विष्णुपुराणम्/चतुर्थांशः/अध्यायः १४

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ ४,१४.१ ॥
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ ४,१४.२ ॥
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ ४,१४.३ ॥
इत्येते शैनेयाः ॥ ४,१४.४ ॥
अनमित्रस्यान्वये वृष्णिः तस्मात्श्चफल्कः तत्प्रभावः काथेन एव ॥ ४,१४.५ ॥
श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ ४,१४.६ ॥
श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ ४,१४.७ ॥
तथोपमद्गः ॥ ४,१४.८ ॥
उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ ४,१४.९ ॥
देववानुपदेवश्चाक्रूरपुत्रौ ॥ ४,१४.१० ॥
पृथुविवृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ ४,१४.११ ॥
कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः ॥ ४,१४.१२ ॥
कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ ४,१४.१३ ॥
अनोरानकदुन्दभिः ततश्चा भिजितभिजितः पुनर्वसुः ॥ ४,१४.१४ ॥
तस्याप्याहुकः आहुकी च कन्या ॥ ४,१४.१५ ॥
आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ ४,१४.१६ ॥
देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ ४,१४.१७ ॥
तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ ४,१४.१८ ॥
ताश्च सर्वा वसुदेव उपयेमे ॥ ४,१४.१९ ॥
उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ ४,१४.२० ॥
कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ ४,१४.२१ ॥
भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ ४,१४.२२ ॥
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ ४,१४.२३ ॥
तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ ४,१४.२४ ॥
देवगर्भस्यापि शुरः ॥ ४,१४.२५ ॥
शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ ४,१४.२६ ॥
तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ ४,१४.२७ ॥
वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ ४,१४.२८ ॥
ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ ४,१४.२९ ॥
तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृंजयश्यामशमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ ४,१४.३० ॥
पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ ४,१४.३१ ॥
शुरस्य कुन्तिर्नाम सखाभवत् ॥ ४,१४.३२ ॥
तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ ४,१४.३३ ॥
तां च पाण्डुरुवाह ॥ ४,१४.३४ ॥
तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ ४,१४.३५ ॥
पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ ४,१४.३६ ॥
तस्याश्च सपत्नी माद्री नामाभूत् ॥ ४,१४.३७ ॥
तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ ४,१४.३८ ॥
श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ ४,१४.३९ ॥
तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ ४,१४.४० ॥
श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ ४,१४.४१ ॥
तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ ४,१४.४२ ॥
राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ ४,१४.४३ ॥
श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ ४,१४.४४ ॥
तस्यां च शिशुपालमुत्पादयामास ॥ ४,१४.४५ ॥
स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ ४,१४.४६ ॥
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ ४,१४.४७ ॥
पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत् ॥ ४,१४.४८ ॥
बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ ४,१४.४९ ॥
पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ ४,१४.५० ॥
शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ ४,१४.५१ ॥
भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ ४,१४.५२ ॥
भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ ४,१४.५३ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः (१४)

अनमित्रस्यानूजः शिनिर्नामाभवत् । तस्यापि सत्यकः, सत्यकात् सात्यकि र्युयुधाननामा, ततोऽप्य सङ्गःततूपुत्रश्व तूणिः, तूणोर्युगन्धर इति शैनेयाः ।। ४-१४-१ ।।

अनिमित्रस्यैवान्वये पृश्विः तस्माज्व श्वफल्कः। तत्प्रभावः कथित एव । श्वफल्कस्य कनीयांश्वित्रको नामाभवदू भ्राता, श्वफल्कादक्रूरो गान्दिन्या मभवत् । तथोपमदूगु-मृदर-विशारि-मेजय-गिरि-क्षत्रोपक्षत्र-शत्रुघ्र-विमर्द्दनधर्म्मधृगूदृष्टशर्म्म-गन्धनोजा-वाह-प्रतिवाहाख्याःपुत्राः सुताराख्या च कन्या ।
देववात् उपदेवश्व अक्रूरपुत्रौ । पृथु-विपृथु-प्रमुखाश्वित्रकस्य पुत्रा बहवोऽभवन् ।। ४-१४-२ ।।

कुकुर-भजमान-शुचि-कम्बलबर्हिषख्यास्तथान्धकस्य चत्वारः पुत्राः ।। ४-१३-३ ।।

कुकुरादू धृष्टः, तस्माज्व कपोतरोमा, ततश्व विलोमा, तस्मादपि तुम्बुरुसखा भवसंज्ञकश्वन्दनोदक दुन्दुभिः । ततश्वाभिजित्, ततः पुनर्वसुः, तस्या प्याहुकः पुत्रः आहुकी कन्याभूत् ।। ४-१४-४ ।।

आहुकस्य देवकोग्रसेनौ द्रौ पुत्रौ । देववानुपदेवश्व सुदेवो देवरक्षितो देवकस्यापि चत्वारः पुत्राः । तेषाञ्च वृकदेवा उपदेवा देवरक्षिता श्रीदेवा शान्ति देवा सहदेवा देवकी च सप्त भगिन्यः । ताश्व सर्व्वा एव वसुदेव उपयेमे । उग्रसेनस्यापि कंस न्यग्रोध-गुनाम-कङ्ग-शङ्कु-खभूमि-राष्ट्रपालयुद्धमुष्टि-तुष्टिमतूसंज्ञाः पुत्राः, कंसा कंसवती सुतन् राष्ट्रपाली कङ्की चोग्रसेनतनुजाः ।। ४-१४-५ ।।

भजमानज्व विदूश्थः पुत्रोऽबवत् । विदूरथात् शूरः, शूरात् शमी, शमिनः प्रितिक्षत्रः, तस्मात् स्वयम्भोजः ततश्व ह्टदिकः ।। ४-१४-६ ।।

ततश्व कृतवर्म्मा, तस्मात् शतधनुर्देवमीढ़ षाद्या बबूवुः ।। ४-१४-७ ।।

देवमीढ़ु षस्य शूरः, शूरस्यापि मारिषा नाम पत्न्यभवत् ।। ४-१४-८ ।।

अस्याञ्चासौ दश पुत्राजनयद् वासुदेवपूर्व्वान् । वासुदेवस्य जातमा त्रस्यैव एतदूगृहे भगवदंशावतारमव्याहतदृष्ठया पश्यद्भिर्देवैर्दिव्या आनका दुन्दुभयश्व वादिताः ।। ४-१४-९ ।।

ततस्तदैवानकदुन्दुभिसंज्ञामवाप । तस्यापि देवभाग-देवश्रवोऽनाधृष्ठिकरुन्धक--वतूसबालक-सृञ्जय-श्याम-शमीक-गण्डूषसंज्ञा नव भ्रातरो बभूःवु, पृथा श्रुतदेवा श्रुतकीर्त्तिः श्रुतश्रवाः राजाधिदेवी च वसुदेवादीनां पञ्चभगिन्योऽभवन् ।
शूरस्य च कुन्तिभोजनामा सखाभवत् । तस्मै चापुत्राय पृथामात्मजां विधिना शूरोऽददात् । ताञ्च पाण्डुरुवाह । तस्याञ्च घर्म्मानिलशक्रैर्युधिष्ठिर-भीमार्ज्जुनाख्यास्त्रयः पुत्राः समुत्पादिताः । पूर्व्वमन् ढ़ायाश्व भगवता भास्वता कर्माख्यः कानीनः पुत्रोऽजन्यत ।। ४-१४-१० ।।

तस्याश्व सपत्री नामाभवत् । तस्याञ्च नासत्यदस्त्राभ्यां नकुल सहदेवौ पाण्डोः पुत्त्रौ जनितौ ।
श्रुतदेवान्तु वृद्धशर्म्मा नाम कारूष उपयेमे । तस्यां दन्तवक्रो नाम महासुरो जज्ञ । श्रुतकीर्त्तिमपि कैकेयराज उपयेमे । तस्यां सन्तर्द्दनादयः पञ्च कैकेयाः पुत्रा बङूवुः । रातजीघि देव्यामावन्त्यौ विन्दानुविन्दौ जज्ञाते ।। ४-१४-११ ।।

श्रुतश्रवसमपि चेदिराजो दमघोषनामा उपयेमे । तस्यां शिशुपालमुत्पा दुयामास । स हि पूर्व्व मप्यनाचारविक्रमसम्पन्नो दैत्यादिपुरुषो हिरण्य कशिपुरभूत् ।। ४-१४-१२ ।।

यश्व भगवता सकललोकगुरुणा घातितः, पुनरप्यक्षतवीर्य्यशौर्य्यसम्पत पराक्रमगुणृः समाक्रान्त सकलत्रैलोक्येश्वरप्रभावो दशाननोऽबवत् ।। ४-१४-१३ ।।

बहुकालोपभुक्त-भगवत्सकाशादेवाप्त-शरीर-पातोद्भवपुणयफलोऽथ भगव तैव राघवरूपिणा सोऽपि निधनमुपनीतः, पुनश्चैदिराज-दमघोषपुत्रः शिशपालनामाभवत् ।। ४-१४-१४ ।।

शिशुपालत्वे च भगवतो भूभारावतारणाया वतीर्णांशस्य पुण्डरीकनयनाख्यस्य उपरि दूषोनुबन्धमतितरां चकार । भगवता च निधनमु पनीत स्तत्रैव परमात्मभूते मनसंस्तदेकाग्रतया
तत्रैव सायुज्यमवाप ।। ४-१४-१५ ।।

भगवान हि प्रसन्नो यथाभिलषितं ददाति, अप्रसन्नोऽपि निघ्रन् दिव्यमनुपमं स्थानं प्रयच्छति ।। ४-१४-१६ ।।