लक्ष्मीतन्त्रम्/अध्यायः १९
← अध्यायः १८ | लक्ष्मीतन्त्रम् अध्यायः १९ [[लेखकः :|]] |
अध्यायः २० → |
एकोनविंशोऽध्यायः - 19
श्रीः{1}---
सिसृक्षालक्षणा पूर्वा पूर्णाहंता हरेरहम्।
सृष्टिरूपा परा शक्तिरूपेत्येवोदितास्म्यहम् ।। 1 ।।
1. सिसृक्षावस्थायाम् अहंतेति नाम्ना प्रथिता। सृष्ट्यवस्थायां परा शक्तिरिति नाम्ना प्रथिता।
{1. श्रीरुवाच B. I. }
दश पञ्च च तुल्या मे दशास्रिदशनन्दन।
अनुत्तरं स्वसंवेद्यं चिद्रूपं मम शाश्वतम् ।। 2 ।।
2. दशेत्यादि; अकारादिबिन्द्वन्ताः पञ्चदश दशा ज्ञेयाः। विसर्गस्य दशाप्रकृतित्वात् दशासु न परिगणनमिति ज्ञेयम्।
वाक्तत्त्वं तदकारात्मा सर्ववाङ्मयसंभवः।
तदेवानन्दरूपेण द्वितीयः स्वर इष्यते ।। 3 ।।
3. - - - - - - - - - - -
इच्छात्मना तृतीयः स्यादीशानात्मा तुरीयकः।
उन्मेषः पञ्चमः षष्ठ ऊर्जतारूप उच्यते ।। 4 ।।
4. - - - - - - - - - - -
चतुष्कं मध्यमं यत्तदिच्छादेरेव विक्रिया।
अनुत्तरेच्छासंयोगादेकारो नाम जायते ।। 5 ।।
5. चतुष्कमिति। ऋॠलृलॄकाररूपमित्यर्थः। तस्मात् तेषां न पृथक् ग्रहणं कृतम्।
तस्यैवानन्दसंयोगाज्जागद्योनिरुदाहृता।
अनुत्तरोन्मेषयोगादोकारो नाम जायते ।। 6 ।।
6. जगद्योनिः ऐकारः।
तस्यैवानुत्तरश्लेषात् सद्योजातसमुद्भवः।
अनुत्तराद्भवन्त्येते विकासा वेद्यसंश्रयाः ।। 7 ।।
7. सद्योजातः औकारः।
तादृक्तादृक्समुन्मेषा आनन्दाद्यास्रयोदश।
त्रयोदशतयोन्मेषाः श्रिता वेदनशेषिताम् ।। 8 ।।
8. वेदनशेषिताम्; संविद्रूपेण परिशेषिताम्। अस्य सूक्ष्मदशामित्युत्तरेणान्वयः।
अनुत्तरीं सूक्ष्मदशां स तु {2}पञ्चदशः स्वरः।
एताः पञ्चदशावस्था विसृष्टेः स्फुरणोद्यमाः ।। 9 ।।
9. सूक्ष्मदशा बिन्दुः। स च पञ्चदशः अकारमारभ्य गणने भवति।
{2. पञ्चदश स्वराः B. }
दशभिः पञ्चभिश्चैवमङ्गैः {3}पूर्णा सिसृक्षया।
{4}दैवी सृष्टिमयी शक्तिः कृत्ये कृत्ये कृतोद्यमा ।। 10 ।।
10. सिसृक्षयेति हेतौ तृतीया।
{3. पूर्ण B. D. F. }
{4. देवी B. }
विसृजत्यास्तु तस्या मे तत्त्वानां पञ्चविंशतिम्{5}।
पुरुषाद्याः पृथिव्यन्ताः कादिमान्ताः समुद्गताः ।। 11 ।।
11. मे इति पञ्चम्यर्थे विभक्तिप्रतिरूपकमव्ययम्; मदित्यर्थः। समुद्गता इत्यनेनान्वेति। कादिमान्ता इति व्युत्क्रमेणान्वयः।
{5. विंशतिः G. }
तत्तदक्षरसंस्फूर्तेस्तत्तत्तत्त्वं समुद्गतम्।
चतुष्कं धाराणारूपं यादिवान्तमुदीर्यते ।। 12 ।।
12. धारणेति। परदशाया अपरदशामवतरतः पुरुषस्य धारणात् धारणेति समाख्या।
धारयन्ति यतो मध्ये पुरुषं धारणाः स्मृताः।
कला किंचित्क्रियारूपा यकारो वातसंज्ञितः{6} ।। 13 ।।
13. - - - - - - - - - - - - - -
{6. संज्ञकः B. }
किंचिज्ज्ञानात्मिका विद्या रेफः पावकसंज्ञितः।
स्तम्भमोहात्मिका माया लकारः पृथिवी मतः ।। 14 ।।
14. - - - - - - - - - - - - -
रञ्जनात्मा रागशक्तिर्वकारो वरुणात्मकः।
परापरदशामध्ये धारयन्त्यो नरं सदा ।। 15 ।।
15. - - - - - - - - - - -
चतस्रो धारणा ज्ञेयास्ता एतास्तत्त्वकोविदैः।
शादिक्षान्तं तु विज्ञेयं विशुद्धं ब्रह्मपञ्चकम् ।। 16 ।।
16. - - - - - - - - - - - -
शषसहोऽनिरुद्धाद्या विज्ञेयास्रिदशेश्वर।
सृजन्त्याः क्षुभितं रूपं सृष्ट्यादौ यन्ममाद्भुतम् ।। 17 ।।
17. अनिरुद्धाद्या इति क्रमेणान्वयः। शकारः अनिरुद्धात्मकः।
क्षोभिका सा महाशक्तिः क्षात्मा सत्यापराह्वया।
पृथिव्याद्या वियत्प्रान्ता या दिव्याः पञ्च शक्तयः ।। 18 ।।
18. क्षकारस्य सत्यात्मकत्वमाह---क्षोभिकेति।
बलादिपञ्चकात्मानो दिव्या मत्सत्त्वनामिकाः।
ज्ञानात्मानो ममोद्यत्यास्ता एताः शादिशक्तयः ।। 19 ।।
19. बलादीति। बलैश्वर्यवीर्यशक्तितेजांसीत्यर्थः।
विसर्गो नाम यः प्रोक्तः पुरा पञ्चदशाङ्गवान्।
साहं सोममयी शक्तिः किरणायुतसंकुला ।। 20 ।।
20. - - - - - - - - - - -
{7}संकोचश्च विकासश्च तावेव परिकीर्तितौ।
अङ्गानामन्तिमो यस्तु प्रोक्तः पञ्चदशो मया ।। 21 ।।
21. बिन्दुः संकोचः। विसर्गः विकासः। अन्तिम इति। बिन्दुरित्यर्थः।
{7. C. omits 4 lines from here. }
आदानशीलं तं विद्धि सूर्यं भोक्तारमञ्जसा।
सूर्याचन्द्रमसावेतौ बिन्दुसर्गौ पुरंदर ।। 22 ।।
22. भोक्तारम्; संहारकमित्यर्थः। बिन्दुः सूर्यः। विसर्गश्चन्द्रमा इत्यर्थः।
{8}किरणाः सप्त सप्त स्युर्देवयोरनयोर्द्वयोः।
चतुर्दश स्वराः शिष्टाः सप्त युग्मानि कल्पयेत् ।। 23 ।।
23. - - - - - - - - - - - - - -
{8. B. omits 3 lines from here. }
तेषु सप्तसु युग्मेषु पूर्वे सप्त पुरंदर।
शोषकाः सूर्यरूपाया भोक्त्राक्याया ममांशवः ।। 24 ।।
24. पूर्वे सप्तेति। अ, इ, उ, ऋ, लृ, ए, ओ इति सप्तेत्यर्थः।
उत्तरे सप्त युग्मेषु शीतलाह्लादकारिणः।
पोषकाः सोमरूपाया भोग्याख्याया ममांशवः ।। 25 ।।
25. उत्तरे सप्तेति। आ, ई, ऊ, ॠ, लॄ, ऐ औ इति सप्तेत्यर्थः।
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे।
पाक इत्युदिताः पूर्वे किरणाः सूर्यसंभवाः ।। 26 ।।
26. अकाराद्योकारान्तानां सप्तानां युग्मस्थपूर्ववर्णआनां सूर्यकिरणात्मकत्वं गुणांश्चाह---आलोक इत्यादि। तथा च जयाख्ये---"आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे। पाकः प्राप्तिरिति ह्यष्टौ सूर्यभागे व्यवस्थिताः। अकारादिषु ह्रस्वेषु वर्णेष्वेतेष्वनुक्रमात्"।। (6-13) इति। अत्रानुस्वारमपि संयोज्याष्टत्वमुक्तम्।
{9}द्रवता शीतभावश्च शान्तिः{10} किरणैः कान्तिशालिनी।
रसतानन्द इत्येते सप्त चान्द्रमसाः कराः ।। 27 ।।
27. एवमुत्तरवर्णानां सोमकिरणात्मकत्वं गुणांश्चाह---द्रवतेत्यादिना। जयाख्ये च---"द्रवता शैत्यभावश्च तृप्तिः कान्तिः प्रसन्नता। रसतास्वाद आनन्दो ह्यष्टौ चान्द्रा इमे मताः।।" (6-15) इति। अत्र विसर्गं संयोज्याष्टत्वं भाव्यम्।
{9. मावना F. }
{10. शक्तिः A. B. C. }
अग्नीषोमात्मकैरेभिः{11} किरणैः कान्तिशालिनी।
पुमांसं बिन्दुरूपं तमङ्गीकृत्य विशेषणी ।। 28 ।।
28. - - - - - - - - - - -
{11. एतैः D. }
सोमरूपोत्तरा शक्तिकोटिमण्डलमण्डिता।
महासृष्टिर्महानन्दा प्रवर्तेऽन्त्यस्वरात्मना ।। 29 ।।
29. - - - - - - - - - - -
{12}तस्याः प्रवर्तमानाया उद्गतं ब्रह्मपञ्चकम्।
क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् ।। 30 ।।
30. - - - - - - - - - - -
{12. तस्यां प्रवर्तमानायां B. }
क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया।
वासुदेवाख्यया होऽभूता साख्यः संकर्षणोदयः ।। 31 ।।
31. क्षादिशान्ताधिष्ठायिब्रह्मपञ्चकनामान्याह---सत्येत्यादिना।
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया।
ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः ।। 32 ।।
32. ब्रह्मात्मिकाः; ब्रह्ममय्य इत्यर्थः।
स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः।
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ।। 33 ।।
33. ब्रह्मणो ममेति। ब्रह्माभिन्नाया ममेत्यर्थः।
चतस्रो धारणा जाता वाद्या यान्ताः पुरंदर।
तुर्याद्या जाग्रदन्तास्ता अवस्थाः परिकीर्तिताः ।। 34 ।।
34. - - - - - - - - - - - - -
पुमांसं धारयन्त्येता मध्यतो दशयोर्द्वयोः।
यैषा ब्रह्मदशा प्रोक्ता प्राकृती भादिका{13} च या ।। 35 ।।
35. मध्यत इति। परापरदशयोर्मध्ये इत्यर्थः। भादिकेति। भकारादिककारपर्यन्ताधिष्ठातृभूताः प्रकृत्यादिपृथिव्यन्ता ज्ञेयाः।
{13. श्रयते A.; क्रियते F. }
मध्ये तयोर्मकाराख्यो धारणानां चतुष्कतः।
{14}ध्रियते स पुमान् प्रोक्तो जाग्रदादिविभेदवान् ।। 36 ।।
36. - - - - - - - - - - - - - - -
{14. श्रयते A.; क्रियते F. }
यदि न ध्रियते ताभिर्दशामन्यतरां व्रजेत्।
ब्राह्नीं वा प्राकृतीं वापि नैव स्यात् संसृतिस्ततः ।। 37 ।।
37. - - - - - - - - - - - - - - -
{15}इत्यर्थं धारणा मत्तः प्रादुर्भूता ममाज्ञया।
ततो दशाचतुष्कस्थः पुरुषो भोक्तृसंज्ञकः ।। 38 ।।
38. धारणाः अन्तःस्थाः। ब्रह्मप्राकृतदशामध्यस्थत्वात् अन्तःस्था इत्युक्ताः। अहिर्बुध्न्ये तु---"अन्तःस्था इति च प्रोक्ता अन्तःस्थपुरुषेशयाः" इति व्युत्पत्त्यन्तरमुक्तम्।
{15. य इत्थं A. B. }
मत्तो जज्ञे म इत्येवं योग्यो भोगापवर्गयोः।
भोगानां प्रसवार्थाय पुरुषस्यास्य वासव ।। 39 ।।
39. मत्तो जज्ञे म इत्येवमित्यनेन मशब्दस्य जीववाचकस्य व्युत्पत्तिरभिप्रेता। मनधातोर्निष्पत्तिरप्यन्यत्रोक्ता।
अचैतन्यं परं सूक्ष्मं गुणसाम्यमनुल्बणम्।
योनिस्वभावसंज्ञातं मत्तोऽभूद्भ इति स्वयम् ।। 40 ।।
40. अचैतन्यमिति बहुव्रीहिः। अचेतनमित्यर्थः। "अचेतना परार्था च नित्या सततविक्रिया" इत्यन्यत्रोक्तम्। अनुल्वणम्; अव्यक्तमित्यर्थः। योनिः स्वभाव इति च तन्नाम। भ इति; भकारवाच्यत्वेनेत्यर्थः।
{16}भोग्यभोगादिसिद्ध्यर्थं भुञ्जानस्य विपश्चितः{17}।
बाद्यात् ककारपर्यन्ताद्वर्णग्रामात् पुरंदर ।। 41 ।।
41. तत्त्वाविर्भावक्रममनुरुद्य बाद्यादित्यादिना वर्णानां व्यत्क्रमेण निर्देशः कृतः।
{16. भोग्यदत्त्वादि B. }
{17. अविपस्चितः F. }
व्यक्तानि जज्ञिरे मत्तो विंशतिस्रीणि च क्रमात्।
बुद्ध्यहंकारमनसां सृष्टिर्बादित्रयात्तथा ।। 42 ।।
42. - - - - - - - - - - -
श्रोत्रादेर्नादितान्तेषु पञ्चकस्य समुद्भवः।
वागादेर्णादिटान्तेषु पञ्चकस्य समुद्भवः ।। 43 ।।
43. - - - - - - - - - - - -
{18}शब्दाद्याः पञ्चतन्मात्रा ञादिचान्तेषु जज्ञिरे।
वियदादीनि भूतानि ङादिकान्तेषु जज्ञिरे ।। 44 ।।
44. - - - - - - - - - - - -
{18. व्योमाद्या I. }
बोधः शब्दात्मनोदेति शब्दस्त्त्वर्थात्मना ततः।
विद्धि बोधं तु मद्रूपं सर्वेयं मत्ततिस्ततः ।। 45 ।।
45. - - - - - - - - - - - -
वर्णाध्वनस्त्वियं रीतिर्मध्यमा कथिता तव।
आद्यामन्तां च देवेश गदन्त्या मे निशामय ।। 46 ।।
46. - - - - - - - - - - - - -
इति {19}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {20}वर्णोत्पत्तिनिरूपणं नाम एकोनविंशोऽध्यायः
{19. श्रीपञ्चरात्र A. D. }
{20. A. omits the title. }
********इत्येकोनविंशोऽध्यायः********