सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.1 प्रथमोऽर्द्धः

विकिस्रोतः तः
Jump to navigation Jump to search


[१]सुषमिद्धो न आ वह देवां अग्ने हविष्मते ।
होतः पावक यक्षि च ॥ १३४७ ॥ ऋ. १.१३.१
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
अद्या कृणुय्हूतये ॥ १३४८ ॥
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
मधुजिह्वं हविष्कृतं ॥ १३४९ ॥
अग्ने सुखतमे रथे देवां ईडित आ वह ।
असि होता मनुर्हितः ॥ १३५० ॥


[२]यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।
सुवाति सविता भगः ॥ १३५१ ॥
सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः ।
ये नो अंहोऽतिपिप्रति ॥ १३५२ ॥
उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।
महो राजान ईशते ॥ १३५३ ॥


उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ॥ १३५४ ॥ ऋ. ८.६४.१
पदा पणीनराधसो नि बाधस्व महां असि ।
न हि त्वा कश्च न प्रति ॥ १३५५ ॥
त्वमीशिषे सुतानामिन्द्र त्वमसुतानां ।
त्वं राजा जनानां ॥ १३५६ ॥


आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु ।
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ १३५७ ॥
स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः ।
प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ॥१३५८ ॥
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।
यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९ ॥
गौरीवितम्



मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ १३६० ॥
अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं ।
विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं ॥ १३६१ ॥
मैधातिथम्


उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव ॥ १३६२ ॥
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१३६३ ॥
अभीवर्तः


पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईरसे ॥ १३६४ ॥
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
गोजीरया रंहमाणः पुरन्ध्या ॥ १३६५ ॥
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजाँ अभि पवमान प्र गाहसे ॥ १३६६ ॥
श्यावाश्वम्
आन्धीगवम्


परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ १३६७ ॥
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ १३६८ ॥
इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥ १३६९ ॥
वाङ्निधनसौहविषम्
स्वर्न्निधनसौहविषम्
पौष्कलम्


सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते ।
तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥ १३७० ॥
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥ १३७१ ॥
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं ।
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥ १३७२ ॥
वाजजित्
कावम्


१०
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं ।
दूरेदृशं गृहपतिमथव्युं ॥ १३७३ ॥
तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् ।
दक्षाय्यो यो दम आस नित्यः ॥ १३७४ ॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
त्वां शश्वन्त उप यन्ति वाजाः ॥ १३७५ ॥
महावामदेव्यम्

११
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
पितरं च प्रयन्त्स्वः ॥ १३७६ ॥
अन्तश्चरति रोचनास्य प्राणादपानती ।
व्यख्यन्महिषो दिवं ॥ १३७७ ॥
त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते ।
प्रति वस्तोरह द्युभिः ॥ १३७८ ॥

  1. सुषमिद्धो न आ वहेत्य् आप्रीर् आज्यं भवति। यत्र ह वै क्व चाप्रीर् आज्यं प्रजापतेर् एव तत्। प्रजापतिम् एव तेनाप्रीणन्ति। - जैब्रा २.१२
  2. ऋ. ७.६६.४, जै.ब्रा. ३.२०८