विष्णुपुराणम्/चतुर्थांशः/अध्यायः ९

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

रजेः पञ्चपुत्रशतान्यतुलवीर्य्यसांराणयासन् । देवासुरसंग्रामारम्भे परस्पर वधेप्सवो देवाश्वासुराश्व ब्रह्माणां पप्रच्छुः ।। ४-९-१।।

भगवन् ! अस्माकमत्र विरोधे कतरः पक्षो जेता भविष्यतीति । अथाह भगवान्--येषामर्थे रजिरात्तायुधो योतूस्यातीति । अथ दैत्यैरुपेत्य रजि रात्म साहाय्यदानायाभ्यर्थितः प्राह, --योतूस्येऽहं भवता मर्थे, यद्यहममर जयादू भवतामिन्द्रो बविष्यामि इति । आकर्ण्यैतत् तैरभिहितो, न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामः । अस्माकमिन्द्रः प्रह्लादस्तदर्थमयमुद्यम इत्युक्त्वा गतोष्वसुरेषु देवैरप्यसाववनीपतिरेवमेवोक्तः । तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्वीप्सितम ।। ४-९-२ ।।

रजिनापि देवसैन्यसहायेन अनेकैर्महास्त्रेस्तदशेषमसूरबलं निषूदितम् ।
अवजितारातिपक्षश्व इन्द्रो रजिचरणयुलमात्मशिरसा निपीडयाह,--भय त्राणदानादस्मत्पिता भवान्, अशीषलोकानामुत्तमो भवान्, यस्याहं पुत्रस्त्रिलो केन्द्रः ।। ४-९-३ ।।

स चापि राजा प्रहस्याह,--एवमेवास्तु, अनतिक्रमणीया हि वैरिपक्षादप्यनेकविधचाटुवाक्यगर्भा प्रणतिः, इत्युक्ता स्वपुरमाजगाम ।। ४-९-४ ।।

शतक्रतुरपीन्द्रत्वं तकार ।
स्वर्याते च रजौ नारदर्षिचोदिता राजसूताः शतक्रतुमात्मपितृपुत्रमाचारादू राज्यं याचितवन्तः ।। ४-९-५ ।।

अप्रदाने चावजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रः । ततश्व बहुतिथे काले व्यतीते बृहस्पतिमेकान्ते दृष्ट्वापह्टतत्रैलोक्ययज्ञभागः शतक्रतुराह ।। ४-९-६ ।।

वदरीफलमात्रमप्यर्हसि मम आप्यायनाय पुरो डाशखणडं दातुमित्युक्तो बृहस्पतिरूचे, --यद्यवं पूर्वमेव त्वयाहं चोदितः स्यां, तन्मया त्वदर्थं किमकर्त्तव्यमिति ।। ४-९-७ ।।

स्वल्पैरेवाहोभिस्त्वां निजं पदं प्रापयिष्यामि इत्यभिधाय तेषामनु दिनाभिचारिकं बुद्धिमोहाय शक्रस्य च तेजोवृद्धये जुहाव । ते चापि
तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्रिषो धर्म्मत्यागिनो वेदवादपराङूमुखा बभूवुः ततश्व तानपेतधर्म्मा चारान् इन्द्रो जघान पुरोहिताप्यायिततेजाश्व त्रिदिवमाक्रामत् । एतदिन्द्रस्य स्वपदच्यवनारोहणां श्रुत्वा पुरुषः स्वपदभ्रशं दौरात्म्यं वा न चाप्नोति । रम्भस्त्वनपत्योऽभवत् । क्षत्रवृद्धसुतः प्रतिक्षत्त्रः, ततूपुत्रः सञ्जयः, ततश्व विजयः, तस्माज्व यज्ञकृत्, तस्य हर्षवर्द्धनः, हर्षवर्द्धनसुतः सहदेवः, तस्माददीनः, तस्य जयसेनः, ततश्व संहुतिः, तत पुत्रः, क्षंत्रधर्म्माः, इत्येते क्षत्रवृद्धस्य । अतो नहुषवंशं वक्ष्यामि इति ।। ४-९-८ ।।