रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

विकिस्रोतः तः
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/अष्टादशः सर्गः(वंशानुक्रमः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)
कालिदासः
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

एकोनविंशः सर्गः।

    मनसो मम संसारवन्धमुच्छेत्तुमिच्छतः ।
    रामचन्द्रपदाम्भोजयुगलं निबिडायताम् ।।

  अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
  शिश्रिये श्रु[१]तवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥

 अग्निवर्णमिति ॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥

  तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः।
  सौधवासमुटजेन वि[२]स्मृतः संचिकाय फलनिःस्पृहस्तपः ॥२॥

 तत्रेति ॥ तत्र नैमिषे तीर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं विस्मृतो विस्मृतवान्सः ॥ कर्तरि क्तः ॥ फले स्वर्गादिफले निःस्पृहस्तपः संचिकाय संचितवान् ।

  लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी ।
  भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥३॥

 लब्धेति ॥ तत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप । अक्लेशेनापालयदित्यर्थः॥ कुतः । हि यस्माद्भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता । प्रसाधयितुं न। प्रसाधनं कण्टकशोधनम् ॥ अलंकृतिर्धन्यन्यते ॥ तथा च । यथालंकृता युवतिः केवलमुपभुज्यते तद्वदिति भावः॥

  सोऽधिकारमं[३]भिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः।
  संनि[४]वेश्य सचिवेष्वतःपरं स्त्रीविधेयनवयौवनोऽभवत् ॥ ४॥

 स इति ॥ अभिकः कामुकः॥ “अनुकाभिकाभीकः कमिता" इति निपातः ॥ "कम्रः कामयिताभीकः कमनः कामनोऽभिकः" इत्यमरः ॥ सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान्स्वयमवर्तयदकरोत् ॥ अतः

परं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत् । स्त्र्यासक्तोऽभूदित्यर्थः॥

  कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
  ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः॥५॥

 कामिनीति ॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्ध्दिः पूर्वस्मादधिकसंभार उत्तर उत्सवः । ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत् ॥ उत्तरमुत्तरमधिका तस्योत्सवपरंपरा वृत्तेत्यर्थः ॥

  इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् ।
  [५]न्तरेव विहरन्दिवानिशं न व्यपैक्षत स[६]मुत्सुकाः प्रजाः॥६॥

इन्द्रियेति ॥ इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवानिशमन्तरेव विहरन्समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥

  गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
  तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥७॥

 गौरवादिति ॥ जातु कदाचिन्मन्त्रिणां गौरवाद्गुरुत्वाद्धेतोः। मन्त्रिवचनानुरोधादित्यर्थः । प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम् । न तु मुखावलोकनप्रदानेनेत्यर्थः॥

  तं कृतप्रणतयोऽनुजीविनः को[७]मलात्मनखरागरूषितम् ।
  भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८॥

 तमिति॥कोमलेन मृदुलेनात्मनखानां रागेणारुण्येन रूषितं छुरितम् । अतएव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम्। तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे॥

  यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः ।
  गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः॥९॥

 यौवनेति ॥ विगाढमन्मथ: प्रौढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां

विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि यासां ताः। तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गूढान्यन्तरितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहत । स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः।

  तत्र सेकहृतलो[८]चनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
  अङ्गनास्तमधिकं व्य[९]लोभयन्नर्पितप्र[१०]कृतकान्तिभिर्मुखैः ॥१०॥

 तत्रेति ॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि । रागस्य परिपाटलोऽङ्गगुणः ॥ “गुणे शुक्लादयः पुंसि" इत्यमरः ॥ धौतो रागपरिपाटलो येषां ते तथोक्ता अधरा येषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः । अतएवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन्प्रलोभितवत्यः ॥

  घ्राणकान्तमधुगन्धक[११]र्षिणीः पानभूमिरचनाः प्रि[१२]यासखः ।
  अभ्यपद्यत स वा[१३]सितासखः पुष्पिताः कमलिनीरिव द्विपः॥११॥

 घ्राणेति ॥ प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीमनोहारिणीः। रच्यन्त इति रचनाः । पानभूमय एव रचनाः । रचिता पानभूमय इत्यर्थः । वासितासखः करिणीसहचरः ॥ “वासिता स्त्रीकरिण्योश्च" इत्यमरः ॥ द्विपः पुष्पिता: कमलिनीरिव । अभ्यपद्यताभिगतः ॥

  सातिरेकमदकारणं रहस्तेन दत्तमभिलेषुरङ्गनाः।
  ताभिरप्युपहृतं मुखासवं सोऽपिबद्धकुलतुल्यदोह[१४]दः॥ १२ ॥

 सातिरेकेति ॥ अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवमभिलेषुः । बकुलेन तुल्यदोहदस्तुल्याभिलाषः ॥ "अथ दोहदम् । इच्छाकाङ्क्षा स्पृहेहा तृट्" इत्यमरः ॥ बकुलद्रुमस्याङ्गनामद्यार्थित्वात्तुल्याभिलाषत्वम् ॥ सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ॥

  अङ्कमङ्कपरिवर्तनोचिते तस्यनिन्यतुरशून्यतामुभे।
  वल्लकी च हृदयंगमस्व[१५]ना व[१६]ल्गुवागपि च वामलोचना ॥१३॥

 अङ्कमिति ॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहारार्हे उभे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः ॥ के उभे । हृदयंगमस्वना मनोहरध्वनिर्वल्लकी वीणा च । वल्गुवाङ्मधुरभाषिणी वामलोचना कामिन्यपि च । हृदयं गच्छतीति हृदयंगमः ॥ खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः ॥ अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः॥

  स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो ह[१७]रन्मनः ।
  नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्व[१८]लज्जयत् ॥ १४ ॥

 स इति ॥ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तो मनो हरन् । नर्तकीनामिति शेषः । सोऽग्निवर्णोऽभिनयातिलङ्घिनीः । अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीविलासिनीः॥ शिल्पिनि ष्वुन्" इति वुन्प्रययः । “षिद्गौरादिभ्यश्च" इति ङीष् ॥ "नर्तकीलासिके समे" इत्यमरः ॥ गुरुषु नाट्याचार्येषु पार्श्ववर्तिषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ।।

  चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् ।
  प्रेमदत्तवद[१९]नानिलः पिबन्न[२०]त्यजीवदमरालकेश्वरौ ॥१५॥

 चार्विति ॥ किंच । चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमावर्तनप्रयासात्स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन् । अमराणामलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्याजीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः ॥ इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः॥

  तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः।
  वल्लभाभिरुपसृत्य चक्रिरे सा[२१]मिभुक्तविषयाः समागमाः ॥१६॥

तस्येति ॥ उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रियार्थेषु सङ्गिन आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे । यथेष्टं भुक्तश्चेत्तर्ह्ययं निस्पृहः सन्नस्मत्समीपं नायास्यतीति भावः ॥ अत्र गोनर्दीयः-“ संधिर्द्विविधः । सावरणः प्रकाशश्च । सावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि" इति ॥ " इतः स्वयमुपसृत्य विशेषार्थं तत्र स्थितोऽनुपजापं स्वयं संधेयः" इति वात्स्यायनः ॥ अन्यत्र गतं कथंचित्संधाय पुनरनुपगमायार्धोपभोगेनानिवृत्तवृष्णं चक्रुरित्यर्थः ।।

  अङ्गलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
  मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः॥१७॥

अङ्गुलीति ॥ सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्नङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रूविभङ्गेन भ्रूभेदेन कुटिलं वक्रं वीक्षितं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप । अपराधिनो दण्ड्या इति भावः॥

  तेन दूतिवि[२२]दितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
  शुश्रुवे प्रियजनस्य कातरं विप्रलम्भप[२३]रिशङ्किनो वचः॥ १८॥

 तेनेति ॥ सुरतस्य वारो वासरः । तस्य रात्रिषु दूतीनां विदितं यथा तथा पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनो विरहशङ्किनः। प्रियश्चासौ जनश्च प्रियजनः । तस्य कातरं वचः प्रियानयनेन मां पाहीत्येवमादि दीनवचनं शुश्रुवे ॥

  लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
  वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः॥ १९॥

 लौल्यमिति ॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीपु वेश्यास्वसुलभासु दुर्लभामु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य । अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवर्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्पुरालिखन्कथंचिद्वर्तते स्मावर्तत ॥

  प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् ।
  निन्युरुत्सवविधिच्छलेन तं देव्य उ[२४]ज्झितरुषः कृतार्थताम् ॥२०॥

 प्रेमेति ॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्वैरादायतात्प्रवृद्धान्मदनाच्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरोषाः सत्यस्तं महीक्षितमुत्सवविधिच्छलेन महोत्सवकर्मव्याजेन । कृतोऽर्थः प्रयोजनं येन स कृतार्थः । तस्य भावस्तत्तां निन्युः । मदनमहोत्सवव्याजान्नीतेन तेन स्वमनोरथं कारयामासुरित्यर्थः॥

  प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः।
  प्राञ्जलिःप्रणयिनीःप्रसादयन्सोऽदुनोत्प्र[२५]णयमन्थरः पुनः॥२१॥

 प्रातरिति ॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना ॥ दृशेर्ण्यन्ताल्ल्युट् ॥ कृता खण्डनव्यथा यासां तास्तथोक्ताः । खण्डिता इयर्थः ॥

तदुक्तम्-"ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता" इति ॥ प्रणयिनी प्रञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः । अत्र शिथिलप्रयत्नः सन्नित्यर्थः । पुनरदुनोत्पर्यतापयत् ॥

  स्वप्नकीर्तितविपक्षमङ्गनाःप्रत्यभैत्सुरवदन्त्य एव तम् ।
  प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः॥२२॥

 स्वप्नेति ॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं तमग्निवर्णम् । अवदन्त्य एव । त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव । प्रच्छदस्यास्तरणपटस्यान्ते मध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलम्वनैः प्रत्यभैत्सुः प्रतिचक्रुः । तिरश्चक्रुरित्यर्थः ॥

  क्लृप्तपुष्पशयनॉंल्लताग्रहानेत्य दूतिकृतमार्गदर्शनः ।
  अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥ २३॥

 क्लृप्तेति ॥ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन् । क्लृप्तपुष्पशयनॉंल्लतागृहानेत्यावरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तत्प्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत् । परिजनश्चासावङ्गना चेति विग्रहः। अत्र ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्गभयाध्रस्वत्वं कृतम् । “अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्" इत्युपदेशात् ॥

  नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते ।
  लोलुपं न[२६]नु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः॥२४॥

 नामेति ॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम् । तत्परिहासकारणमिति शेषः । तदपि काङ्क्ष्यते॥ननु बत मम मनो लोलुपं गृध्रुः । इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः ॥ “गोत्रं नाम्नि कुलेऽचले” इति यादवः ॥ तन्नामलाभे सति तद्भाग्यमपि काङ्क्षिणो मनः । अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ।।

  चूर्णबभ्रु ल<ref>लुलितं स्रगाकुलम् ; ललितं स्रगाकुलम्.</refलितस्रगाकुलं छिन्नमेखलमलक्तकाङ्कितम् ।
  उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत्॥२५॥

 चूर्णेति ॥ चूर्णबभ्रु चूर्णैर्व्यानतकरणैरधोमुखावस्थितायाः स्त्रियाश्चिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम् ॥ "बभ्रु स्यात्पिङ्गले त्रिषु" इत्यमरः ॥ लुलितस्रगाकुलं करिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाद्गलितमेखलम् । अलक्तकाङ्कितं धैनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लाक्षारागरुषितं शयनम् । कर्तृ। उत्थितस्य । शयनादिति भावः । विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि । सुरतवन्धविशेषानित्यर्थः। अपावृणोत्स्फुटीचकार ॥ व्यानतादीनां लक्षणं रतिरहस्ये-"व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः॥ भूगतस्तनभुजास्यमस्तकामुन्नतस्फिचमधोमुखीं स्त्रियम् । क्रामति स्वकरकृष्टमेहने वल्लभे करिपदं तदुच्यते ॥ योषिदेकचरणे समुत्थिते जायते हि हरिविक्रमाह्वयः ॥ न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये" इति ॥

  स स्वयं चरणरागमादधे योषितां न[२७] च तथा स[२८]माहितः।
  लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥ २६ ॥

 स इति ॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास ॥ किंच । श्लथांशुकैः । प्रियाङ्गस्पर्शादिति भावः । निम्बिभिर्नितम्बवद्भिर्मेखलागुणपदैर्जघनैः ॥ “पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः" इत्यमरः ॥ लोभ्यमाननयन आकृष्यमाणदृष्टिः सन् । तथा समाहितोऽवहितो नादधे यथा सम्यग्रागरचना स्यादिति भावः ॥

  चु[२९]म्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने ।
  विघ्नितेच्छमपि तस्य सर्वतो म[३०]न्मथेन्धनमभूद्वधूरतम् ॥ २७ ॥

 चुम्बन इति ॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम् । रशनाविघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धि वारयतीति हस्तरोधि । इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥

  दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसं[३१]स्थितः ।
  छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखी[३२]श्चकार सः॥२८॥

 दर्पणेष्विति ॥ सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्वं परिहासपूर्वमनुपृष्ठं तासां पृष्ठभागे संस्थितः सन् । स्मितेन मनोज्ञया छायया दर्पणगतेन स्वप्रतिबिम्बेन ह्रीनिमीलितमुखीर्लज्जावनतमुखीश्चकार । तमागतं दृष्ट्वा लज्जिता इत्यर्थः ॥

  कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः।
  प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययवि[३३]सर्गचुम्बनम् ॥२९॥

 कण्ठेति ॥ प्रियाः शयनादुत्थितं तमग्निवर्णं कण्ठसक्तं कण्ठार्पितं मृदुबाहुबन्धनं यस्मिंस्तत् । अग्रपादयोः स्वकीययोर्न्यस्ते पादतले यस्मिंस्तत् । निशात्यये विसर्गो विसृज्य गमनं तत्र यच्चुम्बनं तत्प्रार्थयन्त ॥ "दुह्याच्-" इत्यादिना द्विकर्मकत्वम् । अत्र गोनर्दीयः-"रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः" इति ॥

  प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोभिनम् ।
  पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम्॥३०॥

 प्रेक्ष्येति ॥ युवा सोऽग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशक्रशोभिनं दर्पणतलस्थं दर्पणसंक्रान्तमात्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्नं परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥

  मित्रकृत्यम[३४]पदिश्य पा[३५]र्श्वतः प्रस्थितं तमनवस्थितं प्रियाः।
  वि[३६]द्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः ॥३१॥

 मित्रेति ॥ मित्रकृत्यं सुहृत्कार्यमपदिश्य व्याजीकृत्य पार्श्वत: प्रस्थितमन्यतो गन्तुमुद्युक्तमनवस्थितमवस्थातुमक्षमं तमग्निवर्णं प्रिया हे शठ हे गूढविप्रियकारिन्॥ "गूढविप्रियकृच्छठः" इति दशरूपके ॥ तव पलायनस्य छलान्यञ्जसा तत्त्वतः॥ "तत्त्वे त्वद्धाञ्जसा द्वयम्" इसमरः ॥ विद्म जानीम ॥ " विदो लटो वा " इति वैकल्पिको मादेशः ॥ इति । उक्त्वेति शेषः । कचग्रहैः केशाकर्षणै रुरुधुः॥ अत्र गोनर्दीय:- " ऋतुस्नाताभिगमने मित्रकार्ये तथापदि । त्रिष्वेतेषु प्रियतमः क्षन्तव्यो वारगम्यया" इति । विरक्तलक्षणप्रस्तावे वात्स्यायनः - " मित्रकृत्यं चापदिश्यान्यत्र शेते" इति ॥

  तस्य निर्दय[३७]रतिश्रमालसाः कण्ठसूत्रम[३८]पदिश्य योषितः।
  अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तच[३९]न्दनम् ॥ ३२ ॥

 तस्येति ॥ निर्दयरतिश्रमेणालसा निश्चेष्टा योषितः कण्ठसूत्रमालिङ्गनविशेषमपदिश्य व्याजीकृत्य पीवरस्तनाभ्यां विलुप्तचन्दनं प्रमृष्टाङ्गरागं तस्याग्निवर्णस्य बृहद्भुजान्तरमध्यशेरत वक्षःस्थले शेरते स्म ॥ कण्ठसूत्रलक्षणं तु - " यत्कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निबिडोपगूहात् । परिश्रमार्थं शनकैर्विदग्धास्तत्कण्ठसूत्रं प्रवदन्ति सन्तः" ॥ इदमेव रतिरहस्ये स्तनालिङ्गनमित्युक्तम् । तथा च- "उरसि कमितुरुच्चैरादिशन्ती वराङ्गी स्तनयुगमुपधत्ते यत्स्तनालिङ्गनं तत्" इति।।

  संगमाय निशि गूढचारिणं चारदूतिकथितं पु[४०]रोगताः ।
  वञ्चयिष्यसि कु[४१]तस्तमोवृतः कामुकेति चकृषुस्तमङ्गनाः।। ३३ ॥

 संगमायेति ॥ संगमाय सुरतार्थं निशि गूढमज्ञातं चरतीष्टगृहं प्रति गच्छतीति गूढचारी । तं चारदूतिकथितम् । चरन्तीति चारा गूढचारिण्यः ॥ “ज्वलिति कसन्तेभ्यो णः" इति णप्रत्ययः ॥ चाराश्च ता दूत्यश्च चारदूतयः । ताभिः कथितं निवेदितं तमग्निवर्णमङ्गनाः पुरोऽग्रे गताः । अवरुद्धमार्गाः सत्य इत्यर्थः ।

हे कामुक, तमसा वृतो गूढः सन्कुतो वञ्चयिष्यसीति । उपालभ्येति शेषः । चकृषुः ॥ स्ववासं निन्युरित्यर्थः॥

  योषितामुडुपतेरिवार्चिषां स्प[४२]र्शनिर्वृतिमसाव[४३]वाप्नुवन् ।
  आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः ॥ ३४ ॥

 योषितामिति ॥ उडुपतेरिन्दोरर्चिषां भासामिव ॥ “ज्वाला भासो न पुंस्यर्चिः" इत्यमरः ॥ योषितां स्पर्शनिर्वृतिं स्पर्शसुखमवाप्नुवन् । किंच । रात्रिषु जागरपरः । दिवा दिवसेषु शेते स्वपितीति दिवाशयः ॥ " अधिकरणे शेतेः " इत्यच्प्रत्ययः ॥ असावग्निवर्णः कुमुदाकरस्योपमा साम्यमारुरोह प्राप ॥

  वेणुना दशनपीडिताधरा वीणया न[४४]खपदाङ्कितोरवः ।
  शि[४५]ल्पकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन्।।३५

 वेणुनेति ॥ दशनैः पीडिताधरा दष्टोष्ठा: । नखपदैर्नखक्षतैरङ्कितोरवश्चिह्नितोत्सङ्गाः । व्रणिताधरोरुत्वादक्षमा इत्यर्थः । तथापि वेणुना वीणया चेत्युभयेन । अधरोरुपीडाकारिणेत्यर्थः । वेजिताः पीडिताः शिल्पं वेणुवीणावाद्यादिकं कुर्वन्तीति शिल्पकार्यो गायिकाः ॥ “कर्मण्यण्" इत्यण् । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ तं विजिह्मनयनाः कुटिलदृष्टयः सत्यः । स्वं चेष्टितं जानन्नपि वृथा नः पीडयतीति साभिप्रायं पश्यन्त्य इत्यर्थः । व्यलोभयन् । तथाविधालोकनमपि तस्याकर्षकमेवाभूदिति भावः ।।

  अङ्गसत्त्ववच[४६]नाश्रयं मिथः स्त्रीषु नृत्यमु[४७]पधाय दर्शयन् ।
  स प्रयोगनिपु[४८]णैः प्र[४९]योक्तृभिः सं[५०]जघर्ष सह मित्रसंनिधौ ।। ३६ ॥

 अङ्गेति ॥ अङ्ग हस्तादि । सत्त्वमन्तःकरणम् । वचनं गेयं चाश्रयः कारणं यस्य तदङ्गसत्त्ववचनाश्रयम् । आङ्गिकसात्त्विकवाचिकरूपेण त्रिविधमित्यर्थः॥ यथाह भरतः-“ सामान्याभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः" इति ॥ नृत्यमभिनयं मिथो रहसि स्त्रीषु नर्तकीषूपधाय निधाय दर्शयन् । स मित्रसंनिधौ सहचरसमक्षं प्रयोगेऽभिनये निपुणैः कृतिभिः प्रयोक्तृभिरभिनयार्थप्रकाशकैर्नाटयाचार्यैः सह संजघर्ष संघर्षं कृतवान् ॥ संघर्षः पराभिभवेच्छा ॥ इतः प्रभृति तस्य कृत्रिमाद्रिषु विरचितविहारप्रकारमाह-

  अं[५१]सलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसागरागिणः ।
  प्रावृषि प्रमदबर्हिणेष्वभूत्कृत्रिमादिषु विहारवि[५२]भ्रमः ॥ ३७॥

 अंसेति ॥ प्रावृष्यंसलम्बिन्यः कुटजानामर्जुनानां ककुभानां च स्रजो यस्य तस्य । नीपानां कदम्बकुसुमानां रजसाङ्गरागिणोऽङ्गरागवतस्तस्यानिवर्णस्य प्रमदबर्हिणेषून्मत्तमयूरेषु कृत्रिमाद्रिषु विहार एव विभ्रमो विलासोऽभूदभवत् ॥

  विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुमबलाः स तत्वरे ।
  आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरम् ॥ ३८॥

 विग्रहादिति ॥ प्रावृषीत्यनुषज्यते । सोऽग्निवर्णो विग्रहात्प्रणयकलहाच्छयने पराङ्मुखीरबला अनुनेतुं न तत्वरे त्वरितवान् । किंतु घनशब्देन धनगर्जितेन विक्लवाश्चकिता अतएव विवृत्य स्वयमेवाभिमुखीभूय भुजान्तरं विशतीः प्रविशन्तीः॥ "आच्छीनद्योर्नुम्" इति नुम्विकल्पः ॥ ता अबला आचकाङ्क्ष । खयंग्रहादेव सांमुख्यमैच्छदित्यर्थः॥

  कार्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः ।
  अन्वभुङ्क्त सुरतश्र[५३]मापहां मेघमुक्तवि[५४]शदां स च[५५]न्द्रिकाम् ॥३९॥

 कार्तिकीष्विति ॥ कार्तिकस्येमाः कार्तिक्यः ॥ “ तस्येदम्" इत्यण् ॥ तासु यामिनीषु निशासु । शरद्रात्रिष्वित्यर्थः । सवितानान्युपरिवस्त्रावृतानि हर्म्याणि भजतीति सवितानहर्म्यभाक् ॥ भजेर्ण्विप्रत्ययः॥ हिमवारणार्थं सवितानमुक्तम् । ललिताङ्गनासखः सोऽग्निवर्णः सुरतश्रमापहां मेघमुक्ता चासौ विशदा च ताम् ॥ बहुलग्रहणात्सविशेषणसमासः ॥ चन्द्रिकामन्वभुङ्क्त ॥

  सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बमिव हंसमेखलम् ।
  स्वप्रियाविलसितानुकारिणीं सौधजालविवरैर्व्यलोकयत् ॥४०॥

 सैकतमिति ॥ किंच । हंसा एव मेखला यस्य तत्सैकतं पुलिनं श्रोणिबिम्बमिव । विवृण्वतीम् । अतएव स्वप्रियाविलसितान्यनुकरोतीवि तद्विषां सरयूम् । सौधस्य जालानि गवाक्षाः । त एव विवराणि । तैर्व्य॑लोकयत् ॥

  मर्मरैरगुरुधूपगन्धिभिर्व्य[५६]क्तहेमरशनैस्तमेकतः ।
  जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः॥४१॥

 मर्मरैरिति॥ मर्मरैः संस्कारविशेषाच्छब्दायमानैः॥ “अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्" इत्यमरः ॥ अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लोल्याल्लक्ष्यमाणकनकमेखलागुणैर्हेमनैर्हेमन्ते भवैः ॥ “ सर्वत्राण्च तलोपश्च" इति हेमन्तशब्दादण्प्रत्ययस्तलोपश्च ॥ निवसनैरंशुकैः सुमध्यमाः स्त्रिय एकतो नितम्बैकदेश आग्रथनमोक्षयोर्निवीबन्धविस्रंसनयोर्लोलुपमासक्तं तं जह्रुराचकृषुः ॥

  अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु ।
  तस्य सर्वसुरतान्तरक्षमाः सा[५७]क्षितां शिशिररात्रयो ययुः।।४२॥

 अर्पितेति ॥ निवाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्तिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः ॥ अत्रानिमिषदृष्टित्वं च गम्यते ॥ सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्त्वाद्दीर्घकालत्त्वाच्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः । विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः॥

  दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ।
  अन्वनैषु[५८]रवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः॥४३॥

 दक्षिणेनेति ॥ अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्यावधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः । तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ।।

  ताः[५९] स्वमङ्कमधिरोप्य दोलया प्रेङ्ख[६०]यन्परिजना[६१]पविद्धया।
  मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः॥४४॥

 ता इति । ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया

संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन्भयच्छलात्पतनभयमिषाद्बाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप । स्वयंग्रहाश्लेषसुखमन्वभूदित्यर्थः॥

  तं पयोधरनिषिक्तचन्दनैर्मौक्तिकप्रथितचारुभूषणैः ।
  ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेख[६२]लैः प्रियाः॥४५॥

 तमिति ॥ प्रियाः पयोधरेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः । मौक्तिकैर्ग्रथितानि प्रोतानि चारुभूषणानि येषु तैः । मुक्तापायाभरणैरित्यर्थः । श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविघिभिरुष्णकालोचितनेपथ्यविधानैः । शीतलोपायैरित्यर्थः । तमग्निवर्णं सिषेविरे॥

  यत्स ल[६३]ग्नसहकारमासवं रक्तपाटलसमागमं पपौ।
  तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥ १६ ॥

 यदिति ॥ सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो यस्मिंस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपी । इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तापगमात्कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ।।

  एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः।
  आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवा[६४]हितः॥४७॥

 एवमिति ॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान् । अयमृतुरिदानीं वर्तत इति ज्ञापितान् । ऋतून्वर्षादीनत्यवाहयदगमयत् ॥

  तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवः ।
  आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥१८॥

 तमिति ॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः । रतिरागसंभव आमयो व्याधिस्तु । क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शापश्चन्द्रमिव । अक्षिणोदकर्शयत् । शापोऽपि रतिरागसंभव इति । अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप । स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ।।

  दृष्टदोषमपि तन्न सो[६५]ऽत्यजत्सङ्गवस्तु भिषजाभ[६६]नाश्रवः ।
  स्वादुभिस्तु[६७] विषयैर्हृतस्ततो दुःखमिन्द्रियगणो नि[६८]वार्यते ॥१९॥

 दृष्टेति ॥ भिषजा वैद्यानामनाश्रवो वचसि न स्थितः ॥ “वचने स्थित आश्रवः"इत्यमरः ॥ अविधेय इत्यर्थः । स दृष्टदोषमपि । रोगजननादिति शेषः । तत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत् । तथाहि । इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते । यदि वार्येतेति शेषः । दुस्त्यजाः खलु विषया इत्यर्थः ॥

  तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृ[६९]दुस्वना।
  रा[७०]जयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥५०॥

 तस्येति ॥ तस्य राज्ञः पाण्डुवदना । अल्पभूषणा परिमिताभरणा । सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना । मृदुस्वना हीनस्वरा । राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन या परिहानिः क्षीणावस्था सा । कामयते विषयानिच्छति कामयानः॥ केमर्णिङन्ताच्छानच् । “अनित्यमागमशासनम्" इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि-"कामयान शब्दः सिद्धोऽनादिश्च' इति ॥ तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययो प्राप । कालकृतो विशेषोऽवस्था ॥"विशेषः कालिकोऽवस्था" इत्यमरः ॥

  व्योम पश्चिमकलास्थि[७१]तेन्दु वा पङ्कशेषमिव धर्मपल्वलम् ।
  राज्ञि तत्कुलमभूक्षयातुरे वामनार्चिखि दीपभाजनम् ॥ ५॥

 व्योमेति ॥ राज्ञिक्षयातुरे सति तत्कुलं रघुकुलं पश्चिमकलायां स्थित इन्दुर्यस्मिंस्तत्कलावशिष्टेन्दु व्योम वा व्योमेव ॥ वाशब्द इवार्थे । यथाह दण्डी-“इववद्वायथाशब्दौ” इति ॥ पङ्कशेषं घर्मपल्वलमिव । वामनार्चिरल्पशिखं दीपभाजनं दीपपात्रमिवाभूत् ॥

  बा[७२]ढमेष[७३] दिवसेषु पार्थिवः कर्म साधयति पु[७४]त्रजन्मने ।
  इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः ॥५२॥

 बाढमिति ॥ बाढं सत्यमेष पार्थिवो दिवसेषु पुत्रजन्मने पुत्रोदयार्थं कर्म जपादिकं साधयति । इत्येवमदर्शितरुजो निगृहितरोगाः सन्तोऽस्य राज्ञो मन्त्रिणोऽघशङ्किनीर्व्यसनशङ्किनीः प्रजाः शश्वदूचुः॥

  स त्वनेकवनितासखोऽपि सन्पावनीमनवलोक्य संततिम् ।
  वैद्ययत्नपरिभाविनं गदं न[७५] प्रदीप इव वायुमत्यगात् ॥ ५३ ॥

 स इति ॥ स त्वग्निवर्णोऽनेकवनितासखः सन्नपि । पावनी पित्रर्णमोचनीं संततिमनवलोक्य । पुत्रमनवाप्येत्यर्थः । वैद्ययत्नपरिभाविनं गदं रोगम् । प्रदीपो वायुमिव । नात्यगान्नातिचक्राम । ममारेत्यर्थः॥

  तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा।
  रोगशान्तिमपदिश्य मन्त्रिणः संभृते शिखिनि गूढमादधुः॥५४॥

 तमिति ॥ पश्चिमक्रतुविदान्त्येष्टिविधिज्ञेन पुरोधसा संगताः समेता मन्त्रिणो गृहोपवन एव गृहाराम एव ॥ “आरामः स्यादुपवनम्" इत्यमरः॥ रोगशान्तिमपदिश्य शान्तिकर्म व्यपदिश्य तमग्निवर्णं संभृते समिद्धे शिखिन्यग्नौ गूढमप्रकाशमादधुर्निदधुः॥

  तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी।
  साधु दृ[७६]ष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियम् ।। ५५ ।।

 तैरिति ॥ आशु शीघ्रं कृतः प्रकृतिमुख्यानां पौरजनप्रधानानां संग्रहः संनिपातनं यैस्तादृशैस्तैर्मन्त्रिभिः साधु निपुणं दृष्टशुभगर्भलक्षणा परीक्षितशुभगर्भचिह्रा तस्याग्निवर्णस्य सहधर्मचारिणी नराधिपश्रियं प्रत्यपद्यत राजलक्ष्मीं प्राप ॥

  तस्यास्तथाविधनरेन्द्रविपत्तिशोका-
   दुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।
  निर्वापितः कनककुम्भमुखोज्झितेन
   वं[७७]शाभिषेकविधिना शिशिरेण गर्भः॥ ५६ ॥

 तस्या इति ॥ तथाविधया नरेन्द्रविपत्त्या य: शोकस्तस्मादुष्णैर्विलोचनजलैः प्रथमाभितप्तस्तस्या गर्भः कनककुम्भानां मुखैर्धारैरुज्झितेन शिशिरेण शीतलेन वंशाभिषेकविधिना लक्षणयाभिषेकजलेन निर्वापित आप्यायितः ॥

  तं भा[७८]वार्थं प्रसवसमयाकाङ्क्षिणीनां प्रजाना-
   [७९]न्तर्गृढं क्षितिरिव ने[८०]भोबीजमुष्टिं दधाना।
  मौलैः सार्धं स्थ[८१]विरसचिवैहेमसिंहासनस्था
   राज्ञी राज्यं विधिवद[८२]शिषद्भर्तुरव्याहताज्ञा ॥ ५७ ॥

 तमिति ॥ प्रसवो गर्भमोचनम् । फलं च विवक्षितम् ॥ " स्यादुत्पादे फले

पुष्पे प्रसवो गर्भमोचने" इत्यमरः ॥ तस्य यः समयस्तदाकाङ्क्षिणीनां प्रजानां भावार्थं भावाय । भूतय इत्यर्थः । “भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु " इति यादवः ॥ क्षितिरन्तर्गूढं नभोवीजमुष्टिमिव । श्रावणमास्युप्तं बीजमुष्टिं यथा धत्ते तद्वदित्यर्थः ॥ मुष्टिशब्दो द्विलिङ्गः ॥"अक्लीबौ मुष्टिमुस्तकौ" इति यादवः॥ अन्तगूढमन्तर्गतं तं गर्भं दधाना हेमसिंहासनस्थाव्याहताज्ञा राज्ञी मौलैर्मूले भवैर्मूलादागतैर्वा । आप्तैरियर्थः । स्थविरसचिवैर्वृद्धामात्यैः सार्धं भर्तू राज्यं विधिवद्विध्यर्हम् । यथाशास्त्रमियर्थः ॥ अर्हार्थे वतिप्रसयः॥ अशिषच्छास्ति स्म ॥ "सतिंशास्त्यतिंभ्यश्च" इति च्लेरङ् । “शास इदङ्हलोः" इतीकारः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अग्निवर्णशृङ्गारो नामैकोनविंशः सर्गः ।



॥ समाप्तम् ॥

  1. सुतवताम्.
  2. विस्मरन्.
  3. अधिपः.
  4. तं निवेश्य.
  5. अन्तरे च; अन्तरेषु.
  6. समुत्सवाः.
  7. केवलाशुनखरागरूषितम् ; कोमलांशुनखरागभूषितम्.
  8. लोचनाञ्जनम्.
  9. व्यलम्भयन्.
  10. प्रकृति.
  11. वर्षिणी:; वाहिनीः.
  12. प्रियावृतः.
  13. हस्तिनीसखः.
  14. दोहदम्.
  15. स्वनाम्,
  16. मञ्जुवाक्.
  17. अहरत्.
  18. अमज्जयत्.
  19. वदनानिलम्.
  20. अन्वजीवत्; सोऽन्वजीवत्.
  21. साभिमुक्तविषया:.
  22. कथितम.
  23. परिशङ्कितम्.
  24. उज्झितरुषा.
  25. ग्रहणमन्थरः, द्विगुणमन्थरः.
  26. बत.
  27. न तु; तु न; ननु.
  28. समाहितम्.
  29. चुम्बने च परिवर्तिताधरम् ; चुम्बनेषु परिवर्तिताधरम् ;
    चुम्बनेषु परिवर्तिताननम्.
  30. मन्मथोत्तरम्.
  31. संश्रयः.
  32. दृशः.
  33. विरोध; वियोग.
  34. उपदिश्य.
  35. पार्थिवम्.
  36. विद्यते.
  37. निर्दयरतश्रमालसाः.
  38. अपविध्य.
  39. कु्ङ्मम्.
  40. पुरोगमाः.
  41. न नः.
  42. स्पर्शनिर्वृतसुखानि.
  43. अनाप्नुवन्.
  44. नखपदाङ्कितो रस:.
  45. शिल्पिकार्यः, शिल्पिकार्यम्.
  46. रचनाश्रयम्.
  47. उपधार्य दर्शयन् ; उपदर्शयन्नृपः.
  48. निपुणः
  49. प्रियोक्तिभिः-
  50. संजहर्ष.
  51. अंसलग्न.
  52. संभ्रमः.
  53. क्लमापहाम्: क्लमापहा:-
  54. विशदाः.
  55. चन्द्रिका..
  56. त्यक्त.
  57. साक्षताम् ; प्रेक्ष्यताम्.
  58. अवकीर्ण.
  59. काश्चित्.
  60. प्रेषयम् ; प्रैषयन्.
  61. प्रवृत्तया; प्रबद्धया..
  62. मणिमेखला:
  63. भग्न.
  64. मोहितः.
  65. च.
  66. अनाश्रयः; अनाश्रयम् ; अनास्पदम्.
  67. सः; हि.
  68. हि वार्यते.
  69. मृदुस्वनी
  70. यक्ष्मणात्मपरिहानिः; यक्ष्मणापि परिहानिः.
  71. स्थितेन्दुवत्; स्थितेन्दुमत्.
  72. गूढम्.
  73. एषु.
  74. पुत्रसाधने.
  75. प्राप्य दीपः.
  76. पृष्ट.
  77. वंशाभिषेकपयसा; राज्याभिषेकपयसा.
  78. भावाय प्रसवसमयाकाङ्क्षिणीनाम्; भूत्यर्थं
    प्रसवसमयाकाङ्क्षिणीनाम् ; संतानप्रसवसमयाकाङ्क्षिणीनाम्.
  79. अन्तर्गर्भा.
  80. बभौ बीजमुष्टिम्.
  81. स्वचिरसचिवैः.
  82. अवशात्.