लक्ष्मीतन्त्रम्/अध्यायः ५२

विकिस्रोतः तः
← अध्यायः ५१ लक्ष्मीतन्त्रम्
अध्यायः ५२
[[लेखकः :|]]
अध्यायः ५३ →
लक्ष्मीतन्त्रस्य अध्यायाः

द्विपञ्चाशोऽध्यायः - 52
श्रीः---
अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर।
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् ।। 1 ।।
मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम्।
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् ।। 2 ।।
अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ।। 3 ।।
चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ।। 4 ।।
पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ।। 5 ।।
स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ।। 6 ।।
आह्निकाध्याययोश्चैव शास्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ।। 7 ।।
लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ।। 8 ।।
भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः।
आसत्तिविप्रकर्षौ च भावनातारतम्यतः ।। 9 ।।
बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः।
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव ।। 10 ।।
मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ।। 11 ।।
यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ।। 12 ।।
खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम्।
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः ।। 13 ।।
ततः परं तु यद्‌ ब्रह्म लक्ष्मीनारायणं तु तत्।
स्वराणां षट्‌चतुःषट्‌कं सूर्याग्नीन्दुसमुद्गतम् ।। 14 ।।
शेषा वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः।
इतीदं परमं बीजं सर्वकामफलप्रदम् ।। 15 ।।
पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम्।
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् ।। 16 ।।
विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम्।
चिन्तामणरिदं नाम नैव चिन्तामणिर्मणिः ।। 17 ।।
तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम्।
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्‌कयोः ।। 18 ।।
अङ्गक्लृप्तिरियं कार्या जातिमुद्रासमन्विता।
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः ।। 19 ।।
पूर्णाहंतासमावेशादादिबीजसमन्वयात्।
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते ।। 20 ।।
मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता।
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै ।। 21 ।।
तां तां वै देवतां तत्र नारीरूपामनुस्मरेत्।
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः ।। 22 ।।
मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा।
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः ।। 23 ।।
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रोद्धारे तन्त्रार्थसंग्रहे द्विपञ्चाशोऽध्यायः
********इति द्विपञ्चाशोऽध्यायः********