विष्णुपुराणम्/चतुर्थांशः/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः ॥ ४,१३.१ ॥
भजमानस्य निमिकृकणवृष्मयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः ॥ ४,१३.२ ॥
देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ॥ ४,१३.३ ॥
तयो श्चायं श्लोको गीयते ॥ ४,१३.४ ॥
यथैव शृणुमो दू६ आत्संपश्यामस्तथान्तिकात् ।
बभ्रुः श्रोष्ठो मनुष्याणां देवैर्देवावृधःसमः ॥ ४,१३.५ ॥
पुरुषाः षट्च षष्टिश्च सहस्राणि तथाष्ट ये ।
तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ ४,१३.६ ॥
महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्ति कावरपुरनिवासिनो मार्तिकावरा बभूवुः ॥ ४,१३.७ ॥
वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ॥ ४,१३.८ ॥
ततश्चानमित्रः तथानमित्रान्निघ्नः ॥ ४,१३.९ ॥
निघ्नस्य प्रसेन सत्राजितौ ॥ ४,१३.१० ॥
तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ ४,१३.११ ॥
एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ ॥ ४,१३.१२ ॥
ततस्त्वस्पष्टमूर्तिरं चैनमानोक्य सत्राजित्सूर्यमाह ॥ ४,१३.१३ ॥
यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥ ४,१३.१४ ॥
ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत् ॥ ४,१३.१५ ॥
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति ॥ ४,१३.१६ ॥
स च तदेव मणिरत्नमयाचत ॥ ४,१३.१७ ॥
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्म्यमारुरोह ॥ ४,१३.१८ ॥
सत्राजितोऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिरशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश ॥ ४,१३.१९ ॥
द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिमं प्रणिपत्याह ॥ ४,१३.२० ॥
भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥ ४,१३.२१ ॥
भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥ ४,१३.२२ ॥
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥ ४,१३.२३ ॥
स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥ ४,१३.२४ ॥
प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति ॥ ४,१३.२५ ॥
तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति ॥ ४,१३.२६ ॥
अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥ ४,१३.२७ ॥गोत्रभेदभयाच्छक्तोपि न जहार ॥ २८ ॥
सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ ४,१३.२९ ॥
तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥ ४,१३.३० ॥
तत्र च सिंहाद्वधमवाप ॥ ४,१३.३१ ॥
साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादांय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च ॥ ४,१३.३२ ॥
जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ॥ ४,१३.३३ ॥
सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ॥ ४,१३.३४ ॥
अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याकथयत् ॥ ४,१३.३५ ॥
विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ॥ ४,१३.३६ ॥
ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ॥ ४,१३.३७ ॥
अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ॥ ४,१३.३८ ॥
ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्चतद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥ ४,१३.३९ ॥
गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥ ४,१३.४० ॥
अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥ ४,१३.४१ ॥
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारकमा रोदीस्तव ह्येष स्यमन्तकः ॥ ४,१३.४२ ॥
इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वचल्यमानंस्यमन्तकं ददर्श ॥ ४,१३.४३ ॥
तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ॥ ४,१३.४४ ॥
तदार्तरवश्रवणानन्तरं चामर्षूर्णहृदयः स जांबवानाजगाम ॥ ४,१३.४५ ॥
तयोश्च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत् ॥ ४,१३.४६ ॥
ते च यदुसैनिकास्तत्र मप्ताष्टादिनानि तन्निष्क्रान्तिमुदिक्षमाणास्तस्थुः ॥ ४,१३.४७ ॥
अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥ ४,१३.४८ ॥
तद्वान्धवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ॥ ४,१३.४९ ॥
ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टचिरभूत् ॥ ४,१३.५० ॥
इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ ४,१३.५१ ॥
निर्जितश्च भगवता जांबवानप्रणिपत्य व्याजहार ॥ ४,१३.५२ ॥
सुरासुरगन्धर्वयक्षराक्षलसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरेर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवतास्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ॥ ४,१३.५३ ॥
प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥ ४,१३.५४ ॥
स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ॥ ४,१३.५५ ॥
स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥ ४,१३.५६ ॥
अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनायजग्राह ॥ ४,१३.५७ ॥
सह जांबवत्या स द्वारकामाजगाम ॥ ४,१३.५८ ॥
भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥ ४,१३.५९ ॥
दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ॥ ४,१३.६० ॥
भगवानपि यथानुभूतमशेषंयादवसमाजे यथावदाच्चक्षे ॥ ४,१३.६१ ॥
स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥ ४,१३.६२ ॥
जांबवतीं चान्तःपुरं निवेशयामास ॥ ४,१३.६३ ॥
सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ॥ ४,१३.६४ ॥
तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥ ४,१३.६५ ॥
ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः ॥ ४,१३.६६ ॥
अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ॥ ४,१३.६७ ॥
अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान् ॥ ४,१३.६८ ॥
तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ॥ ४,१३.६९ ॥
जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थ पार्थानुकूल्यकरणाय वारणावतं गतः ॥ ४,१३.७० ॥
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ ४,१३.७१ ॥
पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ॥ ४,१३.७२ ॥
तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥ ४,१३.७३ ॥
तया चैवमुक्ताः परीतुष्टान्तः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ॥ ४,१३.७४ ॥
सत्ये ममैवैषापहासना नाहमेतां तस्य दुरात्मनःसहिष्ये ॥ ४,१३.७५ ॥
न ह्यनुल्लङ्घ्य परपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यै कान्ते बलदेवं वासुदेवः प्राह ॥ ४,१३.७६ ॥
मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥ ४,१३.७७ ॥
सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ॥ ४,१३.७८ ॥
तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ॥ ४,१३.७९ ॥
तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ॥ ४,१३.८० ॥
कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरमकर्मनिमित्तमचोदयत् ॥ ४,१३.८१ ॥
आह चैनं कृतवर्मा ॥ ४,१३.८२ ॥
नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ ४,१३.८३ ॥
असावप्याह ॥ ४,१३.८४ ॥
न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविकृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः ॥ ४,१३.८५ ॥
किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह ॥ ४,१३.८६ ॥
यद्यस्मत्परित्राणासमर्थं भवानात्मनमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ॥ ४,१३.८७ ॥
एकमुक्तः सोऽप्याह ॥ ४,१३.८८ ॥
यद्यन्त्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ॥ ४,१३.८९ ॥
तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥ ४,१३.९० ॥
शतधनुरप्य तुलवेगां शतयोजनवाहिनींवडवामारुह्यपक्रान्तः ॥ ४,१३.९१ ॥
शैव्यसुग्रीवम्घपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवै तमनुप्रयातौ ॥ ४,१३.९२ ॥
सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज ॥ ४,१३.९३ ॥
शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ ४,१३.९४ ॥
कृष्णोपि बलभद्रमाह ॥ ४,१३.९५ ॥
तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः ॥ ४,१३.९६ ॥
तथेत्युक्त्व बलदेवो रथ एव तस्थौ ॥ ४,१३.९७ ॥
कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद ॥ ४,१३.९८ ॥
तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह ॥ ४,१३.९९ ॥
वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमशिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥ ४,१३.१०० ॥
धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोपि न तस्थौ ॥ ४,१३.१०१ ॥
स विदेहपुरीं प्रविवेश ॥ ४,१३.१०२ ॥
जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥ ४,१३.१०३ ॥
स तत्रैव च तस्थौ ॥ ४,१३.१०४ ॥
वासुदेवोऽपि द्वारकामाजगाम ॥ ४,१३.१०५ ॥
यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ ४,१३.१०६ ॥
वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः ॥ ४,१३.१०७ ॥
अक्रूरोप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज ॥ ४,१३.१०८ ॥
सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्टड एव तस्थौ ॥ ४,१३.१०९ ॥
द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ॥ ४,१३.११० ॥
अथाक्रूरपक्षीयैर्भोजैः शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः ॥ ४,१३.१११ ॥
तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥ ४,१३.११२ ॥
अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन् ॥ ४,१३.११३ ॥
भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेन्धकनामा यदुवृद्धः प्राह ॥ ४,१३.११४ ॥
अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ ४,१३.११५ ॥
काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष ॥ ४,१३.११६ ॥
काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ॥ ४,१३.११७ ॥
सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ॥ ४,१३.११८ ॥
एवं च तस्य गर्भस्य द्वादशवर्शण्यनिष्क्रामतो ययुः ॥ ४,१३.११९ ॥
काशीराजश्च तामात्मजां गर्भस्थामाह ॥ ४,१३.१२० ॥
पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमितिचिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार ॥ ४,१३.१२१ ॥
तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् ॥ ४,१३.१२२ ॥
सापि तावता कालेन जाता ॥ ४,१३.१२३ ॥
ततस्तस्याः पिता गान्दिनीति नाम चकार ॥ ४,१३.१२४ ॥
तां च गान्दिनीं कन्यां श्फलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात् ॥ ४,१३.१२५ ॥
तस्यामयमक्रूरः श्वफलकाज्जज्ञे ॥ ४,१३.१२६ ॥
तस्यैवङ्गुणमिथुनादुत्पत्तिः ॥ ४,१३.१२७ ॥
तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥ ४,१३.१२८ ॥
तदयमात्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफलकपुत्रःश्वपुमानीतः ॥ ४,१३.१२९ ॥
तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः ॥ ४,१३.१३० ॥
कृष्णश्चिन्तयामास ॥ ४,१३.१३१ ॥
स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः ॥ ४,१३.१३२ ॥
सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः ॥ ४,१३.१३३ ॥
तन्नृन मस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति ॥ ४,१३.१३४ ॥
तस्य ह्योवंविधाः प्रभावाः श्रुयन्ते ॥ ४,१३.१३५ ॥
अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥ ४,१३.१३६ ॥
अनल्पोपादानं चास्यासंशयमत्रऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ ४,१३.१३७ ॥
तत्र चोपविष्टोष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह ॥ ४,१३.१३८ ॥
दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः तदशेषराष्ट्रोपकरकं भवत्सकाशे तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मानाशङ्कितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिदाय जोषं स्थिते भगवति वासुदेवे सरत्नःसोचिन्तयत् ॥ ४,१३.१३९ ॥
किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः ॥ ४,१३.१४० ॥
भगवन्ममैतत्स्यमन्तकरत्नं सतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम् ॥ ४,१३.१४१ ॥
तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्भिस्वसुखकलामपि ॥ ४,१३.१४२ ॥
एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् ॥ ४,१३.१४३ ॥
तदीदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥ ४,१३.१४४ ॥
ततः स्वोदरवस्त्रनिगोपितमतिसघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥ ४,१३.१४५ ॥
ततश्च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥ ४,१३.१४६ ॥
मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥ ४,१३.१४७ ॥
अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥ ४,१३.१४८ ॥
तमालोक्यसर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त ॥ ४,१३.१४९ ॥
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहोऽभूत् ॥ ४,१३.१५० ॥
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार ॥ ४,१३.१५१ ॥
बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रान्तरावस्थितमिवमेने ॥ ४,१३.१५२ ॥
सकलयादवसमक्षं चाक्रूरमाह ॥ ४,१३.१५३ ॥
एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितमेतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ ४,१३.१५४ ॥
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाममशेषराष्ट्रस्योपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति ॥ ४,१३.१५५ ॥
अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यबामा स्वीकरोति ॥ ४,१३.१५६ ॥
आर्बलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कर्यः ॥ ४,१३.१५७ ॥
तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥ ४,१३.१५८ ॥
तद्भवानेव धारयितुं समर्थः ॥ ४,१३.१५९ ॥
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥ ४,१३.१६० ॥
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यम्नेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥ ४,१३.१६१ ॥
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताशिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति ॥ ४,१३.१६२ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशोऽध्यायः (१३)




भजिन-भजमान-दिव्यान्धक-देवावृध-महाभोज वृष्णिसंज्ञाः सत्वतस्य पुत्रा बभूवुः ।। ४-१३-१ ।।

भजनानस्य निमि-बृकणा-वृष्णयः, तथान्ये तदू वैमात्राः--शताजित्सहस्त्रजिदू-अयुताजित् संज्ञाः ।। ४-१३-२ ।।

देवावृधस्यापि बब्रुः पुत्रोऽभूत् । तस्य च अयं श्लोको गीयते ।। ४-१३-३ ।।
यथेव श्वृणुमो दूरात् सग्पश्यामस्तथान्तिकात् ।
बभ्रुः श्रेष्ठो मनुष्याणां दैवैर्देवाबृधः समः ।। ४-१३-४ ।।

पुरुषाः षट् च षष्टिश्व षट् सहस्त्रामि चाष्ट च ।
यैऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ।। ४-१३-५ ।।

महाभोजस्त्वतिधर्म्मात्मां । तस्यान्वये भोजा मात्तिंकावता बभूवुः ।। ४-१३-६ ।।

वृष्णोः सुमित्रो युधाजिज्व पुत्रोऽभवत् । ततश्वानमित्र-शिनी तथा ।। ४-१३-७ ।।

अनिमित्रान्निघ्रः, निघ्रस्य प्रसेन-सत्राजितौ । तस्य च सत्राजिलस्य भगवानादित्यः सखाभवत् ।। ४-१३-८ ।।

एकदा त्वम्भोधेस्तीरसंश्वयः सूर्य्यं सत्राजितस्तुष्टाव । तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्य तस्थै, अस्पष्टमुर्त्तिधरं चैनमालोक्य सत्राजितः सूर्य्यमाह,--यथैव व्योम्रि त्वां वह्निपिण्डोपममहमपश्यं तथैवाद्याग्रतो
गतमप्यत्र नि किञ्चिद्भगवता प्रसादीकृतं विशेषमुपलक्षयामि ।। ४-१३-९ ।।
इत्येवमुक्ते (भगवता) सूर्य्यण निजकण्ठादुन्मुच्य स्यमम्तकनामा मणि वतार्य्य एकान्ते न्यस्तः, ततस्तमाताम्रोज्ज्वादिकञ्च सत्राजितमाह भगवान्,-- वरमस्मत्तोऽभिमतं वृणीष्वेति । स च तदेव मणिरत्रमयाचत । स चापि तस्मै तदू दत्त्वा वियति स्वं धिष्णायमारुरोह ।। ४-१३-१० ।।

सत्राजितोऽप्यमल-मणिरत्रसनाथकण्ठतया सूर्य्य इव तेजोभिरशेषदिगन्त राण्युद्भासयन् द्रारकां विवेश ।। ४-१३-११ ।।

द्रारकावासिजनपदस्तु तमायान्तमवेक्ष्य भगवन्त मनादिपुरुषं पुरुषो त्तममवनिभारावतारणायांशेन मानुषरूपधारिणं प्रणिपत्याह--भगवन् ! भगवन्तमयं नूनं द्रष्टुमायात्यादित्यः । इत्याकर्ण्य प्रहस्य च तानाह भगवान्, नायमादित्यः सत्राजितोऽयमादित्य दत्तं स्यमन्तकाख्यं महामणि
बिभ्रदत्रोपायाति । तदेनं विश्वब्धाः पश्यत, इत्युक्तास्ते ययुः ।। ४-१३-१२ ।।

स च तं स्यमन्तकाख्यं महामणिमात्मनिवेशने चक्रे ।। ४-१३-१३ ।।
भांजन-भजमान-दिव्यान्धकःदेवावृध-महाभोज-प्रतिदिनञ्च तन्मणिरत्र प्रवरमष्टौ कनकभारान् स्त्रवति ।। ४-१३-१४ ।।

ततूप्रभावाज्व सकलस्यैव राष्ट्रस्योपसर्गा अनावृष्टि व्यालाग्रिचौरदुभिक्षादि भय न भवति ।। ४-१३-१५ ।।

अच्युतोऽपि तद्रत्रमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्साञ्चक्र, गोत्र भेदभयाज्व शक्तोऽपि न जगार ।। ४-१३-१६ ।।

सत्राजितोऽप्यच्युतो मामेतदू याचिष्यतीत्यवगत रत्नलोभः स्वभ्रात्रे प्रसे नाय तद्रत्नं दत्तवान् ।। ४-१३-१७ ।।

तज्व शुचिना ध्रियमाणामशेषसुवर्णस्त्रावादिकं गुणमुतूपादयति, अन्यथा य एव धारयति, तमेव हन्तीति । असावपि प्रसेनः स्यमन्तकेन कण्ठा सक्ते नाश्वमारुह्याटठ्यां मृगयामागच्छत् । तत्र च सिंहादू वधमवाप । साश्वञ्च तं निहत्य सिहोऽह्यमलमणि रत्नमास्याग्रेणादाय गन्तुमुद्यतः ऋक्षाधिपतिना जाम्बवता दृष्टो घातितश्व । जाम्बवानप्यमलं तन्मणिरत्न मादाय स्वविलं प्रविवेश, सुकुमारक संज्ञाय च बालकाय क्रीड़नमकरोतू ।। ४-१३-१८ ।।

अनागच्छति च तस्मिन् प्रसेने कृष्णो मणिरत्न मभिलषितंवान् न च प्राप्तवान्, नूनमेतदस्य कर्म्म, नान्येन प्रसेनो हन्यत इत्यखिल एव यदुलोकः परस्परं कर्माकणर्यकथयत् ।। ४-१३-१९ ।।

विदितलोकापवादवृत्तान्तश्व भगवान यदुस्यैन्यपरिवारः प्रसेनाश्वपद वीमनूससार, ददशे चाश्वसमेतं प्रसेने निहतं सिंहेन । अखिलजनपद मध्ये सिहपददर्शनकृतपरिशुद्धिः सिंहपद्दमनुससार ।। ४-१३-२० ।।

ऋक्षविनिहतञ्च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्व तद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ । गिरितटे च सकलमेव यदुसैन्यमवस्थाप्य ततूपदानुसारी ऋक्षविलं प्रविवेश । अर्द्धप्रविष्टश्व धात्र्याः सुकुमाराकमुल्लापयन्त्या वाणीं शुश्राव ।। ४-१३-२१ ।।

सिंहः प्रसेनमवधीत् सिहो जाम्बवता हतः ।
सुकुमारक ! मा रोदीस्तव ह्य षे स्यमन्तकः ।। ४-१३-२२ ।।

इत्याकणर्य लब्धस्यमन्तकोदन्तोऽन्तोऽन्तः प्रविष्टः कुमारक्रीड़नकीकृतञ्च धात्री हस्ते तेजोभिर्ज्जाज्वव्यमांनं स्यमन्तकं ददर्श ।। ४-१३-२३ ।।

तञ्च स्यमन्तकाभिलाषचक्षुषमपूर्व्वं पुरुषमागत मवेक्ष्य धात्री त्राहि त्राहीति व्याजहार ।। ४-१३-२४ ।।


तदार्त्तनादश्ववणानन्तरञ्चामर्षपूर्णह्टदयः स जाम्बवान् आजगाम, तयोश्व परस्परं युध्यतोर्दू योर्युद्धमेकविंशतिं दिनान्यभवत् । ते च यदुसैनिकास्तत्र सप्ताष्टदिनानि तन्निष्कान्तिमुदीक्षमाणास्तस्थुः । अनिष्कममाणे च मधुरिपौ असाववश्यमत्र विलेऽत्यन्तनाशमाप्तो भविष्यत्यन्यथा तस्य कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भवतीति कृताध्यवसाया द्रारकामागता हतः कृष्णा इति कथयामासुः ।। ४-१३-२५ ।।

तदूबान्धवाश्व ततूकालोचितमखिलमुपरतक्रियाकलापं चक्रुः ।। ४-१३-२६ ।।

तत्र चास्य युध्यमानस्यातिश्वद्धादत्तविशिष्टपात्रोपयुक्तान्नतोयादिना कृष्णस्य बलप्राणपुष्टिरभूत ।। ४-१३-२७ ।।

इतरस्यानुदिनमतिगुरुपुरुषभिद्यमानस्यातिनिष्ठरप्रहारपीड़िताखिलावय वस्य निराहारतया बलहानिः । निर्ज्जितश्व भगवता जाम्बवान् प्रणिपत्याह
--असुर-सुर-यक्षवान्धर्व्व-राक्षसादिभिरप्यखिलैर्भगवान् न जेतुं शक्यः, किमुतावनिगोचरैरल्पवीर्य्यैर्नरावयवभूतैश्व तिर्य्यगूयोन्यनुसृतिभिः, किं पुनस्मद्रिधैरवश्यं भगवतोऽस्मत्-स्वामिनो नारायणस्य सकलजगत्परायण स्यांशेन भगवता भवितव्यमित्युक्तः ।। ४-१३-२८ ।।

तस्मै भगवाखिलमवनिभारावतारमाचचक्षे ।। ४-१३-२९ ।।

प्रीत्याञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ।। ४-१३-३० ।।

स च प्रणिपत्यैनं पुनरपि प्रसाद्य जाम्बवतीं नाम कन्यां गृहागमनार्ध्यभूता ग्राहयामास ।। ४-१३-३१ ।।
स्यमन्तकमणिमप्यसौ प्रणिपत्य तस्मै प्रददौ । अच्युतोऽप्यतिप्रणतात् तस्मादग्राह्यमपि तन्मणि रत्नमात्मशोधनाय जग्राह ।। ४-१३-३२ ।।

सह जाम्बवत्या द्रारकामाजगाम ।
भगवदागमनोदूभूतहर्षोतूकर्षस्य द्रारकावासिजनस्य कृष्णावलोकनानु क्षणमे वातिपरिणतवयसोऽपि नवयौवनभिवाभवत् । आनकदुन्दुभिञ्च दिष्टय दिष्टेयति च सकलयादवाः स्त्रियश्व सभाजयामासुः ।। ४-१३-३३ ।।

भगवानपि यथानुभूतमशेषयादवसमाजे यथावदाचचक्षे, स्यभन्तकञ्च सत्राजिताय दत्त्वा मिथ्याभि--शस्तिवशुद्धिमवाप, जाम्बवतीञ्चान्तः पुरे निवेशया मास ।
सत्राजितोऽपि मयास्यभूतमलिनमारोपित मिति जातसन्त्रासः स्वसुतां सत्यभामां भगवते भार्य्यां ददौ ।। ४-१३-३४ ।।

ताञ्चाक्रूर-कृतवर्म्-शतधन्वप्रमुखा यादवाः पूर्व्वं वरयामासुः । ततस्तत प्रदानादवज्ञातमात्मान मन्य मानाः सत्राजिते वैरानुबन्धं चक्रुः । अक्रूर-कृतवर्म्मप्रमुखाश्व शतधन्वानमूचुः, अयमितिदुरात्मा सत्राजितो योऽस्माभिर्भवता चाभ्यर्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान्, तदल मनेन जीवता । घातयित्वैनं तन्महारत्नं त्वया किं न गृह्मते ? वयम प्यभ्युपपतूस्यामः यद्यच्युतस्तवापि वैरानुबन्धं करिष्यतीति ।। ४-१३-३५ ।।

एवमुक्तस्तथेत्यसावप्याह । जतुगृहदग्धानाञ्च पाण्डुनन्दनानां विदितपरमा र्थोऽपि भगवान् दुर्य्योधन प्रयत्नशैथिल्यार्थं कुल्यकरणाय वारणावतं गत ।। ४-१३-३६ ।।

गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान, मणिरत्नञ्चा ददे । पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढटा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेति अक्षान्तिमता शतधन्वना अस्मतूपिता व्यापादितः, तज्व स्यमन्तकपमणिरत्नमपह्टतम् । तदियमस्यावहासना । तदालोच्य यदत्र युक्तं, तत् क्रियतामिति कृष्णमाह ।। ४-१३-३७ ।।

तया चैवमुक्तः परितुष्टान्तः करणोऽपि कृष्णः, सत्यभामाममर्षताम्रलोचनः प्राहस,-सत्ये! ममैषा वहासना, नाहमेतां तस्य दुरात्मनः सहिष्ये ।। ४-१३-३८ ।।

न ह्यनुल्लङ्घय वरपादपं ततूकृतनीड़ाश्रयिणो विहङ्गा वध्यन्ते ।। ४-१३-३९ ।।

तदलमत्यर्थममुनास्मत्पुरतः शोकप्रे रितवाक्य परिकरेण, इत्युक्त्वा द्रारका मभ्येत्य बलदेवमेकान्ते वासुदेवः प्राह,--मृगयागतं प्रसेनमटव्यां मगपतिर्जघान । सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः । तदुभय विनाशात तन्मणिरत्नमावाभ्यां सामोन्यं भविष्यति ।। ४-१३-४० ।।

तदुत्तिष्ठ, आरुह्यतां रथः, शतघनुर्निधनायोद्यमं कुरु, इत्यभिहितस्तथेति समन्वीप्सितवान् ।
कृतोदू योगौ च तावुभावुपलभ्य शतधन्वा कृतर्माणमुपेत्य पार्ष्णिपूरण कर्मनिमित्तमचोदयत् । आह चैनं कृतवर्मा, नाहं बलभद्र-वासुदेवाभ्यां सह विरोधायालम्, इत्युक्तश्वाक्रू रमचोदयत् । आह चासावपि,--नहि कश्विदू भगवता पादप्रहारपरिकम्पितजगत्त्रयेण असुरवरवनितावैधव्यरापियमा प्रबलरिपुचक्रण चक्रिणा, मदमुदित नयनावलोकितारिबलविशात नेन अतिगुरुवैरि--वारणाकर्षणाविष्कृत-महिमोरुसीरेण सीरिणा च सह सकलजगदूवन्द्यानाममरवराणामपि योद्धु समर्थः किमुताहम् । तदन्यतः शरणमभिलष्यताम् ।। ४-१३-४१ ।।

इत्युक्तः शंतधनुराह,--यद्यस्मतूपरित्राणासमर्थं भवानात्मानमवगच्छति तदयमस्मन्मणिः संगृह्य रक्ष्यताम् । इत्युक्तः सोऽप्याह,--यद्यन्तयायामप्य वस्थायां न कस्मैचिद्भवान् कथयिष्यति, तदहमेनं ग्रहीष्यामि । तथेत्युक्ते अक्रूरस्तन्मणिरत्रं जग्राह ।। ४-१३-४२ ।।

शतधनुरप्यतुलवेगां शतयोजनवाहिनीं वड़वा मारुह्यापक्रान्तः ।
शैव्य-सुग्रीव-मेघपुस्प-बलाहकाश्वचतुष्टययुक्तरथावस्थितौ बलदेव-वासुदेवौ तमनुप्रयातौ ।। ४-१३-४३ ।।
सा च वड़वा शतयोजनप्रमाणं मार्गमतीत्य पुनरपि वाह्यमाना मिथिला वनोद्देशे प्राणानुत्ससर्ज्ज । शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ।। ४-१३-४४ ।।

कृष्णोऽपि बलभद्रमाह,--तावदत्रैव स्यन्दने भवता स्थेयम् । अहमेनम धमाचारं पदातिरेव पदातिमनुगम्य यावदू घातयामि । अत्र हि भूभागे दृष्टदोषा हयाः, नैतेऽश्वा भवतेमं भूमिभागमुल्लङूध्य नेयाः ।। ४-१३-४५ ।।

तथेत्युक्त्वा बलभद्रो रथ एव तस्थौ । कृष्णोऽपि द्रिक्रोशमात्र भूमि भागमनुसृत्य दूरस्थस्यैव चक्र क्षिप्त्वा शतधनुषः शिरश्विच्छेद । तच्छरी राम्बरादिषु च बहुप्रकारमन्विष्यन्नपि स्यमन्तकं मणिं नावाप यदा, तदोप गम्य बलभद्रमाह--वृथैवास्माभिर्घातितः शतधनुः न प्राप्तमखिलजगत्सार भूतं तन्मणि रत्रम् । इत्याकर्ण्य उद्भूतकोपो बलदेवो वासुदेवमाह, -- धिक् त्वां यस्त्वमर्थलिप्सुः । एतच्च ते भ्रातृत्वान्मर्षये तदयं पन्थाः, स्वेच्छया गम्यताम्, न मे द्रारकया, न त्वया, न बन्धुभिः कार्य्यम् । अलमेभिमैमाग्रतोऽलीकशपथैः । इत्याक्षिप्य तं तथा प्रसाद्यमानोऽपि न तस्थौ, विदेहपुरीं प्रविवेश ।। ४-१३-४६ ।।

अक्रू रोऽप्युत्तममणिसमुदूभूतसुवर्णध्यानपरस्ततो यज्ञानीजे ।। ४-१३-४९ ।।
सवनगतौ हि क्षत्त्रियवैश्यौ निघ्रन् ब्रह्महा भवतीत्यतो दीक्षा कवचं प्रविष्ट एव तस्थौ द्रिषष्टि वर्षाणि ।। ४-१३-५० ।।

एव तन्मणिरत्नप्रभावात् तत्रोपसर्गदुर्भिक्षमराकादिकं नाभूत् ।। ४-१३-५१ ।।
अथाक्रू रपक्षीयैर्भोजैः शत्रुघ्र सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्रारकामपहाय अपक्रान्तः ।। ४-१३-५२ ।।

तदपक्रान्तिदिनादारभ्य तत्रोपसर्गव्यालानावृष्टि मरकाद्यु पद्रवा बभूवुः ।
अथ यादव-बलभद्रोग्रसेन समवेतोऽमन्त्रयदू भगवानुरगारिकेतनः,--कियदि दमेकदैव प्रचुरोपद्रवागमनोमेतदालोच्यताम् ।। ४-१३-५३ ।।

इत्युक्ते अन्धकनामा यदुवृद्धः प्राह, --अस्याकू रस्य पिता श्वफल्कोनाम यत्र यत्राभूत्, तत्र दुर्भिक्ष-मरकानावृष्ठ्यादिकं नाभूत् ।। ४-१३-५४ ।।

काशिराजस्य विषयेऽत्यन्तानावृष्टयां श्वफल्कोऽनीयत, ततस्ततूक्षणादेव देवो ववर्ष । काशिंराजस्य पत्न्याश्व गर्भे कन्या पूर्व्वमासीत् ।। ४-१३-५५ ।।

सापि पूर्णेऽपि प्रसूतिकाले नैव निश्वक्राम । एवञ्च तस्य गर्भस्य द्रादश वर्षाणयनिष्कामतो यतुः । काशिराजस्तु तामात्मजां गर्भस्थामाह,--पुत्रि! कस्मान्न जायसे ? निष्कम्यताम्, आस्यन्ते द्रष्टुमिच्छामि । स्वकाञ्च मातरं किमिति चिरं क्लशायसि इत्युक्ता सा गर्भस्थैव व्याजहार-तात! यद्य कै कां गां दिने दिने ब्राह्मणोब्यः प्रयच्छसि, तदाहमन्यैस्त्रिबिर्वर्षैरस्मादू गर्भात् तावदवश्यं निष्कमिष्यामीति । एतच्च तदूवचनमाकणर्य राजा ब्राह्मणाय दिने दिने गां प्रादात्, सापि तावता कालेन जाता । ततस्तस्याः पिता गान्दिनीति नाम चकार । ताञ्च गान्दिनीं कन्यां श्वफल्कायोपकारिणो गृहागतायार्ध्यभूतां प्रादात्, सा च गान्दिनी प्रतिदिनं यावज्जीवं ब्राह्मणाय गां दत्तवती । तस्यामयमकूरः श्वफल्काज्जज्ञे । तस्यैवंगुणमिथना दुत्पत्तिः ।। ४-१३-५६ ।।

तत् कथमस्मिन्नपक्रान्तेऽत्र मरकदुभिंक्षाद्यु पद्रवा न भविष्यन्ति । तदय मानियतामिति, अलमत्राति गुमवत्यपराधान्वेषणेन इति ।। ४-१३-५७ ।।

यदुवृद्धस्यान्धकस्य एतदूवचनमाकर्ण्य केशवोग्रसेन बलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षाभवमभयं दत्त्वा श्वापल्किः स्वपुरमानीतः, तत्र चागत एव तत्स्थ-स्यमन्तकमणेरनुभावादनावृष्टि-मरक-दुर्भिक्ष-व्यालाद्यु पद्रवः शशाम कृष्णाश्व चिन्तयामास,--श्वल्पमेतत् कारणं, यदयं गान्दिन्यां श्वफल्केनाकूरो जनितः, सुमहांश्वायमानावृष्टिदुर्भिक्षमरकाद्यु पशमनकारी प्रभावः ।। ४-१३-५८ ।।

तन्नूनमस्य सकाशे स महामणिः स्यमन्तकाक्यस्तिष्ठति । तस्य ह्य वं विधाः प्रभावाः श्रूयन्ते । अयमपि यज्ञादनन्तरमन्यत् क्रत्वन्तरं, तस्माद यज्ञान्तर यजतीति । अल्पोपादानञ्चास्य । असंशय मत्रासौ वरमणिस्तिष्ठतीति कृताध्यवसायोऽन्यत् प्रयोजनमूद्दिश्य सकलयादवसमाजमात्मगेहे एवाची--करत् । तत्र चोपविष्टेष्वखिलेषु यादवेषु पूर्व्वप्रयोजनमुपन्यस्य पर्य्यवसिते च तस्मिन् प्रसङ्गागतपरिहास कथामक्रू रेण सह कृत्वा जनार्द्दनस्तमक्रू रमाह ।। ४-१३-५९ ।।

दानपते! जानीम एव वयं --यथा शतधन्वना अखिलजगत्सारभूतं स्यमन्तरात्नं भवतः सकाशे समर्पितम् । तदेतद्राष्ट्रोपकारकं भवतः सकाशे तिष्ठतीति तिष्ठतु, सर्व्व एव वयं ततूप्रभावफलभुजः, किन्त्वेष बलभद्रोऽस्माना । शङ्कितवान् । तदस्मतप्रीतये दर्शय, इत्यभिहितः सरतनः सोऽचिन्तयत् ।किमत्रानुष्ठेयम्? अन्यथा चेत् ब्रवीम्यहं, तत केवलाम्बरतिरोधानमन्विष्य न्तो रत्नमेते द्रक्ष्यन्तीति अतोऽन्वेषणां न क्षेममिति सञ्चिन्त्य तमखिलजगतकारणभूतं नारायणमाहाक्रूरः--भगवन्! ममैतत् स्यमन्तकमणिरत्नं शतधनुषा समर्पितम् ।। ४-१३-६० ।।
अपगते च तस्मिन् अद्य श्वः परश्वो वा भगवान् मां याचिष्यतीति कृतमतिरतिकृचूछ्रणैतावन्तं कालमधारयम्, अस्य च धारणक्लशेनाहमशेषोपभोगेष्वसङ्गिमानसो न वेद्मि स्वसुखकलामपि ।। ४-१३-६१ ।।

एतावन्मात्रमशेषराष्टोपकारि धारयितु न शक्रोतीति मां भगवान् मंस्यत इत्यात्मना न चोदितम् ।। ४-१३-६२ ।।

तदिदं स्यमन्तकरत्नं गृह्यताम्, इच्छया यस्याभिमतं तस्यसमर्प्यताम् ।
ततः सोऽधरवस्त्रनिगोपितातिलघुकनकसमुदूगकं प्रकटीकृतवान् ।। ४-१३-६३ ।।
ततश्व निष्काम्य स्यमन्तकमणि तत्र यदुसमाजे मुमोच । मुक्तमात्रे च तेन्पतिकान्तया तदशिल मास्थानमुद्दयोतितम् ।। ४-१३-६४ ।।

अथाहाक्रूरः--स एष मणिर्यः शतधन्वनास्माकं समर्पितः, यस्यायं, स एनं गृह्णात्विति ।
तन्मणिरत्नमालोक्य सर्व्वयादवानां साधु साध्विति विस्मितमनसां वाचोऽश्रूयन्त । तमालोक्य ममाय मच्युतेनैव सामान्यः समन्विच्छित इति बलमद्रः सस्पृहोऽभवत् ।। ४-१३-६५ ।।
ममैवदं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार । बलसत्याननावलोकनातू कृष्णोऽप्यात्मानं चक्रान्तरावस्थितमिव मेने ।। ४-१३-६६ ।।

सकलयादवसमक्षञ्चाक्रूरमाह,--एतद्धि मणिरत्नमात्मशोधनायैषां यदूनां दर्शितम् । एतच्च मम बलभद्रस्य च सामान्यं, पितृधनञ्चैतत् सत्यभामाया नान्यस्य ।। ४-१३-६७ ।।

एतच्च सर्व्वकालं शुचिना ब्रह्मचर्य्यगुणवता ध्रियमाणमशेषराष्ट्रस्योपकारकम्, अशुचिना ध्रियमाण माधारमेव हन्ति ।। ४-१३-६८ ।।

अतोऽहमस्य षोड़शस्त्रीसहस्त्रपरिग्रहादसमर्थो धारणो ।। ४-१३-६९ ।।
कथञ्चैतत् सत्यभामा स्वीकरोतु ? आर्य्येण बलभद्रणापि मदिरा पानाद्यशेषोपभोगपरित्यागः कथं कार्य्यः तदयं यदुलोकोऽयं बलभद्रोऽहं सत्या च त्वां दानपते ! प्रार्थयामः, एतदू भवानेव धारयितु समर्थः, त्वत्स्थञ्चास्य राष्ट्रस्योपकारकं, तद्भवानशेषराष्ट्रोपकार निमित्तमेतत्पूर्व्ववदू धारयतु । त्वयान्यथा न वक्तव्यमित्युक्ते दान पतिस्तथेत्युक्त्वा जग्राह तन्महा मणिरत्नम् । ततः प्रभृति चाक्रूरः प्रकटोनैवातीव तेजसा जाज्वल्यमानेनात्मकण्ठासक्तेनादित्य इवांशुमाली चचार ।। ४-१३-७० ।।

इत्येतां भगवतो मिथ्याबिशस्तिक्षालनां यः स्मरति, न तस्य कदाचिदल्पापि मिथ्याबिशस्तिर्भवति अब्याहतेन्द्रियश्वाखिलपापमोक्षम वाप्रोति ।। ४-१३-७१ ।।