रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/दशमः सर्गः(रामावतारः)
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/नवमः सर्गः(मृगयावर्णनः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) दशमः सर्गः(रामावतारः) कालिदासः |
एकादशः सर्गः(सीताविवाहवर्णनः) → |
दशमः सर्गः।
आशंसे नित्यमानन्दं रामनामकथामृतम् ।
सद्भिः स्वश्रवणैर्नित्यं पेयं पापं प्रणोदितुम् ॥
पृथिवीं शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥१॥
पृथिवीमिति ॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः । अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषत्र्यूनं शरदां वत्सराणाम् ॥ "स्यादृतौ वत्सरे शरत्" इत्यमरः ॥ अयुतं दशसहस्रं ययौ । “एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम् । कोटयर्बुदं च पद्म स्थानात्स्थानं दशगुणं स्यात्" इत्यार्यभट्टः ॥ इदं च मुनिशापात्परं वेदितव्यं न तु जननात् ॥ "षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि" इति रामायणविरोधात् । नाप्यभिषेकात्परं तस्यापि “सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्मजानाम्" (८ । ९४) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स[१] ज्योतिः सद्यः शोकतमोपहम् ॥२॥
न चेति ॥ स दशरथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम् ॥"एष वा अनृणो यः पुत्री" इति श्रुतेः ॥ पितॄणामृणविमुक्तिकारणम् । सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम् ॥ अत्राभयङ्कर इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य "अपे केशतमसोः" इति डप्रत्ययः॥ सुताभिधानं सुताख्यं ज्योतिर्नोपलेभे न पाप च॥
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥३॥
अतिष्ठदिति ॥प्रत्ययं हेतुमपेक्षत इति प्रत्ययापेक्षा संततिर्यस्य स तयोक्तः॥ "प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुषु" इत्यमरः। स नृपः । मन्थात्प्राङ्मन्थनात्पूर्वमनभिव्यक्तादृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव । चिरमतिष्ठत् ॥ साम्रग्यभावाद्विलम्बो न तु वन्ध्यत्वादिति भावः ॥
ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः ।
आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ।। ४॥
ऋष्यशृङ्गेति ॥ ऋष्यशृङ्गादयः । ऋष्यशृङ्गो नाम कश्चिदृषिः । तदादयः। ऋतुमृतौ वा यजन्तीत्यृत्विजो याज्ञिकाः ॥"ऋत्विग्दधृक्-" इत्यादिना किवन्तो निपातः॥ जितात्मानो जितान्तःकरणाः सन्तः संतानकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम् ॥ "पुत्राच्छ च" इति छप्रत्ययः ॥ इष्टिं यागमारेभिरे प्रचक्रमिरे ॥
तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् ।
अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥५॥
तस्मिन्निति ॥ तस्मिन्नवसरे पुत्रकामेष्टिमवृत्तिसमये देवाः । पुलस्त्यस्य गोत्रापत्यं पुमान्पौलस्त्यो रावणः । तेनोपप्लुताः पीडिताः सन्तः । निदाघार्ता घर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः॥ “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः" इति डप्रत्ययः ॥ छायाप्रधानं वृक्षं छायावृक्षमिव ॥ शाकपार्थिवादित्वात्समासः॥ हरिं विष्णुमभिजग्मुः॥
ते च प्रापुरुदन्वन्तं बुबुधे चादिपुरुषः।
अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥६॥
त इति ॥ते, देवाश्चोदन्वन्तं समुद्रम् ॥ “उदन्वानुदधौ च" इति निपातः।। प्रापुः । आदिपूरुषो विष्णुश्च बुबुधे । योगनिद्रां जहावित्यर्थः ॥ गमनप्रतिवोधयोरविलम्बार्थौ चकारौ । तथाहि । अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत् । भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्ग हि ॥ उक्तं च-"अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्" इति ॥
भोगिभोगासनासीनं ददृशु[२]स्तं दिवौकसः।
तत्फणामण्डलोदचिर्मणिद्योतितविग्रहम् ॥ ७॥
भोगीति॥द्यौरोको येषां ते दिवौकसो देवाः ॥ पृषोदरादित्वात्साधुः॥ यद्वा दिवशब्दोऽदन्तोऽप्यस्ति । तथा च बुद्धचरिते-"न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यया दिवम्” इति ॥ तत्र “दिवु क्रीडादौ" इति
धातोः “इगुपध-" इति कः ॥ दिवमोक एषामिति विग्रहः ॥ भोगिनः शेषस्य
भोगः शरीरम् । “भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः" इत्यमरः॥ स एवासनं सिंहासनम् । तत्रासीनमुपविष्टम् ।। आसेः शानच् ॥ "ईदासः" इतीकारादेशः ॥ तस्य भोगिनः फणामण्डले य उदर्चिष उद्रश्मयो मणयस्स्तैर्द्योतितविग्रहं तं विष्णुं ददृशुः॥
श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥८॥
श्रिय इति ॥ कीदृशं विष्णुम् । पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमान्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन् । आस्तीर्णौ करपल्लवौ पाणिपल्लवौ यस्मिन् । विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते ॥ तस्मिन्नङ्गे निक्षिप्तौ चरणौ येन तम् ।।
प्र[३]बुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ ९॥
प्रबुद्धेति ॥ पुनः कीदृशम् । प्रबुद्धे विकसिते पुण्डरीके इवाक्षिणी यस्य तम् । दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः । बालातपनिभमंशुकं यस्य तम् । पीताम्बरधरमित्यर्थः । अन्यत्र बालातपव्याजांशुकमित्यर्थः ॥ “निभो व्याजसदृक्षयोः" इति विश्वः ॥ प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भा योगिनः । तेषां सुखदर्शनम् । अन्यत्र प्रारम्भ आदौ सुखदर्शनं शारदं शरत्संबन्धिनं दिवसमिव स्थितम् ॥
प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बि[४]भ्राणं बृहतोरसा ॥ १०॥
प्रभेति ॥ पुनः किंविधम् । प्रभयानुलिप्तमनुरञ्जितं श्रीवत्स नाम लाञ्छनं येन तम् । लक्ष्म्या विभ्रमदर्पणं कौस्तुभ इत्याख्या यस्य तम् । अपां समुद्राणां सारं स्थिरांशम् । अम्मयमणिमित्यर्थः । बृहतोरसा विभ्राणम् ॥ बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ १५॥ बाहुभिरिति ॥ विटपाकारैः शाखाकारैर्दिव्याभरणभूपितैर्बाहुभिरुपलक्षितम् । अत एवापां सैन्धवानां मध्य आविर्भूतम[५]परं द्वितीयं पारिजातमिव स्थितम् ।।
दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥ १५॥
दैत्यति ॥ दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं
विलुम्पन्ति हरन्तीति मदरागविलोपिनः । तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शस्त्रैः ॥ "रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः" इत्यमरः ॥ उदीरितजयस्वनम् । जयशब्दमुद्धोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमियर्थः ।
मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ १३॥
मुक्तेति ॥ मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन । कुलिशव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रमहारास्त एव लक्ष्माणि यस्य स तेन । प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना । प्रबद्धाञ्जलिनेत्यर्थः । विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम् ॥ पुरा किल मालिपार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते खविपक्षरक्षणक्षुभितं पक्षिराजं त्वद्वोढाहं त्वत्तो बलाढ्य इति गर्वितं स्ववामतर्जनीभारेणैव भङ्क्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति विनीतेनेत्यनेन ।।
योगनिद्रान्तविशदैः पावनैरवलोकनैः।
भृग्वादीननुगृह्णन्तं सौखशायनिकानुषीन् ॥१४॥
योगेति ॥ योगो मनसो विपयान्तरव्यात्तिः । तद्रूपा या निद्रा तस्या अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोधनेरवलोकनैः । सुखशयनं पृच्छन्तीति सौखशायनिकास्तान् ॥ “पृच्छन्तौ सुस्नातादिभ्यः" इत्युपसंख्यानाट्वक्प्रत्ययः॥ भृग्वादीनृपीननुगृह्णन्तम् ॥
प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ।। १५॥
प्रणिपत्येति ॥ अथ दर्शनानन्तरं सुराः सुरद्विपामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्रार्हम् ॥ “एतिस्तुशा स्स्दृव्जुट्षःटजुषः क्यप्" इति क्यपत्ययः ॥ वाक्च मनश्च वाङ्मनसे ॥ "अचतुर-" इत्यच्प्रत्ययान्तो निपातः॥ तयोर्गोचरो विषयो न भवतीत्यवाङ्मनसगोचरः। तमेनं विष्णुं तुष्टुवुरस्तुवन् ।
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ १६ ॥
नम इति ॥ पूर्वमादौ विश्वसृजे विश्वस्रष्ट्रे तदनु सर्गानन्तरं विश्व विभ्रते पुष्णते । अथ विश्वस्य संहर्त्रे । एवं त्रेधा सृष्टिस्थितिसंहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्मविष्णुहरात्मने तुभ्यं नमः॥ २७ ननु कूटस्थस्य कथं त्रैरूप्यमियाशङ्कयौपाधिकमित्याह-
रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः॥ १७॥
रसान्तराणीति॥ एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदकं देशे देश ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाश्नुते प्राप्नोति । एवमविक्रियो निर्विकारः। एकरूप इत्यर्थः । त्वं गुणेषु सत्वादिष्ववस्थाः स्रष्टत्वादिरूपा अश्नुषे॥
अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ १८॥
अमेय इति ॥ हे देव, त्वममेयो लोकैरियत्तया न परिच्छेद्यः । मितलोकः परिच्छिन्नलोकः । अनर्थी निःस्पृहः । आवहतीत्यावहः ॥ पचाद्यच् ॥ प्रार्थनानामावहः कामदः । अजितोऽन्यैर्न जितः । जिष्णुर्जयशीलः । अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः । व्यक्तस्य स्थूलरूपस्य कारणम् ॥
हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
दयालुम[६]नघस्पृष्टं पुराणमजरं विदुः ॥ १९ ॥
हृदयेति ॥ हे देव, त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विपकृष्टं च विदुः । संनिकृष्टस्यापि विपकृष्टत्वमिति विरोधः । तथाकामम् । न कामोऽभिलापोऽस्य तं परिपूर्णत्वानिःस्पृहत्वाच्च निष्कामम् । तथापि तपस्विनं प्रशस्ततपोयुक्तं विदुः । यो निष्कामः स कथं तपः कुरुत इति विरोधः। परिहारस्तु ऋषिरूपेण दुस्तरं तपस्तप्यते । दयालुं परदुःखपहरणपरं तथाप्यनघस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः ॥ “ अघं दुरितदुःखयोः" इति विश्वः । दयालुरदुःखी चेति विरोधः ॥ “ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः” इति महाभारते ॥ पुराणमनादिमजरं निर्विकारत्वादक्षरं विदुः । चिरंतनं न जीर्यत इति विरोधालंकारः। उक्तं च-" आभासत्वे विरोधस्य विरोधालंकृतिर्मता" इति ॥ विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ २०॥
१८-१९ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-
एक: कारणतस्तां तामवस्थां प्रतिपद्यसे ।
नानात्वं रागसंयोगात्स्फटिकस्येव ते स्मृतम् ।।
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्चिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ २१ ॥
सप्तेति ॥ हे वेद, त्वां सप्तभिः सामभी रथंतरादिभिरुपगीतम् ॥ “तद्धितार्थ-” इत्युत्तरपदसमासः ॥ सप्तानामर्णवानां जलं सप्तार्णवजलम् ॥ पूर्ववत्समासः ॥ तत्र शेते यः स सप्तार्णवजलेशयः । तम् ॥ “शयवासवासिष्वकालात्” इत्यलुक् । सप्तार्चिर्मुखं यस्य तम् ॥ “अग्निमुखा वै देवाः” इति श्रुतेः ॥ सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम् । एवंभूतमाचख्युः ॥
चतुरिति ॥ चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः ॥ “त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः” इत्यमरः ॥ तत्फलकं यज्ज्ञानम् । चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम् । चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः । चातुर्वर्ण्यप्रचुर इत्यर्थः ॥ तत्प्रकृतवचने मयट् ॥ “तद्धितार्थ-” इत्यादिना तद्धितार्थे विषये तत्पुरुषः ॥ स लोकः । इत्येवंरूपं सर्वं चतुर्मुखाच्चतुर्मुखरूपिणस्त्वत्तः । जातमिति शेषः । “इदं सर्वमसृजत यदिदं किंचित्” इति श्रुतेः ॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ २३ ॥
अभ्यासेति ॥ अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितम् । तेन मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थं विचिन्वन्त्यन्विष्यन्ति । ध्यायन्तीत्यर्थः ॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य या[९]थार्थ्यं वेद कस्तव ॥ २४ ॥
अजस्येति ॥ न जायत इत्यजः ॥ “अन्येष्वपि दृश्यते” इति डप्रत्ययः ॥ तस्याजस्य जन्मशून्यस्यापि जन्म गृह्णतः । मत्स्यादिरूपेण जायमानस्य । निरीहस्य चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः । इत्थं विरुद्धचेष्टस्य तव याथार्थ्यं को वेद वेति ॥ “विदो लटो वा” इति णलादेशः ॥
शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ २५ ॥
शब्देति ॥ किंच । कृष्णादिरूपेण शब्दादीन्विषयान्भोक्तुम् । नरनारायणादिरूपेण दुश्चरं तपश्चरितुम् । तथा दैत्यमर्दनेन प्रजाः पातुम् । औदासीन्येन ताटस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि ॥ भोगतपसोः पालनौदासीन्ययोश्च परस्परविरुद्धयोराचरणे त्वदन्यः कः समर्थ इत्यर्थः ॥
बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे ॥ २६ ॥
बहुधेति ॥ आगमैस्त्रयीसांख्यादिभिर्दर्शनैर्बहुधा भिन्ना अपि सिद्धिहेतवः पुरुषार्थसाधकाः पन्थान उपायाः। जाह्नव्या इमे जाह्नवीया गाङ्गाः ॥ “वृद्धाच्छः” इति छप्रत्ययः ॥ ओघाः प्रवाहाः। तेऽप्यागमैरागतिभिर्बहुधा भिन्नाः सिद्धिहेतवश्च । अर्णव इव । त्वय्येव निपतन्ति प्रविशन्ति । येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः । यथाहुराचार्याः-“किं बहुना कारवोऽपि विश्वकर्मेत्युपासते” इति ॥
त्व[१०]य्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ॥ २७ ॥
त्वयीति ॥ त्वय्यावेशितं निवेशितं चित्तं यैस्तेषाम् । तुभ्यं समर्पितानि कर्माणि यैस्तेषाम् ॥ “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि कौन्तेय प्रतिजाने प्रियोऽसि मे” इति भगवद्वचनात् ॥ वीतरागाणां विरक्तानामभूयःसंनिवृत्तयेऽपुनरावृत्तये । मोक्षायेत्यर्थः । त्वमेव गतिः साधनम् । “तमेवं विदित्वातिमृत्युमेति । नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेरित्यर्थः ।
प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ २८ ॥
केवलमिति ॥ स्मरणेन केवलं कृत्स्नम् ॥ “केवलः कृत्स्न एकश्च” इति शाश्वतः ॥ पुरुषं स्मर्तारं जनं पुनासि । यतः। यदित्यर्थः । अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषा अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः ॥ तव स्मरणस्यैवैतत्फलम् । दर्शनादीनां तु कियदिति नावधारयाम इति भावः ॥
उदधेरिति ॥ उदधे रत्नानीव । विवस्वतस्तेजांसीव । दूराण्यवाङ्मनसगोचराणि ते चरितानि स्तुतिभ्यो व्यतिरिच्यन्ते ॥ निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ॥
अनवाप्तमवाप्तव्यं न ते किंचन विद्यते ।
लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ ३१ ॥
अनवाप्तमिति ॥ अनवाप्तमप्राप्तम् । अवाप्तव्यं प्राप्तव्यं ते तव किंचन किंचिदपि न विद्यते । नित्यपरिपूर्णत्वादिति भावः ॥ तर्हि किंनिबन्धने जन्मकर्मणी ॥ तत्राह-लोकेति ॥ एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः ॥ परमकारुणिकस्य ते परार्थैव प्रवृत्तिः । न स्वार्थेत्यर्थः ॥
महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ ३२ ॥
महिमानमिति ॥ तव महिमानमुत्कीर्त्य वचः संह्रियत इति यत् । तद्वचःसंहरणं श्रमेण वाग्व्यापारश्रान्त्या । अशक्त्या कार्त्स्न्येन वक्तुमशक्यत्वाद्वा । गुणानामियत्तयैतावन्मात्रतया न । तेषामानन्त्यादिति भावः ॥
इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ ३३ ॥
इतीति ॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजम् । विष्णुं प्रसादयामासुः प्रसन्नं चक्रुः । हि यस्मात्परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः ॥ “युक्ते क्ष्मादावृते भूतम्” इत्यमरः ॥ न स्तुतिर्न प्रशंसामात्रम् ॥ महान्तो हि यथाकथंचिन्न सुलभा इति भावः ॥ परमे स्थाने तिष्ठतीति परमेष्ठी । “परमे कित्” इत्युणादिसूत्रेण तिष्ठतेरिनिः। “तत्पुरुषे कृति बहुलम्” इति सप्तम्या अलुक् । “स्थास्थिन्स्थॄणाम्” इति वक्तव्यात्षत्वम् ॥
तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
भयमप्रलयोद्वेलादाचख्युर्नैऋतोदधेः ॥ ३४ ॥
तस्मा इति ॥ सुरा देवाः । कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रीतिर्यस्य तस्मै । लक्षितप्रसादायेत्यर्थः ॥ अन्यथा अनवसरविज्ञप्तिर्मुखराणामिव निष्फला स्यादिति भावः । तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात् । नैर्ऋतो राक्षसः । स एवोदधिः । तस्माद्भयमाचख्युः कथितवन्तः ॥
अथ वेलासमासन्नशैलरन्ध्रा[१५]नुनादिना ।
स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः॥ ३५ ॥
अथेति ॥ अथ वेलायामब्धिकूले समासन्नानां संनिकृष्टानां शैलानां रन्ध्रेषु गह्वरेष्वनुनादिना प्रतिध्वनिमता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच ॥
पुराणस्येति ॥ पुराणस्य चिरंतनस्य कवेस्तस्य भगवतो वर्णस्थानेषूरःकण्ठादिषु समीरिता सम्यगुच्चारिता । अत एव कृतः संपादितः संस्कारः साधुत्वस्पष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था बभूवैव ॥ एवकारस्त्वसंभावनाविपरीतभावनाव्युदासार्थः ॥
बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
निर्यातशेषाचरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥ ३७ ॥
बभाविति ॥ विभोर्विष्णोर्वदनादुद्गता निःसृता । सदशनज्योत्स्ना दन्तकान्तिसहिता ॥ इदं च विशेषणं धावल्यातिशयार्थम् ॥ अत एव सा भारती । चरणादङ्घ्रेर्निर्याता चासौ शेषा च निर्यातशेषा । निःसृतावशिष्टेत्यर्थः ॥ “स्त्रियाः पुंवत्-” इत्यनुवर्त्य “पुंवत्कर्मधारय-” इति पुंवद्भावः ॥ निर्यातशब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः । निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घट एव ॥ ऊर्ध्वप्रवर्तिन्यूर्ध्ववाहिनी गङ्गेव । बभौ । इत्युत्प्रेक्षा ॥ यदाह भगवांस्तदाह-
जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ ॥ ३८ ॥
जान इति ॥ हे देवा वोः, युष्माकमनुभावपराक्रमौ महिमपुरुषकारौ रक्षसा रावणेन । अङ्गिनां शरीरिणां प्रथममध्यमावुभौ गुणौ सत्त्वरजसी तमसेव तमोगुणेनेव । आक्रान्तौ जाने ॥ वाक्यार्थः कर्म ॥
विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
अकामोपनतेनेव साधोर्हृदयमेनसा ॥ ३९ ॥
विदितमिति ॥ किंच । अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव । तेन रक्षसा तप्यमानं संतप्यमानम् ॥ तपेर्भौवादिकात्कर्मणि शानच् ॥ भुवनत्रयं च मे विदितम् । मया ज्ञायत इत्यर्थः ॥ “गतिबुद्धि-” इत्यादिना वर्तमाने क्तः। “क्तस्य च वर्तमाने” इति षष्ठी ॥
कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ ४० ॥
कार्येष्विति ॥ किंच । एककार्यत्वादावयोरेककार्यकत्वाद्धेतोः । कार्येषु कर्तव्यार्थेषु विषयेषु वज्रिणेन्द्रेणाभ्यर्थ्यः इदं कुर्विति प्रार्थनीयो नास्मि ॥ तथाहि । वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति । न तु वह्निप्रार्थनया । इत्येवकारार्थः ॥ प्रेक्षावतां हि स्वार्थेषु स्वत एव प्रवृत्तिः । न तु परप्रार्थनया । स्वार्थश्चायं ममापीत्यर्थः ॥
पुरा किल त्रिपुरारिप्रीणनाय स्वशिरांसि छिन्दता दशकन्धरेण यद्दशमं शिरोऽवशेषितं तन्मच्चक्रार्थमित्याह-
स्वासिधाराप[१८]रिहृतः कामं चक्रस्य तेन मे ।
स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥ ४१ ॥
स्वेति ॥ स्वासिधारया स्वखड्गधारया परिहृतः । अच्छिन्न इत्यर्थः । दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः। तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥
तर्हि किं प्रागुपेक्षितमत आह-
स्रष्टुरिति ॥ किंतु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः । मया तस्य दुरात्मनो रिपो रावणस्यात्यारूढमत्यारोहणम् । अतिवृद्धिरित्यर्थः ॥ नपुंसके भावे क्तः ॥ भोगिनः सर्पस्यात्यारूढं चन्दनेनेव । सोढम् ॥ चन्दनद्रुमस्यापि तथा सहनं स्रष्टुर्नियतेरिति द्रष्टव्यम् ॥संप्रति वरस्वरूपमाह-
धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥ ४३ ॥
धातारमिति ॥ स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणम् । मर्त्येषु विषय आस्थापराङ्मुख आदरविमुखः सन् । मर्त्याननादृत्येत्यर्थः । दैवादष्टविधात्सर्गाद्दैवसृष्टेरवध्यत्वं ययाचे हि ॥
तर्हि का गतिरित्याशङ्क्य मनुष्यावतारेण हनिष्यामीत्याह-
सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् ॥ ४४ ॥
सोऽहमिति ॥ सोऽहम् । दशरथस्यापत्यं पुमान्दाशरथिः ॥ “अत इञ्” इतीञ्प्रत्ययः ॥ रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुच्चयं राशिं रणभूमेर्बलिक्षमं पूजार्हं करिष्यामि ॥ पुष्पविशदा हि पूजेति भावः ॥
अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥ ४५ ॥
अचिरादिति ॥ हे देवाः, यज्वभिर्याज्ञिकैर्विधिवत्कल्पितमुपहृतं भागं हविर्भागं मायाविभिर्मायावद्भिः ॥ “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाचिरात्पुनरादास्यध्वे ग्रहीष्यध्वे ॥
वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥ ४६ ॥
वैमानिका इति ॥ मरुतां देवानां पथि व्योम्नि वैमानिका विमानैश्चरन्तः ॥ “चरति” इति ठक्प्रत्ययः । मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु ॥ “संक्षोभो भयचकितम्” इति शब्दार्णवः ॥
मोक्ष्यध्वे स्व[२१]र्गबन्दीनां वेणीबन्धानदूषितान् ।
शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥ ४७ ॥
रावणावग्रहक्लान्तमिति वागमृतेन सः ।
अ[२२]भिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे ॥ ४८ ॥
रावणेति ॥ स कृष्णो विष्णुः स एव मेघो नीलमेघश्च ॥ विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः । विश्रवःशब्दाच्छिवादित्वादणि विश्रवसः “विश्रवणरवणौ” इत्यन्तर्गणसूत्रेण विश्रवःशब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम् ॥ स एवावग्रहो वर्षप्रतिबन्धः । तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत् । इत्येवंरूपेण वागमृतेन वाक्सलिलेन ॥ “अमृतं यज्ञशेषे स्यात्पीयूषे सलिलेऽमृतम्” इति विश्वः ॥ अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥
पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥ ४९ ॥
पुरुहूतेति ॥ पुरुहूतप्रभृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः । द्रुमाः पुष्पैः स्वांशैर्वायुमिव । अनुययुः ॥ सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥
अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः ।
पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥ ५० ॥
अथेति ॥ अथ तस्य विशां पत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात्पुरुषः कश्चिद्दिव्यः पुमानृत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव ॥ तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥
तमेव पुरुषं विशिनष्टि-
हेमपात्रेति ॥ आद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम् । चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम् । हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोर्भ्यामादधानो वहन् । “अनल्पाग्निभिरूष्मपक्व ओदनश्चरुः” इति याज्ञिकाः ॥ प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः ।
वृषेव पयसां सारमाविष्कृतमुदन्वता ॥ ५२ ॥
प्राजापत्येति ।। नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं न तु वसिष्ठेन ॥ “प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप” इति रामायणात् ॥ तदन्नं पायसान्नम् । उदन्वतोदधिनाविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव ॥ “वासवो वृत्रहा वृषा” इत्यमरः ॥ प्रत्यग्रहीत्स्वीचकार ॥
अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि य[२५]त् ॥ ५३ ॥
अनेनेति ॥ तस्य राज्ञो दशरथस्यान्यैर्दुलभा असाधारणा गुणा अनेन कथिता व्याख्याताः । यद्यस्मात्त्रयो लोकास्त्रैलोक्यम् ॥ चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् ॥ तस्य प्रभवः कारणं विष्णुरपि तस्मिन्राज्ञि प्रसूतिमुत्पत्तिं चकमे कामितवान् । त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ॥
स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् ।
द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् । ॥ ५४ ॥
स इति ॥ स नृपः। चरुसंज्ञास्य संजाता चरुसंज्ञितम् । वैष्णवं तेजः पत्न्योः कौसल्याकैकेय्योः । द्यौश्च पृथिवी च द्यावापृथिव्यौ । “दिवसश्च पृथिव्याम्” इति चकाराद्दिव्शब्दस्य यावादेशः ॥ तयोर्द्यावापृथिव्योः । अह्नः पतिरहर्पतिः ॥ “अहरादीनां पत्यादिषु वा रेफः” इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः ॥ प्रत्यग्रमातपं बालातपमिव । विभेजे ॥ विभज्य ददावित्यर्थः ॥
पत्नीत्रये सति द्वयोरेव विभागे कारणमाह-
अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ ५५ ॥
अर्चितेति ॥ तस्य राज्ञः ॥ कौ पृथिव्यां सलति गच्छतीति कोसलः ॥ “सल गतौ” ॥ पचाद्यच् ॥ कुशब्दस्य पृषोदरादित्वाद्गुणः ॥ कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या ॥ “वृद्धेत्कोसलाजादाञ्ञङ्” इति ञ्यङ् । “यङश्चाप्” इति चाप् ॥ अत एव सूत्रे निर्देशात्कोसलशब्दो दन्त्यसकारमध्यमः ॥ अर्चिता ज्येष्ठा मान्या । केकयवंशजा कैकेयी । प्रियेष्टा । अतो हेतोरीश्वरो भर्ता नृपः मुमित्रां ताभ्यां कौसल्याकैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म । एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥
१ प्रवृत्तिम्; निवृत्तिम्. २ ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः ।
चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ ५६ ॥
ते इति ।। बहुज्ञस्य सर्वज्ञस्य । उचितज्ञस्येत्यर्थः । पत्युर्महीक्षितः क्षितीश्वरस्य । विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह ॥ चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्याकैकेय्यौ ॥ चरोर्यावर्धभागौ समभागी तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ । ताभ्यामर्धार्धभागाभ्याम् ॥ “पुंस्यर्धोऽर्धं समेंऽशके” इत्यमरः ॥ तां सुमित्रामयोजयतां युक्तां चक्रतुः । अयं च विभागो न रामायणसंवादी । तत्र चरोरर्धं कौसल्याया अवशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात् । किंतु पुराणान्तरसंवादो द्रष्टव्यः । उक्तं च नारसिंहे-“ते पिण्डप्राशने काले सुमित्रायै महीपतेः । पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः” इति ॥ एवमन्यत्रापि विरोधे पुराणान्तरात्समाधातव्यम् ॥
न चैवं सत्यपीर्ष्या स्यादित्याह-
सेति ॥ सा सुमित्रोभयोरपि । समान एकः पतिर्ययोस्तयोः सपत्न्योः ॥ “नित्यं सपत्न्यादिषु” इति ङीप् । नकारादेशश्च ॥ भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव । गण्डद्वयगतयोरिति भावः। प्रणयवती प्रेमवत्यासीत् ॥ सपत्न्योरित्यत्र समासान्तर्गतस्य पत्युरुपमानं वारणस्येति ॥
ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः ।
सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥ ५८ ॥
ताभिरिति ॥ ताभिः कौसल्यादिभिः प्रजानां भूत्या अभ्युदयाय । देवस्य विष्णोरंशः संभवः कारणं यस्य स गर्भः । सूर्यस्येमाः सौर्यः । ताभिः सौरीभिः ॥ “सूर्यतिष्य-” इत्युपधायकारस्य लोपः ॥ अमृता इत्याख्या यासां ताभिः । जलवहनसाम्यान्नाडीभिरिव । नाडीभिर्वृष्टिविसर्जनीभिर्दीधितिभिरपां विकारोऽम्मयो जलमयो गर्भ इव । दध्रे धृतः ॥ जातावेकवचनम् ॥ गर्भा दधिर इत्यर्थः ॥ अत्र यादवः-“तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने । शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने । आनन्दाश्च हि मेध्याश्च नूतनाः पूतना इति । चतुःशतं दृष्टिवाहास्ताः सर्वा अमृताः स्त्रियः” इति ॥
सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
अन्तर्गतफलारम्भाः सस्यानामिव संपदः ॥ ५९ ।।
संप्रति तासां स्वप्नदर्शनान्याह-
गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
जलजासिग[२८]दाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥ ६० ॥
गुप्तमिति ॥ सर्वास्ताः स्वप्नेषु । जलजः शङ्खः । जलजासिगदाशार्ङ्गचक्रैर्लाञ्छिता मूर्तयो येषां तैर्वामनैर्ह्रस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपं ददृशुः ॥
हेमेति ॥ किंचेति चार्थः । हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता । वेगेनाकृष्टाः पयोमुचो मेघा येन तेन । सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ॥
बिभ्रत्येति ॥ किंच । स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्न्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ॥
कृतेति ॥ किंच । दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः । परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृतिभिरुपतस्थिर उपासांचक्रिरे ॥
१ २ ३ ४ ५ ६ ७ ८ ९ताभ्य इति ॥ पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः ॥ “आख्यातोपयोगे” इत्यपादानत्वात्पञ्चमी ॥ तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन् । आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि ॥
विभक्तात्मा वि[३९]भुस्तासामेकः कुक्षिष्वनेकधा ।
उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ ६५ ॥
विभक्तेति ॥ एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु । प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव । अनेकधा विभक्तात्मा सन् । उवास ॥
अथा[४०]ग्र्यमहिषी राज्ञः प्रसूतिसमये सती ।
पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥ ६६ ॥
अथेति ॥ अथ राज्ञो दशरथस्य सती पतिव्रता । अग्र्या चासौ महिषी चाग्र्यमहिषी । कौसल्या । प्रसूतिसमये प्रसूतिकाले । ओषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम् ॥ “अपे क्लेशतमसोः” इति डप्रत्ययः ॥ ज्योतिरिव । तमोपहं तमोनाशकरं पुत्रं लेभे प्राप ॥
राम इत्यभिरामेण वपुषा तस्य चोदितः[४१] ।
नामधेयं गुरुश्चके जगत्प्रथममङ्गलम् ॥ ६७ ॥
राम इति ॥ अभिरमतेऽत्रेत्यभिरामं मनोहरम् ॥ अधिकरणार्थे घञ्प्रत्ययः ॥ तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे । अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥
रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥ ६८ ॥
रघ्विति ॥ रघुवंशस्य प्रदीपेन प्रकाशकेन । अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिबद्धा इवाभवन् ॥ महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ॥
श[४२]य्यागतेन रामेण माता शातोदरी बभौ ।
सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ ६९ ।।
कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ ७० ॥
कैकेय्या इति ॥ केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी ॥ “तस्यापत्यम्” इत्यणि कृते “केकयमित्रयुप्रलयानां यादेरियः” इतीयादेशः ॥ तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः । प्रश्रयो विनयः श्रियमिव । जनयित्रीं मातरमलंचक्रे॥
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
सम्यगा[४३]राधिता विद्या प्रबोधविनयाविव ॥ ७१ ॥
सुताविति ॥ सुमित्रा लक्ष्मणशत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोधविनयौ तत्त्वज्ञानेन्द्रियजयाविव । सुषुवे ॥
निर्दोषमभवत्सर्वमाविष्कृतगणं जगत् ।
अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥
निर्दोषमिति ॥ सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम् । आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् ॥ अत्रोत्प्रेक्षते-गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव ॥ स्वर्गो हि गुणवान्निर्दोषश्चेत्यागमः ॥ स्वर्गतुल्यमभूदित्यर्थः ॥
तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥ ७३ ॥
तस्येति ॥ चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति । पौलस्त्याद्रावणाच्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कैरपधूलिभिर्नभस्वद्भिर्वायुभिः । मिषेण । उच्छ्वसिता इव । इत्युत्प्रेक्षा ॥ श्वसेः कर्तरि क्तः ॥ स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः ॥ चतुर्दिगीशरक्षणं मूर्तिचतुष्टयप्रयोजनमिति भावः ॥
कृशानुरपधूमत्वात्प्र[४४]सन्नत्वात्प्रभाकरः ।
रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥ ७४ ॥
दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ ७५ ॥
दशाननेति ॥ तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः ॥ रामोदये सति तद्वध्यस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तमभूदित्यर्थः ॥
पुत्रेति ॥ पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः। तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः ॥ साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥
संतानकमयी वृष्टिर्भवने चा[४७]स्य पेतुषी ।
सन्मङ्गलोपचाराणां सैवादिरचनाभवत् ॥ ७७ ॥
संतानकेति ॥ अस्य राज्ञो भवने संतानकानां कल्पवृक्षकुसुमानां विकारः संतानकमयी वृष्टिश्च पेतुषी पपात ॥ “क्वसुश्च” इति क्वसुप्रत्ययः । “उगितश्च” इति ङीप् ॥ सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाभवत् ॥
कुमाराः कृतसंस्कारास्ते धात्रीस्त[४८]न्यपायिनः ।
आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ ७८ ॥
कुमारा इति ॥ कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातॄणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे ॥ कुमारवृद्ध्या पिता महान्तमानन्दमवापेत्यर्थः ॥ कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ॥
स्वाभाविकमिति ॥ तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया । हविर्भुजामग्नीनां सहजं तेजो हविषाज्यादिकेनेव । मुमूर्छ ववृधे । निसर्गसंस्काराभ्यां विनीता इत्यर्थः ॥ परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ ८० ॥
परस्परेति ॥ परस्परमविरुद्धा अविद्विष्टाः । सौभ्रात्रगुणवन्त इत्यर्थः । ते कुमारास्तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव ॥ सहजविरोधानामप्यृतूनां सहावस्थानसंभावनार्थं देवविशेषणम् ॥ अलमत्यन्तमुद्द्योतयामासुः प्रकाशयामासुः ॥ सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ॥
समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ ८१ ॥
समान इति ॥ शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः ॥ “नद्यृतश्च” इति कब्न भवति । वन्दिते भ्रातुरिति निषेधात् ॥ तेषां भावः सौभ्रात्रम् ॥ युवादित्वादण् । तस्मिन्समाने चतुर्णां तुल्येऽपि यथोभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः ॥ “द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” इत्यभिव्यक्तार्थे निपातः ॥ क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ॥
तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ ८२ ॥
तेषामिति ॥ तेषां चतुर्णां मध्ये द्वयोर्द्वयोः । रामलक्ष्मणयोर्भरतशत्रुघ्नयोश्चेत्यर्थः । यथा वायुविभावस्वोर्वातवह्न्योरिव । चन्द्रसमुद्रयोरिव च । ऐक्यमैकमत्यं कदाचन न बिभिदे ॥ एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते ॥ सहजः सहकारी हि वह्नेर्वायुः । चन्द्रवृद्धौ हि वर्धते सिन्धुस्तत्क्षये च क्षीयत इति ॥
ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ ८३ ॥
त इति ॥ प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च । निदाघान्ते ग्रीष्मान्ते । श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः । नातिशीतोष्णा इत्यर्थः । दिवसा इव । प्रजानां मनो जह्रुः ॥
स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
धर्मार्थकाममोक्षाणामवतार इवा[५१]ङ्गवान् ॥ ८४ ॥
स इति ॥ स चतुर्धा ॥ “संख्याया विधार्थे धा” इत्यनेन धाप्रत्ययः ॥ व्यस्तो विभक्तः पृथिवीपतेर्दशरथस्य प्रसवः संतानः । चतुर्धाङ्गवान्मूर्तिमान्धर्मार्थकाममोक्षाणामवतार इव बभौ ॥
गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥ ८५ ॥
गुणैरिति ॥ गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरम् । चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम् ॥ “तद्धितार्थ-” इत्यादिनोत्तरपदसमासः ॥ तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव । आराधयामासुरानन्दयामासुः ॥
सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोभिरंशैस्तदीयैः
पतिरवनिपतीनां तैश्च[५२]काशे चतुर्भिः ॥ ८६ ॥
सुरगज इति ॥ भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव । पणबन्धेन फलसिद्ध्या व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव । युगवद्दीर्घैश्चतुर्भिर्दोर्भिर्भुजैर्हरिर्विष्णुरिव । तदीयैर्हरिसंबन्धिभिरंशैरंशभूतैश्चतुर्भिस्तैः पुत्रैरवनिपतीनां पती राजराजो दशरथश्चकाशे विदिद्युते ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रामावतारो नाम दशमः सर्गः।
- ↑ सञ्ज्योति:
- ↑ ते.
- ↑ प्रफुल्ल.
- ↑ बिभ्रस्तम् ; बिभ्रतम्.
- ↑ अपां मध्यात्; पयोमध्यात्.
- ↑ अदयास्पृष्टम्.
- ↑ कालावस्था.
- ↑ चतुर्युगा.
- ↑ याथात्म्यम्.
- ↑ त्वदावेशित.
- ↑ अपि.
- ↑ यदा.
- ↑ तोयानि.
- ↑ दूरेण; रूपेण.
- ↑ अनुवादिना; अनुकारिणा.
- ↑ पद.
- ↑ इव.
- ↑ परिवृतः.
- ↑ च.
- ↑ सह्यम्.
- ↑ सुरबन्दीनाम्.
- ↑ अभिषिच्य.
- ↑ हेमपात्रीकृतम्.
- ↑ आददानः.
- ↑ यः.
- ↑ अपि.
- ↑ निष्पन्दलेखयोः.
- ↑ खड्गगदा; शङ्खगदा.
- ↑ हेमपत्र.
- ↑ विचिन्वता.
- ↑ उह्यमानम् .
- ↑ वेगात्कृष्टपयोमुचा.
- ↑ कौस्तुभं न्यासम्.
- ↑ उपास्यमानम्.
- ↑ महर्षिभिः.
- ↑ समुपस्थितम्.
- ↑ अथ.
- ↑ कृतार्थम्.
- ↑ प्रभुः.
- ↑ अग्रमहिषी.
- ↑ नोदितः.
- ↑ शय्याम्.
- ↑ आगमिता.
- ↑ दिवाकरः.
- ↑ प्रवेशानाम्.
- ↑ प्रारम्भम्.
- ↑ तस्य.
- ↑ स्तनपायिनः
- ↑ कर्मणाम्.
- ↑ अमूर्छत्.
- ↑ अङ्गभाक्.
- ↑ चकासे.