सामग्री पर जाएँ

लक्ष्मीतन्त्रम्/अध्यायः ४७

विकिस्रोतः तः
← अध्यायः ४६ लक्ष्मीतन्त्रम्
अध्यायः ४७
[[लेखकः :|]]
अध्यायः ४८ →
लक्ष्मीतन्त्रस्य अध्यायाः

सप्तचत्वारिंशोऽध्यायः - 47
श्रीः---
व्यूहानां प्रथमा लक्ष्मी र्मत्संज्ञैवोदिता हि या।
तस्याः सिद्धिरियं प्रोक्ता द्वितीयाया निशामय ।। 1 ।।
न्यासोपायं पद्मयागं सर्वं विद्धि पुरोदितम्।
पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ।। 2 ।।
किंतु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम्।
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा ।। 3 ।।
क्रमाद्ध्यानं सखीनां च यथा तदवधारय।
द्विभुजा हेमवर्णा च {1}कीर्तिरूपा स्मितानना ।। 4 ।।
{1. G. omits this and the next quarter. }
सुपुस्तकं करे वामे दक्षिणे चामरं करे।
ध्यायेत् किंशुकवर्णाभं कान्तरूपं मनोरमम्{2} ।। 5 ।।
{2. हरम् C. }
तत्रानुगचतुष्कं तु चतुर्हस्तं सिताम्बरम्।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ।। 6 ।।
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्‌पदोपेतमपराभ्यां निबोध मे ।। 7 ।।
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं ध्यात्वैवं दर्शयेत्ततः ।। 8 ।।
मुद्राः सर्वाः प्रतिस्वं याः साधकः पूजयेत्ततः।
अर्घ्यपुष्पादिना सम्यग्जप्त्वा शक्त्याथ होमयते ।। 9 ।।
तिलानि चाज्यसिक्तानि गन्धशाल्यन्वितानि च।
देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः ।। 10 ।।
एकान्ते विजने स्थित्वा मौनी मूलफलाशनः।
जपेल्लक्षत्रयं {3}मन्त्रं जपान्ते होममाचरेत् ।। 11 ।।
{3. मन्त्री B. F. }
लक्षैकसंख्यं देवेन्द्र तण्डुलैस्तिलमिश्रितैः।
कापिलेन घृतेनैव तादृक्क्षीरयुतेन च ।। 12 ।।
एकैकं च हृदादीनां सहस्रं चाथ होमयेत्।
दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च ।। 13 ।।
पतितायां तु पूर्णायामायाति परमेश्वरी।
साधु साध्विति वै ब्रूते स्थित्वाग्रे साधकस्य तु ।। 14 ।।
एह्येहि परमं धाम त्यजेदं भौतिकं पुरम्।
उपभुङ्क्ष्वामरान् भोगान् मर्त्यमध्यगतोऽपि च ।। 15 ।।
मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक।
एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः ।। 16 ।।
साधकः कीर्तिमन्त्रेण कुर्यात् कर्म यथेप्सितम्।
ददाति यस्य यत्किंचित्तत्तस्याप्यक्षयं भवेत् ।। 17 ।।
तेनासौ लभते कीर्तिं यावच्चन्द्रार्कतारकम्।
{4}प्रचण्डानां मनुष्याणां मध्यस्थो यदि बुध्यते ।। 18 ।।
{4. B. C. omit three lines from here. }
वक्ति संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः।
अभिभूय जनान् सर्वानुत्कृष्टत्वं प्रपद्यते ।। 19 ।।
जप्त्वा सिद्धान्नभाण्डं तु स्वल्पकालेऽन्नसंकटे।
यदेच्छति जनानां तु यथेच्छमशनं भवेत् ।। 20 ।।
ददाति चाक्षयं तस्य सप्ताहमनिशं यदि।
प्राप्नुयान्महतीं कीर्तिं यावदाभूतसंप्लवम् ।। 21 ।।
सुभिक्षे लवमात्रं तु आदाय कनकस्य च।
परिजप्य सहस्रं तु विधिना परितः स्थितम् ।। 22 ।।
प्रयाति तत् प्रभूतत्वं दीयतेऽर्थिजनस्य च।
अव्युच्छिन्नं द्विसप्ताहं संशयं नाधिगच्छति ।। 23 ।।
तेनासौ महतीं कीर्तिं प्राप्नुयाल्लोकसत्कृताम्{5}।
आदाय तोयकलशं नागेन्द्रभवनह्रदात् ।। 24 ।।
{5. विश्रुताम् B. F. }
प्रयायान्मरूभूमिं वै तत्र निम्ने तु भूतले।
निक्षिपेत् पर्वताग्रे वा सहस्रपरिमन्त्रितम् ।। 25 ।।
स पन्नगेश्वरस्तत्र परिवारसमन्वितः।
रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी ।। 26 ।।
तेनासौ महतीं लोके कीर्तिमाप्नोति वासव।
काले तु बीजरोही च यदि देवो न वर्षति ।। 27 ।।
आदाय मृत्कणं हस्ते तटाकजलमर्दितम्।
तन्मध्यस्थं च वा {6}क्लिन्नं परिजप्य शतत्रयम् ।। 28 ।।
{6. कुम्भं B. }
मुखवातैस्तु संतप्तं कृत्वा कीर्तिमनुं स्मरेत्{7}।
प्रक्षिपेद्गगने तद्वै मघत्वं प्रतिपद्यते ।। 29 ।।
{7. कीर्तिमनुस्मरेत् B. F. }
{8}पूरयेन्मेदिनीं सर्वां जलेन जलदस्तु सः।
तदाज्ञया वसेत्तावत्तस्मिन् देशे स मेघराट् ।। 30 ।।
{8. पूरयन् A. B. }
वर्षंस्तदुपयोग्यं च यावत् संपद्यते जलम्{9}।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलोकगाम् ।। 31 ।।
{9. अखिलम् G. }
संपादयति तत्तस्य यस्य यन्मनसेप्सितम्।
प्रभावं मन्त्रराजस्य कीर्त्याख्यस्य सुरोत्तम ।। 32 ।।
लिखितं पूर्ववद्बद्ध्वा हस्ते वा दक्षिणे करे।
प्राप्नुयान्महतीं कीर्तिं {10}पूजामृद्धिं सरस्वतीम् ।। 33 ।।
{10. F. omits eight quarters from here. }
एतत् संक्षेपतः प्रोक्तं कीर्तेर्मन्त्रस्य वासव।
द्वितीयाया विधानं मे तन्वास्तनुभृतां वर ।। 34 ।।
एतद्विधानमातिष्ठन् कीर्तिमन्त्रस्य शोभनम्।
प्राप्नुयाद्विमलां कीर्तिं संततेरपि भूतिदाम् ।। 35 ।।
इति {11}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे कीर्तिमन्त्रसिद्धिप्रकाशो नाम सप्तचत्वारिंशोऽध्यायः
{11. श्रीपाञ्चरात्र A. श्रीप़ञ्चरात्रे B. }
********इति सप्तचत्वारिंशोऽध्यायः********