सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ७/कावम्
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते ।
तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥ १३७० ॥ ऋ. ९.६९.६
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥ १३७१ ॥
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं ।
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥ १३७२ ॥
११. कावम् ।। कविः। जगती। पवमानस्सोमः॥
सूर्योवा ॥ स्येवरश्मयोद्रा । वयित्नावाऽ२ः । मत्सरासᳲ प्रसुतस्सा । कमीराताऽ२इ ॥ तन्तुन्ततंपरिसर्गा । सआशावाऽ२३ः ॥ नेन्द्रोऽ३दार्ताइ । पवताइधाऽ२३ । माकाऽ३ इञ्चाऽ५"नाऽ६५६ ॥ श्रीः ॥ उपोवा ॥ मतिᳲपृच्यतेसाइ । च्यतेमाधूऽ२ । मन्द्राजनीचोदतेआ । तरासानाऽ२इ ॥ पवमानस्सन्तनिस्सू । न्वतामाइवाऽ२३ ॥ माधू३मान्द्रा । प्सᳲपराइवाऽ२३ । रामाऽ३र्षाऽ५"ताऽ६५६इ ॥ श्रीः ।। उक्षोवा ॥ मिमेतिप्रतिया । तिधेनावाऽ२ः । देवस्यदेवीरुपया । तिनिष्कार्ताऽ२म् ॥ अत्यक्रमीदर्जुनंवा। रमव्यायाऽ२३म् ॥ आत्काऽ३न्नानी। क्तंपराइसोऽ२३ । मोआऽ३व्याs५"ताऽ६५६॥
दी. २१. उत् . १५. मा. १८. ङै. ॥३५३।।
टिप्पणी
द्र. वाजजित्