विष्णुपुराणम्/चतुर्थांशः/अध्यायः ६
मैत्रेय उवाच ।
सूर्यस्य वंश्या भगवन्कथिता भवता मम ।
सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान् १ ।
कीर्त्त्यते स्थिरकीर्त्तीनां येषामद्यापि संततिः ।
प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि २ ।
श्रीपराशर उवाच ।
श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः ।
सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ३ ।
अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिरतिगुणान्वितैर्नहुषययाति-कार्तवीर्यार्जुनादिभिर्भूपालैरलंकृतः तमहं कथयामि श्रूयताम् ४ ।
अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ५ ।
अत्रेस्सोमः ६ ।
तं च भगवानब्जयोनिः अश्षोऔ!षधीद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् ७ ।
स च राजसूयमकरोत् ८ ।
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ९ ।
मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार १० ।
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश्च देवर्षिभिर्याचमानोपि न मुमोच ११ ।
तस्य चंद्र स्य च बृहस्पतेर्द्वेषादुशना पार्ष्णिग्राहोभूत् १२ ।
अंगिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत् १३ ।
यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः १४ ।
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽऽभवत् १५ ।
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् १६ ।
ततश्च समस्तशस्त्राण्यसुरेषु रुद्र पुरोगमा देवा देवेषु चाश्षोदानवा मुमुचुः १७ ।
एवं देवासुराहवसंक्षोभक्षुब्धहृदयमश्षोमेव जगद्ब्रह्माणं शरणं जगाम १८ ।
ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् १९ ।
तां चांतःप्रसवामवलोक्य बृहस्पतिरप्याह २० ।
नैष मम क्षेत्रे भवत्याऽन्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधार्ष्ट्येनेति २१ ।
सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानंतरं तमिषीकास्तंबे गर्भमुत्ससर्ज २२ ।
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप २३ ।
बृहस्पतिमिंदुं च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवस्समुत्पन्नसंदेहास्तारां पप्रच्छुः २४ ।
सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति २५ ।
एवं तैरुक्ता सा तारा ह्रिया किंचिन्नोवाच २६ ।
बहुशोप्यभिहिता यदाऽसौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्तुमुद्यतः प्राह २७ ।
दुष्टेंव कस्मान्मम तातं नाख्यासि २८ ।
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि २९ ।
यथा च नैवमद्याप्यतिमंथरवचनाभविष्यसीति ३० ।
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् ३१ ।
कथय वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति ३२ ।
ततः प्रस्फुरदुच्छ्वासितामलकपोलकांतिर्भगवानुडुपतिः कुमारमालिंग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे ३३ ।
तदाख्यातमेवैतत् स च यथेलायामात्मजं पुरूरवसमुत्पादयामास ३४ ।
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्विनं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ३५ ।
दृष्टमात्रे च तस्मिन्नपहाय मानमश्षोमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ३६ ।
सोऽपि च तामतिशयितसकललोकस्त्रीकांतिसौकुमार्यलावण्यग-तिविलासहासादिगुणामवलोक्य तदायत्तचित्तवृत्तिर्बभूव ३७ ।
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् ३८ ।
राजा तु प्रागल्भ्यात्तामाह ३९ ।
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदाऽनुरागमुद्वहेत्युक्ता लज्जावखंडितमुर्वशी तं प्राह ४० ।
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनरपि तामाह ४१ ।
आख्याहि मे समयमिति ४२ ।
अथ पृष्टा पुनरप्यब्रवीत् ४३ ।
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ४४ ।
भवांश्च मया न नग्नो द्र ष्टव्यः ४५ ।
घृतमात्रं च ममाहार इति ४६ ।
एवमेवेति भूपतिरप्याह ४७ ।
तया सह स चावनिपतिरलकयां चैत्ररथादिवनेष्वमलपद्मखंडेषु मानसादिसरस्स्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्द्धमानप्रमोदोऽनयत् ४८ ।
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्द्धमानानुरागा अमरलोकवासेऽपि न स्पृहां चकार ४९ ।
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगंधर्वाणां च नातिरमणीयोऽभवत् ५० ।
ततश्चोर्वशी पुरूरवसोस्समयविद्विश्वावसुर्गंधर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ५१ ।
तस्याकाशो! नीयमानस्योर्वशी शब्दमशृणोत् ५२ ।
एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति ५३ ।
तदाकर्ण्य राजा मां नग्नं देवी वीक्ष्यतीति न ययौ ५४ ।
अथान्यमप्युरणकमादाय गंधर्वा ययुः ५५ ।
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशो! पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्त्तराविणी बभूव ५६ ।
राजाप्यमर्षवशादंधकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत् ५७ ।
तावच्च गंधर्वैरप्यतीवोज्ज्वला विद्युज्जनिता ५८ ।
तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता ५९ ।
परित्यज्य तावप्युरणकौ गंधर्वास्सुरलोकमुपगताः ६० ।
राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ६१ ।
तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम ६२ ।
कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिरप्सरोभिस्समवेतामुर्वशीं ददर्श ६३ ।
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि घोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ६४ ।
आह चोर्वशी ६५ ।
महाराजालमनेनाविवेकचेष्टितेन ६६ ।
अंतर्वत्न्यहमब्दांते भवताऽत्रागंतव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टस्स्वपुरं जगाम ६७ ।
तासां चाप्सरसामूर्वशी कथयामास ६८ ।
अयं स पुरुषोत्कृष्टो येनाहमेतावंतं कालमनुरागाकृष्टमानसा सहोषितेति ६९ ।
एवमुक्तास्ताश्चाप्सरस ऊचुः ७० ।
साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ७१ ।
अब्दे च पूर्णे स राजा तत्राजगाम ७२ ।
कुमारं चायुषमस्मै चोर्वशी ददौ ७३ ।
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पंच पुत्रोत्पत्तये गर्भमवाप ७४ ।
उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गंधर्वा वरदास्संवृत्ताः व्रियतां च वर इति ७५ ।
आह च राजा ७६ ।
विजितसकलारातिरविहतेंद्रि यसामर्थ्यो बंधुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गंधर्वा राज्ञेऽग्निस्थालीं ददुः ७७ ।
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वोर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवश्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्थालीमादाय जगाम ७८ ।
अंतरटव्यामचिंतयत् अहो मेऽतीव मूढता किमहमकरवम् ७९ ।
वह्निस्थाली मयैषानीता नोर्वशीति ८० ।
अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम ८१ ।
व्यतीतेऽर्द्धरात्रे विनिद्रश्चाचिंतयत् ८२ ।
ममोर्वशीसालोक्यप्राप्त्यर्थमग्निस्थाली गंधर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता ८३ ।
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ८४ ।
शमीगर्भं चाश्वत्थमग्निस्थालीस्थाने दृष्ट्वाऽचिंतयत् ८५ ।
मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थश्शमीगर्भोऽभूत् ८६ ।
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति ८७ ।
एवमेव स्वपुरमभिगम्यारणिं चकार ८८ ।
तत्प्रमाणं चांगुलैः कुर्वन् गायत्रीमपठत् ८९ ।
पठतश्चाक्षरसंख्यान्येवांगुलान्यरण्यभवत् ९० ।
तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव ९१ ।
उर्वशीसालोक्यं फलमभिसंधितवान् ९२ ।
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गांधर्वलोकानवाप्योर्वश्या सहावियोगमवाप ९३ ।
एकोऽग्निरादावभवदेकेन त्वत्र मन्वंतरे त्रेधा प्रवर्तिताः ९४ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! षष्ठोऽध्यायः ६।
मैत्रेय उवाच ।
सूर्य्यस्य भगवन् ! वशः कथितो भवता मम ।
सोमस्य वेशे त्वखिलान् श्रोतुमिच्छामि पार्थिवान् ।। ४-६-१ ।।
कीर्त्त्यते स्थिरकीर्त्तीनां येषामद्यापि सन्ततिः ।
प्रसादसुमुखस्तन्मे ब्रह्मन्नाख्यातुमर्हसि ।। ४-६-२ ।।
पाशर उवाच ।
श्रूयतां मुनिशाद्दूल । वंशः प्रथिततेजसः।
सोमस्यानुक्रमात् ख्याता यत्रोर्व्वीपतयोऽभवन् ।। ४-६-३ ।।
अयं हि वंशोऽतिबलपराक्रमद्यु तिशीलचेष्टोवद्भिंरतिगुणान्वितैर्नहुष-ययातिकार्त्तवीर्य्यार्ज्जुनादिभि र्भूपालैरलङ्कृ तः ।। ४-६-४ ।। तमह कथयामि श्रूयताम् |
आखलजगतूस्त्रष्टुर्भग वन्नारायणनाभिसरोजिंनीसमुद्भवाब्जयोनेर्ब्रह्मणः
पुत्रोऽत्रिः, अत्रेः सोमः, तञ्च भगवानब्जयोनिरशेषौधि-द्रिज-नक्षत्राणामा
धिपत्येऽभ्यषचयत् ।। ४-६-५ ।।
स च राजसूयमकरोत् । ततूप्रभावादत्युतूकृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ।। ४-६-६ ।।
मदावलेपाच्चासौ सकलदेवगुरोर्बृहस्पतेस्तारां नाम पत्रीं जहार ।। ४-६-७ ।।
बहुशश्व बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्य मानः सकलैश्व देवषिं बिर्याच्यमानोऽपि न मुनोच । तस्य हि बृहस्पतिदू षादुशनाः पाष्णिग्राहोऽभवत ।। ४-६-८ ।।
अङ्गिरसश्व सकाशोपलब्धविद्योभगवान्बृहस्पतः साहाय्यमकरोत् ।। ४-६-९ ।।
यतश्वोशनाः ततो हि जम्भ-कुजम्भाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यम चक्रुः । बृहस्पतेरपि सकलदेवसैन्यसहायः शक्रोऽभवत् ।। ४-६-१० ।।
एवञ्च तयोरतीवोग्रः संग्रामस्तारकानिमित्त्स्तारका मयो नामाभवत् । ततश्व समस्तशस्त्राण्यसुरेषु रुद्रषुरोगमा देवा देवेषु चाशेषदानवा मुमुचुः ।। ४-६-११ ।।
एवञ्च देवासुराहवक्षोभक्षुब्धह्टदयमशेषमेव जगदू ब्रह्माणां शरणां जगाम ।। ४-६-१२ ।।
ततश्व भगवानप्युशनस शङ्खरमसुरान् देवांश्व निवार्य्य बृहस्पते तारामदात् । ताञ्चान्तः प्रसवामवलोक्य बृहस्पतिराह ।। ४-६-१३ ।।
नैष मम क्षेत्रे भवत्यान्यसुतो धार्य्यस्तदुतूसृजैनमलमतिधाष्टर्येनेति । सा च तैनैवमुक्ता पतिव्रता भर्त्तृ वचनात् तमीषिकास्तम्बे गभमुत्ससतज्जे ।। ४-६-१४ ।।
स चोतूसृष्टमात्र एवातितेतजसा देवानां तेजांस्याचिक्षेप ।। ४-६-१५ ।।
बहस्पतिमिन्दुञ्च तस्य कुमारस्यातिचारुतया साभिलाषौ दृष्ट्वा देवाः समुत पन्नसन्देहास्तारां पप्रच्छुः सत्यं कथयास्माकमतिसुभगे!कस्यायमात्मजः, सोमस्याथ बृहस्पतेः? इत्युक्तापि सा तारा ह्रिया न किञ्चिदुवाच ।। ४-६-१६ ।।
बहशोऽप्यभिहुता यदासौ देवेभ्यो नाचचक्ष, ततःकुमारस्तां! शप्तुमुद्यतः प्राह च दुष्टे !अम्ब कस्मान्मम तातं नाख्यासि, अद्यवै तेऽलीकलज्जावत्याः शास्तिमयमहं करोमि यथा नैवमन्याप्यतिमन्थरवचना भवतीति ।। ४-६-१७ ।।
अथ भगवान् पितामहस्तं कुमारं सन्निवार्य्य स्वयमपृच्छत् ताराम् कथय वत्से !कस्यायमात्मजः ? सोमस्याथ बृहस्पतेः ? इत्युक्ता लज्जाजड़माहसोमस्येति ।। ४-६-१८ ।।
ततः स्फरदुच्छसितामलकपोलकान्तिर्भगवानुड स च आख्यातमेवैतत् यथेलायामात्मजं पुरूरवसमुतूपादयामास । पतिस्तमालिङ्गय कुमारं साधु साधु वतूस! प्राज्ञोऽसीति बुध इति नाम चक्र ।। ४-६-१९ ।।
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी । यं सत्यवादिनमतिरूपखवन्तं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यम् इति कृतमतिरुर्व्वशी ददर्श ।। ४-६-२० ।।
दृष्टमात्रे च यस्मिन् अपहाय प्रानमशेषमपास्य स्वर्ग सुखाभिलाषं तन्मना भूत्वा तमेवोपतस्थे ।। ४-६-२१ ।।
सोऽपि च तामतिशयितसकललोकस्त्रीकान्ति-सौकुमार्य्य-लावणयातिविलासहासादिगुणामवलोक्य तदायत्तचित्तबृत्तिर्बभूव ।। ४-६-२२ ।।
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तसमस्तान्यप्रयोजनमभूत् ।। ४-६-२३ ।।
राजा तु प्रागलूभ्यात् तामाह ।। ४-६-२४ ।।
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदानुरागमुदूह इत्युक्ता लज्जावखण्डित मुर्व्वशी प्राह ।। ४-६-२५ ।।
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीति ।। ४-६-२६ ।।
आख्याहि मे समयमित्यथ पृष्टा पुनरब्रवीत् ।। ४-६-२७ ।।
शयनसमीपे ममोरणकदूयं पुत्रभूतं नापनयम् ।। ४-६-२८ ।।
भवांश्व मया नग्रो न द्रष्टव्यः, घृतमात्रञ्च ममाहारः । इत्येवमेवेति भूपतिराह ।
तया च सहावनीपतिरलकायां चैत्ररथादिवनेषु अमलपद्मषणडेषु अभिरमणीयेषु मानसादिसरः सु अभिरममाण एव षष्टिवर्षसहस्त्राणि अनुदिनप्रवर्द्धमान प्रमोदोऽनयत् । उर्व्वशी च तदुपभोगात् प्रतिदिनप्रवर्द्धमानानुरागा अमर लोक वासोऽपि न स्पृहां चकार । विना चोर्व्वश्या सुरलोकोऽप्सरसां सिद्ध गन्धर्व्वाणाञ्च नातिरमणीयोऽभवत् ।। ४-६-२९ ।।
ततश्वोर्व्वशी-पुरूरवसोः समयविदू विश्वावसुर्गन्धर्व्वसमवेतो निशि शयनाब्यासादेकमुरणकं जहार ।। ४-६-३० ।।
तस्य चाकाशे नीयमानस्योर्व्वशी शब्दमश्वृणोत आह च, ममानाथायाः पुत्रः केनाप्ययमपह्रियते, क शरणमुपयामीत्याकगणर्य राजा नग्र मां देवी द्रक्ष्यती ति न ययौ । अथान्यमप्युरणकमादाय गग्धर्व्वा ययुः । तस्याप्यप
ह्रियमाणस्य शब्दमाकणर्य आकाशे पुनरपि `अनाथास्म्यहमभर्त्तृका कुपुरुषाश्रयेति'आर्त्तराविणी बभूव । राजाप्यमर्षवशादन्ध कारमेतदिति खड़ गम दाय दुष्ट!दुष्ट! हतोऽसीति व्याहरन्नभ्यधावत् । तावच्च गन्धर्विरती वोज्ज्वला विद्युज्जनिता । ततूप्रभया चोर्व्वशी राजानमपगताम्बरं दृष्टा अपवृत्तसमया ततूक्षणादेवापक्रान्ता ।। ४-६-३१ ।।
परित्यज्य तावुरणकौ गन्धर्व्वाः सुरलोकमुपागताः । राजापि तौ मेषा वादाय ह्रष्टमनाः स्वशयनमायातो नोर्व्वशीं ददर्श ।। ४-६-३२ ।।
ताञ्चापश्यन्नपगताम्बर एवोन्मत्तरूपो ब्रभ्राम, कुरुक्षेत्रे चाम्भोजसरसि अन्याभिश्वतसृभिरप्सरोभिः समवेतामुर्व्वशीं ददर्श । ततश्वोनम्त्तरूपो राजा जायेह तिष्ठ, मनसि घोरे वचसि, इत्येनेकप्रकारं सृ
मवोचत् ।। ४-६-३३ ।।
आह चोर्व्वशी,--महाराज अलमनेनाविवेकचेष्टि तेन । अन्तर्व्वत्री अहम्, अब्दान्ते भवतात्रागन्तव्यम्, कुमारस्ते भविष्यति, एकाञ्च निशामहं त्वया सह वतूस्यामि, इत्युक्तः प्रह्टष्टः स्वपुरमाजगाम । तासाञ्चाप्सरसामुर्व्वशी कथयामास, अयं स पुरुषोतकर्षो, येन अहमेतावन्तं कालमनुरागाकृष्ट मनसा सहोषिता ।। ४-६-३४ ।।
इत्येवमुक्तास्ता अप्सरस ऊचुः-साघु साघु अस्य रूपम्, अनेन सहास्मा
कमापि सर्व्वकालमभिरन्तुं स्पृहा भवेदिति ।। ४-६-३५ ।।
अब्दे च पूण स राजा तत्राजगाम, कुमारञ्चायुषमस्मै तदोर्व्वशी ददौ, एकाञ्च निशां तेन राज्ञा सहोषित्वा पञ्चपुत्रोतूपत्तये गर्भमाप ।। ४-६-३६ ।।
उवाच चैनं राजानम अस्मतप्रीत्या मह्मराजाय सर्व्व एव गन्धर्व्वा वरदाः संवृत्ताः, तस्माद व्रियतां वर इति ।। ४-६-३७ ।।
आह राजा च विजित-सकलारातिरहतेन्द्रिय सामर्थ्यो बन्धुमानमित लिकोषः, नान्यदस्माकमुर्व्वशी सालोक्याद अप्राप्यमस्ति तदहमनया सहोर्व्वश्या कालं नेतुमभिलषामि ।। ४-६-३८ ।।
इत्युक्ते गन्धर्व्वा राज्ञे ऽग्रिस्थालीं ददुः ।। ४-६-३९ ।।
ऊचुश्व एनमग्रिमाम्रायानुसारी भूत्वा त्रिधा कृत्वा उर्व्वशीसलोकतामनो स्थमुद्दिश्य सम्यगू यजेथाः । ततोऽवश्यमभिलषितमवाप्स्यसि ।। ४-६-४० ।।
इत्युक्तस्तामग्रिस्थालीमादायाजगाम, अन्तरटव्यामचिन्तयत्--अहो मे अतिमूढ़ता, यदग्रिस्थाली मयानीता नोर्व्वशीति । अथैनामटव्यामेवाग्रि म्थालीं तत्याज स्वपुरञ्चाजगाम ।। ४-६-४१ ।।
व्यतीतार्द्धरात्रौ विनिद्रश्वाचिन्तयत्--ममोर्व्वशी सालोक्यप्राप्त्यर्थमग्रिस्थाली गन्धव्वैर्दत्ता, सा च मया अटव्यां परित्यक्ता । तदहं तत्र तदाहरणाय यास्यामि इत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् । शमी गर्भञ्चाश्वत्थ मग्निस्थालीस्थाने दृष्टा अचिन्तयत्---मयात्र स्थाली निक्षिप्ता, सा चाश्वत्थः शमी गर्माऽभूत् । तदेतमेवाहमग्निरूपमादाय स्वपुरमभि गम्य अरणो कृत्वा तदूतूपन्नाग्नेरुपास्तिं करिष्यामीति ।। ४-६-४२ ।।
एवमेव स्वपुरमुपगतोऽरणीं चकार ।। ४-६-४३ ।।
ततूप्रमाणञ्चाङ्गुलैः कुर्व्वन् गायत्रीमपठत् । पठतश्वाक्षरसंख्यान्येवाङ्गुला न्यरण्यभवत् ।। ४-६-४४ ।।
तत्राग्निं निर्म्मथ्याग्नित्रयमाम्रायानुसारी भूत्वा जुहाव उर्व्वशीसालोक्यां चेह फलमभिसंहितवान् । तेनैवाग्निविघिना बहुविधान् यज्ञान् इष्टा गन्धर्व्वलोकान प्राप्य उर्व्वश्या सह वियोगं नावाप ।। ४-६-४५ ।।
एकोऽग्निरादावभवत्, ऐलेन त्वत्र मन्वन्तरे त्रेता प्रवर्त्तिता ।। ४-६-४६ ।।