लक्ष्मीतन्त्रम्/अध्यायः ३४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३३ लक्ष्मीतन्त्रम्
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ३५ →
लक्ष्मीतन्त्रस्य अध्यायाः


चतुस्रिंशोऽध्यायः - 34
श्रीः---
मुद्राकोशं प्रवक्ष्यामि मन्त्रकोशस्य वासव।
येन विज्ञातमात्रेण मन्त्रसिद्धिर्महीयसी ।। 1 ।।
मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे।
आत्मनो न्यासकाले च पूजान्ते मण्डलाविधौ{1} ।। 2 ।।
{1. मण्डलावधौ A. B. }
अर्चायां मन्त्रविन्यासे ह्यर्घ्यपात्रेषु भोजने।
पूर्णाहुत्यवसाने च मन्त्रे {2}ह्यभ्यन्तरस्थिते ।। 3 ।।
{2. वा B. }
हिंसकानां विघाताय सर्वविघ्नोपशान्तये।
संमुखौ तु करौ कृत्वा सुश्लिष्ठौ सुप्रसारितौ ।। 4 ।।
संमुखं मध्यमायुग्मनिक्षिप्ताङ्‌गुलयः पराः।
अन्योन्याभिमुखाश्चैव भुजबृन्देन कल्पिताः ।। 5 ।।
महाश्रीरिति विख्याता सर्वसौभाग्यदायिका।
मोचनी सर्वदोषाणां शीघ्रसिद्धिप्रदायिनी ।। 6 ।।
जडभूतस्य वै {3}जन्तोर्बोधनाभ्युदयात्मिका।
प्रसार्य {4}वाममुत्तानमङ्‌गुल्यो {5}विरलाः स्थिता ।। 7 ।।
{3. जन्तोर्वेदना B. }
{4. वाममुत्तानाः B. }
{5. विरलायिताः B. G. }
कार्यास्त्वाकुञ्चितप्रान्ता अङ्‌गुष्ठं सेतुवद्भवेत्।
संमुखं तासु संलग्नं करशाखासु मध्यमाम् ।। 8 ।।
{6}हृत्संमुखं तु बध्नीयाच्छक्तिमुद्रां सुखप्रदाम्।
इमे मुद्रे महाभागे योगिबृन्दोपवन्दिते ।। 9 ।।
{6. असंमुखां B. C. F. }
परसूक्ष्मपदस्थे तु मम प्रीतिप्रदायिके।
मम स्थूलपदस्थाया योनिमुद्रां निशामया ।। 10 ।।
संमुखौ तु करौ कृत्वा {7}सुश्लिष्टौ सुप्रसारितौ।
मध्यतो मूलतः पृष्ठे विपर्यस्ते ह्यनामिके ।। 11 ।।
{7. संश्लिष्टौ C. }
तर्जनीमूलयोर्न्यस्य ताभ्यामग्रे निगूहयेत्।
मध्ययोः शेषयोरग्रे कनिष्ठायुगलं पुरः ।। 12 ।।
अन्योन्यं पृष्ठतो लग्नं तलमध्योन्नतं भवेत्।
अङ्‌गुष्ठाग्रद्वयं कुर्यान्मध्ययोरग्रपर्वगम् ।। 13 ।।
महायोनिरिति ख्याता मुद्रा सर्ववशंकरी।
त्रिविधा त्रिविधाया मे मुद्रैषा संप्रदर्शिता ।। 14 ।।
सूक्ष्माख्या{8} शक्तिमुद्रा या विकारस्तत्र{9} वर्ण्यते।
प्रदेशिन्यादितोऽङ्‌गुष्ठमैकैकश्येन सेतुवत् ।। 15 ।।
{8. सूक्ष्माद्या B. C. }
{9. तस्य B. }
{10}विन्यस्याङ्‌गुलिषु ज्ञेयाश्चतस्रो मुद्रिका इमाः।
शक्तीनां तु मदीयानां लक्ष्म्यादीनां पुरंदर ।। 16 ।।
{10. विना सा B. }
लक्ष्मीः कीर्तिर्जया माया देव्यो मच्छक्तयो हि ताः।
दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ।। 17 ।।
अन्तःस्थमुन्नतं कृत्वा वामाङ्‌गुष्ठं सुरोत्तम।
संमुखं हृदि हार्दैषा मुद्रा बुद्धिविवर्धनी ।। 18 ।।
{11}प्रसृता अङ्‌गुलीः सर्वा अङ्गुष्ठेन तु संस्पृशेत्।
शैरस्येषा भवेन्मुद्रा मन्त्रसंनिधिकारिणी ।। 19 ।।
{11. प्रसृताङ्‌गुल्यः B. }
मुष्टिं वितर्जनीं कृत्वा तर्जनी ह्यूर्ध्वसंस्थिता।
शिखामुद्रेति विख्याता सर्वुदष्टभयंकरी ।। 20 ।।
दोषविग्नविनाशाय सदा ह्येतां प्रदर्शयेत्।
आदौ तस्मात् प्रयत्नेन यागवेश्मनि दर्शयेत् ।। 21 ।।
उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता{12}।
उभयोरग्रतः शाखाः {13}संस्थास्तु करयोर्द्वयोः ।। 22 ।।
{12. संयुतम् F. }
{13. संस्था तु B. }
ताभ्यां मध्यमसंलग्नं करबन्धादितो भवेत्।
वार्णण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ।। 23 ।।
अभेद्या दुष्टसंघेन भूतवेतालयोगिभिः।
कर्मकाले निबध्यैषा मन्त्रिणा च प्रयत्नतः ।। 24 ।।
करयोर्ग्रथिताङ्‌गुल्यः संवृताः पाणिपृष्ठगाः।
तर्जन्यौ प्रान्तसंलग्ने सुषिरे चोच्छ्रिते तयोः ।। 25 ।।
अङ्‌गुष्ठौ मूलसंलग्नौ विपर्यस्तौ परस्परम्।
चाक्षुष्येषा भवेन्मुद्रा निबध्या चक्षुरन्तिके ।। 26 ।।
तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु।
द्रुतं करद्वयेनैव चक्षुर्भ्यां संनिरीक्षयेत् ।। 27 ।।
अस्रमुद्रेति विख्याता त्रासनी देवविद्विषाम्।
अङ्गानामियमुद्दिष्टा षण्मुद्री सर्वसाधनी ।। 28 ।।
उपाङ्गत्रियुगस्याथ मुद्रा एता निशामय।
अङ्‌गुलीः श्लेषयेत् सर्वाश्चतस्रो दक्षिणस्थिताः ।। 29 ।।
तासां मूले तथाङ्गुष्ठं तिर्यञ्चं विनिवेशयेत्।
उपाङ्गानामियं मुद्रा तया तत्तत् स्पृशेत् पदम् ।। 30 ।।
अलंकारास्रमन्त्राणां {14}मुद्रा अथ निशामय।
कनिष्ठानामिकामध्या मुष्टिवत् पाणिमध्यगाः ।। 31 ।।
{14. मुद्राम् B. C. }
उभयोर्हस्तयोः पश्चात्तौ मुष्टी श्लेषयेन्मिथः{15}।
प्रसार्य तर्जनीद्वन्द्वं श्लेषयेदग्रतस्ततः{16} ।। 32 ।।
{15. बुधः A. G. }
{16. तथा B. }
अङ्‌गुष्ठाग्रे विपर्यस्य तर्जन्योर्मध्यतो न्यसेत्।
मुद्रैषा कौस्तुभी नाम मालामुद्रामिमां शृणु ।। 33 ।।
कण्ठादापादतः स्वांसौ{17} तर्जनीभ्यां परिभ्रमन्।
{18}कुर्याद्युगपदेवैषा वनमालामयी शुभा ।। 34 ।।
{17. स्वांसात् B. F. }
{18. कुर्याच्च्युतपदे सैषा B. }
व्यङ्गुष्ठा अङ्गुलीरष्टौ ग्रथयेदग्रतो मिथः।
लम्बं बाहुद्वयं कुर्यादेषा वा वनमालिका ।। 35 ।।
अङ्गुष्ठौ पार्श्वतो लग्नावङ्गुल्यो विरलाः स्थिताः{19}।
एषा पाङ्केरुही मुद्रा पुष्टिसौभाग्यवर्धिनी{20} ।। 36 ।।
{19. कृताः B. }
{20. वर्धनी B. }
उत्ताने दक्षिणे पाणावग्रेऽङ्गुष्ठकनिष्ठयोः।
मेलयेत् सेतुवच्छिषष्टं सुसंश्लिष्टं लतात्रयम् ।। 37 ।।
आकुञ्चितफणाकारा मुद्रा पाशा भवेदियम्।
मुष्टिं पृष्ठस्थिताङ्गुष्ठं पाण्योर्मुष्टिद्वयं पुरा ।। 38 ।।
कुर्यादधोमुखं वामं तत्पृष्ठे दक्षिणं तथा।
अथाधारादिशक्तेः स्यान्मुद्रोक्ता कूर्मवह्निजा ।। 39 ।।
अधोमुखस्य वामस्य ह्यनामातर्जनीद्वयम्।
{21}आकुञ्च्य मध्यमापृष्ठे विन्यसेत्तु सुसंस्थितम् ।। 40 ।।
{21. आमुच्य A. G. }
ऋजूमधोमुखीं कुर्यान्मध्यमामङ्गुलीं तथा।
ततः कनिष्ठिकाङ्गुष्ठौ वलवत्तु प्रसारयेत् ।। 41 ।।
अनन्तासनमुद्रेयमनन्तोऽयं यथोत्थितः।
इयमासनमुद्राणां प्रधाना परिकीर्तिता ।। 42 ।।
अविबागा परा शक्तिराधाराधारसंज्ञिता।
कूर्ममुद्रा तदुन्मेषा {22}नादात्मानन्तमुद्रिका ।। 43 ।।
{22. नामिकानन्त C. }
भावनीयमिदं शश्वदित्थमासनकर्मणि।
करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरः ।। 44 ।।
अङ्गुलीत्रितयेनैव अङ्गुष्ठौ तर्जनीद्वयम्।
प्रान्तलग्नं तु तत् कुर्यात्तद्युगं मेलयेत् पुनः ।। 45 ।।
एषा सा पार्थिवी मुद्रा सर्वभूतविधारिणी।
मणिबन्धौ तु संलग्नौ नखाग्राणि करद्वये ।। 46 ।।
कार्याणि साङ्गुलीकानि परस्परमुखानि तु।
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद् द्रुतम् ।। 47 ।।
मद्ये कुर्याच्च करयोरगाधं{23} सुषिरोपमम्।
क्षीरार्णवस्य मुद्रैषा पाद्मी पूर्वं प्रदर्शिता ।। 48 ।।
{23. अभाम्यं A. B. G. }
करद्वयमसंलग्नं कृत्वा तदनु योजयेत्।
मुखे मुखं तु तर्जन्योरेवं मध्यमयोः क्रमात् ।। 49 ।।
अनामयोस्ततः पश्चाद्वक्त्रे वक्त्रं कनिष्ठयोः।
अङ्गुष्ठयुगलं तत्तदङ्गुलीमुखयोर्न्यसेत् ।। 50 ।।
एतन्मुद्राचतुष्कं तु धर्माद्ये तु चतुष्टये।
अधर्मादिचतुष्काणां तद्वन्मुद्राचतुष्टयम् ।। 51 ।।
तदूर्ध्वस्थस्य पद्मस्य मुद्रा {24}पाद्मी पुरोदिता।
दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् ।। 52 ।।
{24. पाद्मा F. }
कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः।
समुत्तानं पुनः कुर्याच्छाखासंघं पृथक् पृथक् ।। 53 ।।
धामत्रयस्य मुद्रैषा चिद्भासनगतां शृणु।
स्फुटौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ।। 54 ।।
चिद्भासनस्य मुद्रैषा शुद्धसत्त्वमयी परा।
द्वात्रिंशदिति मुद्राणां सर्वदोषविनाशिनी ।। 55 ।।
भूषणआस्रासनादीनां तव शक्र प्रदर्शिता।
क्षेत्रेश्वरादिमुद्राणामिदानीं दशकं शृणु ।। 56 ।।
ग्रस्तमङ्गुलिसंघातं कृत्वा पाणिद्वयेन तु।
बलात्संपीडयेत् कुर्वन्नङ्गुष्ठद्वयमुच्छ्रितम् ।। 57 ।।
मुद्रेयं क्षेत्रपालस्य सर्वदुष्टनिबर्हणी।
उत्तानौ तु करौ कृत्वा निकटस्थौ पुरंदर ।। 58 ।।
अङ्गुलीनां गणं सर्वं कुञ्चितं मध्यसंस्थितम्।
अङ्गुष्ठौ पतितौ कृत्वा क्रमशः {25}स्फुटतां नयेत् ।। 59 ।।
{25. स्पष्टतां A. B. C. }
श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव।
समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजाम् ।। 60 ।।
तामेव दक्षिणाद्धस्तात् प्रचण्डस्य निदर्शयेत्।
मध्यमां वामहस्ताद्वै समुत्थाप्य जयस्य सा ।। 61 ।।
दक्षिणाद् विजयाख्यस्य बीजस्य परिकीर्तिता।
वामाच्चानामिकां प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् ।। 62 ।।
दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस्य वासव।
मुद्रा शङ्खनिधेः प्रोक्ता वामहस्तात् कनिष्ठिका ।। 63 ।।
तथा पद्मनिधेर्हस्ताद् दक्षिणात् सा कनिष्ठिका।
दक्षिणेन तु हस्तेन साङ्गुष्ठेन तु मुष्टिना ।। 64 ।।
प्रदेशिनीमनामां च वामहस्तस्य पीडयेत्।
प्रयत्नीकृतशाखानां पृष्ठे योज्याथ मध्यमा ।। 65 ।।
लम्बमानकराकारा यथा संदृश्यते च सा।
मुष्टेर्नातिसमीपस्थां वामहस्तात् कनिष्ठिकाम् ।। 66 ।।
दक्षिणाङ्गुष्ठपार्श्वेन{26} दंष्ट्रावत् परिभावयेत्।
ईषत्तिर्यग्गतिस्पष्टौ वामोऽङ्गुष्ठस्तथा परः ।। 67 ।।
{26. भावेन A. }
यथा तौ परिदृश्येते गजकर्णोपमौ शुभौ।
गणेश्वरस्य मुद्रैषा सर्वविघ्नक्षयंकरी ।। 68 ।।
संश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा।
संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुगम् ।। 69 ।।
प्रदेशिनीयुगं तद्वत्तथैवानामिकाद्वयम्।
अङ्गुष्ठं द्विगुणीकृत्य नमयेत्तदधोमुखम् ।। 70 ।।
शनैः शनैः स्पृशेद्यावत् स्वं स्वं {27}पाणिद्वयीतलम्।
स्फुटं {28}सुविरलं कुर्यादङ्गुष्ठद्वितयं तथा ।। 71 ।।
{27. पाण्योर्द्वयोस्तथा B. C.; पाणिद्वयोस्तलम् F. }
{28. स्वाभिमुखं C. }
कनिष्ठिकाद्वयं चैव समेन धरणेन तु।
इयं वागीश्वरी मुद्रा वाणीविभवदायिनी ।। 72 ।।
संमुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ।
विनियोज्यौ ललाटाग्रे शिरसावनतेन तु ।। 73 ।।
गुर्वादित्रितयस्यैषा मुद्रा चेतःप्रसादिनी।
प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्‌गुलिगणं ततः ।। 74 ।।
संलग्नं कुञ्चयेत् किंचिदङ्‌गुष्ठं संप्रसार्य च।
तियक् शनैः शनैः किंचित् कुर्याच्चाधोमुखं ततः ।। 75 ।।
मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता।
इयं श्राद्धसहस्रेभ्यः पितृप्रीतिकरी सदा ।। 76 ।।
दर्शनीया प्रयत्नेन पितॄणां पूजने सदा।
करद्वयं समुत्तानं नाभिदेशे नियोजयेत् ।। 77 ।।
वामस्य दक्षिणं पृष्ठे मुद्रैषा सिद्धसंसदः।
सुस्पृष्टं दक्षिणं हस्तमात्मनस्तु पराङ्मुखम् ।। 78 ।।
पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत्।
वराभयदमुद्रे द्वे लोकेशानामिमे स्मृते ।। 79 ।।
एकैकेन तु मन्त्रेण वज्राद्येव क्रमाद्युतम्।
अस्राख्यां शक्तिसंयुक्तां प्रागुक्तां संप्रदर्शयेत् ।। 80 ।।
लोकपालायुधानां तु पूजितानां क्रमादिह।
वामहस्तकनिष्ठाद्यास्तिस्रः स्वतलमध्यगाः ।। 81 ।।
तासामङ्गुष्ठतः पृष्ठे तर्जती प्रोन्नता भवेत्।
नासावंशप्रदेशस्था ततो दक्षिणपाणिना ।। 82 ।।
अङ्गुलीत्रितयेनैव मुष्टिं बद्धा तु पूर्ववत्।
तर्जनीं द्विगुणीकृत्य त्वङ्गुष्ठाग्रे नियोजयेत् ।। 83 ।।
प्रोद्यतो दक्षिणो बाहुश्चक्रक्षेपे यथोद्यतः।
विष्वक्सेनस्य मुद्रेयं विश्वबन्धनकृन्तती{29} ।। 84 ।।
{29. कर्तनी B. C. }
किंचिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम्।
अङ्गुष्ठौ विरलौ स्पष्टौ मुद्रा ह्यावाहने स्मृता ।। 85 ।।
खड्गधारासमाकारौ विरलाङ्गुलिकावुभौ।
अङ्गुष्ठौ दण्डवत् कृत्वा मुष्टिबन्धं शनैः शनैः ।। 86 ।।
कुर्यात् कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने।
प्रसृतौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ।। 87 ।।
कनीयस्यौ तथाङ्गुष्ठौ सुश्लिष्टौ च नियोज्य च।
मध्यमाङ्गुलियुग्मं चाप्यन्योन्यकरपृष्ठगम् ।। 88 ।।
प्रक्षिप्यानामिकायुग्मं तर्जनीयुगलं तथा।
मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी ।। 89 ।।
द्विप्रकारं तु मुद्राणां प्रयोगं विद्धि वासव।
अध्यात्मं संविदाकारं बाह्यं वाक्कर्मचित्तजम् ।। 90 ।।
अनेन विधिना मुद्रां यो बध्नाति विधानवित्।
तेनेदं मुद्रितं सर्वमपुनर्भवसिद्धये ।। 91 ।।
इति मुद्रागणः सर्वस्तवोद्दिष्टः पुरंदर।
आराधनाधिकारार्थं शृणु स्नानविधिं परम् ।। 92 ।।
अन्तर्बहिर्मलोपेतमलक्ष्मीः प्रतिपद्यते।
तस्या निवारणार्थाय स्नानं सर्वत्र शिष्यते{30} ।। 93 ।।
{30. चेष्यते A. C. }
तत् पुनस्रिविधं स्नानं जलमन्त्रस्मृतिक्रमात्।
त्रिविधं पुरुहूतैतत् स्मृतं शतगुणोत्तरम् ।। 94 ।।
पुष्करादिषु तीर्थेषु यत् स्नानं जलजं {31}स्मृतम्।
ततः शतगुणं स्नानं भगवच्छास्रचोदितम् ।। 95 ।।
{31. मतम् B. }
तस्माच्छतगुणं मान्त्रं मन्त्राङ्गन्याससंभवम्।
तस्माच्छतगुणं ध्यानं शुद्धसंविन्मयं परम् ।। 96 ।।
आदौ सामान्यविधिना जलस्नानं समाचरेत्।
विशेषविधिना पस्चाद्विशेषस्य विधिस्त्वयम् ।। 97 ।।
पूर्वं स्नात्वा मृदाम्भोभिः पश्चाद्गन्धादिलेपनप्त्।
स्नानं स्यात्तन्मलध्वंसि प्राणायामैः समाचरेत् ।। 98 ।।
द्वादशावृत्तया कुर्यात् पूरणं तारया पुरा।
धारयेत् षोडशावृत्त्या द्विषट्‌केन पुनस्त्यजेत् ।। 99 ।।
सव्यदक्षिणपर्यायै रेचनान्तमरुत्क्रमैः।
मलान् क्षपयति प्राणनाडीस्थान् पूर्वसंचितान् ।। 100 ।।
ततस्तत्त्वमयो भूत्वा मलिनं भूतपिण्डकम्।
षाट्‌कोशिकमसारं च शोधयेद्धारणावशात्{32} ।। 101 ।।
{32. बलात् C. }
पृथिव्यादीनि {33}सर्वाणि तत्त्वानि स्वस्वकारणे।
धारणाभिर्नयेदस्तमव्यक्तान्तानि वै क्रमात् ।। 102 ।।
{33. तत्त्वानि कारणानि स्वकारणे B. F. }
क्षीरे क्षीरमिवात्मानं मयि संमिश्रयेत्ततः।
भूत्वा लक्ष्मीमयः पश्चाद्भवेन्नारायणात्मकः ।। 103 ।।
धारणाबन्धमासाद्य शुद्धसत्त्वेन चेतसा।
परमात्मात्मकत्त्वं यत् सा शक्तिः परमा मता ।। 104 ।।
तत्स्थ एव स्वकं पिण्‍डं संदहेद्धारणाग्निना।
चिदाशुशुक्षणेस्तेजः पुञ्जमर्चिःकणालयम् ।। 105 ।।
पतन्तं संस्मरेन्मूर्ध्नि पिण्डं प्रज्वलितं ततः।
शान्तमन्तःस्थसत्सत्त्वं भस्मीभूतरजस्तमम् ।। 106 ।।
रजस्तमोमयं भस्म त्वपोह्योद्बोधवायुना।
चिदानन्दमहाम्भोधेरतरङ्गगुणाकरात् ।। 107 ।।
प्रसृतं सृष्टिमार्गेण संस्मरेदमृतोदकम्।
तेनाप्यायितमन्तःस्थं तत्सत्त्वं देहतां नयेत् ।। 108 ।।
शुद्धं तत्सृष्टिमार्गेण संश्रयेद्भौतिकं वपुः।
अन्तःशुद्धिरियं प्रोक्ता बाह्यशुद्धिमथो श्रृणु ।। 109 ।।
वक्ष्यमाणक्रमैरङ्गैर्मन्त्रन्यासं समाचरेत्।
{34}बहिः शुद्धिर्भवेदेवं तदा स्नानं समाचरेत् ।। 110 ।।
{34. B. F. omit this line. }
पवित्रपाणिरादाय मृत्कलां मन्त्रमन्त्रिताम्।
तां त्रिधा वामहस्ताग्रे मूलमध्याग्रतो न्यसेत् ।। 111 ।।
बोधशक्त्यात्मना पूर्वं तीर्थशुद्धिं समाचरेत्।
तीर्थं तत् त्रिविधं प्रोक्तं स्थूलसूक्ष्मपरात्मना ।। 112 ।।
तर्पयत्यखिलं स्थूलं स्थूलरूपेण तज्जगत्।
सत्त्वात्मना तु सूक्ष्मेण ससुरांस्तर्पयेत्पितॄन् ।। 113 ।।
परेणानन्दरूपेण नयेन्मत्कर्मयोग्यताम्।
तस्माच्छुद्धिः पुरा कार्या तीर्थे शास्रदृशा स्वयम् ।। 114 ।।
ज्ञानधारणयाकृष्य तीर्थसत्तां तु वैष्णवीम्{35}।
{36}मयि शक्तौ लयं नीत्वा चिदानन्दमहास्पदे ।। 115 ।।
{35. सत्त्वं तु वैष्णवम् B. C. }
{36. F. omits three lines from here. }
स्थूलं ज्ञानाग्निना दग्ध्वा ब्रह्मानन्देन पूरयेत्।
ज्ञानशक्त्यावरोप्याथ तीर्थे सत्त्वं तु वैष्णवम् ।। 116 ।।
प्रथमे मध्यमेऽथान्ते मृद्भागे क्रमशः सुधीः।
अस्रं च मूलमन्त्रं चाप्यङ्गमन्त्रं च संस्मरेत् ।। 117 ।।
दश दिक्षु क्षिपेदस्रं सर्वविघ्नोपशान्तये।
मूलमन्त्रान्वितं भागं तीर्थमध्ये विनिक्षिपेत् ।। 118 ।।
{37}संनिधानं भवेत्तेन मन्त्रमूर्तेर्म क्षणात्।
मृद्भागमाङ्गमन्त्रं यत्तेनाङ्गानि विलेपयेत् ।। 119 ।।
{37. B. omits four lines from here. }
जलमध्यं समाविश्य निमज्ज्योन्मज्ज्य वै पुनः।
कराभ्यामस्रजप्ताम्भः पूर्वं मूर्ध्नि विनिक्षिपेत् ।। 120 ।।
द्वितीयं मूलमन्त्रेण तृतीयं चाङ्गमन्त्रकैः।
ततस्तीरं समासाद्य सम्यगाचम्य वै ततः ।। 121 ।।
स्नानं समाचरेन्मन्त्रैर्यथावन्न्यासकर्मणआ।
ध्यानस्नानं ततः कुर्यात् सावधानेन चेतसा ।। 122 ।।
स्वस्थितं पुण्डरीकाक्षं स्मृत्वा लक्ष्मीधरं परम्।
तत्पादोदकजां धारां संस्मरेच्छिरसि च्युताम् ।। 123 ।।
तया संप्लावयेदन्तर्बहिश्च सकलं वपुः।
एकैकशो द्विशो वापि त्रिशो वापि समाहितः ।। 124 ।।
यथाशक्ति यथाकालं त्रिविधं स्नानमाचरेत्।
प्रणवाद्यैर्नमोऽन्तैश्च नामभिर्मन्मयान् सुरान् ।। 125 ।।
ऋषींश्च तर्पयित्वाथ स्वधान्ते तर्पयेत् पितॄन्।
एवं स्नानं विधायाथ तीर्थस्थं मन्त्रनायकम् ।। 126 ।।
आकृष्य पूरकेणाथ संस्मरेद्धृदयान्तरे।
आकृष्य मनसाश्रं च दिग्विदिक्स्थापितं पुरा ।। 127 ।।
यागाङ्गानि समादाय प्रयायाद्यागमन्दिरम्।
स्वयं सिद्धमथार्षं वा सिद्धैर्वा परिकल्पितम् ।। 128 ।।
मनुष्यैः कल्पितं वाथ मन्मयैर्भावितान्तरैः।
सर्वलक्षणसंपूर्णं विमानं पाञ्चरात्रिकम् ।। 129 ।।
शुभं कमलिनीतीरं विजनं वा मनोहरम्।
यद्वा विविक्तमुद्यानं पुण्यवृक्षोपशोबितम् ।। 130 ।।
पुलिनं रमणीयं वा सिकतोपरि विस्तृतम्।
अवातमजनस्पर्शमसमीपस्थदोषवत् ।। 131 ।।
यत्र वा रोचते चित्तं तत्र यायान्मनोवशात्।
हृन्मध्यस्थे परे मन्त्रे प्रबुद्धानन्दविग्रहे ।। 132 ।।
दिगन्तरमपश्यन् वै मौनी संरोधितानिलः।
प्राप्य स्थानं शुभं तत्र नासाग्रेण विरेचयेत् ।। 133 ।।
मन्मन्त्रं परमात्मानं प्रदीप्तानलविग्रहम्।
बहिरस्रं च विन्यस्य चरणेनाहनेत् क्षितिम् ।। 134 ।।
स्मरन् मन्त्रमयीं लक्ष्मीं मामेकां परमेश्वरीम्।
एकान्तदेशमासाद्य बध्नीयाद्रुचिरासनम् ।। 135 ।।
दर्भे चर्मणि वस्रे वा फलके यज्ञकाष्ठजे।
अभिवन्द्य हरिं मां च भक्त्यैव{38} गुरुसंततिम् ।। 136 ।।
{38. एवं B. }
गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः।
मानसीं निर्वपेत् {39}सर्वां क्रियां ज्ञानसमाधिना ।। 137 ।।
{39. सर्वाः क्रियाः B. F. }
ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना।
शुद्धसत्त्वमयं तत्तदक्षयं भवति ध्रुवम् ।। 138 ।।
बाह्यद्रव्याश्रिता यस्माद् दोषा राजसतामसाः।
ततस्तच्छोधनमपि कर्मणा मनसा गिरा ।। 139 ।।
तस्मादेकान्तनिर्दोषं भावनावासितं{40} तथा।
तस्माज्ज्ञानं समास्थाय शुद्धं संवित्समुद्भवम् ।। 140 ।।
{40. भावितं B. G. }
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
इति स्नानविधिः सम्यक् कीर्तितस्ते सुरेश्वर।
अङ्गन्यासादिकं स्थानं तव वक्ष्याम्यतः परम् ।। 141 ।।
इति {41}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे स्नानविधिप्रकाशो नाम चतुस्रिंशोऽध्यायः
{41. श्रीपञ्चरात्र A.; श्रीपाञ्चरात्रे B. }
********इति चतुस्रिंशोऽध्यायः********