रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

विकिस्रोतः तः
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/द्वादशः सर्गः(रावणवधः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)
कालिदासः
चतुर्दशः सर्गः(सीतापरित्यागः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

त्रयोदशः सर्गः ।


   त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम् ।
   पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे ॥

  अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
  रत्नाकरं वीक्ष्य मिथःस जायां रामाभिधानो हरिरित्युवाच ॥ १ ॥

 अथेति ॥ अथ प्रस्थानानन्तरम् । जानातीति ज्ञः ॥ “इगुपध-" इत्यादिना कप्रत्ययः॥ गुणानां ज्ञो गुणज्ञः । रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः । स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम् । आकाशमित्यर्थः ॥ "वियद्विष्णुपदम्" इत्यमरः॥"शब्दगुणमाकाशम्" इति तार्किकाः॥ विमानेन पुष्पकेण विगाहमानः सन् । रत्नाकरं वीक्ष्य मिथो

रहसि ॥"मिथोऽन्योन्यं रहस्यपि" इत्यमरः ॥ जायां पत्नीं सीतामिति वक्ष्यमाणप्रकारेणोवाच ॥ रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम् ॥ मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम् ॥

  वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
  छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ २ ॥

 वैदेहीति ॥ हे वैदेहि सीते । आ मलयान्मलयपर्यन्तम् ॥ “पञ्चम्यपाङ्परिभिः" इति पञ्चमी ॥ पदद्वयं चैतत् ॥ मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् ॥ फेनिलं फेनवन्तम् ॥ “फेनादिलच्च" इतीलच्प्रत्ययः ॥ क्षिप्रकारी चायमिति भावः । अम्बुराशिम् । छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृतचारुतारमाकाशमिव । पश्य ॥ मम महानयं प्रयासस्त्वदर्थ इति हृदयम् ॥ छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ॥

  गुरोर्यियक्षोः कपिलेन मे[१]ध्ये रसातलं संक्रमिते तुरंगे।
  तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ ३ ॥

 गुरोरिति ॥ यियक्षोर्यष्टुमिच्छोः ॥ यजेः सन्नन्तादुप्रत्ययः । गुरोः सगरस्य मेध्येऽश्वमेधार्हे तुरंगे हये कपिलेन मुनिना रसातलं पातालं संक्रमिते सति । तदर्थमुर्वीमवदारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धः सगरसुतैरयं समुद्रः परिवर्धितः किल । किलेत्यैतिह्ये । अतो नः पूज्य इति भावः । यद्यपि तुरंगहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति तेषां भ्रान्तिः । तन्मत्वैव कविना कपिलेनोति निर्दिष्टम् ॥

  गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
  अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ ४ ॥

 गर्भमिति ॥ अर्कमरीचयोऽस्मादब्धेः । अपादानात् । गर्भमम्मयं दधति । वृष्ट्यर्थमित्यर्थः । अयमर्थो दशमसर्गे “ताभिर्गर्भ:-" (५८) इत्यत्र स्पष्टीकृतः । अयं लोकोपकारीति भावः । अत्राब्धौ वसूनि धनानि ॥ “धने रत्ने वसु स्मृतम्" इति विश्वः ॥ विवृद्धिमश्रुवते प्राप्नुवन्ति । संपद्वानित्यर्थः । असावाप इन्धनं दाह्यं यस्य तद्दाहकं वह्नि बिभर्ति । अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम् ॥ जनेर्ण्यन्तात्कर्मणि लुङ् ॥ सौम्य इति भावः ॥

  तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना।
  विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ ५ ॥

 तां तामिति ॥ तां तामनेकाम् ॥ “नित्यवीप्सयोः" इति वीप्सायां द्विरुक्तिः ॥ अवस्थामक्षोभाद्यवस्थाम् । विष्णुपक्षे सत्त्वाद्यवस्थाम् । प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाच्चेदृक्तयेयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ॥

  नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा।
  अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६ ॥

 नाभीति ॥ युगान्ते कल्पान्त उचिता परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य स पुरुषो विष्णुर्लोकान्संहृत्य । नाभ्यां प्ररूढं यदम्बुरुहं पद्मं तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्टा पितामहेन संस्तूयमानः सन् । अमुमधिशेते । अमुष्मिञ्छेत इत्यर्थः । कल्पान्तेऽप्यस्तीति भावः ॥

  [२]क्षच्छिदा गो[३]त्रभिदा[४]त्तगन्धाः शरण्यमे[५]नं शतशो महीध्राः।
  नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ ७ ॥

 पक्षेति ॥ पक्षच्छिदा गोत्रभिदेन्द्रेण ।। उभयत्र "सत्सूद्विष" इत्यादिना क्विप् ॥ आत्तगन्धा हृतगर्वाः । अभिभूता इत्यर्थः ॥ “गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इति विश्वः ॥ “आत्तगन्धोऽभिभूतः स्यात्" इत्यमरः ॥ महीं धारयन्तीति महीध्राः पर्वताः ॥ मूलविभुजादित्वात्कप्रत्ययः ॥ शतं शतं शतशः शरण्यं रक्षणसमर्थमेनं समुद्रम् । परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यमं मध्यमभूपालमिव । आश्रयन्ते ॥ "अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः इति कामन्दकः ॥ आर्तबन्धुरिति भावः ॥

  रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः।
  [६]स्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्राभरणं बभूव ॥ ८ ॥

 रसातलादिति॥आदिभवेन पुंसादिवराहेण रसातलात्प्रयुक्तोद्वहनक्रियायाः कृतोद्धरणक्रियायाः । विवाहक्रिया च व्यज्यते । भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव ॥ तदुक्त‌ं‌ ‌-- "उद्धृतासि वराहेण कृष्णेन शतबाहुना" इति ॥

  मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरंगाधरदानदक्षः ।
  अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ ९ ॥

 मुखेति ॥ अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्या कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः । इममेवार्थं प्रतिपादयति--तरंग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः ॥ "सिन्धुः समुद्रे नद्यां च" इति विश्वः ॥ स्वयं पिबति पाययते च । तरंगाधरमिति शेषः ॥ "न पादभ्याङ्यम्-" इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः । "गतिबुद्धिप्रत्यवसानार्थ-" इत्यादिना सिन्धूनां कर्मत्वम् ॥ दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥

  ससत्त्वमादाय नदीमुखाम्भः संमील[७]यन्तो विवृ[८]ताननत्वात् ।
  अमी शिरोभिस्तिमयः सरन्ध्रैरुर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ १० ॥

 ससत्त्वमिति ॥ अमी तिमयो मत्स्यविशेषाः ॥ तदुक्तम्-"अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः" इति ॥ विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः ॥ आननविवृत्येत्यर्थः । ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति ॥ जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥

  मातंगनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
  कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ ११ ॥

 मातंगेति ॥ सहसोत्पतद्भिर्मातंगनक्रैर्मातंगाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्रफेनान्पश्य । ये फेना एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥

  वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फू[९]र्जथुनिर्विशेषाः ।
  सूर्यांशुसंपर्कस[१०]मृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ १२ ॥

 वेलेति ॥ वेलानिलाय । वेलानिलं पातुमित्यर्थः ॥ "क्रियार्थोपपद-" इत्यादिना चतुर्थी ॥ प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः ॥ "ट्वितोऽथुच्" इत्यथुच्प्रत्ययः ॥ तस्मान्निर्विशेषा दुर्ग्रहभेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥

  तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
  ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशा[११]दपक्रामति शङ्खयूथम् ॥ १३ ॥

 तवेति ॥ तवाधरस्पर्धिषु । अधरसदृशेष्वित्यर्थः । विद्रुमेषु प्रवालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं

कथंचित्क्लेशादपक्रामति । विलम्ब्यापसरतीत्यर्थः ॥

  प्रवृत्तमात्रेण पयांसि पातुमावर्तवेगाद्बमता घनेन ।
  आभाति भूयिष्ठम[१२]यं समुद्रः प्रमथ्यमानो गिरिणेव भूयः ॥१४॥

 प्रवृत्तेति ॥पयांसि पातुं प्रवृत्त एव प्रवृत्तमात्रो न तु पीतवांस्तेनावर्तवेगात् ॥ "स्यादावर्तोऽम्भसां भ्रमः" इत्यमरः॥ भ्रमता घनेनायं समुद्रो भूयः पुनरपि गिरिणा मन्दरेण प्रमथ्यमान इव भूयिष्ठमत्यन्तमाभाति ॥

  दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
  आभाति वेला लवणाम्बुराशेर्धारानिबध्देव कलङ्करेखा[१३] ॥१५॥

 दूरादिति ॥ अयश्चक्रानिभस्य लवणाम्बुराशेर्दूरात्तन्व्यत्वेनावभासमाना तमालतालीवनराजिभिनीला वेला तीरभूमिर्धारानिबद्धा चक्राश्रिता कलङ्करेखा मालिन्यरेखेव । आभाति ॥ “मालिन्यरेखां तु कलङ्कमाहुः" इति दण्डी ॥

  वेलानिलः केतकरेणुभिस्ते संभावयत्याननमायताक्षि ।
  मामक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णम् ॥ १६ ॥

 वेलेति ॥ हे आयताक्षि ॥ “वेला स्यात्तीरनीरयोः" इति विश्वः॥ वेलानिलः केतकरेणुभिस्त आननं संभावयति ॥ किमर्थमित्यपेक्षायामुत्प्रेक्ष्यते-बिम्बाधरे बद्धतृष्णं मां मण्डनेनाभरणक्रियया कालहानिर्विलम्बस्तस्या अक्षममसहमानम् ॥ कर्मणि षष्ठी ॥ कालहानिमसहमानं वेत्तीव वेत्ति किम् । नो चेत्कथं संभावयेदित्यर्थः॥

  एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
  प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालम् ॥ १७ ॥

 एत इति ॥ एते वयं सैकतेषु भिन्नाभिः स्फुटिताभिः शुक्तिभिः पर्यस्तानि परितः क्षिप्तानि मुक्तानां पटलानि यस्मिंस्तत्तथोक्तं फलैरार्वजिता आनमिता पूगमाला यस्मिस्तत्पयोधेः कूलं विमानवेगान्मुहूर्तेन प्राप्ताः ॥

  कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्टिपातम् ।
  एषा विदूरोभवतः समुद्रात्सकानना नि[१४]ष्पततीव भूमिः।। १८॥

 कुरुष्वेति ॥ “मणिवन्धादाकनिष्ठ करस्य करभो बहिः” इत्यमरः ॥ करभ इवोरू यस्याः सा करभोरूः ॥ “ऊरुत्तरपदादौपम्ये” इत्यूङ् ॥ तस्याः संबुद्धिर्हे करभोरु । मृगवत्प्रेक्षत इति विग्रहः।हे मृगप्रेक्षिणि । तावत्पश्चान्मार्गे लङ्घिताध्वनि दृष्टिपातं कुरुष्व । एषा सकानना भूमिर्विदूरीभवतः समुद्रान्निष्पतति निष्क्रामतीव ॥

विदूरशब्दाद्विशेष्यनिघ्नाच्च्विः॥

  क्वचित्पथा संचरते सुराणां कचिद्धनानां प[१५]ततां क्वचिच्च ।
  यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥१९॥

 क्वचिदिति ॥ हे देवि, विमानं पुष्पकं मे मनसोऽभिलाषो यथाविधस्तथा प्रवर्तते पश्य ॥ क्वचित्सुराणां पथा संचरते । क्वचिद्धनानां क्वचित्पततां पक्षिणां च पथा संचरते ॥ “ समस्तृतीयायुक्तात्" इति संपूर्वाच्चरतेरात्मनेपदम् ॥

  असौ म[१६]हेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः।
  आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते॥२०॥

 असाविति॥ महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः। त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा ॥ “तद्धितार्थ-" इत्यादिनोत्तरपदसमासः॥ तस्या वीचीनां विमर्दैन संपर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्थान्मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति । अनेन सुरपथसंचारो दर्शितः॥

  करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
  आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ २१ ॥

 करेणेति ॥ हे चण्डि कोपने ॥“चण्डस्त्वत्यन्तकोपनः" इत्यमरः॥ कुतूहलिन्या विनोदार्थिन्या त्वया । कर्त्र्या । वातायने गवाक्षे लम्बितेनावस्रंसितेन करेण स्पृष्ट उद्भिन्नवियुद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुञ्चतीवार्पयतीव ॥ चण्डीत्यासनेन कोपनशीलत्वाद्भीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते ॥

  अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि ।
  अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥२२॥

 अमी इति ॥ अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्तविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि ॥ “पर्णशालोटजोऽस्त्रियाम्" इत्यमरः ॥ चिरोज्झितानि । राक्षसभयादित्यर्थः । आश्रममण्डलान्याश्रमविभागान्यथास्वं स्वं स्वमनतिक्रम्याध्यासतेऽतिष्ठन्ति ।

  सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् ।
  अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥

 सैषेति ॥ सा पूर्वानुभूता स्थल्येषा । दृश्यत इत्यर्थः । यत्र स्थल्यां त्वां विचिन्वतान्विष्यता मया । त्वच्चरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मा-


३५ दिव बद्धमौनं निःशब्दस् । उर्व्यां भ्रष्टमेकं नूपुरं मजीरः ॥ “ मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः ॥ अदृश्यत दृष्टम् ॥ हेतूत्प्रेक्षा ।

  त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे[१७]
  अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥२४॥

 त्वमिति ॥ हे भीरु भयशीले ॥ “ऊङुतः" इत्यूङ् । ततो नदीत्वात्संबुद्धौ ह्रस्वः॥ त्वं रक्षसा रावणेन यतो येन मार्गेण ॥ सार्वविभक्तिकस्तसिः ॥ अपनीतापहृता तं मार्गं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लता वीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन् । हस्तचेष्टयासूचयन्नित्यर्थः ॥ “शाखा वृक्षान्तरे भुजे” इति विश्वः ॥ लतादीनामपि ज्ञानमस्त्येव । तदुक्तं मनुना-“अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः" इति ॥

  मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
  व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥

 मृग्यश्चेति ॥ दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निःस्पृहा मृग्यो मृगाङ्गनाश्चोत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं मां समबोधयन् ॥ दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ॥

  एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्य[१८]म्बरलेखि शृङ्गम् ।
  नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं वि[१९]सृष्टम् ॥२६॥

 एतदिति ॥ माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं श्रुङ्गमेतत्पुरस्तादग्र आविर्भवति । यत्र श्रुङ्गे धनैर्मेधैर्नवं पयो मया त्वद्विपयोगेन यदश्रु तच्च समं युगपद्विसृष्टम् । मेघदर्शनाद्वर्षतुल्यमश्रु विमुक्तमिति भावः ॥

  गन्धश्च धाराहतपल्वलानां कादम्बमोद्गतकेसरं च ।
  स्निग्धाश्च केकाः शिखिनां ब[२०]भूवुर्यस्मिन्न[२१]सह्यानि विना त्वया मे।।

 गन्धश्चेति ॥ यस्मिञ्छृङ्गे धाराभिर्वर्षधाराभिराहतानां पल्वलानां गन्धश्च । अर्धोद्गतकेसरं कादम्ब नीपकुसुमं च । स्निग्धा मधुराः शिखिनां बर्हिणाम् ॥ "शिखिनौ वन्हिबर्हिणौ" इत्यमरः ॥ केकाश्च । त्वया विना मेऽसह्यानि बभूवुः॥

" नपुंसकमनपुंसकेन-" इति नपुंसकैकशेषः॥

  पूर्वानुभूतं स्मरता च ये[२२]त्र कम्पोत्तरं भीरु तवोपगूढम् ।
  गुहाविसारीण्यतिवाहितानि मया कथंचिद्धनगर्जितानि ॥२८॥

 पूर्वेति ॥ किंच । हे भीरु । श्र्ङ्गे विभिन्नकोशर्विकसि पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूहनं स्मरता मया गुहाविसारीणि घनगर्जितानि कथंचिदतिवाहितानि । स्मारकत्वेनोद्दीपकत्वात्क्लेशेन गमितानीत्यर्थः॥

  आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।
  विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः॥२९॥

 आसारेति ॥ यत्र शृङ्गे विभिन्नकोशैर्विकसितकुड्मलैर्नवकद्नलैः लैर्नवकन्दलैः कन्दलीपुष्पैररुणवर्णैरासारेण धारासंपातेन ॥ “ धारासंपात आसारः" इत्यमरः॥ सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोर्विडम्ब्यमानानुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः । सादृश्यात्स्मर्यमाणेति शेषः । मामक्षिणोदपीडयत् ॥

  उपान्तवानीवनोपगूढान्यालक्ष्यपारिप्लवसारसानि ।
  दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः॥३०॥

 उपात्तेति॥ उपान्तवानीरवनोपगूढानि पार्श्ववञ्जुलव्व्नच्छन्नान्यालक्ष्या ईषद्दृश्याः पारिप्लवाश्चञ्चलाः सारसा येषु तान्यमूनि पम्पासलिलानि पम्पासरोजलानिदूरादवतीर्णा मे दृष्टिरतएव खेदात्पिबतीव । न विहातुमुत्सहत इत्यर्थः ।।

  अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
  द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहमीक्षितानि ॥३१॥

 अत्रेति॥ अत्र पम्पासरस्यन्योन्यस्मै दत्तोत्पलकेसराण्यवियुक्तानि रथाङ्गनाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया हे प्रिये सस्पृहं साभिलाषमीक्षितानि । तदानीं त्वामस्मार्षमित्यर्थः ॥

  इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबक[२३]भिनम्राम् ।
  त्वत्प्राप्तिबुद्ध्या प[२४]रिरब्धुकामः सौमित्रिणा सा[२५]श्रुरहं निषिद्धः ॥

 इमामिति ॥ किंच । स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्रां तन्वीमिमा तटाशोकस्य लतां शाखामतस्त्वत्माप्तिबुद्ध्या त्वमेव मातेति भ्रान्त्या परिरब्धुमालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः। नेयं सीतेति

निवारितः ॥ परिरब्धुकामा इत्यत्र "तुं काममनसोरपि" इति वचनान्मकारलोपः॥

  [२६]मूर्विमानान्तरलम्बिनीनां श्रूत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
  प्रत्युद्व्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपतङ्कयस्त्वाम् ॥ ३३॥

 अमूरिति ॥ विमानस्यान्तरेष्ववकाशेषु लम्बन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपङ्कयस्त्वां प्रत्युद्व्रजन्तीव ॥

  एषा त्वया पे[२७]शलमध्ययापि घटाम्बुसंवर्धितबा[२८]लचूता ।
  [२९]नन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥३४॥

 एषेति ॥ पेशलमध्ययापि । भाराक्षमयापीत्यर्थः । त्वया घटाम्बुभिः संवर्धिता बालचूता यस्याः सा । उन्मुखा अस्मदभिमुखास्त्वत्संवर्धिता एव कृष्णसारा यस्याः सा चिराद्दृष्टैषा पञ्चवटी मे मन आनन्दयसाहादयति ॥ पञ्चवटीशब्दः पूर्वमेव व्याख्यातः॥

  अत्रानुगोदं मृगयानिवृत्तस्तरंगवातेन विनीतखेदः।
  रहस्त्वदुत्सङ्गनिष[३०]ण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः॥ ३५ ॥

 अत्रेति ॥ अत्र पञ्चवट्याम् । गोदा गोदावरी । तस्याः समीपेऽनुगोदम् ॥ "अनुर्यत्समया" इत्यव्ययीभावः। मृगायाया निवृत्तस्तरंगवातेन विनीतखेदो रहो रहसि ॥ अत्यन्तसंयोगे द्वितीया ॥ त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि ॥ वाक्यार्थः कर्म ॥ सुप्त इति यत्तत्स्मरामीत्यर्थः ।।

  भ्रू[३१]भेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
  तस्याविलाम्भःपरिशुद्धिहेतोर्भैमो मुनेः स्थानपरिग्रहोऽयम् ॥३६॥

 भ्रूभेदेति ॥ यो मुनिर्भूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्मभ्रंशयांचकार प्रभ्रंशयति स्म । आविलाम्भःपरिशुद्धिहेतोः कलुषजलमसादहेतोस्तस्य मुनेरगस्त्यस्य । अगस्त्योदये शरदि जलं प्रसीदतीत्युक्तं प्राक् । भूमौ भवो भौमः स्थानपरिग्रह आश्रमोऽयम् । दृश्यत इति शेषः॥भौम इत्यनेन दिव्योऽप्यस्तीत्युक्तम् । परिगृह्यत इति परिग्रहः । स्थानमेव परिग्रह इति विग्रहः॥

  त्रेतागिधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
  घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥३७॥

 आतेति॥अनिन्द्यकीर्तेस्तास्यागस्त्यस्त्याक्राविमानमार्गम् हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रेताग्निरग्नित्रयम् ॥“अग्नित्रयमिदं त्रेता" इत्यमरः।। पृषोदरादित्वादेत्वम् ॥ त्रेताग्नेर्धूमाग्रमिदं घ्रात्वाघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ॥

  एतन्मुनेर्मानिनि शा[३२]तकर्णेः पञ्चाप्सरो नाम विहारवारि ।
  आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥३८॥

 एतदिति ॥ हे मानिनि, शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् ॥ पञ्चाप्सरसो यस्मिन्निति विग्रहः ॥ पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् । मेघानामन्तरे मध्य आलक्ष्यमीषद्दृश्यम् ॥ "आ ईषदर्थेऽभिव्याप्तौ" इत्यमरः ॥ इन्दुविम्बमिव । आभाति ॥

  पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना।
  समाधिभीते[३३]न किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥३९॥

 पुरेति ॥ पुरा पूर्वस्मिन्काले दर्भाङ्करमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्धं सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम् ॥ “तद्धितार्थ-" इत्यादिनोत्तरपदसमासः ॥ तदेव कूटबन्धं कपटयन्त्रमुपनीतः ॥ उन्माथः कूटयन्त्र स्यात्" इत्यमरः ॥ किलेत्यैतिह्ये ॥ मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ॥

  तस्यायमन्तर्हितसौधभाजः प्र[३४]सक्तसंगीतमृदङ्गघो[३५]षः।
  वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥४०॥

 तस्येति ॥}} अन्तर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रसक्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन्पुष्पकस्य चन्द्रशाला: शिरोगृहाणि॥ चन्द्रशाला शिरोगृहम्" इति हलायुधः ॥ क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति ॥ “ स्त्री प्रतिश्रुत्पतिध्वाने" इत्यमरः॥

  हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
  असौ त[३६]पस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥४१॥

 हविरिति ॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसावपरस्तपस्वी । एधवतामिन्धनवताम् ॥ "काष्ठं दार्विन्धनं त्वेधः" इत्यमरः ॥ चतुणीं हविर्भुजामग्नीनां मध्ये । ललाटं तपतीति ललाटंतपः सूर्यः ॥ " असूर्यललाटयोर्दृशितपोः" इति खश्प्रत्ययः । “अरुर्द्विषत्-" इत्यादिना मुमागमः ।। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन् । तपस्यति तपश्चरति ॥ "कर्मणा रोमन्थतपोभ्यां वर्तिचरोः" इति क्याङ् । तपसः परस्मैपदं च" इति वक्तव्यम् ॥

  अमुं सहासप्रहितेक्षणानि व्याजासंदर्शितमेखलानि ।
  नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥४२॥

 अमुमिति ॥ जनितेन्द्रशङ्कम् । तपसेति शेषः । अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि । व्याजेन केनचिन्मिषेण ॥ “पुंस्यर्थोऽर्धं समेंऽशके " इति विश्वः ॥अर्धमीषत्पसंदर्शिता मेखला येषु तानि सुराङ्गनानामिन्द्रप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न । बभूवुरिति शेषः॥

  एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् ।
  सभाजने मे भुजमू[३७]र्ध्वबाहुः सव्येतरं प्रा[३८]ध्वमितः प्रयुङ्क्ते ॥४३॥

 एष इति ॥ ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारम् । कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम् ॥ “कर्मण्यम्" इत्यण्॥ एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमत्वं च द्योत्यते ॥ सव्यादितरं दक्षिणं भुजं मे मम सभाजने संमाननिमित्ते ॥ "निमित्तात्कर्मयोगे" इति सप्तमी ॥ इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते ॥ “आनुकूल्यार्थकं प्राध्वम्" इत्यमरः ॥ अव्ययं चैतत् ॥

  वाचंयमत्वात्प्रणति ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
  दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥४४॥

 वाचंयमेति ॥ एष सुतीक्ष्णः । वाचं यच्छतीति वाचंयमो मौनव्रती ॥ "वाचि यमो व्रते" इति खच्प्रत्ययः । “वाचंयमपुरंदरौ च" इति मुम् ॥ तस्य भावस्तत्त्वान्मम प्रणतिं किंचिन्मूर्ध्नः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तिरोधानं तस्मान्मुक्ताम् ॥ “अपेतापोढमुक्तपतित-" इत्यादिना पञ्चमीसमासः॥ दृष्टिं पुनः सहस्रार्चिषि सूर्ये संनिधत्ते । सम्यग्धत्त इत्यर्थः । अन्यथाकर्मकत्वा प्सारसङ्ड्त्गा॥

  अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
  चिराय संतर्प्य समिद्भिरग्नीं यो मन्त्रपूतां तनुमप्यहौषीत् ॥४५॥

 अद इति ॥ शरणे रक्षणे साधु शरण्यम् । पावयतीति पावनम् । अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि । यः शरभाश्चिराय चिरमग्निं समिद्भिः संतर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहैषीदुतवान् ॥ जुहोतेर्लुङ् ॥

  छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
  तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥४६॥

 छायेति। अधुनास्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्यातिथिपूजा ॥

“पूजा नमस्यापचितिः सपर्याचार्हणाः समाः" इत्यमरः ॥ छायाभिर्विनीतोऽपनीतोऽध्वपरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि फलानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता । तत्पुत्रइरिव पादपैरनुष्ठीयत इत्यर्थः ॥

  धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदप्रपङ्कः ।
  बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः॥४७॥

 धारेति ॥ धारा निर्झरधाराः । यद्वा धारया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः। शृङ्गं शिखरं विषाणं च । तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः । असौ चित्रकूटो हे बन्धुरगात्रि उन्नतानताङ्गि ॥ “बन्धुरं तूनतानतम्" इत्यमरः ॥ दृप्तः ककुद्मान्वृषभः इव । मे चक्षुर्बध्नात्यनन्यासक्तं करोति ॥

  एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
  मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः।।४८।।

 एषेति ॥ प्रसन्नो निर्मलः स्तिमितो निःस्पन्दःप्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिच्चित्रकूटनिकटगैषा सरिन्नगोपकण्ठे । भूमेः कण्ठगता मुक्तावलीव । भाति ॥ अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥

  अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
  यवाङ्करापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥४९॥

अयमिति ॥ गिरेः समीपेऽनुगिरम् ॥ “गिरेश्च सेनकस्य” इति समासान्तष्टप्रत्ययः ॥ सुजातः स तमालोऽयं दृश्यते । यस्य तमालस्य । शोभनो गन्धो यस्य तत्सुगन्धि ॥ गन्धस्य-" इत्यादिनेकारः समासान्तः ॥ प्रवालं पल्लवमादाय मया ते यवाङ्कुरवदापाण्डौ कपोले शोभी शोभते यः सोऽवतंसः परिकल्पितः ॥

  अनिग्रहत्रासविनीतसत्त्वम[३९]पुष्पलिङ्गालबन्धिवृक्षम् ।
  वनं तपःसाधनमेतदत्रेविष्कृतोदनतरप्र[४०]भावम् ॥५०॥

 अनिग्रहेति ॥ अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्त्वा जन्तवोयस्मिंस्तत् । अपुष्पलिङ्गात्पुष्परूपनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा

यस्मिंस्तत् । अतएवाविष्कृतोदग्रतरप्रभावमत्रेर्मुनेस्तपसः साधनं वनमेतत् ।।

  अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम् ।
  प्रवर्तयामास किलानुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥५१॥

 अत्रेति॥ अत्र वनेऽनुसूयात्रिपत्नी । सप्त च ते ऋषयश्च सप्तर्षयः ॥ “दिक्संख्ये संज्ञायाम्" इति तत्पुरुषसमासः ॥ तेषां हस्तैरुद्धृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमालां हरशिरःस्रजं त्रिस्रोतसं भागीरथीं तपोधनानामृषीणामभिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास । किलेत्यैतिह्ये ॥

  वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः।
  निवातनि[४१]ष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥५२॥

 वीरेति ॥वीरासनैर्जयसाधनैः । ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः । तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदिमध्याः । इदं वीरासनस्थानीयम् । अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति । ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति ॥वीरासने वसिष्ठः-"एकपादमथैकस्मिन्विन्यस्योररुणि संस्थितम् । इतरस्मिंस्तथा चान्यं वीरासनमुदाहृतम्" इति ॥

  त्वया पुरस्तादुपयाचितो यः सोऽयं वटःश्याम इति प्र[४२]तीतः।
  राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति॥५३॥

 त्वयेति ॥ त्वया पुरस्तात्पूर्वं य उपयाचितः प्रार्थितः ॥ तथा च रामायणे -"न्यग्रोधं तमुपस्थाय वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष पालयेन्मे व्रतं पतिः' इति ॥श्याम इति प्रतीतः स वटोऽयं फलितः सन् । सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव । विभाति ॥ "क्वचित्-" इत्यादिभिश्चतुर्भिः श्लोकः प्रयागे गङ्गायमुनासंगमं वर्णयति

  कचित्प्रभालेपिभिरीन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा।
  अन्यत्र माला सितपङ्कजानामिन्दीवरैरु[४३]त्खचितान्तरेव ॥ ५४ ॥


 ५३-५४ श्लोकयोर्मध्य इमे श्लोका दृश्यन्ते-

    तमिस्रया शुक्लनिवेशभिन्ना कुन्दलगिम्दीवरमालयेव ।
    कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरोरेरिव कण्ठभासा ।।
    द-र्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा दिशेव ।
    गवाक्षकालागरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव ॥
    तुषारसंघातशिला हिमाद्रेर्ज्यात्यञ्जनप्रस्तरशोभयेव ।
    पतत्रिणां मानसगोचराणां श्रेणीव कादम्बविहंगपङ्क्त्या।

  क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः।
  अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ५५ ॥
  क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
  अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभः प्रदेशा ॥५६॥
  कचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
  पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरंगैः॥५७॥

 हे अनवद्याङ्गि, यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति । त्वं पश्य । केव । क्वचित्पदेशे प्रभया लिम्पन्ति संनिहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा । सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव । विभाति ॥ अन्यत्र प्रदेश इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा । सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव । विभातीति सर्वत्र संबन्धः ॥ क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां तेषां खगानां राजहंसानां पङ्क्तिरिव ॥ "राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः" इत्यमरः ॥ अन्यत्र कालागुरुणा दत्तपत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव ॥ क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव ॥ अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपङ्क्तिरिव ॥ क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव । विभाति ॥ शेषो व्याख्यातः॥ कलापकम् ॥

  समुद्रपल्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात् ।
  तत्त्वावबोधेन विनापि भूयस्तं[४४]नुत्यजां नास्ति शरीरबन्धः॥५८॥

 समुद्रेति ॥ अत्र समुद्रपत्न्योर्गङ्गायमुनयोर्जलसंनिपाते संगमेऽभिषेकात्स्नानात्पूतात्मनां तनुत्यजां शुद्धात्मनां पुंसां तत्त्वावबोधेन तत्त्वज्ञानेन विनापि प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल ॥ अन्यत्र ज्ञानादेव मुक्तिः । अत्र तु स्नानादेव मुक्तिरित्यर्थः।।

  पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलि[४५]मणिं विहाय ।
  जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति॥५९॥

पुरमिति ॥  निषादाधिपतेर्गुहस्य तत्पुरमिदम् । यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः "हे कैकेयि, तव कामा मनोरथाः

फलिताः : सफला जाताः" इत्यरुदत् ॥ “रुदिरश्रुविमोचने" इति धातोर्लुङ् ।

  पयोधरैः पुण्यजनाङ्गनाना नि[४६]र्विष्टहेमाम्बुजरेणु यस्याः।
  ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥६०॥

 पयोधरैरिति ॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निविष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत् । तत्र ताः क्रीडन्तीति व्यज्यते । ब्रह्मण इदं ब्राह्मम् ॥ "नस्तद्धिते” इति टिलोपः ॥ ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः । बुद्धमहत्तत्वस्याव्यक्तं प्रधानमिव कारणम् । आप्तस्य वाच आप्तवाचो वेदाः । यद्वा बहुव्रीहिणा मुनयः । उदाहरन्ति प्रचक्षते ॥

  जलानि या तीरनिखातयू[४७]पा वहत्ययोध्यामनु राजधानीम् ।
  तुरंगमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥६१॥

 जलानीति ॥ यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः । तीरनिखातयूपा या सरयस्तुरंगमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णरवरूढरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः ॥ तद्राजत्वादणो लुक् ॥ पुण्यतरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानी नगरीमनु समीपे । तया लक्षितयेत्यर्थः ॥ अनुशब्दस्य "लक्षणेत्थंभूत-" इत्यादिना कर्मप्रवचनीयत्वात्तद्योगे द्वितीया ॥ वहति प्रापयति।।

  यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
  सामान्यधात्रीमिव मानसं मे संभावयत्युत्तरकोसलानाम्॥६२॥

 यामिति ॥ यां सरयूं मे मानसम् । कर्तृ । सैकतं पुलिनम् । तदेवोत्सङ्गः । तत्र यत्सुखं तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च ॥ “पयः क्षीरं पयोऽम्बु च" इत्यमरः ॥ परिवर्धितानां पुष्टानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्री साधारणमातरमिव । संभावयति ॥ “धात्री जनन्यामलकी वसुमत्युपमातृषु" इति विश्वः॥

  सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूवि[४८]युक्ता।
  दूरे व[४९]सन्तं शिशिरानिलैर्मां तरंगहस्तैरुपगूहतीव ॥ ६३॥

 सेयमिति ॥ मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तम् । प्रोष्यागच्छन्तमित्यर्थः । मां पुत्रभूतं शिशिरानिलस्तरंगैरेव हस्तैरुपगूहतीवालिङ्गतीव ॥

  विरक्तसंध्याकपिशं पुरस्ताद्य[५०]तो रजः पार्थिवमुज्जिहीते।
  शङ्के ह[५१]नूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥६४॥

 विरक्तति ॥ विरक्तातिरक्ता या संध्या तद्वत्कपिशं ताम्रवर्णम् । पृथिव्या

इदं पार्थिवम् । रजो धूलिः पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति । तस्मात् । हनुरस्यास्तीति हनूमान् ॥ “शरादीनां च" इति दीर्घः ॥ तेन कथि सा प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्मां प्रत्युद्गत इति शङ्के तर्कयामि ॥ " शङ्का भयवितर्कयोः” इति शब्दार्णवे ॥ अत्र यत्तदोर्नित्यसंबन्धात्तच्छब्दलाभः ॥

  [५२]द्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
  हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥६५॥

 अद्धेति ॥ किंच । साधुः सजनः स भरतः ॥ “साधुर्वार्धुश्हिके चारो सज्जने चापि वाच्यवत्" इति विश्वः ॥ पालितसंगराय पालितपितृप्रतिज्ञाय मे मह्यमनघामदोषां भोगाभावादनुच्छिष्टां किंतु संरक्षितां श्रियम् । मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणः संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम् ॥ “सत्ये त्वद्धाञ्जसा द्वयम्" इत्यमरः ॥

  असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
  वृद्धैरमात्यैः सह चीरवासा माम[५३]य॑पाणिर्भरतोऽभ्युपैति ॥ ६६ ॥

 असाविति ॥ असौ पदातिः पादचारी चीरवासा वल्कलवसनो भरतः पश्चात्पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन् ॥ “नवृतश्च” इति कप् ॥ गुरुं वसिष्टं पुरस्कृत्य वृद्धैरमात्यैः सहार्घ्यपाणिः सन्मामभ्युपैति ॥

  पित्रा वि[५४]सृष्टां मदपेक्षया यः श्रियं युवाप्य॑[५५]ङ्कगतामभोक्ता।
  इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ ६७॥

 पित्रेति ॥ यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि । यां श्रियं युवापि मदपेक्षया मद्भक्त्याभोक्ता सन् ॥ तृन्नन्तत्वात् “न लोक-" इति षष्ठीनिषेधः ॥ इयन्ति वर्षाण्येतावतो वत्सरान् ॥ असन्तसंयोगे द्वितीया ॥ तया श्रिया सह । स्त्रियेति च गम्यते । उग्रं दुश्वरमासिधारं नाम व्रतमभ्यस्यतीव वर्तयतीव ॥ "युवा युवया सार्धं यन्मुग्धभर्तृवदाचरेत् । अन्तनिवृत्तसङ्गः स्यादासिधारवंतं हि तत्" इति यादवः ॥ इदं चासिधाराचंक्रमणतुल्यत्वादासिधारव्रतमित्युक्तम् ॥

  एतावदुक्तवति दाशरथौ तदीया-
   मिच्छां विमानमधिदेवतया विदित्वा ।
  ज्योतिष्पथादवततार सविस्मयाभि-
   रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः॥ ६८॥

 एतावदिति॥दाशरथौ राम एतावदुक्तवति सति विमानं पुष्पकम् । कर्तृ ।

तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा । तत्प्रेरितं सदित्यर्थः । सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वीक्षितं सज्ज्योतिष्पथादाकाशादवततार ॥

  तस्मात्पुरःसरबिभीषणदर्शितेन
   सेवाविचक्षणहरीश्वरदत्तहस्तः ।
  यानादवातरददूरमहीतलेन
   मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ६९ ॥

 तस्मादिति ॥ रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तो हस्तो हस्तावलम्बो यस्य तादृशः सन् । स्थलज्ञत्वात्पुरःसरो विभीपणस्तन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छित्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात्पुष्पकादवातरदवतीर्णवान् ॥ तरतेर्लङ् ॥

  इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य
   से[५६] भ्रातरं भरतम[५७]र्घ्यपरिग्रहान्ते ।
  पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ
   तद्भक्त्यपोढपितृराज्यमहाभिषिके ॥ ७० ॥

 इक्ष्वाक्विति ॥ प्रयत: स राम इक्ष्वाकुवंशगुरवे वसिष्ठाय प्रणम्य नमस्कृत्यार्घ्यस्य परिग्रहः स्वीकारस्तस्यान्ते पर्यश्रुः परिगतानन्दबाष्पः सन् । भ्रातरं भरतमस्वजतालिङ्गत् । तस्मिन्रामे भक्त्यापोढः परिहृतः पितृराज्यमहाभिषेको येन तस्मिन्मूर्धन्युपजघौ च ॥ घ्रा गन्धोपादाने" लिटि रूपम् ॥

  मश्रुप्रवृद्धिजनिता[५८]ननविक्रियांश्च
   [५९]क्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
  [६०]न्वग्रहीत्प्रणमतः शुभदृष्टिपा[६१]तै-
   र्वार्तानुयोगमधुराक्षरया च वाचा ॥ ७१ ॥

 श्मश्र्विति ॥ श्मश्रूणां मुखरोम्णां प्रवृद्ध्या संस्काराभावादभिवृद्ध्या जनिताननेषु विक्रिया विकृतिर्येषां तानतएव प्ररोहैः शाखावलम्बिभिरधोमुखैर्मूलैजटिलाञ्जटावतः प्लक्षान्यग्रोधानिव स्थितान् । प्रणमतो मन्त्रिवृद्धांश्च शुभैः

कृपादृष्टिपातैर्वार्तस्यानुयोगेन कुशलप्रश्नेन मधुराक्षरया वाचा चान्वग्रहीदनुगृहीतवान् ।

  दु[६२]र्जातबन्धुरयमृक्षहरीश्वरो मे
   पौलस्त्य एष स[६३]मरेषु पुर प्रहर्ता।
  इत्या[६४]दृतेन कथितौ रघुनन्दनेन
   व्युत्क्रम्य लक्ष्मणमुभौ भरतो ववन्दे ॥७२॥

 दुर्जात इति ॥ अयं मे दुर्जातबन्धुरापद्बन्धुः। “दुर्जातं व्यसनं प्रोक्तम्" इति विश्वः ॥ ऋक्षहरीश्वरः सुग्रीवः । एष समरेषु पुरःमहर्ता पौलस्त्यो विभीषणः। इत्यादृतेनादरवता ॥ कर्तरि क्तः॥ रघूणां नन्दनेन रामेण कथितावुभौ विभीषणसुग्रीवौ लक्ष्मणमनुजमपि व्युत्क्रम्यालिङ्गनादिभिरसंभाव्य भरतो ववन्दे ।।

  सौमित्रिणा तदनु संससृजे स चैन-
   मुत्थाप्य नम्रशिरसं भृशमालिलिङ्ग ।
  रूढेन्द्रजित्प्रहरणव्रणकर्कशेन
   क्लिश्यन्निवास्य भुजमध्यमुरःस्थलेन ॥ ७३ ॥

 सौमित्रिणेति ॥ तदनु सुग्रीवादिवन्दनानन्तरं स भरतः सौमित्रिणा संससृजे संगतः ॥ "सृज विसर्गे" देवादिकात्कर्तरि लिट् ॥ नम्रशिरसं प्रणतमेनं सौमित्रिमुत्थाप्य भृशं गाढमालिलिङ्ग च । किं कुर्वन् । रूढेन्द्रजिर्प्रहरणव्रणैः कर्कशेनास्य सौमित्रेरुर:स्थलेन भुजमध्यं स्वकीयं क्लिश्यन्निव पीडयन्निव ॥ क्लिश्नातिरयं सकर्मकः। “क्लिश्नाति भुवनत्रयम्" इति दर्शनात् ॥ ननु रामायणे-“ततो लक्ष्मणमासाद्य वैदेही च परंतपः। अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् " इति भरतस्य कानिष्ठ्यं प्रतीयते । किमर्थं ज्यैष्ठ्यमवलम्ब्यानार्जवेन श्लोको व्याख्यातः । सत्यम् । किंतु रामायणश्लोकार्थष्टीकाकृतोक्तः श्रूयताम् ॥ “ततो लक्ष्मणमासाद्य-" इत्यादिश्लोक आसादनं लक्ष्मणवैदेह्योः । अभिवादनं तु वैदेह्या एव । अन्यथा पूर्वोक्तं भरतस्य ज्यैष्ठ्यं विरुध्येतेति ॥

  रामाज्ञया हरिचमूपतयस्तदानीं
   कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान्।
  तेषु[६५] क्षरत्सु बहुधा मदवारिधाराः
   शैलाधिरोहणसुखान्युपलेभिरे ते ॥ ७४ ॥

 रामेति ॥ तदानीं हरिचमूपतयो रामाज्ञया मनुष्यवपुः कृत्वा गजेन्द्रानारुरुहुः।

बहुधा मदवारिधाराः क्षरत्सु वर्षत्सु तेषु गजेन्द्रेषु ते कपियूथनाथाः शैलाधिरोहणसुखान्युपलेभिरेऽनुबभूवुः ॥

  सानुप्लवः प्रभुरपि क्षणदाचराणां
   भेजे र[६६]थान्दशरथप्प्रभवानुशिष्टः ।
  मायाविकल्परचितैरपि ये[६७]तदीयै-
   र्न स्यन्दनैस्तुलितकृत्रिमभ[६८]क्तिशोभाः॥७५ ॥

{{gapसानुम्लव इति ॥}} सानुप्लवः सानुगः ॥ "अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः" इति यादवः ॥क्षणदाचराणां प्रभुर्विभीषणोऽपि । प्रभवत्यस्मादिति प्रभवो जनकः । दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तःसरथान्भेजे ॥ तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संकल्पविशेषनिमितैरपि तदीयविभीषणीयैः स्यन्दनै रथस्तुलितकृत्रिमभक्तिशोभास्तुलिता समीकृता कृत्रिमा क्रियया निवृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति । तेऽपि तत्साम्यं न लभन्त इत्यर्थः ॥ कृत्रिमेत्यत्र “ड्वितः क्रिः" इति क्रिप्रत्ययः । कत्रेमम्नित्यम्” इति ममागमः ॥

  भूयस्ततो रघुपतिर्विलसत्पताक-
   मध्यास्त कामगति सावरजो विमानम्।
  दोषातनं बुधबृहस्पतियोगदृश्य-
   स्ता[६९]रापतिस्तरलविद्युदिवा[७०]भ्रवृन्दम् ॥ ७६ ॥

भूय इति ॥ ततो रघुपतिः सावरजो भरतलक्ष्मणसहितः सन्। विलसत्पताकं कामेनेच्छानुसारेण गतिर्यस्य तद्विमानं भूयः पुनरपि । बुधबृहस्पतिभ्यां योगेन दृश्यो दर्शनीयस्तारापतिश्चन्द्रो दोषाभवं दोषातनम् ॥ “सायंचिरंप्राह्णे-" इत्यादिना दोषाशब्दादव्ययाट्ट्युप्रत्ययः ॥ तरलविद्युच्चञ्चलतडिदभ्रवृन्दमिव । अध्यास्ताधिष्ठितवान् ॥

  तत्रेश्वरेण जगतां प्रलयादिवोर्वी
   वर्षात्ययेन रुचमभ्रघनादिवेन्दोः।
  रामेण मैथिलसुतां दशकण्ठकृच्छा-
   प्र[७१]त्युद्धृतां धृतिमतीं भरतो ववन्दे ॥ ७७ ।।

 तत्रेति ॥ तत्र विमाने । जगतामीश्वरेणादिवराहेण प्रलयादुर्वीमिव । वर्षात्ययेन शरदागमेनाभ्रघनान्मेघसंघातादिन्दो रुचं चन्द्रिकामिव । रामेण दशकण्ठ एव

कृच्छं संकटं तस्मात्प्रत्युद्धृतां धृतिमतीं संतोषवतीं मैथिलसुतां सीतां भरतो ववन्दे ।।

  लङ्केश्वरप्रणतिभङ्गदृढव्रतं त-
   द्वन्द्यं युगं चरणयोर्जनकात्मजायाः।
  ज्येष्ठानुवृत्तिज[७२]टिलं च शिरोऽस्य साधो-
   रन्योन्यपावनमभूदुभयं समेत्य ॥ ७८॥

 लङ्केश्वरेति ॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वान्योन्यस्य पावनं शोधकमभूत् ॥

  क्रोशार्धं प्रकृतिपु[७३]रःसरेण गत्वा
   काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
  शत्रुघ्नप्रतिविहितोपकार्यमार्यः
   साकेतोपवनमुदारमध्युवास ॥ ७९ ॥

 क्रोशेति ॥ आर्यः पूज्यः काकुत्स्थो रामः प्रकृतयः प्रजाः पुरःसर्यो यस्य तेन स्तिमितजवेन मन्दवेगेन पुष्पकेण । क्रोशोऽध्वपरिमाणविशेषः । क्रोशार्धं क्रोशैकदेशं गत्वा शत्रुघ्नेन प्रतिविहिताः सज्जिता उपकार्याः पटभवनानि यस्मिंस्तदुदारं महत्साकेतस्यायोध्याया उपवनमध्युवासाधितष्ठौ ॥ “साकेतः स्यादयोध्यायां कोसलानन्दिनी तथा" इति यादवः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदास कृतौ रघुवंशे महाकाव्ये
दण्डकाप्रत्यागमनो नाम त्रयोदशः सर्गः ।


  1. पूर्वम्.
  2. पक्षच्छिदः.
  3. गोत्रभिदः; गोत्रभित्तः.
  4. भयार्ताः-
  5. एतम्.
  6. यस्य.
  7. संमीलयम्त्यः.
  8. विवृताननत्वम्.
  9. विस्फूजिति.
  10. विवृद्ध.
  11. कष्टात्.
  12. इतः.
  13. लेखा.
  14. निःसरति.
  15. मरुताम्.
  16. महेन्द्रद्दिपदानगन्धो; सुरेन्द्रद्विषदानगन्धो.
  17. ते.
  18. अम्बरलेढि.
  19. विमुक्तम्.
  20. त्वया; अभूवन्.
  21. विना दुःप्रसहान्यभूवन्.
  22. रात्रौ.
  23. अवनम्राम्.
  24. परिरिप्समाणः; परिरप्स्यमानः.
  25. सास्त्रम्.
  26. अमुम्.
  27. पेलवमध्यया; कोमलमध्यया.
  28. बालचूतान्.
  29. आह्लादयति; आक्लेदयति
  30. निषङ्गमूर्धा.
  31. भूभङ्गमात्रेण.
  32. माण्डकर्णेः मान्दकर्णेः.
  33. भेदेन.
  34. प्रयुक्त.
  35. नादः.
  36. हि तप्स्यति.
  37. उग्रतेजाः
  38. प्रांशु.
  39. अपुण्यलिङ्गाप्तमपुण्यवृक्षम्.
  40. प्रवाहम्.
  41. निष्कम्पितया.
  42. प्रकाशः.
  43. उद्ग्रन्थितान्तरा.
  44. शरीरिणाम्.
  45. मौलिमणीन्.
  46. निर्घुष्ट.
  47. यूपैः.
  48. विमुक्ता.
  49. अपि सन्तम्.
  50. यस्मात्; एतत्; यथा
  51. हनूमान्कथित.
  52. अद्य
  53. अर्घपाणिः.
  54. निसृष्टाम्.
  55. अङ्गगताम्.
  56. सभ्रातरम्.
  57. अर्धपरिग्रहान्ते.
  58. आकृतिविक्रियान्.
  59. वृक्षान्.
  60. प्रत्यग्रहीत्.
  61. दाने:
  62. दुःखैकबन्धुः.
  63. समरे च.
  64. आदरेण.
  65. येषु.
  66. रथम्.
  67. यः.
  68. भक्तिशोभः.
  69. ताराधिपः.
  70. अभ्रकूटम्.
  71. अभ्युद्धृताम्.
  72. जटिलेन.
  73. पुरःसरोऽपि.