रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/सप्तमः सर्गः(अजपाणिग्रहणः)

विकिस्रोतः तः
← षष्ठः सर्गः(स्वयंवरवर्णनः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
सप्तमः सर्गः(अजपाणिग्रहणः)
कालिदासः
अष्टमः सर्गः(अजविलापः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

सप्तमः सर्गः ।


    भजेमहि निपीयैकं मुहुरन्यं पयोधरम् ।
    मार्गन्तं बालमालोक्याश्वासयन्तौ हि दंपती ॥

  अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् ।
  स्वसारमादाय वि[१]दर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥ १ ॥

 अथेति ॥ अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम् । अत एव साक्षात्प्रत्यक्षम् ॥ “साक्षात्प्रत्यक्षतुल्ययोः" इत्यमरः ।। स्कन्देन युक्तां देवसेनामिव । देवसेना नाम देवपुत्री स्कन्दपत्नी । तामिव स्थितां स्वसारं भगिनीमिन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव ॥ उपजातिवृत्तं सर्गेऽस्मिन् ॥

  सेनानिवेशान्पृ[२]थिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः।
  भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेषेषु च साभ्यसूयाः॥२॥

 सेनेति ॥ भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या । तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेषेषु नेपथ्येषु च साभ्यसूया तथेति निन्दन्तः। किंच। विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिवेशाशिबिराणि जग्मुः ॥

 ननु क्रुद्धाश्चेद्युध्यन्तां तत्राह-

  सांनिध्ययोगात्किल तत्र श[३]च्याः स्वयंवरक्षोभकृतामभावः ।
  काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तन क्षितिपाललोकम॥३॥

 सांनिध्येति॥ तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्याः। संनिधिरेव सांनिध्यम् । तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किल । किलेति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम् ॥ तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ।।

  तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् ।
  वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम्॥४॥

 तावदिति ॥ “यावत्तावच्च साकल्ये" इत्यमरः ॥ तावत्प्रकीर्णाः साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम् । इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्यकाश्चिहानि यस्य तम् । ध्वजानां छाया ध्वजच्छायम् ॥ "छाया बाहुल्ये" इति नपुंसकत्वम् ॥ तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरो वोढा वध्वा सह पाप विवेश ॥

  ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
  बभूवुरित्थं पु[४]रसुन्दरीणां त्य[५]क्तान्यकार्याणि विचेष्टितानि ॥५॥

 तत इति ॥ ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि सक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः ॥ नपुंसके भावे क्तः॥ बभूवुः॥

 तान्येवाह पञ्चभिः श्लोकैः-

  आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवा[६]न्तमाल्यः ।
  बन्ध्दुं न संभावित एव तावत्करेण रुद्धोऽपि च[७] केशपाशः ॥६॥

 आलोकेति ॥ सहसालोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः । उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः । अत एव वान्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः । करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः॥ "पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे इत्यमरः ॥ तावदालोकमार्गप्राप्तिपर्यन्तं बन्द्धं बन्धनार्थ न संभावितो न चिन्तित एव ।।

  प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
  उत्सृष्टलीलागतिरा गवाक्षादलक्तकाङ्कां पदवीं ततान ॥७॥

 प्रसाधिकेति ॥ काचित् । प्रसाधिकयालंकर्त्र्यालम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव ॥ अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः ॥ हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्" इति वामनः ॥ तमाक्षिप्याकृप्य । उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती । आ गवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ।

  विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वश्चितवामनेत्रा।
  [८]थैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ।। ८॥

 विलोचनमिति ॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य । संभ्रमादिति भावः । तद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा सती तथैव शलाकामञ्जनतूलिकां वहन्ती सती वातायनसंनिकर्षं गवाक्षसमीपं ययौ । दक्षिणग्रहणं

संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम् । “सव्यं हि पूर्वं मनुष्या अञ्जते" इति श्रुतेः॥

  जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
  नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥९॥

 जालेति ॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिगवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम् ॥ "नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि" इति विश्वः ॥ न बबन्ध । किंतु नाभिप्रविष्टाभरणानां कङ्कणादीनां प्रभा यस्य तेन । प्रभैव नाभेराभरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ॥

  [९]र्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दु[१०]निमिते गलन्ती ।
  कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ १०॥

 अर्धति ।। सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुर्निमित्ते संभ्रमाहुरुत्क्षिप्ते ॥ “डुमिप्रक्षेपणे" इति धातोः कर्मणि क्तः॥ पदे पदे प्रतिपदम् ॥ वीप्सायां द्विर्भावः ॥ गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्याः सासीत् ॥

  तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
  विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ११॥

 तासामिति ॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः । विलोलानि नेत्राण्येव भ्रमरा येषां तैः। मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षा: सहस्रपत्राभरणा इव कमलालंकृता इव ॥ “सहस्रपत्रं कमलम्" इत्यमरः ॥आसन्।

  ता राघवं दृष्टिभिरापिबन्त्यो नार्यों न जग्मुर्विषयान्तराणि ।
  तथाहि शेषेन्द्रि[११]यवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥१२॥

 ता इति ॥ ता नार्यो रघोरपत्यं राघवमजम् ॥" तस्यापत्यम्" इत्यण्प्रत्ययः ॥ दृष्टिभिरापिबन्त्योऽतितृष्णया पश्यन्त्यो विषयान्तराण्यन्यान्विषयान्न जग्मुः । न विविदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रविष्टेव ॥ श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ॥

१०-११ श्लोकयोमध्ये क्षेपकोऽयं दृश्यते--

स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती ।
संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षाम् ॥


 " शृण्वन्कथाः श्रोत्रसुखाः कुमारः (७।१६) इति वक्ष्यति । ताः कथयति

"स्थाने" इत्यादिभिस्त्रिभिः-

  स्थाने वृता भूपतिभिः प[१२]रोक्षैः स्वयंवरं साधुममंस्त भोज्या।
  पद्मेव नारायणमन्यथा[१३]सौ लभेत कान्तं कथमात्मतुल्यम् ॥१३॥

 स्थान इति ॥ भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिर्वृता ममैवेयमिति प्रार्थितापि स्वयंवरमेव साधु हितममंस्त मेने । न तु परोक्षमेव कंचित्पार्थकं वव्रे । स्थाने युक्तमेतत् ॥ “युक्ते द्वे सांप्रतं स्थाने" इत्यमरः ॥ कुतः । अन्यथा स्वयंवराभावेऽसाविन्दुमती । पद्यमस्या अस्तीति पद्मा लक्ष्मीः ॥ " अर्शआदिभ्योऽच्" इत्यच्प्रत्ययः ॥ नारायणमिव । आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत । न लभेतैव । सदसद्विवेकासौकर्यादिति भावः ॥

  परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
  अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वि[१४]तथोऽभविष्यत् ॥

 परस्परेणेति ॥ स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्व मिथुनम् ॥ “द्वन्द्वं रहस्य-" इत्यादिना निपातः ॥ परस्परेण नायोजयिष्यच्चेन्न योजयेद्यदि । तर्हि प्रजानां पत्युविधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथोविफलोऽभविष्यत् । एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः ॥"लिङ्निमित्ते लृङ्क्रियातिपत्तौ" इति लुङ् ॥ "कुतश्चित्कारणवैगुण्यात्क्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः" इति वृत्तिकारः॥

  [१५]तिस्मरौ नूनमिम[१६]विभूतां राज्ञां सहस्रेषु तथाहि बाला।
  [१७]तेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥१५॥

 रतीति ॥ रतिस्मरौ यौ । नित्यसहचरावित्यभिप्रायः । नूनं तावेवेयं चायं चेमौ दंपती अभूताम् । एतद्रूपेणोत्पन्नौ । कुतः । तथाहि । इयं वाला राज्ञां स- हस्रेषु राजसहस्रमध्ये । सत्यपि व्यत्यासकारण इति भावः । आत्मप्रतिरूपं स्वतुल्यमेव ॥ "तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः" इति दण्डी ॥ गता प्राप्ता ॥ तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति । तदेवेदमिति प्रत्यभिज्ञाभावेऽपि वासनाविशेषवशादनुभूतार्थेषु मनःप्रवृत्तिरस्तीत्युक्तम् ॥ जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ॥

  इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः।
  उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥१६॥

इतीति ॥ इति "स्थाने वृता" (७/१३) इत्याद्युक्तप्रकारेण पौरवधूमुखेभ्य

उद्गता उत्पन्नाः श्रोत्रयोः सुखा मधुराः॥ सुखशब्दो विशेष्यनिघ्नः॥ “पापपुण्यसुखादि च" इत्यमरः॥ कथा गिरः शृण्वन्कुमारोऽजो मङ्गलसंविधाभिर्मङ्गलरचनाभिरुद्भासितं शोभितं संबन्धिनः कन्यादायिनः सम गृहं समाससाद पाप ।।

  ततोऽवती[१८]र्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः।
  वैदर्भनिर्दिष्टम[१९]थो विवेश नारीमनांसीव चतुष्कमन्तः॥१७॥

 तत इति ॥ ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य । कामरूपेश्वर दत्तो हस्तो येन सोऽजः । अथोऽनन्तरं वैदर्भेण निर्दिष्टं प्रदर्शितमन्तचतुष्कं चत्वरम् । नारीणां मनांसीव । विवेश ॥

  महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं म[२०]धुपर्कमिश्रम् ।
  भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षः ॥१०॥

 महार्हति ।। महाहसिंहासने संस्थितोऽसावजः । भोजेनोपनीतम् । रत्नैः सहितं सरत्नम् । मधुपर्कमिश्रमर्घ्यं पूजासाधनद्रव्यं दुकूलयोः क्षोमयोर्युग्मं च । वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धम् । जग्राह गृहीतवान् ॥

  दुकूलवासाः स वधूसमीपं निन्ये विनीतैरे[२१]वरोधरक्षैः ।
  वेलासकाशं स्फुटफेनराजिनवैरुदन्वानिव चन्द्रपादैः॥१९॥

 दुकूलेति ॥ दुकूलवासाः सोऽजः । विनीतैर्नम्ररवरोधरक्षैरन्तःपुराधिकृतैर्वधूसमीपं निन्ये । तत्र दृष्टान्तः-स्फुटफेनराजिरुदन्वान्समुद्रो नवैर्नूतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलायाः सकाशं समीपमिव ।। पूर्णदृष्टान्तोऽयम् ।।

  तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
  तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संग[२२]मयांचकार ॥ २०॥

 तत्रेति ॥ तत्र सद्मन्यर्चितः पूजितोऽग्निकल्पोऽग्नितुल्यो भोजपत्र्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः ॥ “पुरोधास्तु पुरोहितः" इसमरः ॥ आज्यादिभिर्द्रव्यैरग्निं हुत्वा तमेव चाग्निं विवाहसाक्ष्य आधाय । साक्षिणं च कृत्वेत्यर्थः । वधूवरौ संगमयांचकार योजयामास ॥

  हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां च[२३]कासे ।
  अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ २१॥

 हस्तेनेति ॥ स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य । अनन्तरायाः संनिहिताया अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन पाप्य चूत आम्र इव । सुतरां चकासे॥

  [२४]सीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
  [२५]स्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥२२॥

 आसीदिति ॥ वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत् ॥ “सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः" इत्यमरः ॥ कुमारी स्विन्नालिः संववृते बभूव ॥ अत्रोत्प्रेक्षते--तस्मिन्ये मिथुने तत्क्षणमात्मवृत्तिः सात्विकोदयरूपा वृत्तिर्मनोभवेन कामेन समं विभक्तेव पृथकृतेव ॥ प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्ष्यते ॥ अत्र वात्स्यायनः- कन्यातु प्रथमसमागमे स्विन्नाङ्गुलिः स्विन्नमुखी च भवति । पुरुषस्तु रोमाञ्चितो भवति ।एभिरनयोर्भावं परीक्षेत" इति ॥ स्त्रीपुरुषयोः स्वेदरोमाञ्चाभिधानं सात्त्विकमात्रोपलक्षणम् । न तु प्रतिनियमो विवक्षितः । एभिरिति बहुवचनसामर्थ्यात् । एवं सति कुमारसंभवे- “रोमोद्गमः पादुरभूदुमायाः स्विन्नाङ्गलिः पुंगवकेतुरासीत्" (७।७७) इति व्युत्क्रमवचनं न दोषायेति ॥ "वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य" इत्यपरार्धस्य पाठान्तरे व्याख्यानान्तरम्-पाणिसमागमेन पाण्योः संस्पर्शेन ॥ कर्त्रा ॥ तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव । समीकृतेवेत्यर्थः॥

  [२६]योर[२७]पाङ्गप्रतिसारितानि क्रियासमापत्तिनि[२८]वर्तितानि ।
  ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि॥२३

 तयोरिति ॥ अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोर्निरीक्षणलक्षणयोः समापत्त्या यदृच्छासंगत्या निवर्तितानि प्रत्याकृष्टान्यन्यान्यस्मिल्लोलानि सतृष्णानि ॥ “लोलश्चलसतृष्णयोः" इत्यमरः ॥ तयोर्दम्पत्योर्विलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः॥

  प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
 मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ २४ ॥

 प्रदक्षिणेति ॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोर्वह्नेः प्रदक्षिणप्रक्रमणात्मदक्षिणीकरणात् । मेरोरुपान्तेषु समीपेषु वर्तमानमावर्तमानम् । मेरुं प्रदक्षिणीकुर्वदित्यर्थः । अन्योन्यसंसक्तं परस्परसंगतम् ।। मिथुनस्याप्येतद्विशेषणम् ॥ अहश्च

त्रियामा चाहस्त्रियामं रात्रिंदिवमिव ।। समाहारे द्वन्द्वैकवद्भावः ॥ चकासे दिदीपे॥

  नितम्बयुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
  चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥२५॥

 नितम्बेति ॥ नितम्बेन गुर्व्यलध्वी ॥ "दुर्धरालघुनोगुर्वी" इति शाश्वतः॥ विधातृप्रतिमेन ब्रह्मतुल्येन तेन गुरुणा याजकेन प्रयुक्ता जुहुधीति नियुक्ता । मत्तचकोरस्येव नेत्रे यस्याः सा लज्जावती सा वधूरग्नौ लाजविसर्गं चकार ॥

  हविःशमीपल्लवलाजग[२९]न्धी पुण्यः कृशानोरुदियाय धूमः ।
  कपोलसंसर्पिशिखः स त[३०]स्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ २६ ॥

 हविरिति ॥ हविष आज्यादेः शमीपल्लवानां लाजानां च गन्धोऽस्यास्तीति हविःशमीपल्लवलाजगन्धी ॥ “ शमीपल्लमिश्रान्ल्लाजानञ्जलिना वपति" इति कात्यायनः ॥ पुण्यो धूमः कृशानोः पावकादुदियायोद्धृतः ॥ कपोलयोः संसर्पिणी प्रसरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्तं कर्णोत्पलतां कर्णाभरणतां प्रपेदे॥

  तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
  वधूमुखं पाटलगण्डलेखमाचारधूमग्रहणाद्बभूव ॥ २७ ।।

 तदिति ॥ तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात् । अञ्जनस्य क्लेदोऽअनक्लेदः। अञ्जनमिश्रवाष्पोदकमित्यर्थः । तेन समाकुलाक्षम् । प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत्पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ।।

  तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम् ।
  कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥२८॥

 ताविति ॥ कनकासनस्थौ तौ कन्याकुमारौ स्नातकैर्गृहस्थविशेषैः ॥ “ स्नातकस्त्वाप्लुतो व्रती" इत्यमरः ॥ बन्धुमता । बन्धुपुरःसरेणेत्यर्थः । राज्ञा च पुरंध्रिभिः पतिपुत्रवतीभिर्नारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्यात्क्रमेण कृतमार्द्राक्षतानामारोपणमन्वभूतामनुभूतवन्तौ ।।

  इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा।
  महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥ २९ ॥

 इतीति ॥ अधिश्रीरधिकसंपन्नो भोजकुलप्रदीपः स राजा । इति स्वसुरिन्दुमत्यः पाणिग्रहणं विवाहं संपाद्य कारयित्वा। महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं

पूजार्थमधिकृतानधिकारिणः समादिदेशाज्ञापयामास ।

  लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः।
  वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥३०॥

 लिङ्गैरिति ॥ मुदः संतोषस्य लिङ्गैश्चिन्नैः कपटहासादिभिः संवृतविक्रिया निगृहितमत्सराः । अतएव प्रसन्ना बहिनिर्मला गूढनर्क्रा अन्तर्लीनग्राहा ह्रदा इव स्थितास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छ्य तदीयां वैदर्भीयां पूजामुपदाछलेनोपायनमिषेण प्रत्यर्प्य ययुर्गतवन्तः ॥

  स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ स[३१]मयोपलभ्यम् ।
  आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥

 स इति ॥ आरम्भसिद्धौ कार्यसिद्धौ विषये । पूर्वं कृता कृतपूर्वा ॥ सुप्सुपेति समासः ॥ कृतपूर्वा संवित्संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः ॥ “सं- विद्युद्युद्धे प्रतिज्ञायां संकेताचारनामसु" इति केशवः ॥ स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम् । तदा तस्यैकाकित्वादिति भावः ॥ “समरोपलभ्यम्" इति पाठे युद्धसाध्यमित्यर्थः ॥ तत्प्रमदैवामिषं भोग्यवस्तु ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि" इति केशवः ॥ आदास्यमानो ग्रहीप्यमाणः सन्नजस्य पन्थानमावृत्यावरुध्य तस्थौ ॥

  भर्तापि तावत्कथकैशिकानामनुष्ठितानन्तरजाविवाहः।
  सत्त्वानुरूपा[३२]हरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ३२॥

 भर्तेति ॥ अनुष्टितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत्तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा । आ समन्तात् । अनेनानियतवस्तुदानमित्यर्थः। हरणं कन्यायै देयं धनम् ॥ “यौतुकादि तु यद्देयं सुदायो हरणं च तत्" इत्यमरः ॥ आहरणीकृता श्रीर्येन तथोक्तः सन्राघवमजं प्रास्थापयत्प्रस्थापितवान्स्वयमन्वगादनुजगाम च ।।

   तिस्रस्त्रि[३३]लोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा।
  तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः॥३३॥

 तिस्र इति ॥ कुण्डिनं विदर्भनगरम् । तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गे पथि तिस्रो वसती रात्रीरुषित्वा स्थित्वा ॥ "वसती रात्रिवेश्मनोः" इत्यमरः ॥ “कालावनोरत्यन्तसंयोगे" इति द्वितीया ॥ पर्वात्यये दर्शान्त उष्णरश्मेः

सूर्यात्सोमश्चन्द्र इव । तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ॥

  प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
  अतो नृपाचक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥३४॥

 प्रमन्यव इति ॥ नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः । अतो हेतोः समेताः संगताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ॥

  तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
  बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥३५ ।।

 तमिति ॥ दृप्त उद्धतः स राजन्यगणो राजसंघानः । भोजकन्यामुदूहन्तं नय- न्तं तमजम् । बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुर्वाणम् । त्रिविक्रमस्येमं त्रैविक्रमम् । पादमिन्द्रशत्रुः प्रह्लाद इव । पथि रुरोध ॥ तथा च ब्रह्मा- ण्डपुराणे--"विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन् । विष्णोस्तु क्रममाणस्य पादाम्भोजं रुरोध है" इति ॥

  तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः।
  प्रत्यग्रहीत्पार्थिववाहिनीं तां भा[३४]गीरथीं शोण इवोत्तरंगः॥३६॥

 तस्या इति ॥ स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं वहुभटम् । पितुरागतं पित्र्यम् । आप्तमित्यर्थः । सचिवमादिश्याज्ञाप्य तां पार्थिववाहिनीं राजसेनाम् ॥ "ध्वजिनी वाहिनी सेना " इत्यमरः ॥ भागीरथीमुत्तरंगः शोणः शोणाख्यो नद इव । प्रत्यग्रहीदभियुक्तवान् ॥

  पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् ।
  यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥३७॥

 पत्तिरिति॥पत्तिः पादचारो योद्धा पदाती पादचारमभ्यपतत् । पदा पदाभ्याततीति पदातिः ॥ पादस्य पदित्यादिना पदादेशः॥ “पदातिपत्तिपदगपादातिकपदाजयः" इत्यमरः॥ रथेशो रथिको रथिनं रथारोहमभ्यपतत् । तुरंगसाद्यश्वारोह स्तुरगाधिरूढमश्वारोहमभ्यपतत् ॥ "रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः" इत्यमरः ॥ गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत् । इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयपतिभटं युद्धं बभूव ॥ अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः ॥ “द्वन्द्वं कलहयुग्मयोः" इत्यमरः ॥

  नदत्सु तूर्येष्वविश्राव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
  बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः॥३८॥

 नदत्स्विति ॥ तूर्येषु नदत्सु सत्स्वविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः । कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोच्चारयामासुः । श्रोतुमशक्यत्वाद्वाचो नाबुवन्नित्यर्थः॥ किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योजितं प्रख्यातं नाम शशंसुरूचुः ।।

  उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्प[३५]न्दनवंशचक्रैः ।
  विस्तारितः कुञ्जरकर्णतालैर्ने[३६]त्रक्रमेणोपरुरोध सूर्यम् ॥ ३९ ॥

 उत्थापित इति ॥ संयति संग्रामेऽश्वैरुत्थापितः। स्यन्दनवंशानां रथसमूहानां चक्रैः रथाङ्गैः सान्द्रीकृतो घनीकृतः ॥ “वंशः पृष्ठास्थि गेहोर्ध्वकाष्ठे वेणौ गणे कुले" इति केशवः ॥ कुञ्जरकर्णानां तालैस्ताडनविस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्या । अंशुकमिवेत्यर्थः ।। “स्याज्जटांशुकयोर्नेत्रम्" इति । "क्रमोऽङ्घ्रौ परिपाट्यां च” इति च केशवः ॥ सूर्यमुपरुरोधाच्छादयामास ॥

  मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
  बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव न[३७]वोदकानि ॥४०॥

 मत्स्येति ॥ वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणून्पिबतो गृहन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः। पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्याः सत्यमत्स्या इव ।बभ्रुर्भान्ति स्म ॥

  रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टा क्वणितेन नागः ।
  स्वभर्तनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः॥४१॥

 रथ इति ॥ सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नादेन विजज्ञे । आत्मपरावबोधः स्वपरविवेकः । योधानामिति शेषः । स्वभर्तॄणां स्वस्वामिनां नामग्रहणानामोच्चारणाद्वभूव । रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्रुरित्यर्थः ॥

  आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
  शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः॥१२॥

 आवृण्वत इति ॥ लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः । आजौ युद्धे विजृम्भितस्य व्याप्तस्य । रज एवान्धकारं तस्य । शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत् ॥ “अरुणो भास्करेऽपि

स्यात् " इत्यमरः ॥ बालविशेषणं रुधिरसावर्ण्यम् ।।

  स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
  अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ॥ ४३ ॥

 स इति ॥ क्षतजेन रुधिरेण छिन्नमूलः । त्याजितभूतलसंबन्ध इत्यर्थः । तस्य क्षतजस्योपरिष्टात्पवनावधूतो वाताहतः स रेणुः ॥ अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव । आबभासे दिदीपे ॥

  प्रहारमूर्छापगमे र[३८]थस्था यन्तॄनुपालभ्य नि[३९]वर्तिताश्वान् ।
  यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४ ॥

 प्रहारेति ॥ रथस्था रथिनः प्रहारेण या मूर्छा तस्या अपगमे सति । मूर्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा । निवर्तिताश्वान्यन्तॄन्सारथीनुपालभ्यासाधु कृतमित्यधिक्षिप्य । पूर्वं यैः स्वयं सांदिता हताः । लक्षितपूर्वकेतून् । पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः । तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजह्रुः ॥

  अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
  संप्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५ ॥

 अपीति ॥ अर्धश्चासौ मार्गश्च तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या स्ववेगानुबन्धेन हेतुना फलिभिर्लोहाग्रवद्भिः ॥ "सस्यबाणाग्रयोः फलम्" इति विश्वः ॥ पूर्वार्धभागैः । शृणातीति शरुः । तस्मै हितं शरव्यं लक्ष्यम् ॥ "उगवादिभ्यो यत्" इति यत्प्रत्ययः ॥ "लक्षं लक्ष्यं शरव्यं च" इत्यमरः ॥ संप्रापुरेव । न तु मध्ये पतिता इत्यर्थः ॥

  आधोरणानां गजसंनिपाते शिरांसि च[४०]क्रैर्निशितैः क्षु[४१]राग्रैः ।
  हृ[४२]तान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ४६ ॥

 आधोरणानामिति ॥ गजसंनिपाते गजयुद्धे निशितैरतएव क्षुराग्रैः क्षुरस्याग्रमिवाग्रं येषां तैश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि । श्येनानां पक्षिविशेषाणाम् । "पक्षी श्येनः" इत्यमरः ॥ नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि । आधोरणानां हस्त्यारोहाणाम् ॥ "आधोरणा हस्तिपका हस्त्यारोहा निषादिनः" इत्यमरः ॥ शिरांसि चिरेण पेतुः पतितानि ॥ शिरःपातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ॥

  पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
  तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष॥ ४७ ॥

 पूर्वमिति॥ पूर्वं प्रथमं प्रहर्ताश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्तं तुरंगमस्कन्धे निषण्णदेहम् । मूर्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष ॥ “नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्" इति निषेधादिति भावः ॥

  तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः ।
  [४३]द्यन्तमग्निं शमयांबभ्रूवुर्गजा विविग्नाः करसीकरेण ॥ ४८॥

 तनुत्यजामिति ॥ तनुत्यजाम् । तनुषु निस्पृहाणामित्यर्थः । वर्मभृतां कवचिनां संबन्धिभिर्बृहत्सु दन्तेषु पतद्भिरतएव विकोशैः पिधानादुद्धृतैः ॥ “कोशोऽस्त्री कुड्मले खङ्गपिधाने" इत्यमरः॥ असिभिः खड्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करसीकरेण शुण्डादण्डजलकणेन शमयांबभूवुः शान्तं चक्रुः ॥

  शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव ।
  रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥४९॥

 शिलीमुखेति ॥ शिलीमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या संपन्ना । च्युतैर्भ्रष्टैः । शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि ॥ "शीर्षण्यं च शिरस्त्रे च" इत्यमरः ॥ तैश्चषकोत्तरा चषकः पानपात्रमुत्तरं यस्यां सेव ॥ “चषकोऽस्त्री पानपात्रम्' इत्यमरः ॥ शोणितान्येव मद्यं तस्य कुल्याः प्रवाहा यस्यां सा॥ "कुल्याल्पा कृत्रिमा सरित्" इत्यमरः ॥ रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ॥

  उपान्तयोनि[४४]ष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि।
  केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥५०॥

 उपान्तयोरिति ॥ उपान्तयोः प्रान्तयोर्विहंगैः पक्षिभिर्निष्कुषितं खण्डितम् ।। 'इण्निष्टायाम्" इतीडागमः ॥ भुजच्छेदं भुजखण्डं तेभ्यो विहंगेभ्य आक्षिप्याच्छिद्य पिशितप्रिया मांसप्रियापि शिवा क्रोष्ट्री ॥ "शिवः कीलः शिवा कोष्ट्री" इति विश्वः॥ केयूरकोट्याङ्गदाग्रेण क्षतस्तालुदेशो यस्याः सा सती । अपाचकारापसारयामास । किरतेः करोतेर्वा लिट् ॥

  कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
  वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ५१ ॥


 कश्चिदिति ॥ द्विषतः खड्गेन हृतोत्तमाङ्गश्छिन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम् । देवत्वमित्यर्थः । उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन्समरे नृत्यत्स्वं निजं कबन्धं विशिरस्कं कलेवरं ददर्श ॥ “कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्” इत्यमरः ॥

  अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
  व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥५२॥

 अन्योन्येति ॥ कौचिद्वीरावन्योन्यस्य सूतयोः सारथ्योरुन्मथनान्निधनात्तावेव सूतौ रथिनौ योद्धारौ चाभूताम् । तावेव व्यश्वौ नष्टाश्वौ सन्तौ गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम् । ततो भग्नायुधौ भग्नगदौ सन्तौ बाहुविमर्दे निष्ठा नाशो ययोस्तौ बाहुयुद्धसक्तावभूताम् ॥ “निष्ठा निष्पत्तिनाशान्ता" इत्यमरः ॥

  परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
  अमर्त्यभावेऽपि कयोश्विदासीदेकाप्सर प्रार्थितयोर्विवादः॥५३॥

 परस्परेणेति ॥ परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः। एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः । प्रार्थितैकाप्सरसोरित्यर्थः ॥ “वाहिताग्न्यादिषु" इति परनिपातः ॥ अथवा । एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः ॥ " स्त्रियां बहुष्वप्सरसः" इति बहुत्वाभिधानं प्रायिकम् ॥ कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्य भावेऽपि देवत्वेऽपि विवादः कलह आसीत् ॥ एकामिषाभिलाषो हि महद्वैरबीजमिति भावः।।

  व्यूहावुभौ तावि[४५]तरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
  पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ ५४ ॥

 व्यूहाविति ॥ तावुभौ व्यूही सेनासंघातौ ॥ “व्यूहस्तु बलविन्यासः" इत्यमरः ॥ पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महार्णवोर्मी इव । इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ॥

  परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव ।
  धूमो नि[४६]वर्त्येत समीरणेन यतस्तु[४७] कक्षस्तत एव वह्निः ॥ ५५॥

 परेणेति ॥बले स्वसैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ । तथाहि । समीरणेन वायुना धूमो निवर्त्येत कक्षादपसार्येत ॥ वर्ततेर्ण्यन्ताकर्मणि संभावनायां लिङ्॥ वह्निस्तु यतो यत्र कक्षस्तृणम् ॥ "कक्षौ तु तृणवीरुधौ" इत्यमरः॥ तत एव तत्रैव । प्रवर्तत इति शेषः॥ सार्वविभक्तिकस्तसिः॥

  रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः।
  नि[४८]वारयामास महावराहः क[४९]ल्पक्षयोद्दृत्तमिवार्णवाम्भः॥५६ ॥

 रथीति ॥ रथी रथारूढो निषङ्गी तूणीरवान् ॥ “तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः" इत्यमरः॥ कवची वर्मधरो धनुष्मान्धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोजो राजन्यकं राजसमूहम् ॥ “ गोत्रोक्ष-" इत्यादिना वुञ्प्रत्ययः॥ महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाल उद्वृत्तमुद्वेलमर्णवाम्भ इव । निवारयामास ॥

  स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ।
  आकर्णकृष्टा सकृदस्य योद्धर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥५७॥

 स इति ॥ सोऽजः।आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरणेन वाममतिसुन्दरम् ॥ “वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे" इति विश्वः॥ व्यापारयन्नलक्ष्यत । शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः॥ सकृदाकर्णकृष्टा योद्धुरस्याजस्य मौर्वी ज्या। रिपून्घ्नन्तीति रिपुघ्नाः । तान् ॥ "अमनुष्यकर्तृके च" इति ठक्प्रत्ययः॥ बाणान्सुषुव इव सुषुवे किमु । इत्युत्प्रेक्षा ॥

  स रोष[५०]दष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।
  तस्तार गां भल्लनिकृत्तकण्ठैर्हूंका[५१]रगर्भैर्द्विषतां शिरोभिः॥५८॥

 स इति ॥ सोऽजः रोपेण दष्टा अतएवाधिकलोहिता ओष्ठा येषां तानि तैः।व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटीर्भ्रू्भङ्गान्वहद्भिः । भल्लनिकृत्ता वाणविशेच्छिन्नाः कण्ठा येषां तैः । हूंकारगर्भैः सहूंकारैः । हूंकुर्वद्भिरित्यर्थः । द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास ॥

  सर्वैर्ब[५२]लाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।   सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रर्युधि सर्व एव ॥ ५९ ।।

 सर्वैरिति ॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः॥ "हस्त्यश्वरथपादा तं सेनाङ्गं स्याच्चतुष्टयम्" इत्यमरः समरः ॥ कङ्कटभेदिभिः कवचमेदिभिः ॥ " उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम्" इत्यमरः ॥ सर्वायुधैश्च ॥ बाह्यबलमुक्तान्तर माह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः । तं प्रजह्रुरित्यर्थः ॥ सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी ॥ तदुक्तम् "अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः । सर्वदा सर्वथाभावात्क्वचिकिंचिद्विवक्ष्यते" इति ॥

  सोऽस्त्रव्रजैश्छ[५३]न्नरथः परेषां ध्वजाग्रमात्रेण बभूव ल[५४]क्ष्यः।
  नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥६०॥

 स इति ॥ परेषां द्विषामस्त्रव्रजैश्छन्नरथः सोऽजः । नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकालः किंचित्प्रकाशेनेपलक्ष्येण विवस्वतेव । ध्वजाग्रामात्रेण लक्ष्यो बभूव । ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ॥

  प्रियंवदात्प्राप्तम[५५]सौ कुमारः प्रायुङ्क्त राजस्वधिराजसूनुः ।
  गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्नानिवृत्तलौल्यः॥६१॥

 प्रियंवदादिति ॥ अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नवितृष्णः । जागरूक इत्यर्थः । असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तं गान्धर्वं गन्धर्वदेवताकम् ॥ “सास्य देवता" इत्यण् ॥ प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रायुङ्क्त प्रयुक्तवान् ।

  ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् ।
  तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२॥

 तत इति ॥ ततो धनुष्कर्षणे चापकर्षणे मूढहस्तमव्यापृतहस्तम् । एकस्मिन्नंसे पर्यस्तं स्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत् । ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत् । नरदेवानां राज्ञां सेनैव सैन्यम् ॥ चातुर्वर्णादित्वात्स्वार्थे ष्यञ्प्रत्ययः ॥ निद्राविधेयं निद्रापरतन्त्रं तस्थौ ।

  ततः प्रियोपात्तरसेऽधे[५६]रोष्ठे निवेश्य दध्मौ जलजं कुमारः।
  तेन[५७] स्व[५८]हस्तार्जितमेकवीरः पिबन्यशो मूर्तमिवाबभासे ॥६३॥

 तत इति॥ ततः कुमारोजः प्रिययेन्दुमत्योपात्तरस आस्वादितमाधुर्ये । अतिश्लाघ्य इति भावः । अधरोष्ठे जलजं शङ्खं निवेश्य ॥ “जलजं शङ्खपद्मयोः" इति विश्वः ॥ दध्मौ मुखमारुतेनं पूरयामास । तेनौष्ठनिविष्टेन शङ्खेनैकवीरः स

स्वहस्तार्जितं मूर्तं मूर्तिंमद्यशः पिबन्निवाबभासे ॥ यशसः शुभ्रत्वादिति भावः ॥

  शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रुं ददृशुः स्वयोधाः।
  निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥६४ ॥

 शङ्खेति ॥ शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञतया प्रत्यभिज्ञातत्वान्निवृत्ताः प्राक्पलाय्य संप्रति प्रत्यागताः स्वयोधाः सन्नशत्रुं निद्राणशत्रु तमजम् । निमीलितानां }}मुकुलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्क प्रतिबिम्बचन्द्रमिव । ददृशुः॥

  सशोणितेस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् ।
  यशो हृतं संप्र[५९]ति राघवेण न जीवितं वः कृपयेति वर्णाः॥६५॥

 सशोणितैरिति ॥ संप्रति राघवेण रघुपुत्रेण । पूर्वं रघुणेति भावः । हे राजानो वो युष्माकं यशो हृतं जीवितं तु कृपया न हृतम् । न त्वशक्त्येति भावः । इत्येवंरूपा वर्णाः । एतदर्थप्रतिपादकं वाक्यमित्यर्थः । सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन । प्रयोजककर्त्रा । पार्थिवानां राज्ञां केतुषु ध्वजस्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः । लेखिता इत्यर्थः॥ क्षिपतेर्ण्यन्तात्कर्मणि क्तः॥

  स चा[६०]पकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ।
  ललाटबद्धश्रमवारिबिन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥६६॥

 स इति ॥ चापकोट्यां निहित एकबाहुर्येन सः। शिरस्त्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः ॥ “चूडाकिरीटं केशाश्च संयता मौलयस्त्रयः" इत्यमरः ॥ ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः । सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो वभाषे ॥

 किमित्याह-----

  इतः परानर्भकहार्यशस्त्रान्वैदर्भि पश्यानुमता मयासि ।
  एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः॥ ६७॥

 इत इति ॥ हे वैदर्भि इन्दुमति, इत इदानीमर्भकहार्यशस्त्रान्बालकापहार्यायुधान्पराञ्शत्रून्पश्य । मयानुमतासि । द्रष्टुमिति शेषः ॥ एभिर्नृपैरेवंविधेन निद्रारूपेणाहवचेष्टितेन रणकर्मणा मम हस्तगता । हस्तगतवद्दुर्ग्रहेत्यर्थः। त्वं प्रार्थ्यसे। अपजिहीर्ष्यस इत्यर्थः ॥ एवं विधेनेत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ।

  तस्याः प्रतिद्वन्द्विभवाद्विषादात्सद्यो विमुक्तं मुखमावभासे ।
  निःश्वासबाष्पापगमात्मप्र[६१]पन्नः प्र[६२]सादमात्मीयमिवात्मदर्शः॥६८॥

 तस्या इति॥ प्रतिद्वन्द्विभवाद्रिपूत्याद्विषादाद्दैन्यात्सद्यो विमुक्तं तस्यामुखम् ।

निःश्वासस्य यो बाष्प ऊष्मा ॥ "बाष्पो नेत्रजलोष्मणोः" इति विश्वः॥ तस्यापगमा्द्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः । आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शः। दर्पण इव । आबभासे॥

  हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत्
  स्थली नवाम्भःपृषता[६३]भिवृष्टा मयूरकेकाभिरिवा[६४]भ्रवृन्दम् ॥६९॥

 हृष्टेति ॥ सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया विजिता यतोऽतः प्रियमजं साक्षात्स्वयं नाभ्यनन्दन्न प्रशशंस । किंतु नवैरम्भः पृषतैः पयोविन्दुभिरभिवृष्टाभिषिक्ता स्थल्यकृत्रिमा भूमिः ॥ " जानपदकुण्डगोणस्थल-" इत्यादिनाकृत्रिमार्थे ङीष् ॥ अभ्रवृन्दं मेघसंघ मयूरकेकाभिरिव । सखीनां वाग्भिरभ्यनन्दत् ॥

  इति शिरसि स वामं पादमाधाय राज्ञा
   मुदवहदनवद्यां तामवद्यादपेतः ।
  स्थतुरगरजोभिस्तस्य रू[६५]क्षालकाग्रा
   समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥७०॥

 इतीति ॥ नोद्यते नोच्यत इत्यवद्यं गद्यम् ॥ “अवद्यपण्य-" इत्यादिना निपातः ॥ “कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः" इत्यमरः॥ तस्मादपेतः। निर्दोप इत्यर्थः । सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुदवहदुपानयत् । आत्मसाच्चकारेत्यर्थः ॥ अयमर्थ:- “तमुद्वहन्तं पथि भोजकन्याम्” (७।३५) इत्यत्र न श्लिष्टः ॥ तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्वभूव॥ एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः ॥

  प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं
   विजयिनमभिनन्द्य श्लाध्यजायासमेतम् ।
  तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
   न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ॥७१॥

 प्रथमेति ॥ प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवृत्तं प्रत्यागतं तमजमभिनन्द्य । तस्मिन्नज उपहितकुटुम्बः सन् । “सुतविन्यस्तपत्नीकः" इति याज्ञवल्क्यस्मरणादिति भावः । शान्तिमार्गे मोक्षमार्ग उत्सुकोऽभूत् । तथाहि । कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ।।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजपाणिग्रहणो नाम सप्तमः सर्गः ।


  1. विदर्भराजः.
  2. पृथिवीभृतः.
  3. शच्या.
  4. सुरसुन्दरीणाम्.
  5. मुक्तान्यकार्याणि.
  6. वीतमाल्यः.
  7. हि.
  8. प्रासाद.
  9. अर्धाचिता ; अर्धार्चिता.
  10. दुर्नमिते.
  11. सन्द्रिय.
  12. परोक्षे.
  13. आर्या.
  14. विफलः.
  15. जातिस्मरौ.
  16. इवावभूताम्.
  17. याता.
  18. अथ.
  19. अजः.
  20. मधुमच्च गव्यम्.
  21. अवरोधरक्ष्यैः
  22. संगमयांबभूव.
  23. बभासे.
  24. अभूत्.
  25. अस्मिन्.
  26. तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहतानि.
  27. उपान्त.
  28. विवर्तितानि.
  29. गन्धिः.
  30. तस्याम्,
  31. समरेण लभ्यम्.
  32. आभरणीकृतश्री:
  33. त्रिलोकी.
  34. ज्योतीरथाम्
  35. स्यन्दनवंशतालैः; संयति नेमिचक्रः.
  36. अनुक्रमेण.
  37. वनोदकानि.
  38. रथस्थान्.
  39. विवर्तिताश्वान्; निवर्तिताश्वाः.
  40. मुक्तैः.
  41. क्षुरग्रैः.
  42. हृतानि.
  43. उध्द्वृत्तम् .
  44. निर्घ्रुषितम्
  45. इतरेतरोत्थम.
  46. निवर्तेत.
  47. हि
  48. विलोडयामास.
  49. कल्पक्षयोद्धूतम्.
  50. रोष दृष्टाधरलोहिताक्षैः
  51. हुंकारगर्भैः.
  52. बलोघैः
  53. छिन्नरथः.
  54. लक्ष्वम्
  55. अथो कुमारः; अथ. प्रियार्हः; अथ प्रियार्हम्.
  56. अधरौष्ठे.
  57. येन.
  58. स्वहस्तार्जितवीरशब्द:
  59. संयति.
  60. चापकोटौ निहितैकबाहुः.
  61. प्रपन्नम्.
  62. स्वरूपम्.
  63. अभिषिक्ता.
  64. अभ्रजालम्.
  65. रुक्षालकाग्रा; रुक्षालकान्ता.