सामग्री पर जाएँ

लक्ष्मीतन्त्रम्/अध्यायः ५७

विकिस्रोतः तः
← अध्यायः ५६ लक्ष्मीतन्त्रम्
अध्यायः ५७
[[लेखकः :|]]
लक्ष्मीतन्त्रस्य अध्यायाः

सप्तपञ्चाशोऽध्यायः - 57
श्रीः---
. . . . को देवः स्थितिकर्ता च भावगा।
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः ।। 1 ।।
शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ।। 2 ।।
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ।। 3 ।।
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ।। 4 ।।
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ।। 5 ।।
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ।। 6 ।।
विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ।। 7 ।।
वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ।। 8 ।।
कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ।। 9 ।।
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ।। 10 ।।
इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ।। 11 ।।
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ।। 12 ।।
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ।। 13 ।।
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्‌टनात् सिन्धुसरिद्गिरिदरीमुखैः ।। 14 ।।
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ।। 15 ।।
वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ।। 16 ।।
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ।। 17 ।।
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ।। 18 ।।
अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ।। 19 ।।
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ।। 20 ।।
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ।। 21 ।।
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ।। 22 ।।
तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ।। 23 ।।
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्रोक्तसंस्थानसंस्कारक्रमशालिनीः ।। 24 ।।
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ।। 25 ।।
नारदः---
इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ।। 26 ।।
वित्तं प्राप्य परं शक्रो मुमुदे बिगतज्वरः।
अत्रिः---
इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ।। 27 ।।
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ।। 28 ।।
पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा।
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्तववित् ।। 29 ।।
मुनयो नारदेनाथ श्राविता मलयाचले।
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् ।। 30 ।।
कात्यायनं पावकश्च स च गौतममाश्रमे।
गौतमोऽथ भरद्वाजं स च गर्गं महामुमनिम् ।। 31 ।।
असितं देवलं गर्गो जैगीषव्यं मुनिं स च।
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् ।। 32 ।।
एकाञ्जनानान्नपिको (?) मानसी दुहिता च या।
सा सुतं श्रावयामास पाराशर्यं महामुनिम् ।। 33 ।।
पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम्।
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् ।। 34 ।।
वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा।
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः ।। 35 ।।
पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः।
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् ।। 36 ।।
पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम्।
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् ।। 37 ।।
सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे।
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् ।। 38 ।।
भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया।
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी ।। 39 ।।
लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ।। 40 ।।
दैवाद्वा यदि वा मोहादपायस्य परिप्लवे।
भजमाना तथा चैव लक्ष्मीनारायणावुभौ ।। 41 ।।
शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ।। 42 ।।
आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ।। 43 ।।
रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात्।
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे ।। 44 ।।
उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्रशास्रार्थतत्फलम् ।। 45 ।।
दर्शितं परमं तत्त्वं सावधानेन चेतसा।
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् ।। 46 ।।
नावासुदेवभक्ताय त्वया देयं कथंचन।
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ ।। 47 ।।
यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम्।
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् ।। 48 ।।
नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम्।
नानाशास्रद्विषां चैव न गुरुद्वेषिणां तथा ।। 49 ।।
दांपत्यविद्विषां चैव वनिताविद्विषां तथा।
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः ।। 50 ।।
अनिन्दकश्च शास्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ।। 51 ।।
क्रियायज्ञविभागज्ञ्सतन्त्रान्तरविधानवित्।
साङ्गयोगविधानज्ञः सर्वशास्रार्थतत्त्ववित् ।। 52 ।।
वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम्।
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् ।। 53 ।।
सर्वाद्यात्मिकशास्रार्थतत्त्ववित् प्राप्तुमर्हति।
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया ।। 54 ।।
ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः।
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ।। 55 ।।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे (तन्त्रार्थसंग्रहे) रहस्यशास्रार्थसारो नाम सप्तपञ्चाशोऽध्यायः
********इति सप्तपञ्चाशोऽध्यायः********
लक्ष्मीतन्त्रं समाप्तम्