विष्णुपुराणम्/चतुर्थांशः/अध्यायः १७
पठन सेटिंग्स
< विष्णुपुराणम् | चतुर्थांशः
श्रीपराशर उवाच
द्रुह्योस्तु तनयो बभ्रुः ॥ ४,१७.१ ॥
बभ्रोःसेतुः ॥ ४,१७.२ ॥
सेतुपुत्र आरब्धनामा ॥ ४,१७.३ ॥
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ ४,१७.४ ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ ४,१७.५ ॥
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (१७)