लक्ष्मीतन्त्रम्/अध्यायः २१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २० लक्ष्मीतन्त्रम्
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
लक्ष्मीतन्त्रस्य अध्यायाः

एकविंशोऽध्यायः - 21
शक्रः---
शब्दार्थव्यक्तिरूपायै षडध्वपरिवर्तिनि।
अध्वातीतावबोधाख्ये नमस्ते हरिवल्लभे ।। 1 ।।
1. षडध्वेति। वर्णकलातत्त्वमन्त्रपदभुवनाख्याः षडध्वानः।
वर्णाः प्रकाशिता देवि यथावत् सर्वहेतवः।
मन्त्रमार्गमिदानीं मे यथावद्वक्तुमर्हसि ।। 2 ।।
2. सर्वेति। शब्दानामर्थानां चेत्यर्थः।
श्रीः---
एक एव परो देवः श्रीमान् पुरुषसत्तमः।
षाड्‌गुण्याम्भोनिधिर्दिव्यः सर्वात्मा सर्वतोमुखः ।। 3 ।।
3. - - - - - - - - - - - - -
तस्याहं परमा शक्तिरहंता श्रीरभेदिनी।
सर्वाधारा सर्वशक्तिः सर्वज्ञा सर्वतोमुखी ।। 4 ।।
4. - - - - - - - - - - -
मयि प्रकाशते विश्वं दर्पणोदरशैलवत्।
बोध एव स्वरूपं मे निर्मलानन्दलक्षणः ।। 5 ।।
5. - - - - - - - - - - - -
इच्छापरवती साहं बोधकांशविवर्तिनी।
शब्दब्रह्ममयी भूत्वा विवर्तेऽहं कलाध्वना ।। 6 ।।
6. इच्छापरवतीति। स्वच्छन्देत्यर्थः। विवर्तः परिणामः। कलाध्वनेति। ज्ञानादिगुणात्मनेत्यर्थः।
कला ज्ञानादयः प्रोक्ताः षड्‌ गुणाः पारमेश्वराः।
तासां त्रिकद्वियोगेन विवर्ते तत्त्ववर्त्मना ।। 7 ।।
7. त्रिकद्वियोगेन; युगलत्रययोगेनेत्यर्थः।
संकर्षणादयो देवास्तत्त्वानि सुरसत्तम।
वर्णव्यतिकरैर्भूयो विवर्ते मन्त्रवर्त्मना ।। 8 ।।
8. - - - - - - - - - - -
तस्य मन्त्राध्वनो व्यक्तिं गदन्त्या मे निशामय।
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ।। 9 ।।
9. - - - - - - - - - - -
चिल्लक्षणः षड्‌गुणात्मा तस्य भेदश्चतुर्विधः।
व्कचिद्बीजं व्कचित्पिण्डं व्कचित्संज्ञा व्कचित्पदम् ।। 10 ।।
10. - - - - - - - - - - - - - - -
तुर्यं सुषुप्तिः स्वप्नश्च जाग्रद्बीजादयः क्रमात्।
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ।। 11 ।।
11. बीजपिण्डसंज्ञापदमन्त्राः क्रमेण तुर्यादिजाग्रदन्तपदचतुष्टयसंगता ज्ञेया इत्यर्थः।
बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर।
{1}अन्तरा हरयः पिण्डं व्कचित्स्वरसमायुतम् ।। 12 ।।
12. अन्तरा मध्ये स्थिताः हरयः व्यञ्जनानि पिण्डमन्त्र इत्यर्थः। तस्यापवादमाह---व्कचिदिति।
{1. अन्तराहुरयः A.; अन्तराहलयः B. G.; अन्तराकुलयः C.; अनन्तराविलं D. }
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुता।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः ।। 13 ।।
13. पदमन्त्रस्वरूपमाह---क्रियेत्यादि। संबोधः संबोधनम्।
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते।
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि ।। 14 ।।
14. अभिज्ञा संज्ञा।
सा चतुष्टयसंबद्धा सिद्धिमिष्टां प्रयच्छति।
क्षेत्रक्षेत्रज्ञभावं च मन्त्राणां त्रिदशेश्वर ।। 15 ।।
15. सा; देवता।
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः।
शक्रः---
क्षेत्रक्षेत्रज्ञसद्भावं मन्त्राणां वद मेऽम्बुजे ।। 16 ।।
16. - - - - - - - - - - - -
{2}यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।
श्रीः---
बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ।। 17 ।।
17. बीजवतां मन्त्राणां बीजाक्षरं जीव इत्यर्थः।
{2. F. omits four lines from here. }
निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ।। 18 ।।
18. आदीति। आद्यक्षरमित्यर्थः। अस्तु; अकारस्त्वित्यर्थः।
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः
क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ।। 19 ।।
19. अकाररहिते पुनरिति उत्तरत्रान्वेति। स्वरः; यः कश्चित् स्वर इत्यर्थः। केवले च स्वरे इत्युत्तरत्रान्वेति।
जीवः स्यात् प्रथमा मात्रा द्वितीयादि {3}तनुर्भवेत्।
एकमात्रे तु जीवः स्यात् संस्कारोऽद्भुतलक्षणः{4} ।। 20 ।।
20. संस्कार इति। मध्यमा वागित्यर्थः। अत्राष्टादशाध्यायस्थः षड्‌विंशः श्लोकोऽवधेयः।
{3. मनुर्भवेत् B. }
{4. संस्कारोद्बोधलक्षणः I. }
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।
प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते{5} ।। 21 ।।
21. उच्चार्यमाणमिति। वैखरीत्यर्थः।
{5. क्षेत्रज्ञ उच्यते I. }
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः।
आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ।। 22 ।।
22. - - - - - - - - - - - - -
एषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम् ।। 23 ।।
23. यत्र मन्त्रे बीजं नास्ति तत्र प्रथमाक्षरमनुस्वारयुतं बीजमित्यर्थः। यथा गणपतये नमः इत्यत्र गं इति बीजमन्त्रः।
अनुस्वारयुतं पश्चात् सकलं मन्त्र उच्यते।
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम् ।। 24 ।।
24. - - - - - - - - - - - - -
चतुर्दशविभागस्थे प्राकृते भुवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्यो प्राकृते च पदाध्वनि ।। 25 ।।
25. - - - - - - - - - - - -
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम्।
प्रसादसुमुखा मन्त्रा उत्तार्य भुवनाध्वनः ।। 26 ।।
26. - - - - - - - - - - - -
{6}पदाध्वनश्च वैराग्यं जनयन्तः पदे पदे।
क्रमात्तत्त्वकलावर्णपदवीषु नयन्ति तम् ।। 27 ।।
27. - - - - - - - - - - -
{6. I. omits three lines from here. }
मान्त्रं प्रासादमासाद्य निर्धूताशेषबन्धनः।
लक्ष्मीनारायणाख्यं तद्विशति ब्रह्म शाश्वतम् ।। 28 ।।
28. - - - - - - - - - - - - -
शक्रः---
आचार्यः कीदृशो देवि शिष्यस्तस्य च कीदृशः।
मन्त्रेषु कतमो मन्त्रः प्रभवेत् परमाप्तये ।। 29 ।।
29. - - - - - - - - - - - -
कथं स चोपदेष्टव्य एतद् ब्रूहि नमोऽस्तु ते।
श्रीः---
सर्वलक्षणसंयुक्तो{7} ब्राह्नणे वेदपारगः ।। 30 ।।
30. - - - - - - - - - - - -
{7. संपन्नो C. }
षट्‌कर्मनिरतः शान्तः पञ्चकालरतः शुचिः।
पञ्चरात्रार्थविन्मौनी मन्त्राक्षरकृतश्रमः ।। 31 ।।
31. - - - - - - - - - - -
न स्थूलो न कृशो ह्रस्वो न काणो नैव रोगवान्।
नान्धो न बधिरो मूढो न खल्वाटो न पङ्‌गुकः ।। 32 ।।
32. - - - - - - - - - - - - -
न हीनाङ्गोऽतिरिक्ताङ्गो न श्वित्री न च डाम्भिकः।
न क्रोधनो न दुश्चर्मा न लोभहतचेतनः ।। 33 ।।
33. - - - - - - - - - - - -
अकुलीनं दुराचारं शठं जिह्नं च वर्जयेत्।
दयादान्तिशमोपेतं{8} दृढभक्तिं क्रियापरम् ।। 34 ।।
34. - - - - - - - - - - - - -
सत्यवाक्‌छीलसंपन्नं रेखाकर्मसु कौशलम्।
जितेन्द्रियं सुसुतुष्ट करुणापूर्णमानसम् ।। 35 ।।
35. - - - - - - - - - - - - -
{9}आर्यलक्षणसंपन्नमार्जवं चारुहासिनम्।
{10}एवंगुणगणाकीर्णं गुरुं विद्यात्तु वैष्णवम्{11} ।। 36 ।।
36. - - - - - - - - - - - - - - -
{9. आर्यं F.; कुर्यात् I. }
{10. एवंगुरुगुणा C. B. }
{11. केवलम् F. }
शिष्यश्च तादृशो ज्ञेयः सर्वलक्षणलक्षितः।
क्षान्तिशीलं सुधीमन्तं{12} क्रोधलोभविवर्जितम् ।। 37 ।।
37. - - - - - - - - - - - - - -
{12. सुशीलं तं B. }
स्नानार्चनरतं{13} नित्यं गुरुशुश्रूषणोद्यतम्।
विप्राग्निदेवपितृषु भक्तं तर्पणशीलिनम् ।। 38 ।।
38. - - - - - - - - - - -
{13. परं C. }
कुलीनं च तथा प्राज्ञं शास्रार्थनिरतं सदा।
ब्राह्नणं क्षत्रियं वैश्यं शूद्रं वा भगवत्परम् ।। 39 ।।
39. - - - - - - - - - - - - -
ईदृग्लक्षणसंयुक्तं शिष्यमार्जवसंयुतम्।
वर्णधर्मक्रियोपेतां नारीं वा सद्विवेकिनीम् ।। 40 ।।
40. - - - - - - - - - - - -
{14}विद्यादनुमते पत्युरनन्यां पतिमानिनम्।
एवंलक्षणकं शिष्यमाचार्यो भगवन्मयः।
{15}ज्ञापयेद्विधिवन्मन्त्रान् गुरुदृष्ट्या समीक्ष्य तु ।। 41 ।।
41. अनेन स्रीशूद्रयोरपि तान्त्रिकमन्त्रग्रहणे अधिकारो विधीते। परं तु तारविषये विशेषो ग्रन्थान्तरेष्ववगन्तव्यः।
{14. दद्यात् I. }
{15. श्रावयेद्विविधान् C. }
इति {16}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे गुरुशिष्यलक्षणं नाम एकविंशोऽध्यायः
{16. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. D. }
********इत्येकविंशोऽध्यायः********