रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/द्वितीयः सर्गः(नन्दिनीवरप्रदानम्)

विकिस्रोतः तः
← प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनम्) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
द्वितीयः सर्गः(नन्दिनीवरप्रदानम्)
कालिदासः
तृतीयः सर्गः(रघुराज्याभिषेकः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

द्वितीयः सर्गः।


   आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।
   मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम् ।।

  अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
  वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥१॥

 अथेति ॥ अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया । प्रतिग्राहयित्र्या । प्रतिग्राहयिहिते स्वीकारिते गन्ध- माल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या । तां तथोक्ताम् । पीतं पानमस्यास्तीति पीतः । पीतवानित्यर्थः ॥ “अर्शआदिभ्योऽच्” इत्यच्प्रत्ययः । “पीता गावो भुक्ता ब्राह्मणाः” इति महाभाष्ये दर्शनात् ॥ पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम् ॥ “क्रियार्थोपपद-” इत्यादिना चतुर्थी । मुमोच मुक्तवान् ॥ जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम् । तथाहि श्रुतिः-“ पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः” इति।। यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते ॥ अस्मिन्सर्गे वृत्तमुपजाति:--“अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः” इति ।।

  तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
  मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥२॥

 तस्या इति ॥ पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः ॥ “ स्वैरिणी पांसुला” इत्यमरः ॥ “सिध्मादिभ्यश्च” इति लच्प्रत्ययः ॥ अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी । खुरन्यासैः पवित्राः पांसवो यस्य तम् ॥ “ रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः” इत्यमरः ॥ तस्यां धेनोर्मार्गम् । स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव । अन्वगच्छदनुसृतवती च । यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेयर्थः ॥ धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः प्रकृतिविकाराभावात् ॥ पांसुलपथप्रवृत्तावप्यपांसुलानामिति विरोधालंकारो ध्वन्यते॥

  निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
  पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥३॥

 निवर्त्येति ॥ दयालुः कारुणिकः ॥ “स्याद्द्यालुः कारुणिकः” इत्यमरः॥ “स्पृहिगृहि-” इत्यादिनालुच्प्रत्ययः ॥ यशोभिः सुरभिर्मनोज्ञः ॥ “सुरभिः स्यान्मनोज्ञेऽपि” इति विश्वः ॥ राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम् । धरन्तीति धराः ॥ पचाद्यच् ॥ पयसां धराः पयोधराः स्तनाः ॥ “स्त्रीस्तनाब्दौ पयोधरौ” इत्यमरः ॥ अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः ॥ अभूततद्भावे च्विः ॥ “कुगतिप्रादयः” इति समासः ॥ पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम् ॥ “ अनेकमन्यपदार्थे ” इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः ॥ गोरूपधरामुर्वीमिव । जुगोप ररक्ष ॥ भूरक्षणप्रयत्नेनेव

ररक्षेति भावः ॥ धेनुपक्षे पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ताम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥

  व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
  न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ ४ ॥

 व्रतायेति ॥ व्रताय धेनोरनुचरेण । न तु जीवनायेति भावः । तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः ॥ शेषत्वं सुदक्षिणापेक्षया ॥ कथं तार्ह्यात्मरक्षणमत आह--न चेति ॥ तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न । कुतः । हि यस्मात्कारणान्मनोः । प्रसूयत इति प्रसूतिः संततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता ॥ न हि स्वनिर्वाहकस्य परापेक्षेति भावः ॥

  आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
  [१]व्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥ ५ ॥

 आस्वादवद्भिरिति ॥ सम्राण्मण्डलेश्वरः ॥ "येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः ॥ स राजा । आस्वादवद्भी रसवद्भिः । स्वादयुक्तैरित्यर्थः । तृणानां कवलैर्ग्रासैः ॥ "ग्रासस्तु कवलार्थकः" इत्यमरः ॥ कण्डूयनैः स्वर्जनैः । दंशानां वनमक्षिकाणां निवारणैः ॥ "दंशस्तु वनमक्षिका" इत्यमरः ॥ अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च । तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत् ॥ तदेव परं प्रधानं यस्येति तत्परः ॥ "तत्परौ प्रसितासक्तौ" इत्यमरः ॥

  स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
  जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ ६ ॥

 स्थित इति ॥ भूपतिस्तां गां स्थितां सतीं स्थितः सन् । स्थितिरूर्ध्वावस्थानम् । प्रयातां प्रस्थितामुच्चलितः प्रस्थितः । निषेदुषीं निषण्णाम् । उपविष्टामित्यर्थः ॥ "भाषायां सदवसश्रुवः" इति क्वसुप्रत्ययः । "उगितश्च" इति ङीप् ॥ आसनबन्ध उपवेशने धीरः स्थितः । उपविष्टः सन्नित्यर्थः । जलमाददानां पिबन्तीं जलाभिलाषी । पिबन्नित्यर्थः । इत्थं छायेवान्वगच्छदनुसृतवान् ॥

  [२] न्यस्तचिह्नामपि रा[३]जलक्ष्मीं तेजोविशेषानुमितां दधानः ।
  आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ ७ ॥

 स इति ॥ न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां तथाभूतामपि तेजोविशेषेण प्रभावातिशयेनानुमिताम् । सर्वथा राजैवायं भवेदित्यूहितां राजलक्ष्मीं दधानः स राजा । अनाविष्कृतदानराजिर्बहिरप्रकटितमदरेखः । अन्तर्गता मदावस्था यस्य सोऽन्तर्मदावस्थः । तथाभूतो द्विपेन्द्र इव । आसीत् ॥

  लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् ।
  रक्षा[४]पदेशान्मु[५]निहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥८॥

 लतेति ॥ लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः ॥ “ इत्थंभूतलक्षणे" इति तृतीया ॥ स राजा । अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन् ॥ “ धनुषश्च" इत्यनङादेशः ॥ मुनिहोमधेनो रक्षापदेशाद्रक्षणव्याजात् । वन्यान्वने भवान्दुष्टसत्त्वान्दुष्टजन्तून् ॥ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु इत्यमरः ॥ विनेष्यञ्छिक्षयिष्यन्निव । दावं वनम् ॥ “वने च वनवह्नौ च दवो दाव इहेष्यते" इति यादवः ॥ विचचार । वने चचारेत्यर्थः ॥ “देशकालाध्वगन्तव्यः कर्मसंज्ञा ह्यकर्मणाम्" इति दावस्य कर्मत्वम् ॥

 “विसृष्ट-" इत्यादिभिः षड्भिः श्लोकैस्तस्य महामहिमतया द्रुमादयोऽपि राजोपचारं चक्रुरित्याह-

  विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
  उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः॥९॥

 विसृष्टेति ॥ विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य । पाशभृता वरुणेन समस्य तुल्यस्य ।। “प्रचेता वरुणः पाशी" इत्यमरः ॥ अनुभावोऽनेन सूचितः ॥ तस्य राज्ञः पार्श्वयोर्द्रुमाः । उन्मदानामुत्कटमदानां वयसां खगानाम् ।। "खगवाल्यादिनोर्वयः" इत्यमरः ॥ विरावैः शब्दैः। आलोकस्य शब्दं वाचक- मालोकयेति शब्दम् । जयशब्दमित्यर्थः ॥ “ आलोको जयशब्दः स्यात्" इति विश्वः ॥ उदीरयामासुरिवावदन्निव । इत्युत्प्रेक्षा ॥

  मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
  अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः॥१०॥

 मरुदिति ॥ मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात्समीपेऽभिवर्तमानम् ॥ “ आराद्दूरसमीपयोः" इत्यमरः ॥ मरुतो वायोः सखा मरुत्सखोऽग्निः । स इवाभातीति मरुत्सखाभम् ॥ “ आतश्चोपसर्गे" इति कप्रत्ययः ॥ अर्च्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः । पौरकन्याः पौराश्च ताः कन्या आचारार्थैर्लाजैराचारलाजैरिव । अवाकिरन् । तस्योपरि निक्षिप्तवत्य इत्यर्थः । सखा हि सखायमागतमुपचरतीति भावः ॥

  धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
  विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥११॥

 धनुर्भृत इति ॥धनुर्भृतोऽप्यस्य राज्ञः। एतेन भयसंभावना दर्शिता। तथापि विशङ्कैर्निर्भीकैरन्तःकरणैः । कर्तृभिः। दययाकृपारसेनार्द्रो भावोऽभिप्रायो यस्य तद्दयार्द्रभावं तदाख्यातम् । दयार्द्रभावमेतदित्याख्यातमित्यर्थः।। “भावः सत्त्वस्वभावाभिप्रायचेष्टात्मजन्मसु" इत्यमरः। तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः। “विमलं कलुषीभवञ्च चेतः कथयत्येव हितैषिणं रिपुं च" इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः ।।

  स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
  शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥१२॥

 स इति ॥ स दिलीपो मारुतपूर्णरन्ध्रैः । अत एव कूजद्भिः स्वनद्भिः। कीचकैर्वेणुविशेषैः॥ "वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः" इत्यमरः।। वंशः सुषिरवाद्यविशेषः। “वंशादिकं तु सुषिरम्" इत्यमरः॥आपादितं संपादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा। कुञ्जेषु लतागृहेषु ॥“निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः॥ वनदेवताभिरुद्गीयमानमुच्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान् ।।

  पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहा[६]कम्पितपुष्पगन्धी।
  तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ १३ ॥

 पृक्त इति॥गिरिषु निर्झराणां वारिप्रवाहाणाम् ।। “वारिप्रवाहो निर्झरो झरः" इत्यमरः ॥ तुषारैः सीकरैः॥"तुषारौ हिमसीकरौ" इति शाश्वतः।।पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी । ईषत्कम्पितपुष्पगन्धवान् । एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम् । अत एवातपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे ॥ आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ।।

  शशाम वृष्ट्यापि विना दवाग्निरासीद्वि[७]शेषा फलपुष्पवृद्धिः ।
  ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्व[८]नं गोत्परि गाहमाने।॥१४॥

 शशामेति ॥ गोप्तरि तस्मिन्राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापि । दवाग्निर्वनाग्निः ॥ “दवदावौ वनानले" इति हेमः ॥ शशाम । फलानां पुष्पाणां च वृद्धिः। विशेष्यत इति विशेषा। अतिशयितासीत् ।। कर्मार्थे घञ्प्रययः॥ सत्त्वेषु जन्तुषु मध्ये ॥ " यतश्च निर्धारणम्" इति सप्तमी ॥ अधिकः प्रबलो व्याघ्रादिरूनं दुर्बलं हरिणादिकं न बबाधे॥

  संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
  प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ १५॥

 संचारपूतानीति ॥ पल्लवस्य रागो वर्णः पल्लवरागः ॥ “रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु" इति शाश्वतः॥ स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः ॥ “पतङ्गः पक्षिसूर्ययोः" इति शाश्वतः। मुनेर्धेनुश्च । दिगन्तराणि दिशामवकाशान् ॥ अन्तरमवकाशावधिपरिधानान्तर्विभेदतादर्थ्ये" इत्यमरः ॥ संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय । धेनुपक्ष आलयाय च । गन्तुं प्रचक्रमे ॥

  तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः ।
  बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना॥१६॥

 तामिति ॥ मध्यमलोकपालो भूपालः । देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनं यस्यास्तां धेनुमन्वगनुपदं ययौ ॥“अन्वगन्वक्षमनुगेऽनुपदं क्लीवमव्ययम् " इत्यमरः ॥ सतां मतेन सद्भिर्मान्येन ॥ “गतिबुद्धि-" इत्यादिना वर्तमाने क्तः । क्तस्य च वर्तमाने" इति षष्ठी ॥ तेन राज्ञोपपन्ना युक्ता सा धेनुः । सतां मतेन विधिनानुष्ठानेनोपपन्ना युक्ता साक्षात्प्रत्यक्षा श्रद्धास्तिक्यबुदिरिव । बभौ च ॥

  स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
  ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्॥१७॥

 स इति ॥ स राजा । पल्वलेभ्योऽल्पजलाशयेभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि । बर्हाण्येषां सन्तीति बर्हिणा मयूराः ॥ “मयूरो बर्हिणो बर्ही" इत्यमरः ।। फलवर्हाभ्यामिनच्यत्ययो वक्तव्यः ॥ आवासवृक्षाणामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्नाश्यामानि । श्यामानि भवन्तीति श्यामायमानानि ॥ "लोहितादिडाज्भ्यः क्यष्" इति क्यष्पत्ययः । “वा क्यषः" इत्यात्मनेपदे शानच् ॥ मृगैरध्यासिता अधिष्ठिताः

शाद्वला येषु तानि ॥ शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः ॥ “शाद्वलः शादहरिते" इत्यमरः ॥ "शादः कर्दमशष्पयोः" इति विश्वः॥ “नडशादाड्ड्वलच्" इति ड्वलच्प्रत्ययः ॥ वनानि पश्यन्ययौ ।

  आपीनभारोद्वहनप्रयत्नादृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
  उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥१८॥

 आपीनेति ॥ गृष्टिः सकृत्प्रसूता गौः॥ “गृष्टिः सकृत्प्रसूता गौः" इति हलायुधः ॥ नरेन्द्रश्च । उभौ यथाक्रमम् । आपीनमूधः ॥ "ऊधस्तु क्लीबमापीनम्" इत्यमरः ॥ आपीनस्य भारोद्वहने प्रयत्नात्प्रयासात् । वपुषो गुरुत्वादाधिक्याञ्च। अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम् ॥ "ऋक्पू:-"इत्यादिना समासान्तोऽप्रत्ययः॥ अलंचक्रतुर्भूषितवन्तौ।।

  वशिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
  पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥१९॥

  वशिष्ठेति ॥ वशिष्ठधेनोरनुयायिनमनुचरं वनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा । निर्निमेषा सतीत्यर्थः । लोचनाभ्याम् । करणाभ्याम् । उपोषिताभ्यामिव । उपवासो भोजननिवृत्तिः । तद्वद्भ्यामिव ॥ वसतेः कर्तरि क्तः ॥ पपौ ॥ यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाधिकं व्यलोकयदित्यर्थः॥

  पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
  तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ॥ २० ॥

 पुरस्कृतेति ॥ वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण ॥ "तस्येश्वरः" इत्यञ्प्रत्ययः ॥ पुरस्कृताग्रतः कृता ॥ धर्मस्य पत्नी धर्मपत्नी । धर्मार्थपत्नीत्यर्थः ॥ अश्वघासादिवत्तादर्थे षष्ठीसमासः॥ पार्थिवस्य धर्मपत्न्या प्रत्युद्गता सा धेनुस्तदन्तरे तयोर्दम्पत्योर्मध्ये । दिनक्षपयोर्दिनरात्र्योर्मध्यगता संध्येव । रराज ॥

  प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता।
  प्रणम्य चानर्च विशालमत्स्याः शृङ्गान्तरं द्वारमिवा[९]र्थसिद्धेः॥२१॥

 प्रदक्षिणीकृत्येति ॥ अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ हस्तौ यस्याः सा सुदक्षिणा पयस्विर्नी प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च । तस्या धेन्वा विशालं शृङ्गान्तरं शृङ्गमध्यम् । अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव । आनर्चार्चयामास । अर्चतेर्भौवादिकाल्लिट् ॥

  वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
  भक्त्योपपन्नेषु हि तद्विधान प्रसादचिह्नानि पुरःफलानि ॥२२॥

 वत्सोत्सुकेति ॥ सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति हेतोस्तौ दंपती ननन्दतुः ॥ पूजास्वीकारस्यानन्दहेतुत्वमाह-भक्त्येति ॥ पूज्येष्वनुरागो भक्तिः । तयोपपन्नेषु युक्तेषु विषये तद्विधानाम् । तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम् । महतामित्यर्थः । प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरःफलानि । पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि ॥ अविलम्बितफलसूचकलिङ्गदर्शनादानन्दो युज्यत इत्यर्थः॥

  गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्यं च विधिं दिलीपः।
  दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम्॥२३॥

 गुरोरिति भुजोच्छिनरिपुर्दिलीपः सदारस्य दारैररुंधत्या सह वर्तमानस्य गुरोः । उभयोरपीत्यर्थः ॥ “ भार्या जायाथ पुं भूम्नि दाराः" इत्यमरः ॥ पादौ निपीड्याभिवन्द्य । सांध्यं संध्यायां विहितं विधिमनुष्ठानं च समाप्य । दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलाम् ॥ “तृन्" इति तन्प्रत्ययः॥ धेनुमेव पुनर्भेजे सेवितवान् ॥ दोग्ध्रीमिति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ॥

  तामन्तिकन्यस्तबलिप्रदीपांमन्वास्य गोप्ता गृहिणीसहायः ।
  क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ २४॥

 तामिति ॥ गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन् । उभावपीत्यर्थः । अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप ॥ प्रातः सुप्तोस्थितामनूदतिष्ठदुत्थितवान् ॥ अत्रानुशब्देन धेनुराजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेव । इत्यपौनरुक्त्यम् ।। "कर्मप्रवचनीययुक्ते-" इति द्वितीया ॥

  इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
  सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य॥२५॥

 इत्थमिति ॥ इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह ॥ "कृताभिषेका महिषी" इत्यमरः॥ व्रतं धारयतः । महनीया पूज्या कीर्तिर्यस्य तस्य । दीनानामुद्धरणं दैन्यविमोचनम् । तत्रोचितस्य परिचितस्य तस्य नृपस्य । त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः॥

  अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
  गङ्गाप्रपातान्तवि[१०]रूढशष्पं गौरीगरोर्गह्वरमाविवेश ॥२६॥

 अन्येद्युरिति ॥ अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने ॥ “सद्यः परुत्परारि" इत्यादिना निपातनादव्ययम् ॥ अद्यात्राह्नाय पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः" इत्यमरः ।। मुनिहोमधेनुः । आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम् । “भावोऽभिप्राय आशयः" इति यादवः ॥ जिज्ञासमाना ज्ञातुमिच्छन्ती ॥ "ज्ञाश्रुस्मृदृशां सनः इत्यात्मनेपदे शानच् ॥ प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः । गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत् ॥ " शष्पं बालतृणं घासः" इत्यमरः॥ गौरीगुरोः पार्वतीपितुर्गहरं गुहामाविवेश ॥

  सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
  अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥२७॥

 सेति ॥ सा धेनुहिंस्रैर्व्याघ्रादिभिर्मनसापि दुष्प्रधर्षा दुर्धर्षेति हेतोरद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात् ॥ प्रसह्य तु हठार्थकम्" इत्यमरः ॥ चकर्ष ॥ किलेत्यलीके ।।

  तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् ।
  रश्मिष्विवादाय नगेन्द्रस[११]क्तां निवर्तयामास नृपस्य दृष्टिम् ॥२८॥

 तदीयमिति ॥ गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम् । तस्या इदं तदीयम् । आक्रन्दितमार्तघोषणम् । आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम् । रश्मिषु प्रग्रहेषु ॥ “किरणप्रग्रहौ रश्मी इत्यमरः ॥ आदायेव गृहीत्वेव । निवर्तयामास ॥

  स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
  अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥२९॥

 स इति ॥ धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम् ॥ "कमुश्च" इति क्वसुप्रत्ययः ॥ केसरिणं सिंहम् । सानुमतोऽद्रेः । धातोर्गैरिकस्य विकारो धातुमयी । तस्यामधित्यकायामूर्ध्वभूमौ ॥ “उपत्यकाद्रेरासन्ना भूमिरू र्ध्वमधित्यका " इत्यमरः ।। " उपाधिभ्यां त्यकन्नासन्नारूढयोः" इति त्यकन्प्रत्ययः॥ प्रफुल्लो विकसितस्तम् ॥ “फुल्ल विकसने" इति धातोः पचाद्यच्॥"प्रफुल्लतम्" इति तकारपाठे “ ञिफला विशरणे" इति धातोः कर्तरि क्तः । “उत्परस्यातः" इत्युकारादेशः ॥ लोध्राख्यं दुममिव । ददर्श ॥

  ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः।
  जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः॥३०॥

 तत इति ॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी । शरणं रक्षणम् ॥ "शरणं गृहरक्षित्रोः" इत्यमरः । “शरणं रक्षणे गृहे " इति यादवः ॥ शरणे साधुः शरण्यः ॥ " तत्र साधुः" इति यत्प्रत्ययः ॥ प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन् ॥ “अभिषङ्गः पराभवः" इत्यमरः ॥ वध्यस्य वधार्हस्य ॥ " दण्डादिभ्यो यः" इति यप्रत्ययः॥ मृगेन्द्रस्य वधाय निषङ्गात्तूणीरात् ॥ " तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः इत्यमरः ॥ शरमुद्धर्तुमैच्छत् ।।

  वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे ।
  [१२]सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥ ३१ ॥

 वामेति ॥ प्रहर्तुस्तस्य वामेतरो दक्षिणः करः । नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन् ॥ “कङ्कः पक्षिविशेषे स्याद्रुप्ताकारे युधिष्ठिरे" इति विश्वः । “कङ्कस्तु कर्कटः" इति यादवः ॥ सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। “कर्तरी पुङ्खे” इति यादवः॥ सक्ताङ्गुलिः सन् । चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव । अवतस्थे ॥

  बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
  राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ॥ ३२ ॥

 बाह्विति ॥ बाह्वोः प्रतिष्टम्भेन प्रतिबन्धेन । “प्रतिबन्धः प्रतिष्टम्भः" इत्यमरः ॥ विवृद्धमन्युः प्रष्टद्धरोषो राजा। मन्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगी सर्प इव ॥ " भोगी राजभुजंगयोः" इति शाश्वतः ॥ अभ्यर्णमन्तिकम् ॥ "उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्" इत्यमरः ॥ आगस्कृतमपराधकारिणमस्पृशद्धिः स्वतेजोभिरन्तरदह्यत ॥ "अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि" इति यादवः॥

  तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
  विस्माययन्विस्मितमात्मवृत्तौ सिं[१३]होरुसत्त्वं निजगाद सिंहः॥३३॥

 तमिति॥ निगृहीता पीडिता धेनुर्येन ससिंहः । आर्याणां सतां गृह्यं पक्ष्यम् ॥ "पदास्वैरिबाह्यापक्ष्येषु च" इति क्यप् ॥ मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम् । सिंह इवोरुसत्त्वो महाबलस्तम् । आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम् ॥ कर्तरि क्तः ॥ तं दिलीपं मनुष्यवाचा ॥ करणेन ॥ पुनर्विस्माययन्विस्मयमाश्चर्यं प्रापयन्निजगाद ॥"स्मिङ् ईषद्धसने" इति धातोणिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम् ॥ "विस्मापयन्" इति पाठे पुगागममात्रं वक्तव्यम् । तच्च “नित्यं स्मयतेः" इति हेतुभयविवक्षायामेवेति “ भीस्म्योर्हेतुभये" इत्यात्मनेपदे विस्मापयमान इति स्यात् । तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम् । करणविवक्षायां न कश्चिद्दोषः ॥

  अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् ।
  न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य ॥३४॥

 अलमिति ॥ हे महीपाल, तव श्रमेणालम् । साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वानृतीया । उक्तं च न्यासोद्योते-"न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानापि" इति ॥ " अलं भूषणपर्याप्तिशक्तिवारणवाचकम् " इत्यमरः ॥ इतोऽस्मिन्मयि ॥सार्वविभक्तिकस्तसिः॥ प्रयुक्तमप्यस्त्रं वृथा स्यात् ।। तथाहि । पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोच्चये पर्वते न मूर्च्छति न प्रसरति ॥

  कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् ।
  [१४]अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम नि[१५]कुम्भमित्रम्॥३५॥

 कैलासेति ॥ कैलास इव गौरः शुभ्रस्तम् ॥" चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः" इति शाश्वतः ॥वृषं वृषभमारुरुक्षोरारोढुमिच्छोः ।स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः । अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नाम किंकरं मामवेहि विद्धि ॥ “पृथिवी सलिलं तेजो वायुराकाशमेव च । सूर्याचन्द्रमसौ सोमयाजी चेत्यष्ट मूर्तयः" इति यादवः॥

  अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽ[१६]सौ वृषभध्वजेन।
  यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥३६॥

 अमुमिति ॥ पुरोऽग्रतोऽमुं देवदारुं पश्यसि । इति काकुः ॥ असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः॥ अभूततद्भावे च्विः।। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः । तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः ॥ स्कन्दपक्षे हेमकुम्भ इव स्तन इति विग्रहः । पयसां क्षीराणाम् ॥ “पयः क्षीरं पयोऽम्बु च" इत्यमरः॥ स्कन्दसमानप्रेमास्पदमिति भावः ॥

  कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
  अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥ ३७॥

 कण्डूयमानेनेति ॥ कदाचित्कटं कपोलं कण्डूयमानेन कर्षता ॥ “कण्ड्वादिभ्यो यक्" इति यक् । ततः शानच् ॥ वन्यद्विपेनास्य देवदारोस्त्वगुन्मथिता ॥ अथाद्रेस्तनया गौरी । असुरास्त्रैरालीढं क्षतम् । सेनां नयतीति सेनानीः स्कन्दः ॥ 'पार्वतीनन्दनः स्कन्दः सेनानीः" इत्यमरः ॥ “सत्सूद्विष-" इत्यादिना क्विप् । तमिव । एनं देवदारुं शुशोच ॥

  तदाप्रभृत्येव व[१७]नद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ ।
  व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥३८॥

 तदेति ॥ तदा तत्कालः प्रभृतिरादिर्यस्मिन्कर्मणि तत्तथा तदाप्रभृत्येव वनद्विपानां त्रासार्थं भयार्थं शूलभृता शिवेन । अङ्क समीपमागताः प्राप्ताः सत्त्वाः प्राणिनो वृत्तिर्यस्मिंस्तत् ॥ "अङ्कः समीप उत्सङ्गे चिह्ने स्थानापराधयोः" इति केशवः ॥ सिंहत्वं विधाय । अस्मिन्नद्रिकुक्षौ गुहायामहं व्यापारितो नियुक्तः ॥

  तस्यालमेषा क्षुधितस तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
  उपस्थिता शोणितपारणा में सुरद्विषश्चान्द्रमसी [१८]सुधेव ॥ ३९॥

 तस्येति ॥ परमेश्वरेण प्रदिष्टो निर्दिष्टः कालो भोजनवेला यस्याः सोपस्थिता प्राप्तैषा गोरूपा शोणितपारणा रुधिरस्य व्रतान्तभोजनम् । सुरद्विषो राहोः । चन्द्रमस इयं चान्द्रमसी सुधेव । क्षुधितस्य बुभुक्षितस्य तस्याङ्कागतसत्त्ववृत्तेर्मे सिंहस्य तृप्त्या अलं पर्याप्ता ॥ “नमःस्वस्ति-" इत्यादिना चतुर्थी ॥

  स त्वं निवर्तस्व विहाय लज्जां गु[१९]रोर्भवान्दर्शितशिष्यभक्तिः ।
  शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षि[२०]णोति ॥ ४० ॥

 स इति ॥ स एवमुपायशून्यस्त्वं लज्जां विहाय निवर्तस्व । भवांस्त्वं गुरोर्दर्शिता प्रकाशिता शिष्यस्य कर्तव्या भक्तिर्येन स तथोक्तोऽस्ति ॥ ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयमत आह--शस्त्रेणेति ॥ यद्रक्ष्यं धनं शस्त्रेणायुधेन ॥ "शस्त्रमायुधलोहयोः" इत्यमरः ॥ अशक्या रक्षा यस्य तदशक्यरक्षम् । रक्षितुमशक्यमित्यर्थः । तद्रक्ष्यं नष्टमपि शस्त्रभृतां यशो न क्षिणोति न हिनस्ति ॥ अशक्यार्थेष्वप्रतिविधानं न दोषायेति भावः ॥

  इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
  प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥४१ ॥

 इतीति ॥ पुरुषाणामधिराजो नृप इति प्रगल्भं मृगाधिराजस्य वचो निशम्य श्रुत्वा गिरिशस्येश्वरस्य प्रभावात्प्रत्याहतास्त्रः कुण्ठितास्त्रः सन्नात्मनि विषयेऽवज्ञामपमानं शिथिलीचकार । तत्याजेत्यर्थः । अवज्ञातोऽहमिति निर्वेदं न प्रापेत्यर्थः ॥ समानेषु हि क्षत्रियाणामभिमानः । न सर्वेश्वरं प्रतीति भावः ॥

  प्रत्यब्रवीच्चनैमिषुप्रयोगे तत्पूर्वभ[२१]ङ्गे वितथप्रयत्नः ।
  जडीकृतस्त्र्यम्बकवीक्ष[२२]णेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥ ४२ ॥

 प्रतीति ॥ स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिंस्तत्पूर्वभङ्ग इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः । अत एव वज्रं कुलिशं मुमुक्षन्मोक्तुमिच्छन् । अम्बकं लोचनम् ॥ "दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि" इति हलायुधः ॥ त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः । तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः । वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः ॥ "प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्" इति पाणेः सप्तम्यन्तस्योत्तरनिपातः ॥ स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीच्च ॥ "बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः" इति महाभारते ॥

  संरुद्धचेष्ट[२३]स्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः ।
  अन्तर्गतं प्राणभृतां हि[२४] वेद सर्वं भवान्भावमतोऽभिधास्ये ॥ ४३ ॥

 संरुद्धेति ॥ हे मृगेन्द्र । संरुद्धचेष्टस्य प्रतिबद्धव्यापारस्य मम तद्वचो वाक्यं कामं हास्यं परिहसनीयम् । यद्वचः "सत्वं मदीयेन" (२।४५) इत्यादिकमहं विव क्षुर्वक्तुमिच्छुरस्मि ॥ तर्हि तूष्णीं स्थीयतामित्याशङ्क्येश्वरकिंकरत्वात्सर्वज्ञं त्वां प्रति न हास्यमित्याह -अन्तरिति ॥ हि यतो भवान्प्राणभृतामन्तर्गतं हृद्गतं वाग्वृत्या बहिरप्रकाशितमेव सर्वं भावं वेद वेत्ति ॥ “ विदो लटो वा" इति णलादेशः॥ अतोऽहमभिधास्ये वक्ष्यामि ॥ वच इति प्रकृतं कर्म संबध्यते ॥ अन्ये त्वीदृग्वचनमाकर्ण्यासंभावितार्थमेतदित्युपहसन्ति । अतस्तु मौनमेव भूषणम् । त्वं तु वाङ्मनसयोरेकविध एवायमिति जानासि । अतोऽभिधास्ये यद्वचोऽहं विवक्षुरित्यर्थः॥

  मान्यः स मे स्थावरजंगमानां सर्गस्थितिप्रत्यवहारहेतुः ।
  गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ ४४ ॥

 मान्य इति ॥ प्रत्यवहारः प्रलयः। स्थावराणां तरुशैलादीनां जंगमानां मनुष्यादीनां सर्गस्थितिप्रत्यवहारेषु हेतुः स ईश्वरो मे मम मान्यः पूज्यः । अलङ्घ्यशासन इत्यर्थः । शासनं च "सिंहत्वमङ्कागतसत्त्ववृत्ति” (२।३८) इत्युक्तरूपम् ॥ तर्हि विसृज्य गम्यताम् । नेत्याह -गुरोरपीति॥ पुरस्तादग्रे नश्यदिदमाहिताग्नेर्गुरोर्धनमपि गोरूपमनुपेक्षणीयम् ॥ आहिताग्नेरिति विशेषणेनानुपेक्षाकारणं हविःसाधनत्वं सूचयति ॥

  स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।
  दिनावसानोत्सुकबालवत्सा वि[२५]सृज्यतां धेनुरियं महर्षेः ॥४५॥

 स इति ॥ सोऽङ्कागतसत्त्ववृत्तिस्त्वं मदीयेन देहेन शरीरस्य वृत्तिं जीवनं निवर्तयितुं संपादयितुं प्रसीद । दिनावसान उत्सुको माता समागमिष्यतीत्युत्कण्ठितो बालवत्सो यस्याः सा महर्षेरियं धेनुर्विसृज्यताम् ॥

  अथान्धकारं गिरिग[२६]ह्वराणां दंष्ट्रामयूखैः श[२७]कलानि कुर्वन् ।
  भूयः स भूतेश्वरपार्श्ववर्ती किंचिद्विहस्यार्थपतिं बभाषे ॥ ४६॥

 अथेति ॥ अथ भूतेश्वरस्य पार्श्ववर्त्यनुचरः स सिंहो गिरेर्गह्वराणां गुहानाम् ।। "देवखातबिले गुहा । गह्वरम्" इत्यमरः॥ अन्धकारं ध्वान्तं दंष्ट्रामयूखैः शकलानि खण्डानि कुर्वन् । निरस्यन्नित्यर्थः। किंचिद्विहस्यार्थपतिं नृपं भूयो बभाषे ॥ हासकारणम् “अल्पस्य हेतोर्बहु हातुमिच्छन्” (२।४७ ) इति वक्ष्यमाणं द्रष्टव्यम् ।।

  एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च ।
  अल्पस्य हेतोर्बहु हा[२८]तुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्॥४७॥



 एकेति ॥ एकातपत्रमेकच्छत्रं जगतः प्रभुत्वं स्वामित्वम् । नवं वयो यौवनम् ।

इदं कान्तं रम्यं वपुश्च । इत्येवं बहु । अल्पस्य हेतोरल्पेन कारणेन । अल्पफलायेत्यर्थः ॥"षष्ठी हेतुपयोगे" इति षष्ठी । हातुं त्यक्तुमिच्छंस्त्वं विचारे कार्याकार्यविमर्शे मूढो मूर्खो मे मम प्रतिभासि ॥

  भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।
  जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥४८॥

 भूतेति ॥ तव भूतेष्वनुकम्पा कृपा चेत् ।। कृपा दयानुकम्पा स्यात्" इत्यमरः ॥ कृपैव वर्तते चेदित्यर्थः । तर्हि त्वदन्ते तव नाशे सतीयमेका गौः । स्वस्ति क्षेममस्या अस्तीति खस्तिमती । भवेत् । जीवेदित्यर्थः । “स्वस्त्याशीः क्षेमपुण्यादौ” इत्यमरः ॥ हे प्रजानाथ । जीवन्पुनः पितेव प्रजा उपप्लवेभ्यो विघ्नेभ्यः शश्वत्सदा ॥ “पुनः सदार्थयोः शश्वत्" इत्यमरः ॥ पासि रक्षसि । स्वप्राणव्येनैकधेनुरक्षणाद्वरं जीवितेनैव शश्वदखिलजगत्राणमित्यर्थः ॥

 न धर्मलोपादियं प्रवृत्तिः, किंतु गुरुभयादित्यत आह-

  अथैकधेनोरपराधच[२९]ण्डाद्गुरोः कृशानुप्रतिमाद्बिभेषि ।
  शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोघ्नीः ।।४९।।

 अथेति ॥ अथेति पक्षान्तरे । अथवा । एकैव धेनुर्यस्य तस्मात् । अयं कोपकारणोपन्यास इति ज्ञेयम् । अत एवापराधे गोपेक्षालक्षणे सति चण्डादतिकोपनात् ॥ “ चण्डस्त्वत्यन्तकोपनः" इत्यमरः ॥ अत एव कशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि । इति काकुः॥ भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ॥ अल्पवित्तस्य धनहानिरतिदुःसहेति भावः । अस्य गुरोर्मन्युः क्रोधः।। मन्युर्दैन्ये क्रतौ क्रुधि" इत्यमरः ॥ घटा इवोधांसि यासां ता घटोध्नीः ॥ “ऊधसोऽनङ्" इत्यनङादेशः । “बहुव्रीहेरूधसो ङीष्" इति ङीष् ॥ कोटिशो गाः स्पर्शयता प्रतिपादयता ॥ “विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्" इत्यमरः ॥ भवता विनेतुमपनेतुं शक्यः॥

  तद्रक्ष कल्याणपरंपराणां भोक्तारमूर्जस्वलमात्मदेहम् ।
  महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः॥ ५० ॥

 तदिति ॥ तत्तस्मात्कारणात्कल्याणपरंपराणां भोक्तारम् ॥ कर्मणि षष्ठी ॥ ऊर्जो बलमस्यास्तीत्यूर्जस्वलम् ॥ “ज्योत्स्नातमिस्रा-" इत्यादिना वलच्प्रत्ययान्तो निपातः ॥ आत्मदेहं रक्ष ॥ ननु गामुपेक्ष्यात्मदेहरक्षणे स्वर्गहानिः स्यात् । नेत्याह-महीतलेति ॥ ऋद्धं समृद्धं राज्यं महीतलस्पर्शनमात्रेण भूतलसंबन्धमात्रेण भिन्नमैन्द्रमिन्द्रसंबन्धि पदं स्थानमाहुः । स्वर्गान्न भिद्यत इत्यर्थः ।।

  एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
  शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव ॥५१॥

 एतावदिति ॥ मृगेन्द्र एतावदुक्त्वा विरते सति गुहागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शैलोऽपि प्रीत्या तमेवार्थं क्षितिपालमुच्चैरभाषतेव । इत्युत्प्रेक्षा ॥ भाषिरयं ब्रुविसमानार्थत्वाद्विकर्मकः । ब्रुविस्तु द्विकर्मकेषु पठितः । तदुक्तम्-"दुहियाचिरुधिपछिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना" इति ॥

  निशम्य देवानुचरस्य वा[३०]चं मनुष्यदेवः पुनरप्युवाच ।
  धेन्वा त[३१]दध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः॥५२॥

 निशम्येति ॥ देवानुचरस्येश्वरकिंकरस्य सिंहस्य वाचं निशम्य मनुष्यदेवो राजा पुनरप्युवाच । किंभूतः सन् । तेन सिंहेन यदध्यासितं व्याक्रमणम् ॥ नपुंसके भावे क्तः । तेन कातरे अक्षिणी यस्यास्तया ॥ “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् " इति षच् । “षिद्गौरादिभ्यश्च" इति ङीष् ॥ किं वा वक्ष्यतीति भीत्यैवं स्थितयेत्यर्थः । धेन्वा निरीक्ष्यमाणः । अत एव सुतरां दयालुः सन् ॥ सुतरामित्यत्र द्विवचनविभज्य-" इत्यादिना सुशब्दात्तरप् । किमेत्तिङव्यय-" इत्यादिनाम्प्रत्ययः । “तद्धितश्चासर्वविभक्तिः" इत्यव्ययसंज्ञा ॥

 किमुवाचेत्याह-

  क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
  राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपकोशमलीमसैर्वा ॥५३॥

 क्षतादिति "क्षणु हिंसायाम्" इति धातोः संपदादित्वात्किप् । गमादीनाम्" इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम् । क्षतो नाशात्त्रायत इति क्षत्त्रः ॥ सुपीति योगविभागात्कः । तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति -क्षतादित्यादिना॥ उदग्र उन्नतः क्षत्रस्य क्षत्रवर्णस्य शब्दो वाचकः। क्षत्रशब्द इत्यर्थः । क्षतात्रायत इति व्युत्पत्या भुवनेषु रूढः किल प्रसिद्धः खलु । नाश्वकर्णादिवत्केवलरूढः। किंतु पङ्कजादिवद्योगरूढ इत्यर्थः। ततः किमित्यत आह-तस्य क्षत्रशब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम् । उपक्रोशमलीमसैर्निन्दामलिनैः । “उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे" इत्यमरः ॥ " ज्योत्स्नातमिस्रा-" इत्यादिना मलीमसशब्दो निपातितः ॥ “मलीमसं तु मलिनं कच्चरं मलदूषितम्" इत्यमरः ॥ तैः प्राणैर्वा किम् । निन्दितस्य सर्वं व्यर्थमित्यर्थः । एतेन "एकातपत्रम्” (२।४७) इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ।।

 " अथैकधेनोः" (२॥ ४९) इत्यत्रोत्तरमाह-

  कथं नुं[३२] शक्योऽनुनयो महर्षेर्विश्राणनाच्चा[३३]न्यपयस्विनीनाम् ।
  इमामनूनां सुरभेरवेहि रुद्रौजसा तु[३४] प्रहृतं त्वयास्याम् ॥ ५४॥

 कथमिति ॥ अनुनयः क्रोधापनयः । चकारो वाकारार्थः। महर्षरनुनयो वान्यासां पयस्विनीनां दोग्ध्रीणां गवां विश्राणनाद्दानात् ॥ " त्यागो वितरणं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणम्" इत्यमरः ॥ कथं नु शक्यः । न शक्य इत्यर्थः॥ अत्र हेतुमाह-इमां गां सुरभेः कामधेनोः॥“पञ्चमी विभक्ते इति पञ्चमी ॥ अनूनामन्यूनामवेहि जानीहि ॥ तर्हि कथमस्याः परिभवोऽभूदित्याह- रुद्रौजसेति ॥ अस्यां गवि त्वया । कर्त्रा । प्रहृतं तु प्रहारस्तु ॥ नपुंसके भावे क्तः॥ रुद्रौजसेश्वरसामर्थ्येन । न तु स्वयमित्यर्थः ॥ “ सप्तम्यधिकरणे च" इति सप्तमी॥

 तर्हि किं चिकीर्षितमित्यत्राह--

  सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
  न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥ ५५ ॥

 सेयमिति ॥ सेयं गौर्मया। निष्क्रीयते प्रत्याह्रियतेऽनेन परगृहीतमिति निष्क्रयः प्रतिशीर्षकम् ॥" एरच्" इत्यच्प्रत्ययः ॥ स्वदेहार्पणमेव निष्क्रयस्तेन भयत्तस्त्वत्तः ॥ पञ्चम्यास्तसिल् ॥ मोचयितुं न्याय्या न्यायादनपेता । युक्तेत्यर्थः ॥ "धर्मपथ्यर्थ-" इत्यादिना यत्प्रत्ययः ॥ एवं सति तव पारणा भोजनं विहता न स्यात् ॥ मुनेः क्रिया होमादिः । स एवार्थः प्रयोजनम् । स चालुप्तो भवेत् ॥ स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः॥

 अत्र भवानेव प्रमाणमित्याह-

  भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ।
  स्थातुं नियोक्तु[३५]र्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥५६॥

 भवानिति ॥ परवान्स्वामिपरतन्त्रो भवानपि ॥ " परतन्त्रः पराधीनः

परवान्नाथवानपि" इत्यमरः ॥ इदं वक्ष्यमाणमवैति । भवतानुभूयत एवेत्यर्थः ।। “शेषे प्रथमः" इति प्रथमपुरुषः ॥ किमित्यत आह-हि यस्माद्धेतोः॥ "हि हेताववधारणे" इत्यमरः ॥ तव देवदारौ विषये महान्यत्नः । महता यत्नेन रक्ष्यत इत्यर्थः ॥ इदंशब्दोक्तमर्थं दर्शयति-स्थातुमिति ॥ रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनाव्रणेन । नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोऽग्रे स्थातुं शक्यं न हि ॥

 सर्वथा चैतदप्रतिहार्यमित्याह-

  किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
  एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥५७॥

 किमिति ॥ किमपि किं वाहं तवाहिंस्योऽवध्यो मतश्चेत्तर्हि मे यश एव शरीरं तस्मिन्दयालुः कारुणिको भव ॥ "स्याद्दयालुः कारुणिकः" इत्यमरः ॥ ननु मुख्यमुपेक्ष्यामुख्यशरीरे कोऽभिनिवेशः। अत आह-एकान्तेति॥मद्विधानां मादृशानां विवेकिनामेकान्तविध्वंसिष्ववश्यविनाशिषु भौतिकेषु पृथिव्यादिभूतविकारेषु पिण्डेषु शरीरेष्वनास्था खल्वनपेक्षैव ॥ आस्थात्वालम्बनास्थानयत्नापेक्षासु कथ्यते” इति विश्वः ॥

 सौहार्दादहमनुसरणीयोऽस्मीत्याह-

  संबन्धमाभाषणपूर्वमाहुर्वृत्तः[३६] स नौ संगतयोर्वनान्ते ।
  तद्भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम्।।५८॥

 संबन्धमिति ॥ संबन्धं सख्यम् । आभाषणमालापः पूर्व कारणं यस्य तमाहुः ॥ "स्यादाभाषणमालापः" इत्यमरः ॥ स तादृक्सम्बन्धो वनान्ते संगतयोर्नावावयोर्वृत्तो जातः । तत्ततो हेतोर्हे भूतनाथानुग शिवानुचर । एतेन तस्प महत्त्वं सूचयति । अत एव संबन्धिनो मित्रस्य मे प्रणयं याच्ञाम् ॥ “प्रणयास्त्वमी । विश्रम्भयाच्ञाप्रेमाणः" इत्यमरः ॥ विहन्तुं नार्हसि ॥

  तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
  सं न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ।। ५९ ॥

 तथेति ॥ तथेति गामुक्तवते हरये सिंहाय । “कपी सिंहे 'सुवर्णे च वर्णे विष्णौ हरिं विदुः" इति शाश्वतः ॥ सद्यस्तत्क्षणे प्रतिष्टम्भात्मतिबन्धाद्विमुक्तो बाहुर्यस्य स दिलीपः । न्यस्तशस्त्रस्त्यक्तायुधः सन् । स्वदेहम् । आमिषस्य मांसस्य ॥

२ सन्. "पललं क्रव्यमामिषम्" इत्यमरः ॥ पिण्डं कवलमिव । उपानयत्समर्पितवान् । एतेन निर्ममत्वमुक्तम् ॥

  तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् ।
  [३७]वाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥६०॥

 तस्मिन्निति ॥ तस्मिन्क्षण उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाङ्मुखस्याधोमुखस्य ॥ " स्यादवाङप्यधोमुखः" इत्यमरः ॥ प्रजानां पालयितू राज्ञ उपर्युपरिष्टात् ॥ "उपर्युपरिष्टात्" इति निपातः ॥ विद्याधराणां देवयोनिविशेषाणां हस्तैर्मुक्ता पुष्पवृष्टिः पपात ॥

  उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
  ददर्श राजा जननीमिव स्वां गामग्रतः प्रसविणीं न सिंहम् ॥६१॥

 उत्तिष्ठेति ॥ राजा । अमृतमिवाचरतीत्यमृतायमानं तत् ॥ उपमानादाचारे” इति क्यच् । ततः शानच् ॥ उत्थितमुत्पन्नम् हे "वत्स, उत्तिष्ठ" इति वचो निशम्य श्रुत्वा । उत्थितः सन् ॥ अस्तेः शतृप्रत्ययः ॥ अग्रतोऽग्रे प्रस्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्रविणीं गां स्वां जननीमिव ददर्श । सिंहं न ददर्शः॥

  तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ।
  ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुःप्रहर्तुं किमुतान्यहिंसाः॥६२॥

 तमिति ॥ विस्मितमाश्चर्यं गतम् ॥ कर्तरि क्तः ॥ तं दिलीपं धेनुरुवाच । किमित्यत्राह-हे साधो, मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि । ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुर्न समर्थः । अन्ये हिंस्रा घातुकाः ॥ "शरारुर्घतुको हिंस्रः" इत्यमरः ॥ “नमिकम्पि-" इत्यादिना रप्रत्ययः ॥ किमुत सुष्टु । न प्रभव इति योज्यम् ॥"बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरः" इत्यमरः॥

  भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र[३८] वरं वृणीष्व ।
  न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम्॥६३॥

 भक्त्येति ॥ हे पुत्र, गुरौ भक्त्या । मय्यनुकम्पया च । ते तुभ्यं प्रीतास्मि ॥ "क्रियाग्रहणमपि कर्तव्यम्" इति चतुर्थी ॥ वरं देवेभ्यो वरणीयमर्थम् ॥ “देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीवे मनाक्प्रिये" इत्यमरः॥ वृणीष्व स्वीकुरु । तथाहि । मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धि। किंतु प्रसन्ना माम् । कामान्दोग्धीति

कामदुधा । तामवेहि ॥ “दुहः कब्धश्च" इति कप्प्रत्ययः ॥

  ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
  वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥६४॥

 तत इति ॥ ततो मानितार्थी । स्वहस्तार्जितो वीर इति शब्दो येन सः । एतेनास्य दातृत्वं दैन्यराहित्यं चोक्तम् । स राजा हस्तौ समानीय संधाय । अञ्जलिं बद्ध्वेत्यर्थः। वंशस्य कर्तारं प्रवर्तयितारम् । अत एव रघुकुलमिति प्रसिद्धिः । अनन्तकीर्तिं स्थिरयशसं तनयं सुदक्षिणायां ययाचे ॥

  संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
  दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥६५॥

 संतानेति ॥ सा पयस्विनी गौः। संतानं कामयत इति संतानकामः ॥ " कर्मण्यम्" ॥ तस्मै राज्ञे तथेति । काम्यत इति कामो वरः ॥ कर्मार्थे घञ्प्रत्ययः॥ तं प्रतिश्रुत्य प्रतिज्ञाय "हे पुत्र, मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व पिब" इति तमादिदेशाज्ञापितवती ॥ उपयुङ्क्ष्व " इति वा पाठः ॥

  वत्सस्य होमार्थविधेश्च शेषमृ[३९]षेरनुज्ञामधिगम्य मातः।
  औध[४०]स्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः॥६६॥

 वत्सस्येति ॥ हे मातर् , वत्सस्य वत्सपीतस्य शेषम् । वत्सपीतावशिष्टमित्यर्थः। होम एवार्थः । तस्य विधिरनुष्ठानम् । तस्य च शेषम् । होमावशिष्टमित्यर्थः । तव । ऊधसि भवमौधस्यं क्षीरम् ॥ "शरीरावयवाच्च " इति यत्प्रत्ययः ॥ रक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव । ऋषेरनुज्ञामधिगम्य । उपभोक्तुमिच्छामि ॥

  इत्थं क्षितीशेन वशिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
  तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥ ६७॥

 इत्थमिति ॥ इत्थं क्षितीशेन विज्ञापिता वशिष्ठस्य धेनुः प्रीततरा । पूर्वं शुश्रूषया प्रीता । संप्रत्यनया विज्ञापनया प्रीततरातिसंतुष्टा बभूव । तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्संबन्धिनः कुक्षेर्गुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ॥

  तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
  प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ।। ६८॥

 तस्या इति ॥ प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमूहितं तस्या धेनोः प्रसादमनुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तयेव । वाचा गुरवे निवेध विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः । न चेह तदस्ति । किंतु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेत्युत्प्रेक्षा॥

  स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहु[४१]तावशेषम् ।
  पपौ वशिष्ठेन कृताभ्यनुज्ञः शु[४२]भ्रं यशो मू[४३]र्तमिवातितृष्णः ॥६९॥

 स इति ॥ अनिन्दितात्मागर्हितस्वभावः । सत्सु वत्सलः प्रेमवान्सद्वत्सलः ॥ "वत्सांसाभ्यां कामबले" इति लच्प्रत्ययः॥ वशिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजा वत्सस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरम् । शुभ्रं मूर्तं परिच्छिन्नं यश इव । अतितृष्णः सन्पपौ ।।

  प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य ।
  तौ दंपती स्वां प्रति राजधानीं प्र[४४]स्थापयामास वशी वशिष्ठः||७०॥

 प्रातरिति॥वशी वशिष्ठः प्रातः । यथोक्तस्य पूर्वोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवम् । तत्कालोचितमित्यर्थः । “कालाट्ठञ् " इति ठञ्प्रत्ययः ॥ “यथाकथंचिद्गुणवृत्त्यापि काले वर्तमानत्वात्तत्प्रत्यय इष्यते” इति वृत्तिकारः ॥ ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशीर्वादं प्रयुज्य । तौ दंपती स्वां राजधानीं पुरीं प्रति प्रस्थापयामास ॥

  प्रदक्षिणीकृत्य हुतं हुताशम[४५]नन्तरं भर्तुररुंधती च ।
  धेनुं सवत्सां च नृपः प्रतस्थे स[४६]न्मङ्गलोदग्रतरप्रभावः॥७१॥

 प्रदक्षिणीकृत्येति ॥ नृपो हुतं तर्पितम् । हुतमश्नातीति हुताशोऽग्निः॥ “कर्मण्यण्" ॥ तं भर्तुर्मुनेरनन्तरम् । प्रदक्षिणानन्तरमित्यर्थः । अरुंधतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य । प्रगतो दक्षिणं प्रदक्षिणम् ॥ “तिष्ठद्गुप्रभृतीनि च" इत्यव्ययीभावः । ततश्च्विः ॥ अप्रदक्षिणं प्रदक्षिणं संपद्यमानं कृत्वा प्रदक्षिणीकृत्य ॥ सद्भिर्मङ्गलैः प्रदक्षिणादिभिर्मङ्गलाचारैरुदग्रतरप्रभावः सन् । प्रतस्थे ।

  श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
  ययावनुद्धातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥७२॥

 श्रोत्रेति ॥ धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामध्वनिना कर्णाह्लादकरस्वनेनानुद्धातः पाषाणादिप्रतिघातरहितः । अत एव सुखयतीति सुखः । तेन रथेन । स्वेन पूर्णेन सफलेन मनोरथेनेव । मार्गमध्वानं ययौ ॥ मनोरथपक्षे ध्वनिः श्रुतिः । अनुद्धातः प्रतिबन्धनिवृत्तिः ।

  तमाहितौत्सुक्यमदर्शनेन प्रजाः प्र[४७]जार्थव्रतकर्शिताङ्गम् ।
  नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ॥७३॥

 तमिति ॥ अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम् । प्रजार्थेन संतानार्थेन व्रतेन नियमेन कर्शितं कृशीकृतमङ्गं यस्य तम् । नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः । ओषधीनां नाथं सोममिव । तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः ॥ चन्द्रपक्षे । अदर्शनं कलाक्षयनिमित्तम् । प्रजार्थं लोकहितार्थम् । व्रतं देवताभ्यः कलादाननियमः ॥ "तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वशः” इति व्यासः ॥ उदय आविर्भावः । अन्यत्समानम् ॥

  पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः।
  भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ ७४ ॥

 पुरंदरेति ॥ पुरः पुरीरसुराणां दारयतीति पुरंदरः शक्रः ॥ “पूःसर्वयोर्दारिसहोः" इति खच्प्रत्ययः । “वाचंयमपुरंदरौ च" इति मुमागमो निपातितः ॥ तस्य श्रीरिव श्रीर्यस्य स नृपः पौरैरभिनन्धमानः। उत्पताकमुच्छ्रितध्वजम् ॥ “पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्" इत्यमरः ॥ पुरं प्रविश्य भुजंगेन्द्रेण समानसारे तुल्यबले ॥ “सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु" इत्य- मरः। भुजे भूयो भूमेर्धुरमाससञ्ज स्थापितवान् ॥

  अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
   सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ।
  नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
   गुरुभिरभिनिविष्टं लोकपालानुभावैः॥ ७५ ॥

 अथेति ॥ अथ द्यौः सुरवर्त्म ॥ "द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः ॥ अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम् ॥ "आतश्चोपसर्गे" इति कप्रत्ययः॥ ज्योतिरिव । चन्द्रमिवेत्यर्थः ॥ ऋक्षेशः स्यादत्रिनेत्रप्रसूतः" इति हलायुधः॥ चन्द्रस्यात्रिनेत्रोद्भूतत्वमुक्तं हरिवंशे--"नेत्राभ्यां वारि सुस्राव दशधा द्योतयद्दिशः। तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा। समेत्य धारयामासुर्न च ताः समशक्नुवन् । स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः । पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः" इति ॥ सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं विक्षिप्तम् ॥ "च्छ्वोः शूडनुनासिके च" इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ् । "नुन्ननुत्तास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः" इत्यमरः ॥ ऐशं तेजः स्कन्दमिव । अत्र रामायणम्-- "ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः । देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज । देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् । इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवकीर्य च । समन्ततस्तु तां देवीमभ्यसिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन" इति ॥ राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त । दधावित्यर्थः ॥ अत्र मनुः--"अष्टानां लोकपालानां वपुर्धारयते नृपः" इति अत्र "आधत्त" इत्यनेन स्त्रीकर्तृकधारणमात्रमुच्यते । तथा मन्त्रे च दृश्यते--"यथेयं पृथिवी मह्युत्ताना गर्भमादधे । एवं त्वं गर्भमाधेहि दशमे मासि सूतवे" इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति ॥ मालिनीवृत्तमेतत् । तदुक्तम्--"ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्षणात् ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ।


  1. अव्याहृतस्वैरगतैः; अव्याहृतस्वैरगतेः.
  2. संन्यस्त.
  3. राज्यलक्ष्मीम्.
  4. उपदेशात्.
  5. गुरु.
  6. आकम्पितपुष्पगन्धिः, आकम्पनपुष्पगन्धी.
  7. विशेषात्.
  8. वने.
  9. आत्मसिद्धेः.
  10. निरुढ.
  11. दत्ताम्.
  12. लग्नाङ्गुलिः
  13. भूपालसिंहम्.
  14. अवैहि.
  15. निकुम्भतुल्यम्.
  16. अयम्.
  17. मतङ्गजानाम्.
  18. कला.
  19. गुरौ.
  20. क्षणोति.
  21. सङ्गे.
  22. वीक्षितेन.
  23. चेष्टस्तु.
  24. तु.
  25. विमुच्यताम्.
  26. कन्दराणाम्.
  27. शकलं प्रकुर्वन्.
  28. दातुम्,
  29. दण्डात्.
  30. वाचः
  31. २ तदध्यासनकातराक्षा
  32. अन्य
  33. नु
  34. यदशक्यम्
  35. जातः
  36. अधोमुखस्य
  37. वत्स
  38. गुरोः
  39. ऊधस्यम्
  40. निपीतशेषम्
  41. शुद्धम्
  42. भूपः
  43. संप्रेषयामास
  44. ततश्च होतारम्; ततस्तु होतारम्
  45. सन्मङ्गलोदग्रतरानुभावः
  46. प्रजार्थम्