सामग्री पर जाएँ

रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/अष्टमः सर्गः(अजविलापः)

विकिस्रोतः तः
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/सप्तमः सर्गः(अजपाणिग्रहणः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
अष्टमः सर्गः(अजविलापः)
कालिदासः
नवमः सर्गः(मृगयावर्णनः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

अष्टमः सर्गः ।


    हेरम्बमवलम्बेऽहं यस्मिन्पातालकेलिषु ।
    दन्तेनोदस्यति क्षोणीं विश्राम्यन्ति फणीश्वराः॥

 

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १॥

 अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव ॥ “कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले” इति शाश्वतः ॥ तस्याजस्य । अपरामिन्दुमतीमिव । वसुधामपि हस्तगामिनीमकरोत् । अस्मिन्सर्गे वैतालीयं छन्दः॥

 

दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥२॥

 दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिपिद्धोपायैरप्यात्मसात्स्वाधीनम् ॥ “तदधीनवचने” इति सातिप्रत्यय ॥कर्तुं प्रयतन्ते हि । प्रवर्तन्त एवेत्यर्थः। हिशब्दोऽवधारणे ॥" हि हेताववधारणे" इत्यमरः ॥ उपस्थितं स्वतःप्राप्तं तद्राज्यमजः पितुराज्ञेति हेतोरग्रहीत्स्वीचकारः। भोगतृष्णया तु नाग्रहीत्॥  

अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छुसितेन मेदिनी कथयामास कृतार्थतामिव ॥३॥

 अनुभूयेति ॥ मेदिनी भूमिः महिषी च ध्वन्यते । वसिष्ठेन संभृतैः सलिलै स्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृंहणेन । आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते । कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव ॥ न चैतावता पूर्वेषामपकर्षः । प्रशंसापरत्वात् । “सर्वत्र जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्" इत्यङ्गीकृतत्वाच्च ॥

  स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः।
  पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ।। ४ ॥

 स इति ॥ अथर्वविदाथर्ववेदाभिज्ञेन गुरुणा वसिष्टेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः । सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव ॥ तथाहि । अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि । तत्कल्प इत्यर्थः ॥ पवनाग्नीत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् “द्वन्द्वे घि" इति नाग्निशब्दस्य पूर्वनिपातः ॥ तथा च काशिकायाम्- " अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्" इति ॥ क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः ॥अत्र मनुः-"नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते । ब्रह्मक्षत्रे तु संयुक्त इहामुत्र च वर्धते" इति ॥

  रघुमेव निवृत्तयौवनं तममन्यन्त न[]वेश्वरं प्रजाः।
  स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥५॥

 रघुमिति ॥ प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त । न किंचिद्भेदकमस्तीत्यर्थः ॥ कुतः । हि यस्मात्सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे । किंतु सकलान्गुणाञ्छौर्यदाक्षिण्यादीनपि प्रतिपेदे ॥ अतस्तद्गुणयोगात्तद्बुद्धिर्युक्तेत्यर्थः ॥

  अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
  पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ६ ॥

 अधिकामिति ॥ द्वयमेव शुभंयुना शुभवता ॥ “शुभंयुस्तु शुभान्वितः” इत्यमरः ॥ " अहंशुभमोर्युस्” इति युस्मत्ययः ॥ द्वितयेन संगतं युतं सदाधिकं शुशुभे ॥ किं केनेत्याह- पदमिति ॥ पैतृकं पितुरागतम् ॥ "ऋतष्ठञ्" इति ठष्प्रत्ययः॥ ऋद्धं समृद्धं पदं राज्यमजेन । अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च ॥ “विजयो हीन्द्रियजयस्तयुक्तः शास्त्रमर्हति" इति कामन्दकः । राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥

  सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
  अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥७॥

 सदयमिति महाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम् । नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव । सहसा बलात्कारेण चेत् ॥ “सहो बलं सहा मार्गः" इत्यमरः ॥ इयं मेदिनी वधूर्वोद्वेगं भयं ब्रजेदिति हेतोः । सदयं सकृपं बुभुजे भुक्तवान् ॥ “भुजोऽनवने" इसात्मनेपदम् ॥

  अहमेव मतो म[]हीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
  उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८॥

 अहमिति ॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः ॥ अथवा प्रकृतिष्वित्यस्याहमित्यनेनान्वयः । व्यवधानं तु सह्यम् ॥ सर्वोऽपि जनः प्रकृतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः ॥ “मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः । "क्तस्य च वर्तमाने" इति षष्ठी ॥ इत्यचिन्तयदमन्यत ।। उदधेर्निम्नगाशतेष्विवास्य नृपस्य ॥ कर्तुः ॥ “कर्तृकर्मणोः कृति" इति कर्तरि षष्ठी ॥ क्वचिदपि जनविषये विमाननावगणना तिरस्कारो नाभवत् ॥ यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः॥

  न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
  स पुरस्कृतमध्यमक्र[]मो नमयामास नृपान[]नुद्धरन् ॥ ९॥

 नेति ।। स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न । भूयसा मृदुरतिमृदुरपि न । किंतु पुरस्कृतमध्यमक्रमः सन् । मध्यमपरिपाटीमवलम्ब्येत्यर्थः । पवमानो वायुः पृथिवीरुहांस्तरूनिव । नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास ।। अत्र कामन्दकः-- " मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः । तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः" इति ॥

  अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमा[]त्मवत्तया ।
  विषयेषु विना[]शधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ १०॥

 अथेति ॥ अथ रघुरात्मजं पुत्रमात्मवत्तया । निर्विकारमनस्कतयेत्यर्थः । उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते ॥ “ आत्मवान्सत्त्ववानुक्तः" इत्युत्पलमालायाम् ॥ प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु । अनित्येष्वित्यर्थः ॥ “धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः समासान्तः ॥ त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥

 कुलधर्मश्चायमेवेत्याह-

  गुणवत्सुतरोपितश्रियः परिणामे हि दि[]लीपवंशजाः।
  पदवीं तरुवल्कवाससां प्र[]यताः संयमिनां प्रपेदिरे ॥ ११ ॥

 गुणवदिति ॥ दिलीपवंशजाः परिणामे वार्द्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि येषां तेषां संयमिनां यतीनां पदवीं प्रपेदिरे । यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥

  तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः।
  पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ १२ ॥

 तमिति ॥अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः । वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य । आत्मनोऽपरित्यागमयाचत । मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ।

  रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
  न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३ ॥

 रघुरिति ॥ आत्मजप्रियः पुत्रवत्सलो रघुः । अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान् । किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ॥

  स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
  समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥१४॥

 स इति ॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः जितेन्द्रियः सन्नित्यर्थः । अतएव स्नुषयेव वध्वेव पुत्रभोग्यया । न स्वभोग्यया । श्रिया समुपास्यत शुश्रूषितः॥ जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः । अत्र यद्यपि “ब्राह्मणाः प्रव्रजन्ति" इति श्रुतेः । “ आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्" इति मनुस्मरणात् । “ मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुजातोरुजातानामयं धर्मो न विद्यते” इति निषेधाच्च ब्रह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः । तथापि “ यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इत्यादि श्रुतेस्त्रैवर्णिकसाधारण्यात् । “ त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः" इति सूत्रकारवचनात् । “ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्" इति स्मरणात् । “ मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । वाहुजातो रुजातानां त्रिदण्डं न विधीयते" इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च । कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैर्वणिकाधिकारं प्रतिपेदिरे ॥ तथा सति “स किलाश्रममन्त्यमाश्रितः" (८/१४) इत्यत्रापि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्याख्याते "विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्" (८।२५) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात् ।अग्निसंस्काररहितस्य वानप्रस्थस्येवाभावात् । इत्यलं प्रासङ्गिकेन ।

  प्रशमस्थितपू[]र्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् ।
  नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥१५॥

 प्रशमेति॥ प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत् । अभ्युद्यतोऽभ्युदितो नूतनेश्वरोऽजो यस्य तत् । प्रसिद्धं कुलं निभृतेन्दुनास्तमयासन्नचन्द्रेणोदितार्केण प्रकटितसूर्येण च नभसा तुलां सादृश्यं समारुरोह पाप ॥ न च नभसा तुलामित्यत्र "तुल्यार्थैः-" इत्यादिना प्रतिषेधस्तृतीयायाः। तस्य सदृशवाचितुलाशब्दविषयत्वात् । “कृष्णस्य तुला नास्ति' इति प्रयोगात् । अस्य च सादृश्यवाचित्वात् ।।

  यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ।
  [१०]पवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ।। १६ ।।

 यतीति ॥ यतिर्भिक्षुः। पार्थिवो राजा । तयोर्लिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ। अपवर्गमहोदयार्ययोर्मोक्षाभ्युदयफलयोधर्मयोः। निवर्तकप्रवर्तकरूपयोरित्यर्थः । भुवं गतौ भूलोकमवतीर्णावंशाविव । जनैर्ददृशाते दृष्टौ ॥

  अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः।
  [११]नपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥ १७॥

 अजितेति॥अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः। रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनचाप्ताः। तैर्योगिभिः समियाय संगतः। उभयत्राप्युपायचिन्तार्थमिति शेषः॥

  नृपतिः प्रकृतीवेक्षितुं व्यवहारासनमाददे युवा ।
  परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८॥

 नृपतिरिति युवा नृपतिरजः प्रकृतीः प्रजाः कार्यार्थिनीरवेक्षितुम् । दुष्टादुष्टपरिज्ञानार्थमित्यर्थः॥ व्यवहारासनं धर्मासनमाददे स्वीचकार ।प्रवयाः स्थविरो नृपती रघुस्तु ॥ "प्रवयाः स्थविरो वृद्धः" इत्यमरः ॥धारणां चित्तस्यैकाग्रतां परिचतुमभ्यसितुमुपांशु विजने ॥ “उपांशु विजने प्रोक्तम्" इति हलायुधः॥ कुशैः पूतं विष्टरमासनमाददे ॥ “यमादिगुणसंयुक्ते मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः" इति वसिष्ठः ॥

  अनयत्प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् ।
  अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १९॥


१९-२० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले ।
हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः ।।


 अनयदिति॥ एकोऽन्यतरः । अज इत्यर्थः । अनन्तरान्स्वभूम्यनन्तरान्नृपतीन्यातव्यपार्ष्णिग्राहादीन्प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत्॥ "कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता" इति मिताक्षरायाम् ॥ अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन ॥ "योगाभ्यासार्कयोषितोः” इति विश्वः॥ शरीरगोचरान्देहाश्रयान्पञ्च मरुतः प्राणादीन्वशमनयत् ॥ "प्राणोऽपानः समान श्चोदानव्यानौ च वायवः । शरीरस्थाः" इत्यमरः ॥

  अकरोदचिरेश्वरः क्षितौ द्विपदारम्भफलानि भस्मसात् ।
  [१२]तरो दहने स्वकर्मणां ववृते ज्ञा[१३]नमयेन वह्निना ॥ २० ॥

 अकरोदिति ॥ अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत्कार्स्न्येन भस्मीकृतवान् ॥ “विभाषा साति कार्त्स्न्यै" इति सातिप्रत्ययः । इतरो रघुर्ज्ञानमयेन तत्त्वज्ञानप्रचुरेण वह्निना पावकेन । करणेन । स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते । स्वकर्माणि दग्धुं प्रवृत्त इत्यर्थः।। "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" इति गीतावचनात् ।।

  पणबन्धमुखान्गुणानजः षडुपायुङ्क समीक्ष्य तत्फलम् ।
  रघुरप्य[१४]जयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥ २१ ॥

 पणबन्धेति ॥ “पणबन्धः संधिः" इति कौटिल्यः ॥ अजः पणबन्धमुखान्संध्यादीन्षड्गुणान् ॥ “संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः" इत्यम्मरः।। तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्योपायुङ्क्त । फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः ॥ "प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम् ॥ समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः । निःस्पृह इत्यर्थः ॥ "लोष्टानि लेष्टवः पुंसि" इत्यमरः ॥ रघुरपि गुणत्रयं सत्त्वादिकम् ॥ “गुणाः सत्त्वं रजस्तमः" इत्यमरः ॥ प्रकृती साम्यावस्थायामेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाजयत् ॥

  न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः।
  न च योगविधेर्नवेतरः स्थिरधीरा प[१५]रमात्मदर्शनात् ॥ २२ ॥

 नेति ॥ स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरज आ फलोदयात्फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः ॥ "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्" इत्यपादानात्पञ्चमी ॥ "व्याङ्परिभ्यो रमः" इति परस्मैपदम् ॥ स्थिरधीर्निश्चलचित्तो रघुश्चानवेतरोपरमात्मदर्शनात्परमात्मसाक्षात्कारपर्यन्वं योगविधेरैक्यानुसंधानान्न विरराम ॥

  इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
  प्र[१६]सितावुदयापवर्गयोरु[१७]भयीं सिद्धिमुभाववापतुः ॥ २३॥

 इतीति ॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषु च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ ॥"तत्परे प्रसितासक्तौ” इत्यमरः ॥ उभावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम् ॥ “ उभादुदात्तो नित्यम् " इति तयप्प्रत्यस्यायजादेशः। “ टिड्ढा -" इति ङीप् सिद्धिंं फलमवापतुः । उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः ॥

  अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः।
  तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥२४॥

 अथेति ॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्टिः सन्नजव्यपेक्षयाजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि ॥ “समा वर्षं समं तुल्यम्" इति विश्वः ॥गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन ॥ “संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः" इति वसिष्ठः॥ अव्ययमविनाशिनं तमसः परमविद्यायाः परम् ।मायातीतमित्यर्थः । पुरुषं परमात्मानमापत्प्राप । सायुज्यं प्राप्त इत्यर्थः ॥

  श्रुतदेहविसर्जनः पितुश्चरमश्रूणि वि[१८]मुच्य राघवः ।
  विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्नि[१९]चित् ॥२५॥

 श्रुतेति ॥ अग्निचिदग्निं चितवानाहितवान् ॥ “अग्नौ चेः” इति क्विप्प्रत्ययः॥ राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम् । अग्निसंस्काररहितमित्यर्थः । नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे । अनग्निं विधिमित्यत्र शौनक:-“सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया । निदध्यात्प्रणवेनैव बिले भिक्षोः कलेवरम् । प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत्" इति ॥

  अकरोत्स[२०] तदौर्ध्वदैहिकपितृकार्यकल्पवित् ।
  न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥२६॥

 अकरोदिति ॥ पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा । करणेन । न पितुः परलोकसुखापेक्षया । मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम् । देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्॥ "उर्ध्वं देहाच्च" इति वक्तव्याट्ठक्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥ ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्क्याह-नहीति । तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता न हि भवन्ति ॥

  स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
  शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७॥

 स इति ॥ परार्घ्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय । शोको न कर्तव्य इत्युपदिश्यत्यर्थः । सदर्थवेदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः ।। "पुंस्याधिर्मानसी व्यथा" इत्यमरः॥सोजोऽधिज्यकार्मुकः । अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन् जगत्कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम् । आत्माज्ञाविधेयमित्यर्थः । कृतवांश्चकार ॥

  क्षितिरिन्दुमती च भामिनी पतिमा[२१]साद्य त[२२]मंग्यपौरुषम् ।
  प्रथमा ब[२३]हुरत्नसूरभूद[२४]परा वीरमजीजनत्सुतम् ॥ २८ ॥

 क्षितिरिति ॥ क्षितिर्मही भामिनी कामिनीन्दुमती च ॥ “भामिनी कामिनी च" इति हलायुधः ॥ अग्र्यपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाध प्राप्य । तत्र प्रथमा क्षितिः । बहूनि रत्नानि श्रेष्ठवस्तूनि सूत इति बहुरत्नसूरभूत् ॥ " रत्नं खजातिश्रेष्ठेऽपि" इत्यमरः ॥ अपरेन्दुमती वीरं सुतमजीजनज्जनयति स्म । जायतेर्णौ लुङिरुपम्॥ सहोक्त्या सादृश्यमुच्यते ॥  किनामकोऽसावत आह-

  दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
  दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २९ ॥

 दशेति ॥ दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः । स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम् । यशसा । करणेन । दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम् । दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम् ॥ आख्यया नाम्ना दशपूर्वो दशशब्दपूर्वो रथो रथशब्दस्तम् । दशरथमित्यर्थः । बुधा विद्वांसो विदुर्वदन्ति ॥ “ विदो लटो वा" इति झेर्जुसादेशः ॥

  ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
  अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः॥३०॥

ऋषीति ॥  श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः । करणैः । यथासंख्यमृषीणां देवगणानामिन्द्रादीनां खधाभुजां पितॄणामनृणत्वमृणविमुक्तसमुपेयिवान्प्राप्तवान् ॥ एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा" इति श्रुतेः ॥ स पार्थिवोऽजः परिधेः परिवेशात् ॥ “परिवेशस्तु परिधिः" इत्यमरः ॥ मुक्तो निर्गतः । कर्मकर्ता । उष्णदीधितिः सूर्य इव । बभौ दिदीपे । इत्युपमा ।

  बलमार्तभयोपशान्तये विदुषां स[२५]त्कृतये बहु श्रुतम् ।
  वसु तस्य वि[२६]भोर्न केवलं गुणवत्तापि प[२७]रप्रयोजना ॥ ३१ ॥

 बलमिति ॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत् । किंतु गुणवत्तापि गुणित्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं वस्वित्यत्र तूहनीयम् । तथा हि । बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय । न तु स्वार्थं परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय । न तूत्सेकाय । बभूव ॥ तस्य धनं परोपयोगीति किं वक्तव्यम् । बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः॥

  स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः।
  नगरोपवने शचीसखो मरुतां पालयितेव न[२८]न्दने ॥ ३२ ॥

 स इति ॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः ॥ “नित्यमसिच्प्रजामेधयोः" इत्यच्प्रत्ययः ॥ न केवलं स्त्रैण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः । सुपुत्रवान् । पुत्रन्यस्तभार इति भावः । सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने । नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः । शच्या सहेत्यर्थः । मरुतां देवानां पालयितेन्द्र इव । विजहार चिक्रीड ॥

  अथ रोधसि दक्षिणोदधेः श्रि[२९]तगोकर्णनिकेतमीश्वरम् ।
  [३०]पवीणयितुं ययौ रवेरु[३१]दयावृत्तिपथेन नारदः॥ ३३ ॥

 अथेति ॥ अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम् ॥ “सत्यापपाश-" इत्यादिना वीणाशब्दादुपगानार्थे णिच्प्रत्ययः । ततस्तुमुन् ॥ नारदो देवपीं रवेः सूर्यस्य संबन्धिनोदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम ॥ सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥

  कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
  अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः॥ ३४ ॥

 कुसुमैरिति ॥ अपार्थिवैरभौमैः । दिव्यैरित्यर्थः । कुसुमैर्ग्रथितां रचिताम् । तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम् ॥ “चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्" इत्यमरः ॥ स्रजं मालां वेगवान्मारुतः । अधिवासे वासनायां स्पृहयेव । स्रजा स्वाङ्ग संस्कर्तुमित्यर्थः ॥ “संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्" इत्यमरः ॥अहरत्किल । किलेत्यैतिह्ये ॥

  भ्रमरैः कुसुमानुसारिभिः प[३२]रिकीर्णा परिवादिनी मुनेः।
  ददृशे पवनावलेपनं सृजती बाष्पमिवाञ्जनाविलम् ॥ ३५॥

 भ्रमरैरिति॥ कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णाव्याप्ता मुनेर्नारदस्य परिवादिनी वीणा । “वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी" इत्यमरः ॥ पवनस्य वायोरवलेपोऽधिक्षेपस्तज्जमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजती मुञ्चतीव । ददृशे दृष्टा । भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम् ॥ “वा नपुंसकस्य" इति वर्तमाने “ आच्छीनद्योर्नुम् " इति नुम्विकल्पः ।।

  अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
  नृपतेरमरस्रगाप सा द[३३]यितोरुस्तनकोटिसुस्थितिम् ॥ ३६ ॥

 अभिभूयेति ॥ सामरस्रग्दिव्यमाला । मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन । वीरुधां लतानाम् ॥ "लता प्रतानिनी वीरुत्" इत्यमरः ॥ ऋतोः प्राप्तामार्तवीमृतुसंबन्धिनी विभूतिं समृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दुमत्या उर्वोर्विशालयोः स्तनयोर्ये कोटी चूचुकौ तयोः सुस्थितिं गोप्यस्थाने पतितत्वात्प्रशस्तं स्थानमाप प्राप्ता॥

  क्षणमात्रसखी सुजातयोः स्तनयोस्तामवलोक्य विह्वला।
  निमिमील न[३४]रोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी॥३७॥

 क्षणमिति ॥जातयोः सुजन्मनोः । सुन्दरयोरित्यर्थः । स्तनयोः क्षणमात्रं सखीं सखीमिव स्थिताम् । सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः ॥ तां स्रजमवलोक्येषद्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती। तमसा राहुणा ॥“तमस्तु राहुः स्वर्भानुः” इत्यमरः ॥ हृतचन्द्रा कौमुदी चन्द्रिकेव । निमिमील मुमोह । ममारेत्यर्थः॥"निमीलो दीर्घनिद्राच" इति ॥ हलायुधः॥कौमुद्या निमीलनं प्रतिसंहारः।।

  वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
  ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८॥

 वपुषोति॥ करणैरिन्द्रियैरुज्झितेन मुक्तेन ॥ “करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि" इत्यमरः। वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत्पातयति स्म । तथाहि । निषिच्यते निषेकः। तैलस्य निषेकस्तैलनिषेकः। क्षरत्तैलमित्यर्थः। तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवमुपैति ननूपैत्येव । नन्वत्रावधारणे । “प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ॥ इन्दुमत्या दीपार्चिरुपमानम् ॥ अजस्य तैलबिन्दुः । तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ॥

  उभयोर[३५]पि पार्श्ववर्तिनां तुमुलेनार्तरवेण वेजिताः।
  विहगाः क[३६]मलाकरालयाः समदुःखा इव तत्र चुक्रुशुः॥ ३९ ॥

 उभयोरिति ॥ उभयोर्दंपत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनार्तरवेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः सरःस्थिता विहगा हंसादयोऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव चुक्रुशुः क्रोशन्ति स्म ।

  नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
  प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४०॥

 भूपतेरिति॥ नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम् । आदिशब्देन जलसेककर्पूरमोदादयो गृह्यन्ते । सात्विन्दुमन्ती तथैव संस्थिता मृता। तथाहि । प्रतिकारविधानं चिकित्सायुषो जीवितकालस्य शेषे सति विद्यमाने ॥ "आयुर्जीवितकालो ना" इत्यमरः ॥ फलाय सिद्धये कल्पत आरोग्याय भवति । नान्यथा नृपतेरायुःशेषसद्भावात्प्रतीकारस्य साफल्यम् । तस्यास्तु तदभावाद्वैफल्यमित्यर्थः॥

  प्रतियोजयितव्यवल्लकीसमवस्थामथ स[३७]त्त्वविप्लवात् ।
  स निनाय नितान्तवत्सलः परिगृह्योचितम[३८]कमङ्गनाम् ॥ ११॥

 प्रतीति ॥ अथ सत्त्वस्य चैतन्यस्य विप्लवाद्विनाशाद्धेतोः ॥ “द्रव्यासुव्यवसायेषु सत्त्वम्" इत्यमरः॥ प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः । या वल्लकी वीणा । तस्याः समावस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान्सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचितं परिचितमङ्कमुत्सङ्गं निनाय नीतवान् ॥वल्लकीपक्षे तु सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः॥

  पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
  समलक्ष्यत बि[३९]भ्रदाविलां मृगलेखामुषसीव चन्द्रमाः॥१२॥

 पतिरिति ॥ पतिरजोऽङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणामपा- येनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया । उषसि प्रातःकाल आविला मलिनां मृगलेखां लाञ्छनं मृगरेखारूपं बिभ्रद्धारयंश्चन्द्रमा इव । समलक्ष्यतादृश्यत । इत्युपमा ॥

  विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
  अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३॥

 विललापेति ॥ सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्य वाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं यथा तथा ध्वनिमात्रानुकारिगद्गद शब्दैर्विललाप परिदेवितवान् ॥ "विलापः परिदेवनम्" इत्यमरः॥अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु देहिषु । अभिसंतप्तेष्विति शेषः । विषये कैव कथा वार्ता । अनुक्तसिद्धमित्यर्थः॥

  कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
  न भविष्यति हन्त साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥४४ ॥

 कुसुमानीति ॥ कुसुमानि पुष्पाण्यपि । अपिशब्दो नितान्तमार्दवद्योतनार्थः । गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि ॥ हन्त विषादे ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः "इत्यमरः॥ प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत्कुसुमातिरिक्तं किमिव वस्तु ॥ इवशब्दो वाक्यालंकारे कीदृश- मित्यर्थः।। साधनं प्रहरणं न भविष्यति न भवेत् । सर्वमपि साधनं भविष्यत्येवेत्यर्थः।

  अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
  हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं म[४०]ता ॥ ४५ ॥

 अथवेति ।। अथवा पक्षान्तरे प्रजान्तकः कालो मृदु कोमलं वस्तु मृदुनैव वस्तुना हिंसितुं हन्तुमारभत उपक्रमते । अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मुत्युर्यस्याः सा तथा नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ॥

  स्रगियं यदि जीवितापहा हृदये किं[४१] निहिता न हन्ति माम् ।
  विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया ॥१६॥

 स्रगिति ॥ इयं स्रग्जीवितमपहन्तीति जीवितापहा यदि । हृदये वक्षसि ॥ "हृदयं वक्षसि स्वान्ते" इत्यमरः ॥ निहिता सती मां किं न हन्ति । ईश्वरेच्छया क्वचित्मदेशे विषमप्यमृतं भवेत्कचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः॥

  अथवा म[४२]म भाग्यविप्लवादशनिः क[४३]ल्पित एष वे[४४]धसा।
  यदनेन त[४५]रुर्न पातितः क्षपिता त[४६]द्विलतालता ॥१७॥

 अथवेति ॥ अथवा मम भाग्यस्य विप्लवाद्विपर्ययादेषः । स्रगित्यर्थः ॥ विधेयप्राधान्यात्पुंलिङ्गनिर्देशः॥ वेधसा विधात्राशनिर्वैद्युतोऽग्निः कल्पितः ॥ “दम्भो- लिरशनियोः" इत्यमरः । यद्यस्मादनेनाप्यशनिना प्रसिद्धाशनिनेव तरुस्तरुस्थानीयः खयमेव न पातितः। किंतु तस्य तरोविंटपाश्रिता लता वल्ली क्षपिता नाशिता॥

  कृतवत्यसि नावधीरणाम[४७]पराद्धेऽपि यदा चिरं मयि ।
  कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥१८॥

 कृतवतीति ॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि ॥ राधेः कतरि क्तः॥ यदा यस्माद्धेतोः-यदेति हेत्वर्थः । “स्वरादौ पठ्यते यदेति हेतौ" इति गणव्याख्यानात् ॥ अवधारणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे ॥ " स्यात्तत्क्षण एकपदम्" इति विश्वः ॥ निरागसं नितरामनपराधमिमं जनम् । इममिति स्वात्मनिर्देशः । मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि ॥

  ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
  परलोकमसंनिवृत्तये यद[४८]नापृच्छ्य गतासि मामितः॥१९॥

 ध्रुवमिति ॥ हे शुचिस्मिते धवलहसिते, शठो गूढविपियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि ॥ “मतिबुद्धि-" इत्यादिना कर्तरि क्तः । क्तस्य च वर्तमाने" इति कर्तरि षष्ठी ॥कुतः । यद्यस्मान्मामनापृच्छयानामन्त्र्येतोऽस्माल्लोकात्परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥

  दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
  सहतां हतजीवितं मम प्रबलात्मि[४९]कृतेन वेदनाम् ॥ ५० ॥

 दयितामिति ॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि । अन्वगादेव ॥ यद्यत्रावधारणे ॥ पूर्व मूर्छितत्वादिति भावः ॥ तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रयागतम् । प्रत्यागमनं न युक्तमित्यर्थः । अतएवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम् ॥ स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥

  सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
  [५०]थ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ५१

 सुरतेति ॥ सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते । अथ च त्वमात्मना स्वरूपेणास्तं नाशमिता प्राप्ता । अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥

  मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
  ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ५२ ॥

 मनसेति ॥ मया मनसापि तव विप्रियं न कृतपूर्वम् । पूर्वं न कृतमित्यर्थः ॥ सुप्सुपेति समासः ॥ किं केन निमित्तेन मां जहासि त्यजसि । नन्वहं क्षितेः शब्द पतिः शब्दत एव पतिः । न त्वर्थत इत्यर्थः । भावनिबन्धनाभिप्रायनिबन्धना स्वभावहेतुका मे रतिः प्रेम तु त्वय्येव । अस्तीति शेषः ॥

  कु[५१]सुमोत्खचितान्वली[५२]भृतश्चलयन्भृङ्गरुचस्तवालकान् ।
  करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३ ॥

 कुसुमेति ॥ कुसुमैरुत्खचितानुत्कर्षेण रचितान्वलीभृतो भङ्गीयुक्तान् । कुटिलानित्यर्थः । भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्पयन्मारुतः । हे करभोरु करभसदृशोरु ॥ "मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः ॥ मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति । त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ॥

  तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
  ज्वलितेन गुहागतं तमस्तुहिनाद्रेखि नक्तमोषधिः ॥ ५४ ॥

 तदिति ॥ हे प्रिये, तत्तस्मात्कारणादाशु मे विषादं दुःखम् । नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव । प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ॥

  इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
  निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५ ॥

 इदमिति ॥ इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं तव मुखम् । निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तवर्तिनां षट्पदानां स्वनो यत्र तत् । निःशब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव । मां दुनोति परितापयति ॥

  शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
  इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः॥५६ ।।

 शशिनमिति ॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति द्वन्द्वचरः। तं पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये " इत्यमरः ॥ अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न मां दहेर्न संतापयेः । अपि तु दहेरेवेत्यर्थः ॥

  नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
  तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ५७ ॥

 नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु ॥ “वामं स्यात्सुन्दरे सख्ये" इति केशवः ॥ “संहितशफलक्षण-" इत्यादिनोङ्प्रत्ययः ॥ तदिदमङ्गं चितायाः काष्टसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥

  इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी।
  गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥ ५८॥

 इयमिति ॥ इयं प्रथमाद्या रह:सखी । सुरतसमयेऽप्यनुयानादिति भावः । गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम् । मृतामित्यर्थः। त्वामनु त्वया सह ॥ तृतीयार्थ इत्यनुशब्दस्य कर्मप्रवचनीययुक्ते द्वितीया ॥ शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः ॥ संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥

  कलमन्यभृतासु भाषितं कलहंसीषु म[५३]दालसं गतम् ।
  पृ[५४]षतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्र[५५]माः ॥ ५९॥
  त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यममी गुणास्त्वया।
  विरहे तव मे गुरुव्यथं हृदयं न खवलम्बितुं क्षमाः॥६॥

 कलमिति। त्रिदिवेति । युग्मम् । उभयोरेकान्वयः॥ अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम् । कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं गमनम् । पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः । पवनेन वायुनाधूतलतास्वीषकम्पितलतासु विभ्रमा विलासाः॥ इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः । त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इयर्थः । तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः । ते तु तत्संगम एव सुखकारिणः । नान्यथा । प्रत्युत प्राणानपहरन्तीति भावः॥

  मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
  अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ६१ ।।

 मिथुनमिति ॥ ननु हे पिये, सहकारश्चूतविशेष: फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि । अनयोः फलिनीसहकारयोर्विवाहसक्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमयुक्तम् । मातृहीनानां न किंचित्सुखमस्तीति भावः ॥

  कुसुमं कृतदो[५६]हदस्त्वया यदशोकोऽयमुदीरयिष्यति ।
  अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२॥

 कुसुममिति ॥ वृक्षादिपोपकं दोहदम् । त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते । तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्घ्यतां नेष्यामि। "निवापः पितृदानं स्यात्" इत्यमरः ॥

  स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
  अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥६३॥

 स्मरतेति ॥ अन्यदुर्लभम् । किंतु स्मर्तव्यमेवेत्यर्थः । सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तर्षिणामुना पुरोवर्तिनाशोकेन । हे सुगात्रि ॥ "अङ्गगात्रकण्ठेभ्यश्च" इति वक्तव्याङीप् ॥ त्वं शोच्यसे॥

  तव निःश्वसिता[५७]नुकारिभिर्बकुलैरर्धचितां समं मया ।
  असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुप्यते ॥६४॥

 तवेति ॥ तव निःश्वसितानुकारिभिर्बकुलैर्वकुलकुसुमैर्मया समं सार्धमर्धचितामधु यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा । किंनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किंनरकण्ठि ॥ "अङ्गगात्रकण्ठेभ्यश्च" इति ङीप् ॥ किमिदं सुप्यते निद्रा क्रियते ॥ “वचिस्वपि-" इत्यादिना संप्रसारणम् ॥ अनुचितमिदं स्वपनमित्यर्थः ॥

  समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
  [५८]हमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुर:॥६५॥

 समेति ॥ सखीजनः समदुःखमसुखः । त्वद्दुःखेन दुःखी त्वत्सुखेन सुखीत्यर्थः । अयमात्मजो बालः प्रतिपचन्द्रनिभः । दर्शनीयो वर्धिष्णुश्चेत्यर्थः । प्रतिपच्छब्देन द्वितीया लक्ष्यते प्रतिपदि चन्द्रस्यादर्शनात् । अहमेकरसोऽभिन्नरागः ॥ “शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः ॥ तथापि । जीवितसामग्रीसत्त्वेऽपीत्यर्थः । ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुर: क्रूरः ॥ “प्रतिपत्तिः पदमाप्तौ प्रकृतौ गौरवेऽपि च । प्रागल्भ्ये च प्रवोधे च" इति विश्वः ॥ स्मर्तुं न शक्यः किमुताधिकर्तुमिति भावः ॥

  धृतिरस्तमिता रतिश्चयुता विरतं गेयमृतुर्निरुत्सवः ।
  गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६ ॥

 धृतिरिति ॥ अद्य मे धृतिधैर्यं प्रतीतिर्वास्तं नाशमिता । रतिः क्रीडा च्युता गता । गेयं गानं विरतम् । ऋतुर्वसन्तादिनिरुत्सवः । आभरणानां प्रयोजनं गतमपगतम् । शेतेऽस्मिन्निति शयनीयं तल्पम् ॥ “कृत्यल्युटो बहुलम्" इत्यधिकरणार्थेऽनीयर्प्रत्यय: ॥ परिशून्यम् । त्वां विना सर्वमपि निष्फलमिति भावः ।।

  गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
  करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥६७॥

 गृहिणीति ॥ त्वमेव गृहिणी दाराः । अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः । सचिवो बुद्धिसहायो मन्त्री । सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते । मिथो रहसि सखी नर्मसचिवः । सर्वोपभोगस्त्वदाश्रय इत्यमुना प्रकटितम् । ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या । प्रियत्वं प्राज्ञत्वादिसभिसंधिः सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्धाटितम् । अतस्त्वां समष्टिरूपां हरतातएव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वस्तु न हृतं वद । सर्वमपि हृतमित्यर्थः ॥

  मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
  अनुपास्यसि बाष्पदूषितं प[५९]रलोकोपनतं जलाञ्जलिम् ॥ ६८॥

 मदिरेति ॥ माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि “नार्यो मदिरलोचनाः" इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्यास्तत्संबुद्धिर्हे

मदिराक्षि । मदाननेनार्पितं रसवत्स्वादुतरं मधु मद्यं पीत्वा बाष्पषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वन्वनन्तरं पास्यसि । तदनन्तमिदमनहमित्यर्थः । यथाह भट्टमल्लः-"अनुपानं हिमजलं यवगोधूमनिमिते । दनि मद्य विपे द्राक्षे पिष्टे मिष्टमयेऽपि च" इति । तच्चैहैव युज्यते । इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेद विरोधात्कथमनुपास्यसीति भावः ॥

  विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
  अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९॥

 विभव इति ॥ विभव ऐश्वर्ये सत्यपि खया विनाजस्यैतावदेव सुखं गण्यताम् । यावत्त्वया मह भुक्तं ततोऽन्यन्न किंचिद्भविष्यतीयर्थः । कुतः । विलोभनान्तरविषयान्तरैरहतस्यानाकृष्टस्य मम सर्वे विषया भोगादयस्त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ।।

  विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
  अकरोत्पृथिवीरुहानपि उतशाखारसवाष्पदू[६०]षितान् ॥ ७० ॥

 विलपन्निति ॥ कोसलाधिपो&ज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्पृथिवीरुहान्क्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैदूश्हितानकरोत् । अचेतनानप्यरोदयदित्यर्थः ॥

  अथ तस्य कथंचिदङ्कतः स्वजनस्ताम[६१]पनीय सुन्दरीम् ।
  विससर्ज तै[६२]दन्त्यमण्डनामनलाया[६३]गुरुचन्दनिधसेगुरुचन्दनैधसे ॥७१॥

 अथेति ॥ अथ स्वजनो बन्धुवर्गस्तस्याजस्याङ्कत उत्सङ्गात्कथंचिदपनीय । तदिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम् । तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान् ॥ "क्रियाग्रहणमपि कर्तव्यम्” इति क्रियामात्रप्रयोगे संप्रदानत्वाच्चतुर्थी ॥

  प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
  न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया॥७२॥

 प्रमदामिति ॥ नृपतिरजः सपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितो मृत इति वाच्यदर्शनाभिन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्निसादग्न्यधीनं न चकार ॥ "तदधीनवचने" इति सातिप्रत्ययः ॥ जीविताशया प्राणेच्छया तु नेति॥

  अथ तेन दशाहतः प[६४]रे गुणशेषामु[६५]पदिश्य भा[६६]मिनीम् ।
  विदुषा विधयो महर्द्धयः पुर एवोपवने स[६७]मापिताः ॥ ७३ ॥

 अथेति ॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन । गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमुपदिश्योद्दिश्य । दशानामह्नां समाहारो दशाहः।। 'तद्धितार्थ-" इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । “राजाहःसखिभ्यष्टच्” इति टच् । “रात्राह्नाहाः पुंसि” इति पुंवत् । ततस्तसिल् ॥ तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः ॥ दशाहतः इत्यत्र “विप्र: शुध्येद्दशाहेन द्वादशाहेन भूमिपः" इति मनुवचनविरोधो नाशङ्कनीयः । तस्य निर्गुणक्षत्रियविषयत्वात् । गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः- "क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः" इति ॥ सूच्यतेऽस्यापि गुणवत्त्वं विदुषेत्यनेन ॥

  स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
  परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४ ।।

 स इति ॥ तयेन्दुमत्या विना । क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः । प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः ॥ दृश्यत इति कर्मार्थे ल्युट् ॥ सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशो- कस्य परिवाहं जलोच्छ्वासमिवावलोकयन् ॥ “जलोच्छ्वासाः परीवाहाः" इत्यम- रः॥ स्वदुःखपूरातिशयमिव पश्यन्पुरीं विवेश ॥ वधूग्रहणात्तस्यामिन्दुमत्यां स- ख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ॥

  [६८]थ तं सवनाय दीक्षितः प्रणिधानाद्गुरुरां[६९]श्रमस्थितः ।
  [७०]भिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥७५॥

 अथेति ॥ अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन् । तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाच्चित्तैकाग्रयाद्विजज्ञिवाञ्ज्ञातवान् ॥ " क्वसुश्च" इति क्वसुप्रत्ययः॥ इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोध- यत्किल ॥ बुधेर्ण्यन्ताण्णिचि लङ्॥  वसिष्ठशिष्य आह--

  असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणम् ।
  न भवन्तमुपस्थितः स्वयं प्रकृतौ स्थापयितुं पे[७१]थश्च्युतम् ॥७६॥

 असमाप्तेति ॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्नपि ॥ “विदेः शतुर्वसुः” इति वस्वादेशः । "न लोक-" इत्यादिना षष्ठीप्रतिषेधः ॥ पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम् । समाश्वासयितुमित्यर्थः । स्वयं नोपस्थितो नागतः॥

  मयि तस्य सुवृत्त वर्तते ल[७२]घुसंदेशपदा सरस्वती।
  शृणु विश्रुतसत्त्वसार तां हृदि चैनामु[७३]पधातुमर्हसि ॥७७॥

 मयीति ॥ हे सुवृत्त सदाचार, संदिश्यत इति संदेशः संदेष्टव्यार्थः । तस्य पदानि वाचकानि लघूनि संक्षिप्तानि संदेशपदानि यस्यां सा लघुसंदेशपदा तस्य मुनेः सरस्वती वाङ्मयि वर्तते । हे विश्रुतसत्त्वसार प्रख्यातधैर्यातिशय, तां सरस्वतीं शृणु । एनां वाचं हृद्युपधातुं धर्तुं चार्हसि ॥

 वक्ष्यमाणार्यानुगुणं मुनेः सर्वज्ञत्वं तावदाह-

  पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
  स हि निष्प्रतिघेन चक्षुषा त्रि[७४]तयं ज्ञानमयेन पश्यति ॥ ७८॥

 पुरुषस्येति ॥ अजन्मनः पुरुषस्य पुराणपुरुषस्य भगवतस्त्रिविक्रमस्य पदेषु वि- क्रमेषु । त्रिभुवनेष्वपीत्यर्थः । समतीतं भूतं च भवद्वर्तमानं च भावि भविष्यच्चेति त्रितयं स मुनिर्निष्पतिघेनाप्रतिवन्धेन ज्ञानमयेन चक्षुषा ज्ञानदृष्टया पश्यति हि । अतस्तदुक्तिषु न संशयितव्यमित्यर्थः॥

  चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
  प्रजिघाय समाधिभेदिनीं हरिरस्मै हरिणीं सुराङ्गनाम् ॥७९॥

 चरत इति ॥ पुरा किल दुश्चरं तीव्रं तपश्चरतस्तृणबिन्दोस्तृणबिन्दुनामकाकस्माच्चिदृषेः परिशङ्कितो भीतः ॥ कर्तरि क्तः॥ “भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ॥ हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरिणीं नाम मुराङ्गनामस्मै

तृणबिन्दवे प्रजिघाय प्रेरितवान् ।

  सं[७५] तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम्।
  अशपद्भव मानुषीति तां श[७६]मवेलाप्रलयोर्मिणा भु[७७]वि ॥ ८० ॥

 स इति ॥स मुनिः। शमः शान्तिरेव वेला मर्यादा । यस्याः प्रलयोर्मिणा प्रलयकालतरंगेण । शमविघातकेनेत्यर्थः ॥ “अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि" इत्यमरः ॥ तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्र आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ॥

  भगवन्परवानयं जनः प्रतिकूलाचरितं क्ष[७८]मस्व मे ।
  इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥ ८१ ॥

 भगवन्निति ॥ हे भगवन्महर्षे, अयं जनः । परोऽस्यास्तीति स्वामित्वेन परवान्पराधीनः । अयमित्यात्मनिर्देशः। अहं पराधीनेत्यर्थः । मे मम प्रतिकूलाचरितमपराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात्सुरपुष्पदर्शनपर्यन्तम् । क्षितिं स्पृशतीति क्षितिस्पृक्तां क्षितिस्पृशं मानुषीं कृतवानकरोत् । दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः ॥

  क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा।
  उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ।। ८२ ॥

 क्रथेति॥ क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव महिष्यभिषिक्ता स्त्री ॥ “कृताभिषेका महिषी" इत्यमरः ॥ भूत्वा चिराय दिवः स्वर्गाच्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपमुपलब्धवती विवशा। अभूदिति शेषः। मृतेत्यर्थः॥

  तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
  वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥ ८३॥

 तदिति॥तत्तस्मात्तस्या अपायचिन्तयालम्। तस्या मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाच्चिन्तयेति तृतीया॥ कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा । जातस्य हि ध्रुवो मृत्युरित्यर्थः ॥ तथापि कलत्ररहितस्य किं जीवितेन। तत्राह--त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम् । हि यस्मान्नृपा वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः । अतो न शोचितव्यमित्यर्थः॥

  उदये म[७९]दवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
  मनसस्त[८०]दुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८४॥

 उदय इति ॥ उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता

सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रम् । तज्जनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितम् । तच्छ्रुतं मनसो ज्वरे संताप उपस्थिते प्राप्तेऽक्लीबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः॥

 इतोऽपि न रोदितव्यमित्याह-

  रुदता कुत एव सा पुनर्भवता नानुमृता[८१]पि लभ्यते ।
  परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ।। ८५॥

 रुदतेति ॥ रुदता भवता सा कुत एव लभ्यते । न लभ्यत एव ॥ अनुम्रियत इत्यनुमृत् ॥ क्विप् ॥ तेनानुमृतानुमृतवतापि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह- परलोकजुषां लोकान्तरभाजां देहिनाम् । गम्यन्त इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतमार्गा हि ॥ परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ॥

  अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः ।
  खजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥

 अपेति ॥ किंत्वपशोकमना निर्दुःखचित्तः सन्कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृण्हीष्व । तर्पयेत्यर्थः । अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम् ॥ “बन्धुस्वस्वजनाः समाः इत्यमरः ॥ अश्रु। कर्तृ । प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल । अत्र याज्ञवल्क्यः- "श्लेष्माश्रु बन्धुभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः" इति ॥

  मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
  क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७ ॥

 मरणमिति ॥ शरीरिणां मरणं प्रकृतिः स्वभावः । ध्रुवमित्यर्थः । जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते । एवं स्थिते जन्तुः प्राणी क्षणमपि ॥ अत्यन्तसंयोगे द्वितीया ॥ श्वसञ्जीवन्नवतिष्ठते यद्यसौ क्षणजीवी लाभवान्ननु । जीवने यथालाभं संतोष्टव्यम् । अलभ्यलाभात् । मरणे तु न शोचितव्यम्। अस्य स्वाभाव्यादिति भावः।।

  [८२]वगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
  स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८॥

 अवेति ॥ मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते । स्थिरधीर्विद्वांस्तु तदेव शल्यं समुद्धृतमुत्खातं मन्यते । प्रियनाशे सतीति शेषः ॥ कुतः । कुशलद्वारतया । प्रियनाशस्य मोक्षोपायतयेत्यर्थः । विषयलाभाविनाशयोर्यथाक्रमं हिताहितसाधनत्वाभिमानः पामराणाम् । विपरीतं तु विपश्चितामिति भावः ॥

  खशरीरशरीरिणावपि श्रु[८३]तसंयोगविपर्ययौ यदा।
  विरहः कि[८४]मिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८९॥

 स्वेति ॥ स्वस्थ शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ । तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद । न किंचिदित्यर्थः । अथवास्वशब्दस्य शरीरेणैव संबन्धः ॥

  न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि ।
  द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः॥९०॥

 नेति ॥ हे वशिनामुत्तम जितेन्द्रियवर्य, पृथग्जनवत्पामरजनवच्छुचः शोकस्य वशं गन्तुं नार्हसि । तथाहि । द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः । वायौ सति द्वितयेऽपि द्विप्रकारा अपि ॥ “प्रथमचरम-" इत्यादिना जसि वि- भाषया सर्वनामसंज्ञा ॥ ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि । सानुमतामपि चलने दुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ।।

  स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
  तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः॥९१॥

 स इति ॥ सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठशिष्यं विससर्ज प्रेषयामास । किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियात. मिव प्रतिनिवृत्तं किमु । इत्युत्प्रेक्षा ॥ तोटकवृत्तमेतत्- “इह तोटकमम्बुधिसै: प्रथितम्” इति तल्लक्षणम् ॥

  तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः।
  सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च॥९२॥

 तेनेति ॥ अवितथं यथार्थं सूनृतं पियवचनं यस्य तेनाजेन । सुनोः पुत्रस्य बालत्वात् । राज्याक्षमत्वादित्यर्थः । प्रियाया इन्दुमत्या: सादृश्यं वस्त्वन्तरगतमाकारसाम्यम् । प्रतिकृतिश्चित्रम् । तयोर्दर्शनैः स्वप्नेषु क्षणिकाः क्षणभङ्गुरा ये समागमोत्सवास्तैश्च । कथंचित्कृच्छ्रेण । अष्टौ समा वत्सराः॥"संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरस्समाः" इत्यमरः॥परिगमिता अतिवाहिताः॥उक्तं च-"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः" इति।। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम् ॥प्रहर्षिणीवृत्तमेतत् ॥

  तस्य प्रसह्य हृदयं किल शोकशङ्कुः
   प्लक्षप्ररोह इव सौधतलं बिभेद ।
  प्राणान्तहेतुमपि तं भिषजामसाध्यं
   लाभं प्रि[८५]यानुगमने त्वरया स मेने ॥ ९३॥

 तस्येति ॥ शोक एव शङ्कु: कीलः ॥ “शङ्कः कीले शिवेऽस्त्रे च" इति विश्वः ॥ तस्याजस्य हृदयम् । प्लक्षप्ररोहः सौधतलमिव । प्रसह्य बलात्किल बिभेद ॥ सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने ॥ तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥

  सम्यग्विनीतमथ व[८६]र्महरं कुमार-
   मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
  रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः
   प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४ ॥

 सम्यगिति ॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः ॥ " वयसि च" इत्यच्प्रत्ययः ॥ तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम् । यथाशास्त्रमित्यर्थः ॥ "तदर्हम्" इति वतिप्रत्ययः ॥ आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थितिं मुमुक्षुर्जिहासुः सन् । प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव ।। “प्रायश्चानशने मृत्गौ तुल्यबाहुल्ययोरपि" इति विश्वः ॥ अत्र पुराणवचनम् " समासक्तो भवेद्यस्तु पातकैर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः । स्वयं देहविनाशस्य काले प्राप्ते महामतिः । आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया । प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा । एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु । नराणामथ नारीणां सर्ववर्णेषु सर्वदा" इति ॥ अनयोर्वसन्ततिलकाच्छन्दः । तल्लक्षणम्- "उक्ता वसन्ततिलका तभजा

जगौ गः" इति ॥

  ती[८७]र्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
   र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
  पू[८८]र्वाकाराधिकतररुचा संगतः कान्तयासौ
   लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ९५॥

 तीर्थ इति ॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरणगणनायां लेख्यं लेखनम्।। "तयोरेव कृत्यक्तखलर्था:" इति भावार्थे ण्यत्प्रत्ययः॥ आसाद्य प्राप्य । पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन् । नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत ॥ “यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः । तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि " इति स्कान्दे ॥ मन्दाक्रान्ताछन्दः । तल्लक्षणम्- “मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजविलापो नामाष्टमः सर्गः ।


  1. नरेश्वरम्
  2. अस्य भूपतेः.
  3. क्रियः.
  4. अनन्तरान्.
  5. आत्मवित्तया (=आत्मज्ञत्वेन ).
  6. विनाशधर्मिषु.
  7. ककुत्स्थवंशजाः.
  8. यमिनः संप्रियया।
  9. पूर्वपार्थिवः
  10. अपवर्गमहोदयार्थिनौ; अपवृत्तिमहोदयार्थयोः.
  11. अनपाय.
  12. अपरः.
  13. ध्यानमयेन चक्षुषा.
  14. अगमत्.
  15. परमार्थ
  16. प्रसृतो.
  17. उभयाम्
  18. विसृज्य.
  19. अग्निवित्
  20. आजग्मतुः
  21. उग्रपौरुषम्.
  22. बहुरत्नभूः
  23. इतरा
  24. संमतये; संनतये.
  25. न केवलं विभोः.
  26. परप्रयोजनम्,
  27. नन्दनम्,
  28. श्रुत.
  29. उपवर्णयितुम्.
  30. उदगावृत्तिपथेन. (=उदीच उत्तरस्या दिश आकाश आवृत्तिनिवर्तनम् । तस्याः पन्था गतिप्रकारस्तेन ।
    यथा रविरुत्तरस्या दिशो व्यावृत्य दक्षिणायनमागच्छति तद्वदित्यर्थः).
  31. विनिकीर्णा.
  32. दयितोरःस्थलकोटिषु स्थितिम्.
  33. नरेश्वरप्रिया.
  34. परिपार्श्ववर्तिनाम्.
  35. कमलाकराश्रयाः.
  36. विह्वलां पुनः.
  37. अङ्गम्.
  38. विभ्रमाविलाम्.
  39. गता.
  40. संनिहिता.
  41. सुरमाल्यरूपभाक्.
  42. निर्मितः.
  43. कर्मणा.
  44. न पातितस्तरुः.
  45. तद्विटापाश्रया.
  46. अपराधे.
  47. अनामन्त्र्य
  48. आत्मकृता तु वेदनाम् ; आत्मकृतान्तवेदनाम्,
  49. अथवा.
  50. कुसुमोत्कचितान्; कुसुमोत्कलितान्.
  51. वलीमतः.
  52. गतं मदालसम्.
  53. हरिणोषु.
  54. विभ्रमः, विभ्रमा.
  55. दौर्ह्रदः.
  56. अनुवादिभिः-
  57. अथवा.
  58. परलोकोपनताम्,
  59. दुर्दिनान्.
  60. अवतार्य.
  61. कृतान्त्यमण्डनाम्
  62. अगरु.
  63. परम् ; परा.
  64. अपदिश्य .
  65. गेहिनीम्.
  66. वितेनिरे.
  67. तमवेक्ष्य मखाय.
  68. आश्रमाश्रितः;
    आश्रमाश्रयः.
  69. अभिषङ्गिणमीश्वरं विशाम्.
  70. ततश्चुतम् ; स्वतश्चुतम् ; कृतस्थितिः .
  71. स्फुटसंदेशपदा; लघुसंदेशहरा.
  72. अवधातुम्.
  73. अवितथम्.
  74. तपसा प्रतिघातमन्युना.
  75. शमवेलाप्रलयोर्मिवान्.
  76. मुनिः.
  77. सहस्व.
  78. यदवाच्यम्.
    आत्मवत्तया (=अविकृतचित्ततया लिङ्गेन ); आत्मनस्त्वया.
  79. समुपस्थिते.
  80. च.
  81. अथ गच्छति.
  82. स्मृत; स्मृति; श्रित.
  83. कम्.
  84. प्रियानुगमनत्वरया.
  85. वर्मधरम्.
  86. तोये तीर्थव्यतिकरभवे.
  87. पूर्वाकाराधिकचतुरया (-पूर्वस्मादाकारादधिकं चतुरया सुभगया).