लक्ष्मीतन्त्रम्/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २३ लक्ष्मीतन्त्रम्
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
लक्ष्मीतन्त्रस्य अध्यायाः

चतुर्विंशोऽध्यायः - 24
श्रीः{1}---
परं ब्रह्म परं दाम परं ज्योतिरनूपमम्।
लक्ष्मीनारायणं ब्रह्म दोषसून्यं निरञ्जनम् ।। 1 ।।
1. - - - - - - - - - - - - -
{1. श्रीरुवाच I. }
एकं सर्वमिदं व्याप्य स्थितं सर्वोत्तरं महः{2}।
अहंताहं परा तस्य ब्रह्मणः परमात्मनः ।। 2 ।।
2. - - - - - - - - - - - -
{2. महत् A. B. C. D. G. }
हिताय {3}सर्वजीवानामुन्मिषन्ती स्ववाञ्छया।
शब्दब्रह्ममयी भूत्वा मातृकामन्त्रविग्रहा ।। 3 ।।
3. - - - - - - - - - - -
{3. सर्वभूतानां D. }
भवामि मन्त्ररूपाहं{4} तत्तद्वाच्यानुकारिणी।
प्रथमं ताररूपेण {5}यथास्म्येवं समुद्धरेत् ।। 4 ।।
4. - - - - - - - - - - - - -
{4. भूताहं D. }
{5. यथास्थोऽयं B. C. }
प्रथमं ध्रुवमादाय ततः कर्णं समुद्धरेत्।
नाभिं समुद्धरेत्पश्चात् त्रयमेकत्र योजयेत् ।। 5 ।।
5. - - - - - - - - - - - - -
ओमित्येतत् समुत्पन्नं प्रथमं ब्रह्मतारकम्।
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ।। 6 ।।
6. - - - - - - - - - - - - -
ध्यायेत् संततनादेन तैलधारामिवातताम्।
एतत्तद्वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ।। 7 ।।
7. - - - - - - - - - - - -
अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः।
संकर्षणो मकारस्तु वासुदेवस्तु बिन्दुकः ।। 8 ।।
8. - - - - - - - - - - - - -
चतुर्णामविभागस्तु नादस्तत्र सुरेश्वर।
नादस्य या परा काष्ठा साहंता परमेश्वरी ।। 9 ।।
9. - - - - - - - - - - - - -
शक्तिः सा परमा सूक्ष्मा {6}नादान्तगगनाह्वया।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ।। 10 ।।
10. नादान्तेत्यादि। पूर्वोक्तस्य नादस्यान्ते यत् गगनं दहराकाशः, तद्रूपेत्यर्थः। देव्या दहराकाशरूपत्वात् परब्रह्मणस्तन्नियतवसतित्वं श्रूयते---"तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्" इति। श्रीसात्त्वते च---"नादावसानगगने देवोऽनन्तः समन्वितः" (2-69) इति।
{6. नादान्ता A. I. }
विरामे सति नादस्य {7}यः स्फुटीभवति {8}स्वयम्।
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणाह्वयम् ।। 11 ।।
11. - - - - - - - - - - - - -
{7. या D. }
एतत्ते वैष्णवं धाम कथितं पौरुषं परम्।
शान्तमस्यैव यद्रूपं तस्य तत्त्वं निशामय ।। 12 ।।
12. - - - - - - - - - - - - -
{9}विसृष्टिं पूर्वमादाय सूर्यमन्ते नियोजयेत्।
संनिकर्षे परे जाते तदोमित्युदितं महः ।। 13 ।।
13. विसृष्टिः विसर्गः। सूर्यः अंकारः। अः+अं इति स्थिते "अतो रोः" इत्युत्त्वे गुणे पूर्वरूपे च ओमिति भवति।
{9. विसृष्टं B. D. }
एतत् तत् परमं धाम शाक्तिसंहारलक्षणम्।
स्मर्यमाणं परं तत्त्वं प्रकाशयति यद् ध्रुवम् ।। 14 ।।
14. विसर्गबिन्दुसंयोगरूपत्वात् सृष्टिसंहारलक्षणमित्यर्थः।
संहृत्य सर्वसंभारं शुद्धाशुद्धाध्वसंभवम्।
सृष्टौ समुद्यता शक्तिः सूर्ये पुंसि सनातने ।। 15 ।।
15. सूर्ये पुंसि; बिन्दुरूपे।
परमे भोक्तृरूपे सा विधाय प्रतिसंचरम्।
अग्नीषोममयाद्भावात् स्थूलात्सा प्रतिनिर्गता ।। 16 ।।
16. - - - - - - - - - - - - -
दांपत्यं मध्यमं शश्वद्बिन्दुनादमयं श्रिता।
शक्तिः शान्तात्मकं दिव्यं {10}सूक्ष्मदांपत्यमाश्रिता ।। 17 ।।
17. - - - - - - - - - - - - - - -
{10. सूक्ष्मा D. }
प्रतितिष्ठति सा दिव्ये व्यापके परमात्मनि।
अस्य मात्रा विधानज्ञैः सार्धास्तिस्र उदाहृताः ।। 18 ।।
18. - - - - - - - - - - - - -
त्रयोऽग्नयस्रयो {11}लोकास्रयो वेदास्रयो गुणाः।
त्रयो देवास्रयो व्यूहास्रयो वर्णास्रयः स्वराः ।। 19 ।।
19. - - - - - - - - - - - - -
{11. वेदाःस्रयोलोकाः B. F. }
त्रितयं त्रितयं शक्र यत् किंचिज्जगतीगतम्।
तदादि त्रितयं ज्ञेयमर्धमात्रा निरञ्जना ।। 20 ।।
20. आदि त्रितयमिति। अकारादि त्रयमित्यर्थः। अर्धमात्रा बिन्दुः।
सर्वे शब्दा अकारोत्था उकारात्तेजसां त्रयम्।
पृथिव्यादि प्रकृत्यन्तं मकारोत्थं पुरंदर ।। 21 ।।
21. तेजसां त्रयम्; सूर्यसोमाग्निरूपम्।
ज्योतिर्मय्यर्धमात्रा सा चिन्मयी परमा कला।
युग्भिः स्वरैः सबिन्द्वन्तैराद्यन्तस्वरषट्‌कयोः ।। 22 ।।
22. परमा कला; नादः। आदिस्वरषट्‌कम् अकाराद्यूकारान्तम्। अन्तस्वरषट्‌कम् लृकाराद्यौकारान्तम्। तेषु युक्‌स्वराः आ, ई, ऊ, लॄ, ऐ, औ इति। तैः सबिन्दुभि रङ्गन्यासः। उपाङ्गन्यासस्तु सतारैः ज्ञानादिपदैः।
ज्ञानादिगुणषट्‌कान्तैरङ्गक्लृप्तिरमुष्य तु।
नाभौ पृष्ठे तथा बाह्वोरूरुजानुपदेषु च ।। 23 ।।
23. - - - - - - - - - - - - -
तारपूर्वान् गुणान् भूयो विन्यसेत् पाकशासन।
एवं विन्यस्य तन्मन्त्रमङ्गोपाङ्गसमन्वितम् ।। 24 ।।
24. - - - - - - - - - - - - -
स्वदेहे गुरुरात्मस्थं चिन्तयेत् पुरुषोत्तमम्।
विश्वादिलयपूर्वं तु यथावत् तन्निबोध मे ।। 25 ।।
25. - - - - - - - - - - - -
विश्वं जाग्रत्पदेशानं सर्वेन्द्रियसमीरकम्।
भोक्तारं शब्दपूर्वाणां पञ्चानां विषयात्मनाम् ।। 26 ।।
26. विश्वेति जाग्रत्पदस्थात्मनाम।
{12}अनिरुद्धात्मकं {13}तं च चिन्तयेत् प्रथमाक्षरम्{14}।
तं सोपकरणं देवमकारे प्रविलाप्य तु ।। 27 ।।
27. अनिरुद्धप्रद्युम्नसंकर्षणवासुदेवलक्ष्मीनारायणाः विश्वतैजसप्राज्ञतुर्यतुर्यातीतसंज्ञकजाग्रदाद्यधिष्ठातारो देवाः।
{12. अनिरुद्धाभिधानं च I. }
{13. तत्त्वं A. B. G. }
{14. प्रथमाक्षरे I. }
अकारं तैजसे देवे प्रद्युम्ने स्वप्नवर्त्मगे{15}।
अन्तःकरणवृत्तीनां प्रेरके प्रविलापयेत् ।। 28 ।।
28. - - - - - - - - - - -
{15. सद्मनि I. }
तं सोपकरणं देवमुकारे प्रविलापयेत्।
उकारं चेस्वरे प्राज्ञे संकर्षणतनुस्थिते ।। 29 ।।
29. - - - - - - - - - - -
सुषुप्तिपदगे शश्वत् प्राणादिप्रेरके विभौ।
विलाप्य तं च देवेशं तुर्यसंस्थेऽर्थमात्रके ।। 30 ।।
30. - - - - - - - - - - - - -
ज्ञानानन्दमये देवे वासुदेवे विलापयेत्।
तुर्यातीते च तत्तुर्यं लक्ष्मीनारायणात्मनि ।। 31 ।।
31. - - - - - - - - - - - - -
प्रविलाप्य स्वयं दिव्यामहंतां वैष्णवीं श्रयेत्।
तन्मयस्तादृशं प्राप्य लयस्थानं ततः क्रमात् ।। 32 ।।
32. तन्मयः; अहंतामयः।
जागरामवतीर्याथ {16}दीक्षितं शिष्यमग्रतः।
सद्गुरुर्मन्मयो भूत्वा तारमध्यापयेत्स्वयम् ।। 33 ।।
33. लयस्थानात् सृष्टिस्थानावतरणचिन्तामाह---जागरामिति।
{16. उदितं A. C. }
साङ्गोपाङ्गक्रमं शश्वत् ससमाधिं सविस्तरम्।
स च दद्यात् स्वमात्मानं दक्षिणां गुरवे धनैः ।। 34 ।।
34. - - - - - - - - - - - - -
{17}लब्धानुज्ञस्ततः कुर्वन् पौरश्चरणिकं विधिम्।
महानदीतटं गत्वा सिद्धाद्यायतनं तु वा ।। 35 ।।
35. पुरश्चरणं नाम गुरोर्लब्धस्य मन्त्रस्य वीर्यवत्तरत्वसंपादनायानुष्ठेयो जपहोमादिः। तच्च पञ्चाङ्गम्। तथा चोक्तम्---"जपहौमौ तर्पणं चाभिषेको विप्रभोजनम्। पञ्चाङ्गोपासनं लोके पुरश्चरणमुच्यते।।" इति।
{17. लब्ध्वानुज्ञां F. }
पालाशं {18}वा वनं सम्यक्पर्यन्तादृष्टभूतलम्।
स्नानं त्रिषवणं कुर्वन् ब्रह्मचारी जितेन्द्रियः ।। 36 ।।
36. - - - - - - - - - - - - -
{18. पावनं A. I. }
पयोयावकभैक्षाणामशन्नन्यतमं सकृत्।
कुशोच्चये निषण्णः सन् काशचीरकुशेशयः ।। 37 ।।
37. - - - - - - - - - - - - -
पालाशं {19}धारयेद्दण्डं संवीतः कृष्णचर्मणा।
मच्चित्तो मन्मयो भूत्वा गुर्वादिष्टेन वर्त्मना ।। 38 ।।
38. - - - - - - - - - - - - -
{19. धारयन् B. F. }
{20}नित्यं योगपरो भूत्वा सम्यग्ज्ञानसमाधिमान्।
दशलक्षं जपेन्मौनी तारं संसारतारकम् ।। 39 ।।
39. - - - - - - - - - - - -
{20. नित्ययोग B.; नित्ययाग I. }
दशांशं जुहुयात् पर्णैः समिद्भिः सर्पिषापि वा।
प्रीता तस्य प्रकाशेऽहमहंता वैष्णवी परा ।। 40 ।।
40. दशांशमिति। लक्षकृत्व इत्यर्थः।
साधकस्य ततः सम्यक् सद्विवेकिनि चेतसि।
लक्ष्मीनारायणाख्यं तत् सामरस्यं प्रकाशते ।। 41 ।।
41. - - - - - - - - - - - - -
जीवन्नेव भवेन्मुक्तः पुनीते चक्षुषा जगत्।
सिद्धाः स्युस्तस्य मन्त्रास्ते लौकिका वैदिकाश्च ये ।। 42 ।।
42. - - - - - - - - - - - - - - -
स्नातः सर्वेषु वेदेषु विद्यासु सकलासु च।
सिद्धान्तेषु च सर्वेषु तीर्थेषु च भवेदसौ ।। 43 ।।
43. - - - - - - - - - - - -
प्रयोगाः सर्वमन्त्राणां यावन्तो यादृशाश्च ये।
तावन्तस्तादृशास्तेऽस्य प्रयोगा इति निर्णयः ।। 44 ।।
44. - - - - - - - - - - - - -
अस्य व्याहृतयस्तिस्रो वर्णत्रयसमुद्गताः।
पभ्द्यः समुद्गता ह्यस्याः सावित्री सर्वपावनी ।। 45 ।।
45. - - - - - - - - - - - - -
अस्याः पद्भ्यस्रयो वेदा ऋग्यजुःसामलक्षणाः।
इत्येतन्मयमेवेदं लौकिकं वैदिकं वचः ।। 46 ।।
46. - - - - - - - - - - - -
यथा न्यग्रोधधानायामन्तर्भूतो महाद्रूमः।
तथेदं वाङ्‌मयं विश्वमस्मिन्नन्तः स्थितं सदा ।। 47 ।।
47. तारस्य समस्तवाङ्‌मयरूपत्वे दृष्टान् उच्यते---यथेति। धाना सूक्ष्मं बीजम्। महाद्रुमस्य बीजे सूक्ष्मतयावस्थानकथनं चात्र सांख्यकत्कार्यवादमनुरुध्य। औपनिषदमते तु धानाया महाद्रुमस्य चोपादानैक्यात् सत्कार्यवाद इति अवस्थाभेदात् कार्यकारणभावव्यवहार इति च भिदा।
एतदाद्यं महाबीजं शब्दानां प्रकृतिः परा।
शब्दब्रह्म परं धाम पवित्रं परमं महत् ।। 48 ।।
48. - - - - - - - - - - - -
ओंकारः प्रणवस्तारो हंसो नारायणो ध्रुवः।
वेदात्मा सर्ववेदादिरादित्यः सर्वपावनः{21} ।। 49 ।।
49. - - - - - - - - - - - - -
{21. पालनः B. C. }
मोक्षदो मुक्तिमार्गश्च सर्वसंधारणक्षमः{22}।
एवमादीनि नामानि शास्रे शास्रे विचक्षणैः ।। 50 ।।
50. - - - - - - - - - - - -
{22. संधारणः परः I. }
{23}अधीतानि महापुण्यान्योंकारस्य महात्मनः।
इदं शरणमज्ञानामिदमेव विजानताम् ।। 51 ।।
51. - - - - - - - - - - -
{23. कथितानि A. G. }
अयमन्विच्छतां स्वर्गः पोतः पारं तितीर्षताम्।
हकारौकारसंयोगादयं प्रासादसंज्ञकः ।। 52 ।।
52. - - - - - - - - - - -
पिण्डोऽयं सर्वतत्त्वानां पिण्डभूतः सनातनः।
साधनं प्रतिपत्तिश्च विनियोघोऽथ धारणा ।। 53 ।।
53. - - - - - - - - - - - -
बीजस्येव सुरेशान प्रासादस्यास्य विद्धि तत्।
अस्यैव संज्ञामन्त्रोऽयं हंसो नाम महामनुः ।। 54 ।।
54. - - - - - - - - - - - - -
भोक्तारं प्रथमं वर्णं विद्धि भोग्यं द्वितीयकम्।
नारायणमयं पूर्वमक्षरं श्रीमयं परम् ।। 55 ।।
55. प्रथमं वर्णमिति। हकारमित्यर्थः। द्वितीयकमिति। सकारमित्यर्थः।
अग्नीषोमात्मकावेतौ वर्णौ विद्धि सनातनौ।
अनयोरन्तरा शक्र बिन्दुधर्मौ व्यवस्थितौ ।। 56 ।।
56. बिन्दुधर्मौ सृष्टिसंहारौ।
आधारान्मूर्धपर्यन्तं भोक्तारं वर्णमुन्नयेत्।
विसृजेन्मुखतो वर्णं द्वितीयं भोग्यसंज्ञकम् ।। 57 ।।
57. आधारस्थानमारभ्य मूर्धपर्यन्तगामिना पवनेन हकारमुच्चरेत्। सकारं मुखतो विसृजेत्।
सर्वा सृष्टिः कृता तेन हंसोच्चारप्रयोगतः।
अजपेयं समाख्याता विद्या सर्वाङ्गशोभना ।। 58 ।।
58. हंसमन्त्रस्याजपामन्त्र इति नाम।
चतुःषष्ट्यधिकाशीतिकोटिसंख्यासु योनिषु।
तद्भेदेषु च मन्त्रोऽयं स्वयमुच्चरते सदा ।। 59 ।।
59. - - - - - - - - - - - - -
निश्वासेन समं विद्या समुदेत्यन्तरुज्ज्वला।
उदयास्तमयावस्याः श्वासनिश्वासतुल्यकौ ।। 60 ।।
60. - - - - - - - - - - - - -
षष्टिः श्वासा भवेत्प्राणाः षट्‌ प्राणा नाडिका मता।
नाड्यः षष्टिरहोरात्रमेवं कालक्रियागतिः ।। 61 ।।
61. - - - - - - - - - - - -
एवं हंसोदयाद्विद्धि सहस्राण्येकविंशतिम्।
शतानि षट्‌ च देवेश तावन्तः स्युर्जपाः कृताः ।। 62 ।।
62. हंसमन्त्रे सकृज्जप्ते सति 21600 संख्याका जपाः कृता भवन्तीति भावः।
किंतु संकल्पनं कुर्यादहरादौ मनीषया।
एवंसंख्यान्{24} जपानस्य करिष्यामीति बुद्धिमान् ।। 63 ।।
63. एवंसंख्यानिति। इयत्संख्याकानित्यर्थः।
{24. संख्यां B. C. F. }
विन्यसेत् पञ्च चाङ्गानि तेषां रूपं निबोध मे।
सूर्यसोमौ चतुर्थ्यन्तौ नमः स्वाहासमन्वितौ ।। 64 ।।
64. सूर्यसोमौ हकारसकारौ।
निरञ्जनौ निराभासौ वौषड्‌हुंफडन्तकौ।
फडन्तं मूलमेवास्रमित्यङ्गान्यस्य पञ्च तु ।। 65 ।।
65. - - - - - - - - - - - - -
अयमेव विपर्यस्तः परमात्ममनुः स्मृतः।
{25}स्मृत्वा शक्तिं {26}ससंभारां सूर्ये भोक्तरि संनयेत् ।। 66 ।।
66. विपर्यस्त इति। सोऽहमिति मन्त्र इत्यर्थः। सकारेण शक्तिमादाय हकारे परमात्मनि योजयेदित्यर्थः।
{25. हुत्वा A. B. }
{26. सुसंभारां A. B. C. }
शिष्टं प्रणववच्चिन्त्यमिति संज्ञामनोर्विधिः।
पदमन्त्रास्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ।। 67 ।।
67. त्रय इति। यद्यपि चत्वारो मन्त्रा वक्ष्यन्ते। तथापि तेषु कंचिद्भेदमादाय त्रयाणां पृथक् निर्देशः क्रियते।
विष्णवे नम इत्येवं नमो नारायणाय च।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ।। 68 ।।
68. मन्त्रस्वरूपाण्याह--विष्णवे इत्यादि। आदौ नमो भगवते इति। अन्तेवासुदेवायेति। नमो भगवते वासुदेवायेति मन्त्र इत्यर्थः।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।। 69 ।।
69. - - - - - - - - - - -
पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरंदर{27}।
ओंकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ।। 70 ।।
70. - - - - - - - - - - - - -
{27. प्रकीर्तितः I. }
ज्ञानादिगुणसंयुक्तैरक्षरैः प्रणवादिभिः{28}।
नमोऽन्तैरङ्गक्लृप्तिः स्यात्तथैवोपाङ्गकल्पना ।। 71 ।।
71. - - - - - - - - - - - - -
{28. प्रणवादिकैः I. }
न्यूनाक्षरस्य मन्त्रस्य वर्णेन चरमेण तु।
उपाङ्गकल्पना कार्या {29}तत्तद्गुणपदैर्युता ।। 72 ।।
72. न्यूनाक्षरस्येति। षडक्षराष्टाक्षरमन्त्रयोः न्यूनाक्षरत्वम्। तत्र चरमाक्षरेण पूरणं कर्तव्यमित्यर्थः।
{29. तत्तत्पदगुणैः B. F. }
{30}तथैव स्फीतवर्णस्य शिष्टैस्तु द्वादशाधिकैः।
समस्तैश्चरमोपाङ्गं कल्पयेत्तेजसा सह ।। 73 ।।
73. स्फीतवर्णस्येति। अधिकवर्णस्येत्यर्थः; यथा जितं ते इति मन्त्रे।
{30. तथैवाधिक I. }
केवलस्तारकश्चैव चत्वारश्च तदादिकाः।
पञ्चैते व्यापका मन्त्राः पाञ्चरात्रे प्रकीर्तिताः ।। 74 ।।
74. - - - - - - - - - - - - -
{31}नासाध्यं किंचिदस्तीह मन्त्रैरेभिर्महात्मभिः।
निश्रेणी पञ्चपर्वैषा परब्रह्माधिरोहणे ।। 75 ।।
75. - - - - - - - - - - -
{31. नानासाद्यं किंचिदस्ति I. }
एषा दिव्या महासत्ता पञ्चमन्त्री तु मन्मयी।
अर्चनाज्जपतो ध्यानादिमां{32} सम्यक् समाश्रितः।
स्वां सत्तां वैष्णवीं प्राप्य परं ब्रह्माधिगच्छति ।। 76 ।।
46. - - - - - - - - - - - - -
{32. अमुं D. F. }
इति {33}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {34}तारप्रकाशो नाम चतुर्विंशोऽध्यायः
{33. श्रीपञ्चरात्र A; श्रीपाञ्चरात्रे B. }
{34. तारक I. }
********इति चतुर्विंशोऽध्यायः********