लक्ष्मीतन्त्रम्/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ लक्ष्मीतन्त्रम्
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
लक्ष्मीतन्त्रस्य अध्यायाः


अष्टाविंशोऽध्यायः - 28
शक्रः---
नमस्ते कमलावासे नमस्रय्यन्तवासिनि।
त्वत्प्रसादेन विधिवच्छ्रतो मन्त्रः समाधिना ।। 1 ।।
1. - - - - - - - - - - - - -
प्रतिपत्तिश्च सकला स्वरूपं च यथास्थितम्।
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि ।। 2 ।।
2. - - - - - - - - - - -
श्रीः---
एको नारायणः श्रीमाननादिः पुष्करेक्षणः।
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोदधिः ।। 3 ।।
3. - - - - - - - - - -
आत्मा स सर्वभूतानां हंसो नारायणो {1}वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ।। 4 ।।
4. - - - - - - - - - - - -
{1. हरिः C. }
साहं सृष्ट्यादिकान् भावान् विदधाना पुनः पुनः।
आराधिता सती सर्वांस्तारयामि भवार्णवात् ।। 5 ।।
5. - - - - - - - - - - - - -
ददामि विविधान् भोगान् धर्मेण परितोषिता।
सद्धर्मपरसंस्थाना{2} मम सत्त्वादिका तनुः ।। 6 ।।
6. विविधानिति। अपवर्गप्रदाप्यानुषङ्गिकानैहिकानामुत्रिकांश्च भोगान् ददामीत्यर्थः। सद्धर्मपरेषु संस्थानं यस्या इति बहुव्रीहिः।
{2. परमस्तस्याः D.; परमस्थाना I. }
आचाररूपो धर्मोऽसावाचारस्तस्य {3}लक्षणम्।
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते ।। 7 ।।
7. - - - - - - - - - - - - -
{3. रक्षणम् C. }
हित्वा योगमयीं निद्रामुत्थायापररात्रतः।
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् ।। 8 ।।
8. योगमयीमिति। अभिगमनादिषु धर्मेषु योगाख्यः पञ्चमो धर्मः पूर्वदिनरात्रिमारभ्य परदिनब्राह्नमुहूर्तावधिककालानुष्ठेयः।
प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा {4}त्वयि ।। 9 ।।
9. - - - - - - - - - - - - - - - - -
{4. भुवि B. }
आचम्य प्रयतो भूत्वा स्मृत्वास्रं ज्वलनाकृति।
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्रतेजसा ।। 10 ।।
10. - - - - - - - - - - - - -
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम्।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् ।। 11 ।।
11. - - - - - - - - - - - - -
मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ।। 12 ।।
12. - - - - - - - - - - - -
उपायाः क्रियमाणास्ते नैव स्युस्तारका मम।
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः ।। 13 ।।
13. - - - - - - - - - - - - -
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः {5}सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ।। 14 ।।
14. महाविश्वासोऽत्र विवक्षितः। सर्वसिद्धान्ते; सर्वेषु दिव्यशास्रेषु। वेदान्ते; उपनिषत्सु।
{5. सर्वभूतानां B. G. }
यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम्।
{6}समस्तमात्मना न्यस्तं श्रीपते तव पादयोः ।। 15 ।।
15. आत्मात्मीयनिक्षेपमाह--यन्मेऽस्तीत्यादिना। आत्मना; आत्मना सहेत्यर्थः।
{6. समन्तात् A. B. C. G. }
शरणं भव देवेश नाथ लक्ष्मीपते मम।
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते ।। 16 ।।
16. गोप्तृत्ववरणमाह---शरणमित्यादिना।
उपायापायमुक्तस्य वर्तमानस्य मध्यतः।
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ।। 17 ।।
17. मध्यतो वर्तमानस्य नैवान्यत् कृत्यमिति पूर्वेणान्वयः। बुद्धिदौर्बल्यादिति। स्वाधिकारमनालोच्य दुष्करे कर्मणि प्रवृत्तिर्हि बुद्धिदौर्बल्यप्रयुक्तेति भावः। उपायान्तरमत्र भक्तियोगः। अनेन भक्तियोगस्य निन्दा क्रियत इति वा मुमुक्षोर्भक्तियोगः स्वरूपविरुद्ध इति वा न मन्तव्यम्। "नरस्य बुद्धिदौर्बल्यादिन्दुबिम्बग्रहे स्पृहा" इत्युक्ते वचनमिदमिन्दुबिम्बं निन्दतीति न कश्चिदपि प्रेक्षावान् ब्रूयात्। किंच "भक्त्या परमया वापि प्रपत्त्या वा महामते" इति भक्तेर्वैकल्पिकसाधनत्वोक्तिर्विरुध्येत। अशक्तस्य मुमुक्षोः स्वरूपविरुद्ध इति चेत्, नात्र कस्यापि विप्रतिपत्तिः।
अतः परं सदाचारं प्रोच्यमानं निबोध मे।
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् ।। 18 ।।
18. - - - - - - - - - - - - -
भवन्तु सर्वभूतानि सात्त्विके विमले पथि।
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् ।। 19 ।।
19. - - - - - - - - - - - -
इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा।
शरीरशोधनं कृत्वा धर्मशास्रविधानतः{7} ।। 20 ।।
20. - - - - - - - - - - - - -
{7. विशारदः F. }
शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम्।
अथाचम्य विदानेन पवित्रैः शास्रचोदितैः{8} ।। 21 ।।
21. - - - - - - - - - - - - -
{8. बोधितैः B. D. }
प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम्।
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी ।। 22 ।।
22. - - - - - - - - - - - - -
शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते।
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम्{9} ।। 23 ।।
23. विवस्वन्तं विशिष्टदीप्तिमन्तमिति पुरुषोत्तमविशेषणम्। अन्तःस्थम्; सूर्यमण्डलान्तर्वर्तिनम्। "अर्कमण्डलमध्यस्थं सूर्यकोटिसमप्रभम्" इत्यादिध्यानमत्राभिप्रेतम्।
{9. अन्तःस्थ B. I. }
कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्{10}।
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ।। 24 ।।
24. उपादानं नाम भगवदाराधनोपयुक्तद्रव्यार्जनम्। तच्च निःस्वस्य पञ्चयज्ञपञ्चकालपरायणभागवतोत्तमादयाचितोपनततण्डुलादिस्वीकाररूपम्। आढ्यस्य तु तदुपयुक्तफलपुष्पतुलस्यादिसंग्रहरूपम्।
{10. दानं समाचरेत् B. D. }
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ।। 25 ।।
25. - - - - - - - - - - - -
स्नानं कृत्वा विधानेन त्रिविधं शास्रचोदितम्।
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् ।। 26 ।।
26. - - - - - - - - - - - -
स्वयमुत्पादितैः {11}स्फीतैर्लब्धैः {12}शिष्यादितस्तथा।
भोगैर्यजेत मां विष्णुमुभौ वा शास्रपूर्वकम् ।। 27 ।।
27. - - - - - - - - - - - - -
{11. क्रीतैः A.; अन्यैः B. C. }
{12. शिष्यादिना तथा B. F. }
अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ।। 28 ।।
28. अष्टाङ्गयजनं यथा जयाख्ये---अन्तर्यागः, भोगयागः, मध्वादियागः, अन्नयागः, संप्रदानम्, वह्निसंतर्पणम्, पितृयागः, अनुयागश्चेति (22 अ. 75-80)।
दिव्यशास्राण्यधीयीत निगमांश्चैव वैदिकान्।
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये ।। 29 ।।
29. सिद्धान्तानिति। मन्त्रागमादिसिद्धान्तभेदानित्यर्थः।
अलोलुपेन चित्तेन रागद्वेषविवर्जितः।
न निन्देन्मनसा वाचा शास्राण्युच्चावचान्यपि ।। 30 ।।
30. - - - - - - - - - - - - -
तावन्मात्रार्थमादद्याद यावता ह्यर्थ आत्मनः।
भूतानां श्रेयसे सर्वे सर्वशास्राणि तन्वते ।। 31 ।।
31. - - - - - - - - - - - -
तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते।
आदौ मध्ये च सर्वेषां शास्राणामन्तिमे तथा ।। 32 ।।
32. - - - - - - - - - - - - -
{13}श्रीमान्नारायणः प्रोक्तो विधयैव तया तया।
अहं नारायणस्थापि सर्वज्ञा सर्वदर्शिनी ।। 33 ।।
33. सर्वशास्राणां भूतहितत्वं परतत्वप्रकाशनेन तदाराधनप्रतिपादनेन चेत्यभिसंधायाह---श्रीमानिति।
{13. श्रीमन्नारायणः A. B. C. G. }
निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी।
प्रवर्तयामि शास्राणि तानि तानि तथा तथा ।। 34 ।।
34. - - - - - - - - - - - - -
अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न व्कापि शास्रं किंचन विद्यते ।। 35 ।।
35. - - - - - - - - - - - - -
सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु।
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् ।। 36 ।।
36. - - - - - - - - - - - -
समयं न विशेत्तत्र नैव दीक्षां कदाचन।
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् ।। 37 ।।
37. - - - - - - - - - - - - -
विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ।। 38 ।।
38. - - - - - - - - - - - -
मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ।। 39 ।।
39. - - - - - - - - - - - -
आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा।
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन्{14} ।। 40 ।।
40. - - - - - - - - - - - - - -
{14. अपीडयन् I. }
विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः।
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः ।। 41 ।।
41. - - - - - - - - - - - - - -
अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम्।
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां{15} गताम् ।। 42 ।।
42. - - - - - - - - - - - - - -
{15. प्रत्यक्षतां B. D. }
साकारामथवा योगी वराभयकरां पराम्।
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् ।। 43 ।।
43. - - - - - - - - - - - - -
यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम्।
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् ।। 44 ।।
44. - - - - - - - - - - - - -
बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ।। 45 ।।
45. - - - - - - - - - - - - -
सम्यङ्‌ निध्यानमुत्पाद्य समाधिं समुपाश्रयेत्।
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते ।। 46 ।।
46. योगस्य परा काष्ठोच्यते---ध्यातेत्यादिना। यत्रेति। यस्यां समाधिदशायामित्यर्थः।
एकैवाहं तदा भासे पूर्णाहंता सनातनी।
{16}ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ।। 47 ।।
47. ऐकध्यमेकभावं योगिनि संप्राप्ते सति नान्यत् किंचित् प्रकाशते। किंतु अहमेव भास इत्युत्तरेणान्वयः।
{16. ऐकार्थ्यं A. B. C. }
नान्यत् प्रकाशते किंचिदहमेव तदा परा।
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् ।। 48 ।।
48. - - - - - - - - - - - - -
तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः।
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः ।। 49 ।।
49. योगनिद्रां निर्वक्ति---नित्वैवमिति।
योगस्थ एव तद्धीरस्ततो यामद्वयं स्वपेत्।
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् ।। 50 ।।
50. योगो नाम परमात्मन्यात्मनिक्षेपपुरःसरं परमात्मगुणगणानुसंधानम्। तत्कुर्वाण एव स्वापमनुभवेदित्यर्थः।
इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन।
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् ।। 51 ।।
51. व्यामिश्रेति। बहुविधकर्मकलापसहितं भगवदाराधनमित्यर्थः। अच्छिद्रानिति। "यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया।।" (ग. पु. पू. 222-22) इत्युक्तच्छिद्ररहितानित्यर्थः।
दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ।। 52 ।।
52. - - - - - - - - - - - - -
उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये।
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः ।। 53 ।।
53. - - - - - - - - - - - -
स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ।। 54 ।।
54. - - - - - - - - - - - - -
सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ।। 55 ।।
55. - - - - - - - - - - - -
स्थूलसूक्ष्मपरत्वानां वेदि