।
234. - - - - - - - - - - - - -
{82. व्रत I. }
नावासुदेवभक्ताय न चाभक्तिमते मयि।
देवयमेतत् सुशीलाय सुस्नाताय तपस्विने ।। 235 ।।
235. - - - - - - - - - - - - -
निर्णीतवेदतन्त्राय मद्भक्ताय विशेषतः।
{83}भूयसीं वहते भक्तिं वासुदेवे जनार्दने ।। 236 ।।
236. - - - - - - - - - - - - -
{83. भूय उद्वहते I. }
शुचिव्रताय दक्षाय सदनुष्ठानशीलिने।
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया।।
प्रीताहं त्वयि देवेश किं भूयः श्रोतुमिच्छसि ।। 237 ।।
237. - - - - - - - - - - - - -
इति {84}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे श्रीसूक्तप्रभावप्रकाशो नाम पञ्चाशोऽध्यायः{85}
{84. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
{85. B. adds the following after the colophon: लक्ष्मीतन्त्रं समाप्तम्। श्लोकसंख्या 3500}
********इति पञ्चाशोऽध्यायः********