रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)

विकिस्रोतः तः
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/चतुर्दशः सर्गः(सीतापरित्यागः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
कालिदासः
षोडशः सर्गः(कुमुद्वतीपरिणयः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

पञ्चदशः सर्गः।


    अरण्यकं गृहस्थानं श्वशुरौ यद्रजःकणाः ( ? )।
    स्वयमौद्वाहिकं गेहं तस्मै रामाय ते नमः (?) ॥

  कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
  बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ १॥

 कृतेति ।। कृतसीतापरित्यागः स पृथिवीपालो रामो रत्नाकर एव मेखला यस्यास्ताम् । सार्णवामित्यर्थः । केवलाम् । एकामित्यर्थः । पृथिवीमेव बुभुजे भुक्तवान् । नतु पार्थिवीमित्यर्थः ॥ सापि रत्नखचितमेखला । पृथिव्याः कान्तासमाधिर्व्यज्यते ॥ रामस्य स्त्र्यन्तरपरिग्रहो नास्तीति श्लोकाभिप्रायः॥

  लवणेन विलुप्तेज्यास्तामिस्रेण तम[१]भ्ययुः ।
  मुनयो यमुनाभाजः शरण्यं शरणार्थिनः॥२॥

 लवणेनेति ॥ लवणेन लवणाख्येन तामिस्रेण तमिस्राचारिणा। रक्षसेत्यर्थः। विलुप्तेज्या लुप्तयागक्रिया अतएव शरणार्थिनो रक्षणार्थितो यमुनाभाजो यमुनातीरवासिनो मुनयः शरण्यं शरणार्हं रक्षणसमर्थ तं रामं रक्षितारमभ्ययुः प्राप्ताः ॥यातेर्लङ् ॥


  अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुःस्वतेजसा ।
  त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम् ॥ ३॥

 अवेक्ष्येति ॥ ते मुनयो राममवेक्ष्य । रक्षितारमिति शेषः । तस्मिल्लवणे स्वतेजसा शापरूपेण न प्रजह्रुः । तथाहि । त्रायत इति त्राणं रक्षकम् ॥ कर्तरि ल्युट् ॥ तदभावे शाप एवास्त्रं येषां ते शापास्त्राः सन्तस्तपसो व्ययं कुर्वन्ति । शापदानात्तपसो व्यय इति प्रसिद्धः॥

  प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
  [२]र्मसंरक्षणार्थैव प्र[३]वृत्तिर्भुवि शार्ङ्गिणः॥ ४ ॥

 प्रतीति ॥ काकुत्स्थो रामस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां लवणवधरूपां प्रतिशुश्राव प्रतिजज्ञे ॥ तथाहि । भुवि शार्ङ्गिणो विष्णोः प्रवृत्ती रामरूपेणावतरणं धर्मसंरक्षणमेवार्थः प्रयोजनं यस्याः सा तथैव ॥

  ते रामाय वधोपायमाचख्युर्विबुधद्विषः।
  दुर्जयो लवणःशूली विशूलः प्रार्थ्यतामिति॥५॥

 त इति ॥ ते मुनयो रामाय विबुधद्विषः सुरारेर्लवणस्य वधोपायमाचख्युः॥ लुनातीति लवणः ॥ नन्द्यादित्वाल्ल्युः । तत्रैव निपातनाण्णत्वम् ॥ लवणः शूली शूलवान्दुर्जयोऽक्षयः । किंतु विशूलः शूलरहितः पार्थ्यतामभिगम्यताम् ॥ "याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः" इति केशवः ।।

  आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः ।
  करिष्यन्निव नामास्य यथार्थमरिनिग्रहात् ॥ ६ ॥

 आदिदेशेति ॥ अथ तेषां मुनीनां क्षेमाय क्षेमकरणाय राघवो रामः शत्रुघ्नमादिदेश ।। अत्रोत्प्रेक्ष्यते-अस्य शत्रुघ्नस्य नामारिनिग्रहाच्छत्रुहननाद्धेतोः। यथाभूतोऽर्थो यस्य तद्यथार्थं करिष्यन्निव । शत्रून्हन्तीति शत्रुघ्नः ॥ “अमनुष्यकर्तृके च" इति चकारात्कृतघ्नशत्रुघ्नादयः सिद्धा इति दुर्गसिंहः । पाणिनीयेऽपि वहुलग्रहणाद्यथेष्टसिद्धिः “कृत्यल्युटो बहुलम्" इति ॥ रामस्य स्वयमप्रयाणे हेतुमाह-

  यः कश्चन रघूणां हि परमेकः परंतपः।
  अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः॥७॥

 य इति॥हि यस्मात् । पराञ्छत्रूंस्तापयतीति परंतपः॥"द्विषत्परयोस्तापेः" इति खच्प्रत्ययः । “ खचि ह्रस्वः" इति ह्रस्वः॥ रघूणां मध्ये यः कश्चनैकः । अपवादो विशेषशास्त्रमुत्सर्गं सामान्यशास्त्रमिव । परं शत्रुं व्यावर्तयितुं बाधितुमीश्वरः समर्थः । अतः शत्रुघ्नमेवादिदशेति पूर्वेणान्वयः ॥

  अग्रजेन प्रयुक्ताशीस्त[४]तो दाशरथी रथी।
  ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः॥८॥

 अग्रजेनेति॥ ततोऽग्रजेन रामेण प्रयुक्ताशीः कृताशीर्वादोरथी रथिकोऽभीर्निर्भीको दाशरथिः पुष्पाणि संजातानि यासां ताः पुष्पिताः सुरभीरामोदमाना वनस्थलीः पश्यन्ययौ ॥

  रामादेशादनुगता सेना तस्यार्थसिद्धये ।
  पश्चादध्ययनार्थस्य धातोरधिरिवाभवत् ॥ ९॥

 रामेति ॥रामादेशाद[५]नुगता सेना तस्य शत्रुघ्नस्य । अध्ययनमर्थोऽभिधेयो यस्य तस्य ॥ धातोः “इङ्ङध्ययने" इत्यस्य धातोः पश्चादधिरध्युपसर्ग इव । अर्थसिद्धये प्रयोजनसाधनायेत्येकत्र । अन्यत्राभिधेयसाधनाय। अभवत् ॥ "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इत्यमरः ॥ यथा “ इङिकावध्युपसर्गं न व्यभिचरते" इति न्यायेनाध्युपसर्गः स्वयमेवार्थसाधकस्य धातोः संनिधिमात्रेणोपकरोति सेनापि तस्य तद्वदिति भावः॥

  आदिष्टवर्त्मा मुनिभिः स[६] गच्छंस्तपतां व[७]रः।
  विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान् ॥१०॥

 आदिष्टेति ॥ रथप्रष्टै रथाग्रगामिभिः ॥ “प्रष्ठोऽग्रगामिनि"इति निपातः ।। मुनिभिः पूर्वोक्तैरादिष्टवर्त्मा निर्दिष्टमार्गो गच्छंस्तपतां देदीप्यमानानां मध्ये वरः श्रेष्ठः स शत्रुघ्नः । वालखिल्यैर्मुनिभिरंशुमान्सूर्य इव । विरराज ॥ तेऽपि रथप्रष्ठा इत्यनुसंधेयम् ॥

  तस्य मार्गवशादेका बभूव वसतिर्यतः ।
  [८]थस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥ ११ ॥

 तस्येति ॥ यतो गच्छतः॥ इण्धातोः शतृप्रत्ययः॥ तस्य शत्रुघ्नस्य मार्गवशाद्रथस्वन उत्कण्ठा उद्ग्रीवा मृगा यस्मिंस्तस्मिन्वाल्मीकीये वाल्मीकिसंबन्धिनि ।

"वृद्धाच्छः” इति छप्रत्ययः ॥ तपोवन एका वसती रात्रिर्बभूव । तत्रैकां रात्रिमुपित इत्यर्थः । वसती रात्रिवेश्मनोः" इत्यमरः॥

  तमृषिः पूजयामास कुमारं क्ला[९]न्तवाहनम् ।
  तपःप्रभावसिद्धाभिर्विशेष[१०]प्रतिपत्तिभिः ॥ १२॥

 तमिति ॥ क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नमृषिर्वाल्मीकिस्तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिरुत्कृष्टसंभावनाभिः पूजयामास ॥

  तस्यामेवास्य यामिन्यामन्तर्वत्नी प्रजावती।
  सुतावसूत संप[११]न्नौ कोशदण्डाविव क्षितिः॥ १३ ॥

 तस्यामिति ॥तस्यामेव यामिन्यां रात्रावस्य शत्रुघ्नस्य । अन्तरस्या अस्तीत्यन्तर्वत्नी गर्भिणी ॥ “अन्तर्वत्नी च गर्भिणी" इत्यमरः ॥ “अन्तर्वत्पतिवतोर्नुक्" इति ङीप् । नुगागमश्च ॥ प्रजावती भ्रातृजाया सीता। क्षितिः संपन्नौ समग्रौ कोशदण्डाविव । सुतावसूत ।

  संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् ।
  प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥ १४ ॥

संतानेति॥ भ्रातुर्ज्येष्ठस्य संतानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान्सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन् । प्राञ्जलिः कृताञ्जलिमुनिमामन्त्र्यापृच्छ्य ययौ ॥

  स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः।
  वनात्करमिवादाय सत्त्वराशिमुपस्थितः॥ १५॥

 स चेति ॥ स शत्रुघ्नश्च मधूपघ्नं नाम लवणपुरं प्राप । कुम्भीनसी नाम रावणस्वसा । तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्त्वानां प्राणिनां राशिमादायोपस्थितः प्राप्तः ॥

  धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
  क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥ १६ ॥

 धूमेति ॥ किंभूतो लवणः । धूम इव धूम्रः कृष्णलोहितवर्णः ॥ “धूम्रधूमलौ कृष्णलोहिते" इत्यमरः ॥ वसागन्धो हृन्मेदोगन्धः । सोऽस्यास्तीति वसागन्धी ॥ "हृन्मेदस्तु वपा वसा" इत्यमरः ॥ ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः॥“विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु" इत्यमरः॥क्रव्यं मांसमदन्तीति क्रव्यादो राक्षसाः । तेषांगण एव परीवारो यस्य

स तथोक्तः । अतएव जंगमश्चरिष्णुश्चिताग्निरिव स्थितः ॥ कृशानुपक्षे धूमैर्धूम्रवर्णः । ज्वाला एव शिरोरुहाः । क्रव्यादो गृध्रादयः । इत्यनुसंधेयम् ॥

  अपशूलं तमासाद्य लवणं लक्ष्मणानुजः।
  रुरोध संमु[१२]खीनो हि जयो रन्ध्रप्रहारिणाम् ॥ १७॥

 अपशूलमिति ॥ लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध ॥ तथाहि । रन्ध्रप्रहारिणां रन्ध्रप्रहरणशीलानाम् । अपशूलतैवात्र रन्ध्रम् । जयः संमुखीनो हि । संमुखस्य दर्शनो हि ॥ “यथामुखसंमुखस्य दर्शनः खः इति खप्रययः ॥ अधिकारलक्षणार्थस्तु दुर्लभ एव ॥

  नातिपर्याप्तमा[१३]लक्ष्य मत्कुक्षेरद्य भोज[१४]नम् ।
  दिष्टया त्वमसि मे धात्रा भीतेनेवोपपादितः ।। १८॥
  इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया।
  प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ।। १९ ॥

 नेति। इतीति ॥ युग्मम् ॥ राक्षसो लवणः । अद्य मत्कुक्षेः। भुज्यत इति भोजनम् । भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्ष्य दृष्ट्वा भीतेनेव धात्रा दिष्टया भाग्येन मे त्वमुपपादितः कल्पितोऽसि । इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमम् । मुस्तास्तम्बमिव । अक्लेशेनोत्पाटयामास॥

  सौमित्रेर्निशितैर्बाणैरन्तरा श[१५]कलीकृतः।
  गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ॥२०॥

 सौमित्रेरिति ॥ नैर्ऋतेरितो रक्षःप्रेरितः शाख्यन्तरा मध्ये निशितैर्बाणैः शकलीकृतः सन्सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप। किंतु पुष्परजः प्राप ॥

  विना[१६]शात्तस्य वृक्षस्य रक्षस्त[१७]स्मै महोपलम् ।
  प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥ २१ ॥

 विनाशादिति ॥ रक्षो लवणस्तस्य विनाशाद्धेतोः । महोपलं महान्तं पाषाणम् । पृथक्स्थितं कृतान्तस्य यमस्य मुष्टिमिव ॥ मुष्टिशब्दो द्विलिङ्गः ॥ तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ।

  ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः ।
  सि[१८]कतात्वाद[१९]पि परां प्रपेदे परमाणुताम् ॥ २२ ॥

 ऐन्द्रमिति ॥ स महोपलः शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभिहतः सन् । सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे ॥ यतोऽणुर्नास्ति स परमाणुरित्याहुः॥

  [२०]मुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः।
  एकताल इवोत्पातपवनप्रेरितो गिरिः॥ २३ ॥

 तमिति ॥ निशाचरो राक्षसो दक्षिणं दोः॥"ककुद्दोषणी" इति भगवतो भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम् । “भुजबाहू प्रवेष्टो दोः" इति पुंलिङ्गसाहचर्यात्पुंस्त्वं च । तथा च प्रयोगः- “दोपं तस्य तथाविधस्य भजते" इति ॥ सव्येतरं बाहुमुद्यम्य । एकस्तालस्तदाख्यवृक्षो यस्मिन्स एकतालः । उत्पातपवनेन प्रेरितो गिरिरिव । तं शत्रुघ्नमुपाद्रवदभिद्रुतः ॥

  कार्ष्णेन पत्रिणा श[२१]त्रुः स भिन्नहृदयः पतन् ।
  आनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥२४॥

 कार्ष्णेनेति ॥ सः शत्रुर्लवणः । कार्ष्णेन वैष्णवेन पत्रिणा बाणेन ॥ उक्तं च रामायणे-“एवमेष प्रजनितो विष्णोस्तेजोमयः शरः" इति ॥ “विष्णुर्नारायणः कृष्णः" इत्यमरः॥ भिन्नहृदयः पतन्भुवः कम्पमानिनायानीतवान् । देहभारादित्यर्थः| आश्रमवासिनां कम्पं जहार । तन्नाशादकुतोभया बभूवुरित्यर्थः॥

  वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्वि[२२]षः।
  तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः ॥२५॥

 वयसामिति ॥ हतस्य । विद्वेष्टीति विद्विद्। तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः। तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्ध्नि तु दिव्याः कुसुमवृष्टयः पेतुः।।

  स हत्वा लवणं वीर[२३]स्तदा मेने म[२४]हौजसः ।
  भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥ २६ ॥

 स इति ॥स वीरः शत्रुघ्नो लवणं हत्वा तदात्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने ॥ “ सोदराद्यः" इति यप्रत्ययः॥

  तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः ।
  शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः ॥ २७॥

 तस्येति ॥ चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य विक्रमेणोदग्रमुन्नतं व्रीडया लज्जयावनतं नम्रं शिरः शुशुभे । विक्रान्तस्य लज्जैव भूषणमिति भावः॥

  उपकूलं स कालिन्द्याः पु[२५]रीं पौरुषभूषणः।
  निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥२८॥

 उपेति ॥ पौरुषभूषणः । अर्थेषु विषयेषु निर्ममो निस्पृहः । मधुराकृतिः सौम्यरूपः| स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले॥ विभक्त्यर्थेऽव्ययीभावः॥ मथुरां नाम पुरीं निर्ममे निर्मितवान् ॥

  या[२६] सौराज्यप्रकाशाभिर्बभौ पौर[२७]विभूतिभिः ।
  खर्गाभिष्यन्दवमनं कृत्वेवोप[२८]निवेशिता ॥ २९ ॥

 येति ॥ या पूः । शत्रुघ्नः शोभनो राजा यस्याः पुरः सा सुराज्ञी । सुराज्ञ्या भावः सौराज्यम् । तेन प्रकाशाभिः प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः । स्वर्गस्याभिष्यन्दोऽतिरिक्तजनः । तस्य वमनमाहरणं कृत्वोपनिवेशितोपस्थापितेव बभौ ॥ अत्र कौटिल्यः-“भूतपूर्वमभूतपूर्वं वा जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्” इति ।।

  तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् ।
  हेम[२९]भक्तिमतीं भूमेः प्र[३०]वेणीमिव पिप्रिये ॥३०॥

 तत्रेति ॥ तत्र मथुरायां सौधगतो हर्म्यारूढः स चक्रवाकिनीं चक्रवाकवतीं यमुनाम् । हेमभक्तिमतीं सुवर्णरचनावतीं भूमेः प्रवेणीं वेणीमिव ॥ “ वेणी प्रवेणी" इत्यमरः ॥ पश्यन्पिप्रिये प्रीतः ॥“प्रीङ् प्रीणने" इति धातोर्दैवादिकाल्लिट्॥ संप्रति रामसंतानवृत्तान्तमाह-

  सखा दशरथस्या[३१]पि जनकस्य च म[३२]न्त्रकृत् ।
  संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि ।। ३१॥

 सखेति ॥ दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि । "सुकर्मपापमन्त्रपुण्येषु कृञः" इति किम् ॥ उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचस्कार संस्कृतवान् । जातकर्मादिभिरिति शेषः॥ १ . २ . ३ . ४ . ५  ;

. ६ . ७ . ८ .

  [३३] तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया ।
  कविः कुशलवावेव चकार किल नामतः॥ ३२॥

 स इति ॥ स कविर्वाल्मीकिः कुशैर्दर्भैर्लवैर्गोपुच्छलोमभिः ॥ "लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु" इति वैजयन्ती । उन्मृष्टो गर्भक्लेदो गर्भोपद्रवो ययोस्तौ कुशलवोन्मृष्टगर्भक्लेदौ तौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासङ्ख्यं कुशलवावेव चकार किल । कुशोन्मृष्टः कुशः। लवोन्मृष्टो लवः॥

  साङ्गं च वेदमध्याप्य किञ्चिदुत्क्रान्तशैशवौ ।
  स्वकृतिं गापयामास क[३४]विप्रथमपद्धतिम् ॥ ३३ ॥

 साङ्गमिति ॥ किञ्चिदुत्क्रान्तशैशवावतिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धतिम् । कविताबीजमित्यर्थः । स्वकृतिं काव्यं रामायणाख्यं गापयमास ॥ गापयतेर्लिट् । शब्दकर्मत्वात् “गतिबुद्धि-" इत्यादिना द्विकर्मकत्वम् ।।

  रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः ।
  तद्वियोगव्यथां किञ्चिच्छिथिलीचक्रतुः सुतौ ॥ ३४ ॥

 रामस्येति ॥ तो सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तौ तद्वियोगव्यथां रामविरहवेदनां किञ्चिच्छिथिलीचक्रतुः॥

  इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
  तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥ ३५॥

 इतरेऽपीति ॥ रघोर्वंश्या वंशे भवाः ।त्रैतेत्यग्नयस्त्रेताग्नयः । तेषां तेज इव तेजो येषां ते त्रेताग्नितेजसः । इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु । ख्यातिमतीष्वित्यर्थः। “पतिवत्नी सभर्तृका" इत्यमरः ॥ “अन्तर्वत्पतिवतोर्नुक्" इति ङीप्प्रत्ययो नुगागमश्च ॥ पत्नीषु द्विसूनव आसन् । द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः॥ क्वचित्सङ्ख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत् ॥

  शत्रुघातिनि शत्रुघ्नः सुबाहो च बहुश्रुते ।
  मथुराविदिशे सून्वोर्नि[३५]र्दधे पूर्वजोत्सुकः ॥ ३६॥

 शत्रुघातिनीति ॥ पूर्वजोत्सुको ज्येष्ठप्रियः शत्रुघ्नो बहुश्रुते शत्रुघातिनि सुबाहौ च तन्नामकयोः सून्वोर्मथुरा च विदिशा च ते नगर्यौ निदधे । निधाय गत इत्यर्थः॥

१ . २ . ३ .

४०

  भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् ।
  मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥ ३७॥

 भूय इति ॥ स शत्रुघ्नो मैथिलीतनययोः कुशलवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमम् । भूयः पुनरपि तपोव्ययः संविधानकरणार्थं तपोहानिर्मा भूदिति हेतोः । अत्यगात् । अतिक्रम्य गत इत्यर्थः॥

  [३६]शी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् ।
  लवणस्य वधात्पौरैरीक्षि[३७]तोऽत्यन्तगौरवम् ॥ ३८ ॥

 वशीति ॥ वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन् । रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ॥

  स ददर्श सभामध्ये सभासद्भिरुपस्थितम् ।
  रामं सीतापरित्यागादसामान्यपतिं भुवः ॥ ३९ ॥

 स इति ॥ स शत्रुघ्नः सभामध्ये सभासद्भिः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ॥

  तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः।
  कालनेमिवधात्पीतस्तुराषाडिव शार्ङ्गिणम् ॥ ४० ॥

 तमिति ॥ अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नम् । कालनेमिर्नाम राक्षसः । तस्य वधात्प्रीतः । तुरां वेगं सहत इति तुराषाडिन्द्रः ॥“ छन्दसि सहः" इति ण्विः । यद्वा सहतेर्णिचि कृते साहयतेः क्विप् । “ अन्येषामपि दृश्यते" इति पूर्वपदस्य दीर्घः । “सहेः साडः सः" इति षत्वम् ॥ शार्ङ्गिणमुपेन्द्रमिव अभ्यनन्दत् ॥

  स पृष्टः सर्वतो वा[३८]र्तमा[३९]ख्यद्राज्ञे न सन्ततिम् ।
  प्र[४०]त्यर्पयिष्यतः काले कवेराद्यस्य शासनात् ॥ ४१ ॥

 स इति ॥ स शत्रुघ्नः पृष्टः सन् । सर्वतो वार्तं कुशलं राज्ञे रामायाख्यदाख्यातवान्|| चक्षिङो लुङ् । “चक्षिङः ख्याञ्" इति ख्याञादेशः । “अस्यतिवक्ति"- इत्यङ्| “ आतो लोप इटि च" इत्याकारलोपः । ख्यातेर्वा लुङ् ॥ सन्ततिं कुशलवोत्पत्तिं नाख्यत् ॥ कुतः । कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीके: शासनात् ॥

१ . २ . ३ , ४ .

  अथ जानपदो विप्रः शि[४१]शुमप्राप्तयौवनम् ।
  अवतार्याङ्कश[४२]य्यास्थं द्वारि चक्रन्द भूपतेः ॥ ४२ ॥

 अथेति ॥ अथ जनपदे भवो जानपदो विप्रः। कश्चिदिति शेषः । अप्राप्तयौवनं शिशुम् । मृतमिति शेषः । भूपते रामस्य द्वार्यङ्कशय्यास्थं यथा तथावतार्याङ्कस्थत्वेनैवावरोप्य चक्रन्द चुक्रोश ॥

  शोचनीयासि वसुधे या त्वं दशरथा[४३]च्च्युता।
  रामहस्तम[४४]नुप्राप्य कष्टात्कष्टतरं ग[४५]ता ॥ ४३॥

 शोचनीयेति ॥ हे वसुधे, दशरथाच्च्युता या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयासि ॥

  श्रुत्वा तस्य शु[४६]चो हेतुं गोप्ता जिह्वाय राघवः ।
  न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ ४४ ॥

 श्रुत्वेति ॥ गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिह्राय लज्जितः॥ कुतः । हि यस्मादकालभवो मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत् । वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ॥

  स मुहूर्तं क्ष[४७]मस्वेति द्विजमाश्वास्य दुःखितम् ।
  यानं सस्मार कौबेरं वैवस्वतजि[४८]गीषया ॥४५॥

 स इति ॥ स रामो दुःखितं द्विजं मुहूर्तं क्षमस्वेत्याश्वास्य वैवस्वतस्यान्तकस्यापि जिगीषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ॥

  आत्तशस्त्रस्तदध्यास्य प्रस्थितः स[४९] रघूद्वहः ।
  उच्चचार पुरस्त[५०]स्य गूढरूपा सरस्वती ॥४६॥

 आत्तेति ॥ स रघूद्वहो राम आत्तशस्त्रः सन् । तत्पुष्पकमध्यास्य प्रस्थितः। अथ तस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुच्चचारोद्बभूव ॥

  राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते ।
  तम[५१]न्विष्य प्रशमयेर्भवितासि ततः कृती॥४७॥

 राजन्निति ॥ हे राजन् । ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिरेकः प्रवर्तते|

तमपचारमन्विष्य प्रशमयेः। ततः कृती कृतकृत्यो भवितासि भविष्यसि ॥

  इत्याप्तवचनाद्रामो विने[५२]ष्यन्वर्णविक्रियाम् ।
  दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥४८॥

 इतीति ॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन्वेगेन निष्कम्पकेतुना पत्रेण वाहनेन पुष्पकेन ॥ “पत्रं वाहनपक्षयोः" इत्यमरः॥ दिशः पपात धावति स्म ॥

  अथ धूमाभिताम्राक्षं वृक्षशाखा[५३]वलम्बिनम् ।
  ददर्श कञ्चिदै[५४]क्ष्वाकस्तपस्यन्तमधोमुखम् ॥ १९ ॥

 अथेति ॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः ॥ “कोपधादण्" इत्यणि कृते "दाण्डिनायन-" इत्यादिनोकारलोपनिपातः ॥ धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं पतश्चरन्तं कञ्चित्पुरुषं ददर्श ॥

  पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः।
  आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम् ॥५०॥

 पृष्टेति ॥ राज्ञा नाम चान्वयश्च तौ पृष्टौ नामान्वयौ यस्य स तथोक्तः । धूमं पिबतीति धूमपः ॥ “सुपि” इति योगविभागात्कप्रत्ययः ॥ स पुरुष आत्मानं सुरपदार्थिनं स्वर्गार्थिनम् । अनेन प्रयोजनमपि पृष्ट इति ज्ञेयम् । शम्बुकं नाम शूद्रमाचष्ट बभाषे किल॥

  तपस्यनधिकारित्वात्प्रजानां तमघावहम् ।
  शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ ५१ ॥

 तपसीति ॥ तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम्|| "शीर्षच्छेदाद्यच्च” इति यत्प्रत्ययः॥ परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥

  स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् ।
  ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ।। ५२।।

 स इति ॥ स रामो ज्योतिष्कणैः स्फुलिङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम् । हिमक्लिष्टकिञ्जल्कं पङ्कजमिव । कण्ठ एव नालं तस्मादपातयत् ॥

  कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् ।
  तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ ५३॥

१ . २ . ३.  कृतेति ॥ शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन् । सतां गतिं लेभे । दुश्चरेणापि स्वमार्गविलङ्घिना । अनधिकारदुष्टेनेत्यर्थः। तपसा न लेभे ॥ अत्र मनु:-"राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा" इति ॥

  रघुनाथोऽप्यगस्त्येन मा[५५]र्गसन्दर्शितात्मना।
  महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ ५ ॥

 रघुनाथ इति ॥ रघुनाथोऽपि मार्गसन्दर्शितात्मना महौजसागस्त्येन । इन्दुना शरत्काल इव । संयुयुजे सङ्गतः । इन्दावपि विशेषणं योज्यम् ॥ रघुनाथेत्यत्र क्षुभ्रादित्वाण्णत्वाभावः॥

  कुम्भयोनिरलङ्कारं तस्मै दिव्यपरिग्रहम् ।
  ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ ५५ ॥

 कुम्भेति ॥ कुम्भयोनिरगस्त्यः पीतेन समुद्रेणात्मनिष्क्रमिवात्ममोचनमूल्यमिव दत्तम् । अतएव परिगृह्यत इति व्युत्पत्त्या दिव्यपरिग्रहः । दिव्यानां परिग्राह्य इत्यर्थः । तमलङ्कारं तस्मै रामाय ददौ ॥

  तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना।
  पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मनः ॥५६॥

 तमिति ॥ मैथिलीकण्ठनिर्व्यापारेण बाहुना तमलङ्कारं दधद्रामः पश्चान्निववृते निवृत्तः । परासुर्मृतो द्विजात्मजः प्राग्रामात्पूर्वं निववृते ॥

  तस्य पूर्वोदितां निन्दां द्विजः पुत्रस[५६]मागतः ।
  स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ।। ५७ ॥

 तस्येति ॥ पुत्रसमागतः पुत्रेण सङ्गतो द्विजो वैवस्वतादब्तकादपि त्रातू रक्षकस्य॥ "भीत्रार्थानां भयहेतुः" इत्यपादानात्पञ्चमी ।। तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥

  तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः।
  मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ ५८ ॥

तमिति ॥ अध्वरायाश्वमेधाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्वराः सुग्रीवविभीषणादयो राजानश्च । मेघा अम्भोभिः सस्यमिव । उपायनेरभ्यवर्षन् ।

१ . २ .

  दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
  न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ ५९॥

 दिग्भ्य इति ॥ निमन्त्रिता आहूता महर्षयश्च भूम्याः सम्बन्धीनि भौमानि धिष्ण्यानि स्थानान्येव न ॥ "धिष्ण्यं स्थाने गृहे भेऽग्नौ" इत्यमरः॥ किन्तु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः।

  उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
  अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ ६०॥

 उपेति ॥ चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्द्वारमुख्ययोध्या । उपशल्येषु ग्रामान्तेषु निविष्टैः ॥ “ग्रामान्त उपशल्यं स्यात्" इत्यमरः॥ तैर्महर्षिभिः। सद्यः सृष्टलोका पितामहस्येयं पैतामही तनुर्मूर्तिरिव । बभौ ॥

  श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
  अनन्यजानेः सै[५७]वासीद्यस्माज्जाया हिरण्मयी॥६१॥

 श्लाघ्य इति ॥ वेदह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव । कुतः । यस्मात् । प्राग्वंशः प्राचीनस्थूणो यज्ञशालाविशेषः । तद्वासिनः । नास्त्यन्या जाया यस्य तस्यानन्यजानेः|| "जायाया निङ्" इति समासान्तो निङादेशः॥ पत्यू रामस्य हिरण्मयी सौवर्णी ॥ "दाण्डिनायन-" आदिसूत्रेण निपातः॥ सा निजैव जाया पत्न्यासीत्|| कविवाक्यमेतत् ॥

  विधेरधिकसम्भारस्ततः प्रववृते मखः।
  आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥६२॥

 विधेरिति ॥ ततो विधेः शास्त्रादधिकसम्भारोऽतिरिच्यमानपरिकरो मखः प्रववृते प्रवृत्तः । यत्र मखे । विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः ॥ “मखे यज्ञे यज्ञार्थे कविधानम्" इति कः ॥ क्रियाविघ्ना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् ।

  अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
  मैथिलेयौ कुशलवौ जगतुर्गुरुचो[५८]दितौ ॥ ६३ ॥

 अथेति ॥ अथ मैथिलेयौ मैथिलीतनयौ ॥स्त्रीभ्यो ढक्||कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ । प्राचेतसो वाल्मीकिः । उपज्ञायत इत्युपज्ञा ।। “आतश्चोपसर्गे” इति कर्मण्यङ्प्रत्ययः ।। प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम्| प्राचेतसेनादौ ज्ञातमित्यर्थः॥ "उपज्ञा ज्ञानमाद्यं स्यात्" इत्यमरः॥ “उपज्ञोपक्रमं

१ . २ . . तदाद्याचिख्यासायाम्" इति नपुंसकत्वम् ॥अय्यते ज्ञायतेऽनेनेत्ययनम् । रामस्यायनं चरितं रामायणं रामायणाख्यं काव्यम् ॥ “पूर्वपदात्संज्ञायामगः" इति णत्वम्| उत्तरायणमितिवत् ॥ इतस्ततो जगतुः ॥ गायतेर्लिट् ॥

  वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
  किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥५॥

 वृत्तमिति ॥ रामस्य वृत्तं वर्ण्यम् । वस्त्विति शेषः । वाल्मीकेः कृतिः काव्यम्| गेयमिति शेषः । तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायकौ ! पुनरिति शेषः । अतएव तत्किं येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम् । सर्वं सरसमित्यर्थः॥

  रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् ।
  ददर्श सानुजो रामः शुश्राव च कुतूहली ॥६५॥

 रूप इति ॥ ते जानन्तीति तज्ज्ञाः । तैस्तज्ज्ञैरभिनिवेदितं तयोः कुशलवयोः रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामः कुतूहली सानन्दः सन्यथासंख्यं ददर्श शुश्राव च ॥

  तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ ।
  हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली ॥६६॥

 तदिति ॥ तयोर्गीतश्रवण एकाग्रासक्ताश्रुमुखी । आनन्दादिति भावः । संसत्सभा। प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव । बभौ शुशुभे । आनन्दपारवश्यानिष्पन्दमास्त इत्यर्थः ॥

  वयोवेषविसंवादि रामस्य च तयो[५९]स्तदा ।
  जनता प्रेक्ष्य सादृश्यं ना[६०]क्षिकम्पं व्यतिष्ठत ॥६७ ॥

 वय इति ॥ जनता जनानां समूहः ॥ “ग्रामजनबान्धुसहायेभ्यस्तल् " इति तल्पत्ययः ॥ वयोवेषाभ्यामेव विसंवादि विलक्षणं तदा तयोः कुशलवयो रामस्य च सादृश्यं प्रेक्ष्य । नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा ॥ नञर्थस्य नशब्दस्य बहुव्रीहिः ॥ व्यतिष्ठतातिष्ठत् ॥ “समवप्रविभ्रः स्थः" इत्यात्मनेपदम् ।। विस्मयादनिमिषमद्राक्षीदित्यर्थः ।।

  उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये।
  नृपतेः प्रीति[६१]दानेषु वीतस्पृहतया यथा ॥ ६८॥

१ . २. ३ .  उभयोरिति।लोको जन उभयोः कुमारयोः प्रावीण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥

  गेये को नु विनेता वां कस्य चेयं कृ[६२]तिः कवेः ।
  इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ ६९ ॥

 गेय इति ॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः । नुशब्दः प्रश्ने ॥“नु पृच्छायां वितर्के च" इत्यमरः ॥ इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ । विनेतारं कविं चेत्यर्थः ॥ “गेये केन विनीतौ वाम्" इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः-केन पुंसा वा युवां गेये गीतविषये विनीतौ शिक्षितौ ॥ कर्मणि निष्ठाप्रत्ययः॥

  अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
  [६३]रीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ ७॥

 अथेति ॥ अथ सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान्प्राप्तः सन् । देहमात्मन उरीकृत्य । आत्मानं स्थापयित्वेत्यर्थः । राज्यमस्मै प्राचेतसाय न्यवेदयत्समर्पितवान्|

  स तावाख्याय रा[६४]माय मैथिलेयौ त[६५]दात्मजौ।
  कविः कारुणिको वव्रे सीतायाः संप[६६]रिग्रहम् ॥ ७१ ॥

 स इति ॥ करुणा प्रयोजनमस्य कारुणिको दयालुः ॥ " प्रयोजनम्” इति ठञ् ॥" स्याद्दयालुः कारुणिकः” इत्यमरः ॥स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वव्रे ययाचे ॥

  तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
  दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥७२ ॥

 तातेति ॥ हे तात । ते स्नुषा सीता नोऽस्माकमक्ष्णोः समीपं समक्षम् ॥ "अव्ययीभावे शरत्प्रभृतिभ्यः" इति समासान्तष्टच् ॥ जातवेदसि वह्नौ शुद्धा । नास्माकमविश्वास इत्यर्थः । किन्तु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्दधुर्न विशश्वसुः॥

  ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली।
  ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥७३॥

 ता इति ॥ मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु ।।

विश्वासस्य बुद्धिरूपत्वात् “णौ गमिरबोधने" इति इणो गम्यादेशो नास्ति ॥ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ॥

  इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः।
  शिष्यैरा[६७]नाययामास स्वसिद्धिं नियमैरिव ॥ ७४ ॥

 इतीति ॥ राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्ज्नानकीं शिष्यैः प्रयोज्यैः| स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव । आनाययामास ॥ .

  अन्येद्युरथ काकुत्स्थः संनि[६८]पात्य पुरौकसः।
  कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ ७५॥

 अन्येद्युरिति ॥ अथ काकुत्स्थो रामः । अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसन्धानाय पुरौकसः पौरान्संनिपात्य मेलयित्वा कविं वाल्मीकिमाह्वाययामासाकारयामास ॥

  स्वरसंस्कारवत्या[६९]सौ पुत्राभ्याम[७०]थ सी[७१]तया।
  ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ ७६ ॥

स्वरेति ॥ अथ । स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः । तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव । पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थित उपतस्थे ॥

  काषायपरिवीतेन स्वपदार्पितचक्षुषा ।
 अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥ ७७ ॥

 काषायेति ॥ कषायेण रक्तं काषायम् ॥ "तेन रक्तं रागात्" इत्यण् ॥ तेन परिवीतेन संवृतेन स्वपदार्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता॥

  जनास्तदालोकपथात्पतिसंहृतचक्षुषः ।
  तस्थुस्तेऽ[७२]वाङ्मुखाः सर्वे फलिता इव शालयः ॥ ७॥

 जना इति ॥ तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात्प्रतिसंहृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः। फलिताःशालय इव । अवाङ्मुखा अवनतमुखास्तस्थुः॥

४१

  तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
  कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात् ॥ ७९ ॥

 तामिति ॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से, भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु । इति तां सीतामशाच्छास्ति स्म ॥

  अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः ।
  आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ ८॥

 अथेति ॥ अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्य सीता सत्यां सरस्वतीं वाचमुदीरयामासोच्चारयामास ॥

  वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे ।
  तथा विश्वम्भरे देवि मामन्तर्धातुमर्हसि ॥ ८१ ॥

 वाङ्मन इति॥वाङ्मनःकर्मभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि । विश्वं बिभर्तीति विश्वम्भरा भूमिः ॥ “संज्ञायां भृत्-" इत्यादिना खच्प्रत्ययः । “ अरुर्द्विषत्-" इत्यादिना मुमागमः ॥ हे विश्वम्भरे देवि, मामन्तर्धातुं गर्भे वासयितुमर्हसि ।।

  एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवार्द्भु[७३]वः ।
  शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ ८२ ॥

 एवमिति ॥ साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ।

  तत्र नागफणोत्क्षिप्तसिंहासननिषेदु[७४]षी।
  [७५]मुद्ररशना साक्षात्प्रादुरासीद्वसुन्धरा ॥ ८३॥

 तत्रेति ॥ तत्र प्रभामण्डले नागफणोक्षिप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात् । वसूनि धारयतीति वसुन्धरा भूमिः ॥ “खचि ह्रस्वः" इति ह्रस्वः ॥ प्रादुरासीत् ॥

  सा सीतामङ्कमारोप्य भ[७६]र्तृप्रणिहितेक्षणाम् ।
  मा मेति व्याहरत्येव तस्मिन्पातालमभ्यगात् ॥ ८४ ॥

 सेति ॥ सा वसुन्धरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा मेति मा हरेति व्याहरति वदत्येव । व्याहरन्तमनादृत्येत्यर्थः ।। “षष्ठी चानादरे" इति सप्तमी ॥ पातालमभ्यगात् ॥

१ . २ . ३ . ४ .

  [७७]रायां तस्य संरम्भं सी[७८]ताप्रत्यर्पणैषिणः ।
  गुरुर्विधिबलापेक्षी शमयामास धन्विनः॥ ८५॥

 धरायामिति ॥ सीतामप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शी गुरुर्ब्रह्मा शमयामास| अवश्यम्भावी विधिरिति भावः॥

  ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् ।
  रामः सीतागतं स्नेहं निदधे तदपत्ययोः॥८६॥

 ऋषीनिति ॥ रामो यज्ञान्ते पुरस्कृतान्पूजितानृषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्निदधे ।

  यु[७९]धाजितश्न सन्देशात्स देशं सिन्धुनामकम् ।
  ददौ द[८०]त्तप्रभावाय भरताय भृ[८१]तप्रजः॥ ८७ ॥

 युधाजित इति ॥ किञ्च । भृतप्रजः स रामो युधाजितो भरतमातुलस्य सन्देशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय । रामेणेति शेषः। भरताय ददौ॥

  भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् ।
  आतोद्यं ग्राहयामास समत्याजयदा[८२]युधम् ॥ ८८॥

 भरत इति ॥ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम् ॥ “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रोद्यनामकम्" इत्यमरः ॥ ग्राहयामास । आयुधं समत्याजयत्त्याजितवान् ॥ ग्रहित्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसन्धेयम् ॥

  स त[८३]क्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः।
  अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः।। ८९ ॥

 स इति ॥ स भरतः । अभिषेकार्हौ तक्षपुष्कललौ नाम पुत्रौ तदाख्ययोः । तक्षपुष्कलाख्ययोरित्यर्थः । पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ॥

  अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसम्भवौ।
  शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥९॥

 अङ्गदमिति ॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च

तदाख्यावात्मसम्भवौ पुत्रौ । कारापथो नाम देशः । तस्येश्वरौ चक्रे ॥

  इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः।
  भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥९१ ।।

 इतीति ॥ इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्यातानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः ॥

  उपेत्य मु[८४]निवेषोऽथ कालः प्रोवाच राघवम् ।
  रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ।। ९२ ॥

 उपेत्येति॥अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह-रहस्येकान्ते संवादिनौ सम्भाषिणावावां यः पश्येत् । रहस्यभङ्गं कुर्यादित्यर्थः । तं त्यजेरिति ॥

  तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः।
  आचख्यौ दिवम[८५]ध्यास्व शासनात्परमेष्ठिनः॥९३॥

 तथेति ॥ स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन् । परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ ।

  विद्वानपि तयोर्द्वास्थः समयं लक्ष्मणोऽभिनत् ।
  भीतो दुर्वाससः शापाद्रामसन्दर्शनार्थिनः॥९॥

 विद्वानिति ॥ द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसन्दर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन् । तयोः कालरामयोः समयं संवादमभिनद्बिभेद ॥

  स गत्वा सरयूतीरं देहत्यागेन योगवित् ।
  चकारा[८६]वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥ ९५॥

 स इति ॥ योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ॥

  तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि ।
  राघवः शि[८७]थिलं तस्थौ भुवि धर्मस्त्रिपादिव ।। ९६ ॥

९४-९५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते- गच्छ लक्ष्मण शीघ्रं त्वं मा भूद्धर्मविपर्ययः । त्यागो वापि वधो वापि साधूनामुभयं समम् ॥  तस्मिन्निति ॥ चतुर्थो भागश्चतुर्भागः ॥ सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत् ॥ आत्मचतुर्भागे तस्मिंल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः । भुवि त्रिपाद्धर्म इव । शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः॥ त्रेतायां धर्मस्त्रिपादित्याहुः । पादश्चतुर्थांशः । अङ्घ्रिश्च ध्वन्यते ॥ “पादा रश्म्यङ्घ्रितुर्यांशाः" इत्यमरः ॥ त्रयः पादा यस्यासौ त्रिपात् ॥ “सङ्ख्यासुपूर्वस्य" इत्यकारलोपः समासान्तः॥

  स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् ।
  [८८]रावत्यां सतां सक्तैर्जनिताश्रुलवं लवम् ॥ ९७ ॥
  उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः ।
  अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ ९८॥

 स इति । उदगिति च ॥ युग्मम् ॥ स्थिरधीः स रामः । रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा । सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम् ॥ " लवो लेशे विलासे च छेदने रामनन्दने” इति विश्वः ॥ शरावत्यां पुर्याम् ।। " शरादीनां च" इति शरकुशशब्दयोर्दीर्घः ॥ निवेश्य । सानुजोऽग्निपुरःसरः सन् । पत्यौ भर्तरि वात्सल्यादनुरागात् । गृहान्वर्जयित्वा गृहवर्जम् ॥ द्वितीयायां च" इति णमुल् ॥ अयं क्वचिदपरीप्सायामपीष्यते । “अनुदात्तं पदमेकवर्जम्" इत्येकाचः शेषतया व्याख्यातत्वात् ॥ परीप्सा त्वरा । अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥

  जगृहुस्तस्य चि[८९]त्तज्ञाः पदवीं ह[९०]रिराक्षसाः।
  कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥ ९९ ॥

 जगृहुरिति ॥ चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिवृष्टां तस्य रामस्य पदवीं मार्गं जगृहुः । तेऽप्यनुजग्मुरित्यर्थः ।।

  उपस्थितविमानेन तेन भक्तानुकम्पिना।
  चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥३०॥

 उपस्थितेति ॥ उपस्थितं प्राप्तं विमानं यस्य तेन । भक्ताननुकम्पत इति भक्तानुकम्पिना । तेन रामेणानुयायिनां सरयूस्त्रिदिवनिःश्रेणिः स्वर्गाधिरोहणी

चक्रे ॥ “निःश्रेणिस्त्वधिरोहणी" इत्यमरः।।

  यद्गोप्रतरकल्पोऽभूत्संम[९१]र्दस्तत्र मज्जताम् ।
  अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ १०१ ॥

 यदिति ॥ यद्यस्मात्तत्र सरय्वां मज्जतां संमर्दः । गोप्रतरो गोप्रतरणम् । तत्कल्पोऽभूत् । अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ॥

  स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
  त्रिदशीभूतपौरा[९२]णां स्वर्गान्तरमकल्पयत् ॥ १०२ ॥

 स इति॥ विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूता देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ॥

  निर्वर्त्यैवं द[९३]शमुखशिरश्छेदकार्यं सुराणां
   विष्वक्सेनः स्वतनुमविशत्स[९४]र्वलोकप्रतिष्ठाम् ।
  लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा
   कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥ १०३॥

 निर्वर्त्येति ॥ विष्वक्सेनो विष्णुरेवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य निष्पाद्य । लङ्कानाथं विभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव । दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा । सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ।


  1. अन्वयुः.
  2. धर्मसंरक्षणायैव; धर्मसंरक्षणार्थाय.
  3. प्रस्थानम्,
  4. तदा.
  5. अनुपदं सेनाङ्गं तस्य सिद्धये.
  6. स गच्छन्वदताम् ; गच्छन्मतिमताम्.
  7. वरैः.
  8. रथस्वनोत्कीर्णमृगे; रथस्वनोत्कर्णमृगे.
  9. श्रान्त.
  10. विषय.
  11. संपन्ना.
  12. सांयुगीनः
  13. आलोक्य.
  14. वेतनम्.
  15. शकलीकृतम्.
  16. विशानं स्वस्य शूलस्य; निशानं
    स्वस्य शूलस्य.
  17. तं च,
  18. सिकतार्धात्; सिकताभ्यः.
  19. हि पराम्; अपरमाम्.
  20. तमुपाद्रवदुद्यम्य राक्षसो दक्षिणं करम्
  21. शत्रोः
  22. रक्षसः
  23. वीरम्
  24. महामनाः
  25. पुरम्
  26. सा
  27. पौरसमृद्धिभिः
  28. विनिवेशिता
  29. हेमभक्तिमयीम्;हेमपङ्क्तिमयीम्;हेमप•ङ्क्तिमयीम्
  30. स वेणीम्
  31. अथ
  32. मन्त्रावित्
  33. सुतौ
  34. कविः प्रथमपद्धतिम्
  35. निदधत्
  36. ततः; कृतो; बली
  37. अतिगौरवमीक्षितः; अधिगौरवमीक्षित:
  38. वार्ताम्
  39. आख्यात्
  40. प्रख्यापयिष्यतः.
  41. पुत्रम्
  42. शय्यायाः
  43. अनु
  44. अनुमाप्ता
  45. कृता
  46. वचः
  47. सहस्व
  48. जिघांसया
  49. चास्य
  50. अन्विष्यन्
  51. विमृश्यन्
  52. विलम्बिनम्
  53. इक्ष्वाकु:
  54. मार्गे सन्दर्शितात्मना
  55. समन्वितः
  56. आसीद्यत्सैव; यस्यासीत्सैव; तस्यासीत्सैव
  57. नोदितौ
  58. च सा
  59. वीक्षापन्ना; वीक्ष्यापन्ना; व्रीडापन्ना; विस्मयेन
  60. प्रीतिदानेन
  61. कवेः कृतिः
  62. दूरीकृत्य
  63. समस्य
  64. तवात्मनौ
  65. तं परिग्रहम्
  66. आह्वाययामास
  67. संनिमन्त्र्य
  68. च; इव
  69. सह
  70. सा तथा
  71. अधोमुखाः; उर्वीमुखाः
  72. ततः
  73. निषादिनी
  74. समुद्रवसना
  75. भर्तरि प्रहितेक्षणाम्
  76. रसायाम्
  77. सीताभ्युद्धरणैषिणः
  78. युधाजितस्य
  79. दिष्टप्रभावाय
  80. धृतमजः
  81. आयुधान्
  82. तक्षपुष्करौ.
  83. मुनिवेषेण
  84. आरोढुम्
  85. वितथाम्
  86. शिथिल:
  87. सरावत्याम्;
    श्रावत्यां च ; श्रावस्त्यां च
  88. वृत्तज्ञाः, वर्त्मज्ञाः
  89. कपिराक्षसाः
  90. विमर्दः.
  91. पौरार्थम्.
  92. दशमुखभयच्छेदकार्यम्; दशमुखभयोच्छेदि कार्यम्.
  93. सप्तलोक.