रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/तृतीयः सर्गः(रघुराज्याभिषेकः)
← द्वितीयः सर्गः(नन्दिनीवरप्रदानः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) तृतीयः सर्गः(रघुराज्याभिषेकः) कालिदासः |
चतुर्थः सर्गः(रघुदिग्विजयः) → |
तृतीयः सर्गः ।
उपाधिगम्योऽप्यनुपाधिगम्यः समावलोक्योऽप्यसमावलोक्यः ।
भवोऽपि योऽभूदभवः शिवोऽयं जगत्यपायादपि नः स पायात् ॥
राज्ञी गर्भमाधत्तेत्युक्तम् । संप्रति गर्भलक्षणानि वर्णयितुं प्रस्तौति--
अथेति ॥ अथ गर्भधारणानन्तरं सुदक्षिणा । उपस्थितोदयं प्राप्तकालं भर्तुर्दि-
लीपस्येप्सितं मनोरथम् ॥ भावे क्तः॥ पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम् ॥ यद्वा कौमुदी नाम दीपोत्सवतिथिः। तदुक्तं भविष्योत्तरे--"कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता" इति ॥ तस्या मुखं प्रारम्भम् ॥ “सखीजनोद्वीक्षणकौमुदीमहम्" इति पाठं केचित्पठन्ति । इक्ष्वाकुकुलस्य
संततेरविच्छेदस्य निदानं मूलकारणम् ॥ “निदानं त्वादिकारणम्" इत्यमरः ॥ एवंविधं दौर्हृदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ ॥ स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी॥ यथाह वाग्भटः "मातृजन्यस्य हृदयं मातुश्च हृदयं च तत् । संबद्धं तेन गर्भिण्याः
श्रेष्ठं श्रद्धाभिमाननम्" इति ॥ तत्संबन्धित्वाद्गर्भो दौर्हृदमित्युच्यते । सा च तद्योगाद्दौर्हृदिनीति ॥ तदुक्तं संग्रहे--"द्विहृदयां नारीं दौर्हृदिनीमाचक्षते" इति ॥
अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद्रूपकालंकारः ॥ अस्मिन्सर्गे वंशस्थं वृत्तम्--"जतौ तु वंशस्थमुदीरितं जरौ" इति लक्षणात् ।।
संप्रति क्षामताख्यं गर्भलक्षणं वर्णयति-
श[४]रीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥२॥
शरीरेति ॥ शरीरस्य सादात्कार्श्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पेणेव पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा । विचेया मृग्यास्तारका यस्यां सा तथोक्ता । विरलनक्षत्रेत्यर्थः । तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा । प्रभातादीषदूनेत्यर्थः ॥ " तसिलादिष्वा कृत्वसुचः" इति प्रभातशब्दस्य पुंवद्भावः ॥ शर्वरी रात्रिरिव । अलक्ष्यत ॥ शरीरसादादिगर्भलक्षणमाह वाह्वटः-"क्षामता गरिमा कुक्षेर्मूर्च्छा छर्दिररोचकम् । जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्" इति ॥
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।
करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥३॥
तदिति ॥ क्षितीश्वरो र[५]हसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं नाययौ ॥ कः कमिव । शुचिव्यपाये ग्रीष्मावसाने ॥ "शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि" इति विश्वः ॥ पयोमुचां मेघानां पृषतैर्बिन्दुभिः ॥ "पृषन्ति बिन्दुपृषताः इत्यमरः ॥ सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव ॥ अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसंधेयः । गर्भिणीनां मृद्भक्षणं लोकप्रसिद्धमेव । एतेन दोहदाख्यं गर्भलक्षणमुच्यते-
दोहदलक्षणे मृद्भक्षणे हेत्वन्तरमुत्प्रेक्षते-
दिवमिति ॥ हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्मुतः। मरुत्वानिन्द्रः ॥ “ इन्द्रो मरुत्वान्मघवा" इत्यमरः ॥ दिवं स्वर्गमिव । भुवं भोक्ष्यते ॥ “भुजोऽनवने" इत्यात्मनेपदम् ॥ अतः प्रथमं सा सुदक्षिणा तथाविधे भूविकारे मृद्रूपे । अभिलष्यत इत्यभिलाषो भोग्यवस्तु । तस्मिन् ॥ कर्मणि घञ्प्रत्ययः ॥ रस्यन्ते स्वाद्यन्त इति रसा भोग्यार्थाः । अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध । विदधावित्यर्थः ॥ दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ॥
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः॥५॥
नेति ॥ मगधस्य राज्ञोऽपत्यं स्त्री मागधी सुदक्षिणा ॥ " द्वयञ्मगधकलिङ्गसूरमसादण्" इत्यण्प्रत्ययः॥ ह्रिया किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे । केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आदृतवान् ॥ कर्तरि क्तः ॥ "आदृतौ सादरार्चित्तौ" इत्यमरः ॥ प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ ॥ " लट् स्मे" इत्यनेन भूतार्थे लट् ॥ सखीनां विश्रम्भभूमित्वादिति भावः॥
उपेत्येति ॥ दोहदं गर्भिणीमनोरथः ॥ "दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम्" इति हलायुधः ॥ सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यदस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम् । भर्त्रेति शेषः। अपश्यदेव । अलभतेत्यर्थः । कुतः । हि यस्मादस्य भूपतेस्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत् । किं याञ्चया । नेत्याह--अधिज्यधन्वन इति ॥ न हि वीरपत्नीनामलभ्यं नाम किंचिदस्तीति भावः॥ अत्र वाह्वटः-"पादशोफो विदाहोऽन्ते श्रद्धा च विविधात्मिका” इति ॥ एतच्च पत्नीमनोरथपूरणाकरणे दृष्टदोषसंभवात् । न तु राज्ञः प्रीतिलौल्यात् । तदुक्तम् 'देयमप्यहितं तस्यै हिताय हितमल्पकम् । श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा"॥अन्यत्र च- "दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्" इति ॥
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
पुराणपत्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥७॥
क्रमेणेति ॥ सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्राणामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्वान्मनोज्ञाः पल्लवा यस्याः सा लतेव । रराज ॥
लक्षणान्तरं वर्णयति--
दिनेष्विति ॥ दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम् । आ समन्तान्नीले मुखे चूचुके यस्य तत् । तदीयं स्तनद्वयम् । भ्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार ॥ अत्र वाह्वटः-"अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ" इति ॥
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम्।
नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥९॥
निधानेति ॥ नृपः ससत्त्वामापन्नसत्त्वाम् । गर्भिणीमित्यर्थः॥ "आपन्नसत्त्वा स्याद्रुर्विण्यन्तर्वत्नी च गर्भिणी" इत्यमरः॥ महिषीम् । निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम् । भूमिमिवेत्यर्थः ॥ “भूतधात्री रत्नगर्भा विपुला सागराम्बरा" इति कोशः॥ अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव ॥ शमीतरौ वह्निरस्तीत्यत्र लिङ्गं शमीगर्भादग्निं जनयतीति ॥ अन्तःसलिलामन्तर्गतजलां सरस्वतीं नदीमिव । अमन्यत ॥ एतेन गर्भस्य भाग्यवत्त्वतेजस्वित्वपावनत्वानि विवक्षितानि ॥
प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् ।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः॥१०॥
। भुजेन भुजबलेन करेण वार्जितानाम् । न तु वाणिज्यादिना । दिगन्तेषु संपदाम् । धृतेः पुत्रो मे भविष्यतीति संतोषस्य च ॥“धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु" इति विश्वः ॥ सदृशीरनुरूपाः। पुमान्सूयतेऽनेनेति पुंसवनम् । तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान् ॥ आदिशब्देनानवलोभनसीमन्तोन्नयने गृह्येते॥ अत्र मासि द्वितीये तृतीये वा पुंसवनम् । यदाह- "पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्" इति पारस्करः । “चतुर्थेऽनवलोभनम्" इत्याश्वलायनः । “षष्ठेऽष्टमे वा सीमन्तोन्नयनम्" इति याज्ञवल्क्यः ।।
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।।११॥
सुरेन्द्रेति ॥ गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुपविष्टस्य गर्भस्य गौरवाद्भारात्प्रयत्नेन मुक्तासनया । आसनादुत्थितयेत्यर्थः । उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या ॥"चञ्चलं तरलं चैव पारिप्लवपरिप्लवे" इत्यमरः ॥ तया सुदक्षिणया ननन्द । “सुरेन्द्रमात्राश्रित-" इत्यत्र मनु:-"अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः" इति ॥
कुमारेति ॥ अथ । कुमारभृत्या बालचिकित्सा ॥ “संज्ञायां समजनिषद-' इत्यादिना क्यप् ॥ तस्यां कुशलैः कृतिभिः ॥ "कृती कुशलः" इत्यमरः ॥ आप्तैहितैषिर्म्भिषग्भिर्वैद्यैः ॥ "भिषग्वैद्यौ चिकित्सको" इत्यमरः ॥ गर्भस्य भर्मणि भरणे ॥ "भरणे पोषणे भर्म" इति हैमः । “भृतिर्भर्म" इति शाश्वतः ॥ भृञोमनिच्प्रत्ययः॥ “गर्भकर्मणि" इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः ॥ अनुष्ठिते कृते सति ॥ काले दशमे मासि । अन्यत्र ग्रीष्मावसाने । प्रसवस्य गर्भमोचनस्योन्मुखीम् । आसन्नप्रसवामित्यर्थः ॥ “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः ॥ प्रियां भार्याम् । अभ्राण्यस्याः संजातान्यभ्रिता ताम् ॥ "तदस्य संजातं तारकादिभ्य इतच्" इतीतच्प्रत्ययः ॥ दिवमिव । पतिर्भर्ता प्रतीतो हृष्टः सन् ॥ "ख्याते हृष्टे प्रतीतः" इत्यमरः ॥ ददर्श दृष्टवान् ॥
ग्रहैरिति ॥ ततः शन्येन्द्राण्या समा ॥ पुलोमजा "शचीन्द्राणी" इत्यमरः ।सा सुदक्षिणा समये प्रसूतिकाले सति । दशमे मासीत्यर्थः ॥ “दशमे मासि जायते" इति श्रुतः॥ उच्चसंश्रयैरुच्चसंस्थैस्तुङ्गथानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्गहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम् । त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः॥"शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः" इत्यमरः ।। अक्षयमर्थमिव । असूत ॥ " पूङ् प्राणिगर्भविमोचने इत्यात्मनेपदिषु पठ्यते । तस्माद्धातोः कर्तरि लङ् ॥ अत्रेदमनुसंधेयम् - "अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः ॥ दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः" इति ।। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि । स्वस्वतुङ्गापेक्षया सप्तमस्थानानि च नीचानि । तत्रोच्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुच्चेषु परमोच्चा नीचेषु परमनीचा इति जातकश्लोकार्थः ॥ अत्रांशस्त्रिंशो भागः। यथाह नारद:- त्रिंशद्भागात्मकं लग्नम्" इति ॥ सूर्यपत्यासत्तिर्ग्रहाणामस्तमयो नाम ॥ तदुक्तं लघुजातके-" रविणास्तमयो योगो वियोगस्तूदयो भवेत्” इति ॥ ते च स्वोच्चस्थाः फलन्ति नास्तगा नापि नीचगाः ॥ तदुक्तं राजमृगाङ्के स्वोच्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विड्भेऽल्पं शुभं खेचरेन्द्रः । नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति" इति ॥ तदिदमाह कविरुच्चसंश्रयैरसूर्यगैरिति च । एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोच्चस्थाः स एव तुङ्गो भवति ॥ तदुक्तं कूटस्थीये-“सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः । एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः" इति ॥ तदिदमाह पञ्चभिरिइति ॥
दिश इति ॥ तत्क्षणं तस्मिन्क्षणे ॥ कालाध्वनोरत्यन्तसंयोगे द्वितीया । दिशः प्रसेदुः प्रसन्ना बभूवुः । मरुतो वाताः सुखा मनोहरा ववुः । अग्निः- प्रदक्षिणार्चिः सन्हविराददे स्वीचकार । इत्थं सर्वं शुभशंसि शुभसूचकं बभूव ॥ तथा- हि । तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय । भवतीति शेषः । ततो देवा अपि संतुष्टा इत्यर्थः॥
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।।१५॥
अरिष्टोति ॥ “अरिष्टं सूतिकागृहम्" इत्यमरः ॥ अरिष्टे सूतिकागृहे शय्यां तल्पं परितोऽभितः॥ “अभितःपरितः समयानिकषाहाप्रतियोगेषु दृश्यते" इति द्वितीया ॥ विसारिणा। सुजन्मनः शोभनोत्पत्तेः ॥ "जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः ॥ तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः ॥ “अर्धरात्रनिशीथौ द्वौ" इत्यमरः॥ आलेख्यसमर्पिताश्चित्रार्पिता इव बभूवुः ॥ निशीथशब्दो दीपानां प्रभाधिक्यसंभावनार्थः ॥
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।
अदेयमासीच्चयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे ॥१६॥
जनायेति ॥ भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम् ॥ “सरूपसमसंमिताः" इत्याह दण्डी॥ कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत् । किं तत् । शशिप्रभमुज्ज्वलं छत्रम् । उभे चामरे च ॥ छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ॥
निवातेति ॥ निवातो निर्वातप्रदेशः ॥ "निवातावाश्रयावातौ" इत्यमरः ॥ तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटः प्रहर्षः ॥ कर्ता ॥ इन्दुदर्शनाद्गुरुर्महोदधेः पूरो जलौघ इव । आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक । अन्तर्न माति स्मेति यावत् । नह्यल्पाधारेऽधिकं मीयत इति भावः॥ यद्वा हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव । आत्मानं नियन्तुं न शशाक । किंतु बहिर्निर्जगामेत्यर्थः ॥
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रत्युक्तसंस्कार इवाधिकं बभौ।।१८॥
स इति ॥ स दिलीपसूनुः । तपस्विना पुरोधसा पुरोहितेन ॥ "पुरोधास्तु पुरोहितः" इत्यमरः ॥ वशिष्ठेन । तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य । अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति । प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः ॥ "खनिः स्त्रियामाकरः स्यात्" इत्यमरः ॥ मणिरिव । अधिकं बभौ ॥ वशिष्ठमन्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः । अत्र मनु:-"प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते" इति ।
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृ[२४]त्यैः सह वारयोषिताम् ।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥१९॥
सुखश्रवा इति ॥ सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिमुखा इत्यर्थः । मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम् ॥ “वारस्त्री गणिका वेश्या रूपाजीवा" इत्यमरः ॥ प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त। किंतु । द्यौरोको येषां ते दिवौकसो देवाः ॥ पृषोदरादित्वात्साधुः । तेषां पथ्याकाशेऽपि व्यजृम्भन्त । तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः ॥
न संयतस्तस्य बभूव रक्षितुर्विस[२५]र्जयेद्यं सुतजन्महर्षितः ।
ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् ॥२०॥
नेति ॥ रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य । अत एव चौरादद्यभावत् । संयतो बद्धो न बभूव नाभूत् ॥ किं तेनात आह--विसर्जयेदिति ॥ सुतजन्मना हर्षितस्तोषितःसन् । यं बद्धं विसर्जयेद्विमोचयेत् ॥ किंतु स राजा तदा पितॄणामृणाभिधानाद्वन्धनात्केवलमेकं यथा तथा । स्वयमेव । एक एवेत्यर्थः ॥ “केवलः कृत्स्न एकश्च केवलश्वावधीरितः” इति शाश्वतः । मुमुचे॥ कर्मकर्तरि लिट् ॥ स्यवमेव मुक्त इत्यर्थः । अस्मिन्नर्थे-." एष वा अनृणो यः पुत्री" इति श्रुतिः प्रमाणम् ॥
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।
अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंभवम् ॥२१॥
श्रुतस्येति ॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः । अयमर्भको बालकः श्रुतस्य शास्त्रस्यान्तं पारं यायात् । तथा युधि परेषां शत्रूणामन्तं पारं च यायात् । यातुं शक्नुयादित्यर्थः ॥ “शकि लिङ्च" इति शक्यार्थे लिङ् ॥ इति हेतोर्धातोः “अघिवधिलघि गत्यर्थाः" इति लघिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्य । आत्मसंभवं पुत्रं नाम्ना रघुं चकार । “लङ्घिबंह्योर्नलोपश्च " इत्यप्रत्यये वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यत इति वैकल्पिके रेफादेशे रघुरिति
रूपं सिद्धम् । अत्र शङ्क:-"अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते" इति ॥ पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः॥२२॥
पितुरिति ॥ स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः ॥ “ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः" इत्यमरः ॥ अनुप्रवेशाद्बालचन्द्रमा इव । दिने दिने प्रतिदिनम् ॥ “नित्यवीप्सयोः" इति द्विर्वचनम् ॥ वृद्धिं पुपोष ॥ अत्र वराहसंहितावचनम् -"सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः" इति ॥
उमावृषाङ्को शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥२३॥
उमेति ॥ उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कार्तिकेयेन ॥ “कार्तिकेयो महासेनः शरजन्मा षडाननः" इत्यमरः ॥ यथा ननन्दतुः । शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन ॥"जयन्तः पाकशासनिः" इत्यमरः॥ यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमावृषाङ्काभ्यां शचीपुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमारजयन्ताभ्यां सदृशेन सुतेन ननन्दतुः ॥ मागधी प्राग्व्याख्याता॥
रथाङ्गेति ॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानौ चक्रवाकौ ॥ "पुमास्त्रिया" इत्येकशेषः ॥ तयोरिव तयोर्दंपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा ॥ " एके मुख्यान्यकेवलाः" इत्यमरः ।। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे ॥ कर्मकर्तरि लिट् ॥ अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः ॥ यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलाभेऽपि नाहीयत।प्रत्युतोपचितमेवाभूदिति भावः।।
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम्।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन त[२८]तान सोऽर्भकः॥२५॥
शिशुः" इत्यमरः ॥ धात्र्योपमाला ॥“धात्री जनन्यामलकीवसुमत्युपमातृषु" इति विश्वः ॥ प्रथममुदितमुपदिष्टं वच उवाच । तदीयामङ्गुलिमवलम्ब्य ययौ च । प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूच्च । इति यत्तेन पितुर्मुदं ततान ॥
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ।। २६॥
तमिति ॥ शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन् । नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रसः स्वादः॥
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥२७॥
अमंस्तेति ॥ स्थितेरभेत्ता मर्यादापालकः स नृपः परार्घ्यजन्मनोत्कृष्टजन्मनानेन रघुणान्वयं वंशम् । प्रजानां पतिर्ब्रह्मा । गुणाः सत्त्वादयः । तेष्वग्र्येण मुख्येन सत्त्वेन वर्तते व्याप्रियत इति गुणाग्र्यवर्ती । तेन स्वस्य मूर्तिभेदेनावतारविशेषेण विष्णुनात्मनः सर्गं सृष्टिमिव । स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म ॥ मन्यतेरनुदात्तत्त्वादिट्प्रतिषेधः ॥ अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि॥तत्र रघुपक्षे गुणा विद्याविनयादयः॥ “गुणोऽप्रधाने रूपादौ मौर्व्यां सूदे वृकोदरे । स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु" इति विश्वः॥ शेषं सुगमम् ।।
स वृ[२९]त्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥२८।।
स इति ॥ "चूडा कार्या द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्या श्रुतिचोदनात्" इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन् ॥ डलयोरभेदः॥ स रघुः ॥ "प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्" इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः॥"बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः" इति हलायुधः ॥ सवयोभिः स्निग्धैः ॥"स्निग्धो वयस्यः सवयाः" इत्यमरः ॥ अमात्यपुत्रैरन्वितः सन् । लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम् । नद्या मुखं द्वारम् ॥ "मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः" इति यादवः ॥ तेन कश्चिन्मकरादिः
समुद्रमिव । आविशत्प्रविष्टः। ज्ञातवानित्यर्थः॥ अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।
अवन्ध्ययत्नाश्च बभूवुर[३०]त्र ते क्रिया हि वस्तूपहिता प्रसीदति॥२९॥
अथेति ॥ “गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः" इति मनुस्मरणादथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः ॥ ते गुरवोऽत्रा- स्मिन्रघाववन्ध्ययत्राश्च बभूवुः ॥ तथाहि । क्रिया शिक्षा ॥ "क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु" इति यादवः ॥ वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति ॥ "क्रिया हि द्रव्यं विनयति नाद्रव्यम्" इति कौटिल्यः॥
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।
ततार विद्याः पवना[३१]तिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः॥३०॥
धिय इति ॥ अत्र कामन्दक:-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः" इति । “आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः" इति च ॥ उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः । चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमा ॥"तद्धितार्थोत्तरपदसमाहारे च" इत्युत्तरपदसमासः ॥ चतस्रो विद्याः । हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः ॥ “हरित्ककुभि वर्णे च तृणवाजिविशेषयोः" इति विश्वः ॥ चतस्रो दिश इव । क्रमात्ततार ॥ चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥
त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव म[३२]न्त्रवत् ।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः॥३१॥
त्वचमिति ॥ स रघुः ॥ “कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्येण शाणक्षौमादिकानि च" इति मनुस्मरणान्मेध्यां शुद्धां रौरवीं रुरुसंबिन्धिनीम् ॥ "रुरुर्महाकृष्णसारः" इति यादवः ॥ त्वचं चर्म परिधाय वसित्वा मन्त्रवत्समन्त्रकमस्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान् ॥ “आख्यातोपयोगे" इत्यपादानसंज्ञा॥ पितुरेवेत्यवधारणमुपपादयति-नेति ॥ तद्गुरुरेकोऽद्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत् । किंतु क्षितौ स दिलीप एको
धनुर्धरोऽप्यभूत् ॥ महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गा[३३]म्भीर्यमनोहरं वपुः॥३२॥
महोक्षतामिति॥ रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन् । महानुक्षा महोक्षो महर्षभः ॥ "अचतुर-" आदिसूत्रेण निपातनादकारान्तत्वम् ॥ तस्य भावस्तत्ता । तां स्पृशन्गच्छन्वत्सतरो दम्य इव ॥ “दम्यवत्सतरौ समौ" इत्यमरः ॥ द्विपेन्द्रभावं महागजत्वं श्रयन्व्रजन्कलभः करिपोत इव । गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष ॥
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः।
नरेन्द्रकन्यास्तमवाप्य सत्पतिं त[३४]मोनुदं दक्षसुता इवाबभुः॥३३॥
अथेति ॥"गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । 'पुंस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु" इति केशवः ॥ गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते ॥ तदुक्तं मनुना-"केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः" इति ॥ अथ गुरुः पिता ॥ “गुरुर्गीष्पतिपित्रादौ" इत्यमरः ॥ अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत् । कृतवानित्यर्थः ॥ अथ नरेन्द्रकन्यास्तं रघुम् । दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव ॥ “तमोनुदाऽग्निचन्द्रार्काः" इति विश्वः ॥ सत्पतिमवाप्यावभुः । रघुरपि तमोनुत् ॥ अत्र मनु:-"वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्" इति ॥
संप्रति यौवराज्ययोग्यतामाह-
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः।
वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥३४॥
युवेति ॥ युवा । युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः ॥ “यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु" इत्यमरः ॥ युगवद्व्यावत्तौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान् । मांसलश्चेति वृत्तिकारः॥ "बलवान्मांसलोंऽसलः" इत्यमरः ॥ "वत्सांसाभ्यां कामबले" इति लच्प्रत्ययः ।। कपाटवक्षाः परिणद्धकन्धरो विशालग्रीवः ।। परिणाहो विशालता" इत्यमरः ॥ रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत् । तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत । अनौद्धत्यं च विवक्षितम् ॥
संप्रति तस्य यौवराज्यमाह-
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥३५॥
तत इति ॥ तत आत्मना चिरं धृतां नितान्तगुर्वीम् ॥ “वोतो गुणवचनात्" इति ङीष् ॥ प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता ॥ " तत्करोति तदाचष्टे” इति लघुशब्दाण्णिच् । ततो “ लुटः सद्वा" इति शतृप्रत्ययः ॥ नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः ॥ युवराज इति शब्दं भजतीति तथोक्तः ॥ भजो ण्विः " इति ण्विप्रययः ॥ चक्रे कृतः ॥“द्विविधो विनयः स्वाभाविकः कृत्रिमश्च" इति कौटिल्यः॥ तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः । अत्र कामन्दकः- “विनयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते । विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्” इति ॥
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥३६॥
नरेन्द्रेति ॥ गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी श्रीराज्यलक्ष्मीः पद्माश्रया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात् । अपादानात् । अनन्तरं संनिहितम् । युवराज इति संज्ञास्य संजाता युवराजसंज्ञितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ आत्मनः पदं स्थानमास्पदम् ॥ “आस्पदं प्रतिष्ठायाम्" इति निपातः ॥ स रघुरित्यास्पदं तदास्पदम् । कमलाश्चिरोत्पन्नान्नवावतारमचिरोत्पन्नमुत्पलमिव । अंशेनागच्छत् ।। स्त्रियो हि यूनि रज्यन्त इति भावः ॥
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सु[३५]दुःसहः कटप्रभेदेन करीव पार्थिवः॥ ३७॥
विभावसुरिति ॥ सारथिना सहायभूतेन । एतद्विशेषणमुत्तरवाक्येष्वप्यनुषञ्जनीयम् । वायुना विभावसुर्वह्निरिव ॥ "सूर्यवह्नी विभावसू"इत्यमरः ॥ धनव्यपायेन शरत्समयेन सारथिना गभस्तिमान्सूर्य इव । कटो गण्डः ॥ "गण्डः कटो मदो दानम्" इत्यमरः ॥ तस्य प्रभेदः स्फुटनम् । मदोदय इत्यर्थः। तेन करीव । पार्थिवो दिलीपस्तेन रघुणातितरामत्यन्तं सुदुःसहः सुष्टुसह्यो बभूव ॥
नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः॥३८॥
नियुज्येति ॥ शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः । “शतं वै तुल्या राजपुत्रा देवा आशापालाः" इत्यादिश्रुत्या । राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरंगाणां रक्षणे नियुज्य । एकेन क्रतुनापूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नपमपगतविघ्नं यथा तथाप ॥
ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः।
धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥३९॥
तत इति ॥ ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम् ॥ “क्रियार्थोपपदस्य-" इत्यादिना चतुर्थी ॥ उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम् । अव्याहतस्वैरगतिमित्यर्थः ॥ “अपर्यावर्तयन्तोऽश्वमनुचरन्ति" इत्यापस्तम्बस्मरणात् ॥ तुरंगं धनुर्भृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन् । जहार किल । किलेत्यैतिह्ये ॥
विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
वशिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी॥४०॥
विषादेति ॥ तत्कुमारस्य सैन्यं सेना सपदि । विषाद इष्टनाशकृतो मनोभङ्गः । तदुक्तम्- "विषादश्चेतसो भङ्ग उपायाभावनाशयोः" इति ॥ तेन लुप्ता प्रतिपत्तिः कर्तव्यज्ञानं यस्य तत्तथोक्तम् । विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत्।स्थितं तस्थौ ॥ अथ श्रुतप्रभावा यदृच्छया स्वेच्छयागता॥ रघोः स्वप्रसादलब्धत्वादनुजिघृक्षयेति भावः ॥ नन्दिनी नाम वशिष्ठधेनुश्च ददृशे ॥ द्वौ चकारावविलम्बसूचकौ ॥
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः॥४१॥
तदिति ॥ सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम् । मूत्रमित्यर्थः । तेन लोचने प्रमृज्य शोषयित्वा। अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु ॥"अत्यादयः कान्ताद्यर्थे द्वितीयया" इति समासः । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम् ॥ भावेष्वपि वस्तुषूपपन्नदर्शनः संपन्नसाक्षात्कारशक्तिर्बभूव ॥
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥४२॥
स इति ॥ नरदेवसंभवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितोद्धत्यं रथस्य रश्मिभिः प्रग्रहैः ॥ "किरणप्रग्रहौ रश्मी" इत्यमरः ॥ संयतं बद्धमश्वं हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ॥
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥४३॥
शतैरिति ॥ रघुस्तमश्वहर्तारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरिभिर्हरिद्वर्णैः ॥ "हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः" इति विश्वः ॥ वाजिभिरश्वैश्च हरिमिन्द्रं विदित्वा ॥ “हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु" इति विश्वः ॥ एनमिन्द्रं गगनस्पृशा व्योमव्यापिना धीरेण गभीरेण स्वरेण ध्वनिनैव निवर्तयन्निवावोचत् ॥
मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र स[३६]दा निगद्यसे ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे॥४४॥
मखेति ॥ हे देवेन्द्र । मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथमः सदा निगद्यसे कथ्यसे ॥ तथाप्यजस्रदीक्षायां नित्यदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय क्रतुविघाताय । क्रियां विहन्तुमित्यर्थः ॥ “तुमर्थाच्च भाववचनात्" इति चतुर्थी । कथं प्रवर्तसे ॥
त्रिलोकनाथेन स[३७]दा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः॥४५॥.
त्रिलोकेति ॥ त्रयाणां लोकानां नाथस्त्रिलोकनाथः ॥ "तद्धितार्थ-" इत्यादिनोत्तरपदसमासः॥ तेन त्रैलोक्यनियामकेन दिव्यचक्षुषातीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत् । विधिरनुष्ठानं च्युतः क्षतः।
लोके सत्कर्मकथैवास्तमियादित्यर्थः ॥ तदङ्गमग्र्यं मघवन्महाकतोरमुं तुरंगं प्रतिमोक्तुमर्हसि ।
पथः श्रु[३८]तेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥४६॥
तदिति ॥हे मघवन् । तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमङ्गं साधनममुं तुरंग प्रतिमोक्तुं प्रतिदातुमर्हसि ॥ तथाहि । श्रुतेः पथो दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः ॥ “मलीमसं तु मलिनं कच्चरं मलदूषितम्" इत्यमरः ॥
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥४७॥
इतीति ॥ इति रघुणा समीरितं प्रगल्भं वचो निशम्याकर्ण्य । दिवौकसः स्वर्गौकसः॥ “दिवं स्वर्गेऽन्तरिक्षे च" इति विश्वः ॥ तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः सन् । रथं निवर्तयामास । उत्तरं प्रतिवक्तुं प्रचक्रमे च ॥
य[३९]दात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः।
जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः॥४८॥
यदिति ॥ हे राजन्यकुमार क्षत्रियकुमार ॥ “मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्" इत्यमरः॥ यद्वाक्यमात्थ ब्रवीषि ॥ “ब्रुवः पञ्चानाम्-" इत्यादिनाहादेशः ॥ तत्तथा सत्यम् । किंतु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम् ॥ ततः किमत आह-भवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम तद्यश इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ॥
किं तद्यश इत्याह-
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः॥४९॥
हरिरिति ॥ पुरुषेषूत्तम इति सप्तमीसमासः । “न निर्धारणे" इति षष्ठीसमासनिषेधात् । कर्मधारये तु "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः" इत्युत्तमपुरुष इति स्यात् ॥ यथा हरिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः । यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः । नापरोऽपरः पुमान्न । तथा मां मुनयः शतक्रतुं विदुर्विदन्ति ॥ “विदो लटो वा" इति झेर्जुसादेशः ॥ नोऽस्माकम् । हरिहरयोर्मम
चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी न हि ॥ द्वितीयाप्रकरणे नमिगम्यादीनामुपसंख्यानात्समासः॥अत इति ॥ यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयापहारितोऽपहृतः ॥ अपहारित इति स्वार्थे णिच् ॥ तवात्राश्वे प्रयत्नेनालम् । प्रयत्नो माकारीत्यर्थः ॥ निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया ॥ सगरस्य राज्ञः संततेः संतानस्य पदव्यां पदं मा निधा न निधेहि ॥ निपूर्वाद्धाधातोर्लुङ् । न माङयोगे" इत्याडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिवि भावः ॥
तत इति ॥ ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा । अपभयो निर्भीकः सन् । पुनः पुरंदरं बभाषे ॥ किमिति-हे देवेन्द्र। यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः ॥“ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु” इत्यमरः ॥ तर्हि शस्त्रं गृहाण ॥ भवान्रघुं मामनिर्जित्य । कृतमनेनेति कृती। कृतकृत्यो न खलु ॥ "इष्टादिभ्यश्च" इतीनिप्रत्ययः ॥ रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम् ॥
स एवमुक्ता मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥५२॥
स इति ॥ स रघुरुन्मुखः सन् । मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः॥ आलीढेनालीढाख्येन स्थानकभेदेन विशेषशोभिनातिशयशोभिना वपुःप्रकर्षेण देहौन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन् । अतिष्ठत् ॥ आलीढलक्षणमाह यादव:--- "स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति । अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढविपर्ययः" इति ॥
रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सा[४६]यकम् ॥५३
रघोरिति ॥ रघोरवष्टम्भभयेन स्तम्भरूपेण ॥ "अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि" इति विश्वः ॥ पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत एवामर्षणोऽसहनः । क्रुद्ध इयर्थः । गोत्रभिदिन्द्रोऽपि ॥"संभावनाये चौरेऽपि गोत्र: क्षौणीधरे मतः" इति विश्वः॥ नवाम्बुदानामनीकस्य वृन्दस्य मुहूर्तं क्षणमात्रं लाञ्छने चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं वाणं समधत्त संहितवान् ॥
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥५४॥
दिलीपेति ॥ भीमानां भयंकराणामसुराणां शोणिते रुधिर उचितः परिचितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनो रघोर्बृद्विशालं भुजान्तरं वक्षः प्रविश्य अनास्वादितपूर्वं पूर्वमनास्वादितम् ॥ सुप्सुपेति समासः ॥ मनुष्यशोणितं कुतूहलेनेव पपौ॥
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्न निचखान सायकम्।।५५॥
हरेरिति ।। कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः ॥ “सप्तम्युपमानपूर्वस्य-" इत्यादिना समासः ॥ कुमारोऽपि रघुरपि सुरद्विपस्यैरावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य सः । तस्मिन् । शच्याः पत्रविशेषकैरङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य भुजे खनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ॥
जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ।।५६॥
जहारेति ॥ अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनि- ध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च । स शक्रः। सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोपणादवतारणाच्छेदनादिव । तस्मै रघवे भृशमत्यर्थं चुकोप । तं हन्तुमियेषेसर्थः ॥ “क्रुधद्रु-" इत्यादिना संप्रदानचतुर्थी ।
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः॥५७॥
तयोरिति ॥ जयैषिणोरन्योन्यजयाकाङ्क्षिणोस्तयोरिन्द्ररघ्वोः॥ गरुत्मन्तः पक्षवन्तः॥ “गरुत्पक्षच्छदाः पत्रम्" इत्यमरः॥आशीविषाः।आशिषि दंष्ट्रायां विषं येषां त आशीविषाः सर्पाः॥पृषोदरादित्वात्साधुः"स्त्री त्वाशीर्हिताशंसादिष्टयोः"
१ नरेन्द्रसूनोः. २ शचीपत्रलताक्रियोचिते. ३ मयूरपक्ष्मणा. इत्यमरः ॥ त इव भीमदर्शनाः सपक्षाः सर्पा इव । द्रष्टॄणां भयावहा इत्यर्थः । तैरधोमुखैरूर्ध्वमुखैश्च । धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव ॥
अतिप्रबन्धप्रहितास्त्रदृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः।
शशाक निर्वापयितुं न वासवः स्वतश्युतं वह्निमिवाद्भिरम्बुदः॥५८॥
अतीति ॥ वासवोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्त्रदृष्टिभिर्दुष्पसहस्य दुःखेन प्रसह्यत इति दुष्पसहं तस्य । दुःखेनाप्यसह्यस्येसर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोद्भिः स्वतश्युतं निर्गतं वह्निमिव । निर्वापयितुं न शशाक ॥ रघोरपि लोकपालात्मकस्येन्द्रांशसंभवत्वादिति भावः ॥
ततः प्रकोष्ठे हरिचन्दनाङ्कित प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः॥५९॥
तत इति ॥ ततो रघुर्हरिचन्दनाङ्कित प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम् । वेवेष्टि व्यानोतीति विट् व्यापकमोजो यस्य स तस्य बिडौजस इन्द्रस्य ॥ पृषोदरादित्वात्साधुः ॥ शरासनज्यां धनुर्मौर्वीम् । शशाङ्कस्याः खण्ड इव मुखं फलं यस्य तेन पत्रिणालुनादच्छिनत् ॥
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः।
महीध्रपक्षव्य[४७]परोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥६०॥
स इति ॥ विवृद्धमत्सरः प्रद्धवैरः स इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय । महीं धारयन्तीति महीध्राः पर्वताः ॥ मूलविभुजादित्वात्कप्रत्ययः ॥ तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्यभामण्डलमस्त्रं वज्रायुधमाददे जग्राह ॥
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय त[४८]द्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः॥६१॥
रघुरिति ॥ रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात । तस्मिन्पतिते ते रुरुदुरित्यर्थः । निमेषमात्राद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निस्वनाः क्ष्वेडास्तैः सहोत्थितश्च ।
तस्मन्नुथ्थिते हर्षात्सिंहनादांश्चक्ररित्यर्थः॥ तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणै[४९]र्निधीयते ॥६२॥
तथापीति ॥ तथापि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन । वृत्रं हतवानिति वृत्रहा ॥ "ब्रह्मभ्रूणवृतेषु क्विप्"॥ तुतोष । स्वयं वीर एव वीरं जानातीति भावः ॥ कथं शत्रोः संतोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते । गुणैः सर्वत्र संक्रम्यत इत्यर्थः ॥ गुणाः शत्रूनप्यावर्जयन्तीति भावः॥
असङ्गमिति ।। सारवत्याद्रिष्वसङ्गमप्रतिबन्धं म आयुधं वज्रं त्वदन्येन न विसोढम् ॥ अतो मां प्रीतं संतुष्टमवेहि । तुरंगमादृते तुरंगं वर्जयित्वा ॥ “अन्या- रादितरर्ते-" इति पञ्चमी ॥ किमिच्छसीति स्फुटं वासव आह । तुरंगमादन्यददेयं नास्तीति भावः॥
तत इति ॥ ततो निषङ्गात्तूणीरादसमग्रं यथा तथोदृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषु प्रतिसंहरन्निवर्तयन् । नामहरन्तं प्रहरेदिति निषेधादिति भावः । प्रियं वदतीति, प्रियंवदः ॥ “प्रियवशे वदः खच्" इति खच्प्रत्ययः। "अरुषि-" इत्यादिना मुमागमः ॥ नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत् । न तु प्राहरदिति भावः॥
अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स[५६] मद्गुरुः क्रतोरशेषेण फलेन युज्यताम्॥६५॥
अमोच्यमिति ॥ हे प्रभो इन्द्र । अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्माणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण
कृत्स्नेन युज्यतां युक्तोऽस्तु ।। अश्वमेधफललाभे किमश्वेनेति भावः॥यथेति ॥ सदोगतः सदोगृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाष्टानामन्यतममूर्तित्वात् । दुरासदोऽस्मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव संदेशहराद्वार्ताहरादेव शृणोति च । हे लोकेशेन्द्र । तथा विधीयताम् ॥
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ ६७ ॥
तथेति ॥ मातलिसारथिरिन्द्रो रघोः संबन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान् ॥ "भाषायां सदवसश्रुवः" इति क्वसुप्रत्ययः ॥ यथागतं ययौ । सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ नृपस्य सदोगृहं प्रति न्यवर्तत ॥
तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्ह[५९]र्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥ ६८ ॥
तमिति ॥ हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः । वृत्तान्तमिति शेषः । प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम् । तस्य रघोरिदं तदीयम् । अङ्गं शरीरं परामृशंस्तं रघुमभ्यनन्दत् ॥
इ[६०]ति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ॥ ६९ ॥
इतीति ॥ महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण ॥ "इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु" इत्यमरः ॥ महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परंपरां पङ्क्तिमिव ततान ॥
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ७० ॥
यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् ॥ “ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि" इति विश्वः ॥ सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानियर्थः॥ तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम् ॥ तद्राजसंज्ञकत्वादणो लुक् ॥ इदं वनगमनं कुलव्रतम् ॥ देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः--"सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्” इति ॥ हरिणीवृत्तमेतत् । तदुक्तम्-- “रसयुगहयैन्सौ म्रौ स्लौ गो यदा हरिणी तदा" इति ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यथा
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रघुराज्याभिषेको नाम तृतीयः सर्गः ।
- ↑ ततो विशांपत्युरनन्तसंततेर्मनोरथं किंचिदिवोदयोन्मुखम् । अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंपदा.
- ↑ सुखम्.
- ↑ दोहदलक्षणम्.
- ↑ मुखेन सा केतकपत्रपाण्डुना कृशाङ्गयष्टि: परिमेयभूषणा । स्थिताल्पताराकरणेन्दुमण्डला
विभातवत्यां रजनीं व्यडम्बयत्. - ↑ रह: समाघ्राय.
- ↑ महीम्
- ↑ मत्सुतः
- ↑ अस्याः
- ↑ बभूव दुष्प्रापम्
- ↑ मधूकपाण्डुरम्
- ↑ आश्याममुखम्
- ↑ समुद्गमो वारणदन्तकोशयोर्बभार कान्तिं गवलापिधान्ययोः
- ↑ अवलीढयोः
- ↑ अधिष्ठिते
- ↑ गर्भवेश्मनि
- ↑ उच्चसंस्थितैः
- ↑ सूनुम्
- ↑ अक्षतम्
- ↑ हुतम्
- ↑ तत्क्षणे
- ↑ स वीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य युवेव दुर्गतः ।
- ↑ निर्वात
- ↑ च
- ↑ नृत्तैः
- ↑ विमोचयेत्
- ↑ एकसुते न
- ↑ पर्यहीयत; न व्यहीयत
- ↑ शिशुस्ततान सः
- ↑ वृत्तचौलः; वृत्तचूडः
- ↑ अर्भके
- ↑ अतिवर्तिभिः.
- ↑ मन्त्रवित् .
- ↑ गम्भीर.
- ↑ तमोपहम्.
- ↑ दुरासहः.
- ↑ यतः
- ↑ सता ; सताम्
- ↑ शुचेः
- ↑ यथा
- ↑ अनुसारिणा
- ↑ मानुगाः
- ↑ पदव्याः
- ↑ आह पुनः
- ↑ व्यपेतभीभूमिपुरंदरात्मजः
- ↑ गर्वः
- ↑ मार्गणम्
- ↑ व्पपरोपणोद्धतम् ; व्यपरोपणोद्धृतम्.
- ↑ च व्यथाम्.
- ↑ विधीयते.
- ↑ अभङ्गम्.
- ↑ अवैहि.
- ↑ वरं वृणीष्वेति तमाह वृत्रहा; वरं वृणीष्वेति तमादिदेश
सः. - ↑ असमग्रनिःसृतम्.
- ↑ दिलीपसूनुः.
- ↑ प्रियंवदम्.
- ↑ च मे गुरुः.
- ↑ इदम्.
- ↑ देवेश; देवेन्द्र.
- ↑ हर्षचलेन.
- ↑ इत्थम्.