विष्णुपुराणम्/चतुर्थांशः/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

यति-ययाति-संयाति-अयाति-वियति-कृतिसंज्ञा नहुषस्य षट् पुत्रा महाबल पराक्रमा बभूवुः । यतिस्तु राज्यं नैच्छत् । ययातिस्तु भूबृदभवत्, उशनसश्व दुहितरं देवयानीं शर्म्मिष्ठाञ्च वार्षपर्व्वणीमुपयेमे ।। ४-१० - २ ।।

यदुञ्च तुब्वसुञ्चवै देवयानी व्यजायत ।
द्रु ह्यु ञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी ।। ४-१०-२ ।।

काव्यशापाच्च अकालेनैव ययातिर्जरामवाप ।। ४-१०-३ ।।

प्रसन्नशुक्रवचनाज्व जरां संकामयितुं ज्येष्ठं पुत्रं यदुमुवाच,--त्वन्माता महशापादियमकालेनैव जरा मामुपस्थिता । तानहं तस्यैवानुग्रहादू भवतः सञ्च रायाम्येकं वर्षसहस्त्रम्, त तृप्तोऽस्मि विषयेषु, त्वदूयसा विषयानह भोक्तुमिच्छामि ।। ४-१०-४ ।।

नात्र भवता प्रत्याख्यानं कर्त्तव्यमित्युक्तः स नैच्छत् तां जरामादातुम ।
तञ्चपि पिता शशाप,--त्वत प्रसूतिर्न राज्यार्हा भविष्यतीति ।। ४-१०-५ ।।

अनन्तरञ्च द्रह्यु तुर्वसुमनुञ्च पृथिवीपतिर्जरा ग्रहणार्थं स्वयौवनप्रदानाय च चोदयामास । तैरप्येककैश्येन प्रत्याख्यातस्तांश्व शशाप । अथ शम्मिष्ठातनय मशेषकनीयांसं पूरु तथैवाह, स वातिप्रवण मतिः प्रणम्य पितरं सबहुमानो महान् प्रसादोऽयमस्माकमित्युदारमभिधाय जरां प्रतिजग्राह । स्वकीयञ्च यौवनं पित्रे ददौ ।
सोऽपि च नवं यौवन मासाद्य धर्म्माविरोधेन यथाकामं यथाकालोपपन्न यथोतूसाहं विषयं चचार । सम्यक प्रजापालन मकरोत् ।। ४-१०-६ ।।

विश्वाच्या सहोपभोगं भुक्त्वा कामानामन्त मवाप्स्यामीत्यनुदिनं तन्मनस्को बभूव ।। ४-१०-७ ।।

अनुदिनञ्च उपभोगतश्व कामानतीव रम्यान् मेने ।। ४-१०-८ ।।

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ।। ४-१०-९।।

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्य्याप्तं तदित्यतितृषं त्यजेत् ।। ४-१०-१० ।।

यदा न कुरुते भावं सर्व्वभूतेषु पापकम् ।
समदृष्टेस्तदा पुसः सर्व्वा एव सुखा दिशः ।। ४-१०-११।।

या दुस्त्यजा दुर्म्मतिभिर्या न जीर्य्यति जीर्य्यतः ।
तां तृष्णां सन्त्यजन् प्राज्ञः सुखेनैवाभिपूर्य्यते ।। ४-१०-१२ ।।

जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्य्यन्ति जीर्य्यतः ।
धनाशा जीविताशा च जीर्य्यतोऽपि न जीर्य्यति ।। ४-१०-१३ ।।

पूर्णां वर्षसहस्त्रं मे विषयासक्तचेतसः ।
तथाप्यनुदिनं तृष्णा ममैतेष्वेव जायते ।। ४-१०-१४ ।।

तस्मदितामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्रन्द्रो निर्म्ममो भूत्वा चरिष्यामि मृगैः सह ।। ४-१०-१५ ।।

पूरोः सकाशादादाय जरां दत्त्वा च यौवनम् ।
राज्येऽभिषिच्य पूरुञ्च प्रययौ तपसे वनम् ।। ४-१०-१६ ।।

दिशि दक्षिणपूर्व्वंस्यां तुर्व्वसुं प्रत्यथादिशत् ।
प्रतीच्याञ्च तथा द्रु ह्यु दक्षिणापथतो यदुम् ।। ४-१०-१७ ।।

उदीच्याञ्च तथैवानुं कृत्वा मणडलिनो नृपान् ।
सर्व्वपृथ्वीपतिं पूरु सोऽभिषिच्य वनं ययौ ।। ४-१०-१८ ।।