रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/अष्टादशः सर्गः(वंशानुक्रमः)

विकिस्रोतः तः
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/सप्तदशः सर्गः(अतिथिवर्णनः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
अष्टादशः सर्गः(वंशानुक्रमः)
कालिदासः
एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)  →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

अष्टादशः सर्गः।


    यत्पादपांसुसंपर्कादहल्यासीदपांसुला ।
    कारुण्यसिन्धवे तस्मै नमो वैदेहिबन्धवे ॥

  स नैषधस्यार्थपतेः सु[१]तायामुत्पादयामास निषिद्धशत्रुः ।
  अनूनसारं निषधान्नगेन्द्रात्पुत्रं यमाहुर्निषधाख्यमेव ॥ १ ॥

 स इति ॥ निषिद्धशत्रुर्निवारितरिपुः सोऽतिथेर्नैषधस्य निषधदेशाधीश्वरस्यार्थपते राज्ञः सुतायां निषधान्निषदाख्यान्नगेन्द्रात्पर्वतादनूनसारमन्यूनबलं पुत्रमुत्पादयामास । यं पुत्रं निषधाख्यं निषधनामकमेवाहुः॥

  तेनोरु[२]वीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना।
  सुवृष्टियोगादिव जीवलोकः सस्येन संप[३]त्तिफलोन्मुखेन ॥२॥

 तेनेति ॥ उरुवीर्येणातिपराक्रमेणातएव प्रजायै लोकरक्षणार्थं कल्पिष्यमाणेन तेन यूना निषधेन पितातिथिः । सुवृष्टियोगात्संपत्तिफलोन्मुखेन पाकोन्मुखेन सस्येन जीवलोक इव । ननन्द जहर्ष ॥

  शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः।
  कौमुद्वतेयः कुमुदावदातैर्द्यामर्जितां कर्मभिरारुरोह ॥ ३॥

 शब्दादीति ॥ कुमुद्वत्या अपत्यं पुमान्कौमुद्वतेयोSतिथिः शब्दादि शब्दस्पर्शादि सुखं सुखसाधनं विषयवर्गं निर्विश्योपभुज्य चिराय तस्मिन्निषधाख्ये पुत्रे प्रतिष्ठापितराजशब्दो दत्तराज्यः सन् । कुमुदावदातैर्निर्मलैः कर्मभिरश्वमेधादिभिर्जितां संपादितां द्यां स्वर्गमारुरोह ॥

  पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः।
  एकातपत्रां भुवमेकवीरः पुरार्गलादीर्घभुजो बुभोज ॥४॥

 पौत्र इति ॥ कुशेशयाक्षः शतपत्रलोचनः ॥ “शतपत्रं कुशेशयम्" इत्यमरः।। सागरधीरचेताः समुद्रगम्भीरचित्त एकवीरोऽसहायशूरः । पुरस्यार्गला कपाटविष्कम्भः ॥ "तद्विष्कम्भेऽर्गलं न ना" इत्यमरः ॥ तद्वद्दीर्घभुजः कुशस्य पौत्रो निषधोऽपि

ससागरामेकातपत्रां भुवं बुभोज पालयामास । “भुजोऽनवने" इत्युक्तेः परस्मैपदम् ॥

  तस्यानलौजास्तनयस्तदन्ते वंशश्रियं पाप नलाभिधानः।
  यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः॥५॥

 तस्येति ॥ अनलौजा नलाभिधानो नलाख्यस्तस्य निषधस्य तनयस्तस्य निषधस्यान्तेऽवसाने वंशश्रियं राज्यलक्ष्मीं प्राप । नलिनाभवक्त्रः यो नलः । गजो नड्वलानि नडप्रायस्थलानीव ॥ “नडशदाड्वलच्” इति ड्वलच्प्रत्ययः ॥ परेषां वलान्यमृद्गान्ममर्द ॥

  नभश्चरैर्गीतयशाःस लेभे नभस्तलश्यामतनुं तनूजम् ।
  ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभोमासमिव प्रजानाम् ॥६

 नभ इति॥ नभश्चरैर्गन्धर्वादिभिर्गीतयशाः स नलो नभस्तलश्यामतनुं नभ:शब्दमयेन नाम्ना ख्यातम् । नभःशब्दसंज्ञकमिसर्थः । नभोमासमिव श्रावणमासमिव । प्रजानां कान्तं प्रियं तनूजं पुत्रं लेभे ॥

  [४]स्मै विसृज्योत्तरकोसलानां धर्मोत्तरस्त[५]त्प्रभवे प्रभुत्वम् ।
  मृगैर[६]जर्यं जरसोपदिष्टमदेहबन्धाय पु[७]नर्बबन्ध ॥७॥

तस्या इति ॥धर्मोत्तरो धर्मप्रधानः स नलः प्रभवे समर्थाय तस्मै नभसे तदुत्तरकोसलानां प्रभुत्वमाधिपत्यं विसृज्य दत्त्वा जरसा जरयोपदिष्टम् । वार्धके चिकीर्षितमित्यर्थः । मृगैरजर्यं तैः सह संगतम् ॥ "अजर्यं संगतम्" इति निपातः॥ पुनरदेहबन्धाय पुनर्देहसंबन्धनिवृत्तये बबन्ध । मोक्षार्थं वनं गत इत्यर्थः । अदेहबन्धायेत्यत्र प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ॥

  तेन द्विपानामिव पुण्डरीको राज्ञामजय्योऽ[८]पुण्डरीकः ।
  शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रि[९]ता श्रीः॥८॥

 तेनेति ॥ तेन नभसा । द्विपानां पुण्डरीको दिग्गजविशेष इव । राज्ञामजय्यो जेतुमशक्यः॥"क्षय्यजय्यौ शक्यार्थे” इति निपातनात्साधुः॥ पुण्डरीकः पुण्डरीकाख्यः पुत्रोऽजनि जनितः। पितरि शान्ते स्वर्गते सति । आहृतपुण्डरीका गृहीतश्वेतपद्मा श्रीर्यं पुण्डरीकं पुण्डरीकाख्यं विष्णुमिव । श्रिता ॥

  स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविधानद[१०]क्षम् ।
  क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपःक्षा[११]न्ततरश्च[१२]चार ॥ ९॥

 स इति ॥ अमोघं धनुर्यस्य सोऽमोघधन्वा ॥ “धनुषश्च" इत्यनादेशः मासान्तः ॥ स पुण्डरीकः प्रजानां क्षेमविधाने दक्षं क्षमयोपपन्नं क्षान्तियुक्तं क्षेमं धनुर्यस्य तं क्षेमधन्वानं नाम पुत्रम् ॥ “वा संज्ञायाम्" इत्यनङादेशः ॥ क्ष्मां लम्भयित्वा प्रापय्य ॥ लभेर्गत्यर्थत्वाद्विकर्मकत्वम् ॥क्षान्ततरोऽत्यन्तसहिष्णुः सन्वने तपश्चचार ॥

  अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् ।
  व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥१०॥

 अनीकिनीनामिति ॥ तस्य क्षेमधन्वनोऽपि समरेऽनीकिनीनां चमूनामग्रयायी देवप्रतिम इन्द्रादिकल्पः सुतोऽभूत् ॥अनीकपदावसानमनीकशब्दान्तं देवादि देवशब्दपूर्वं यस्य नाम देवानीक इति नामधेयं त्रिदिवे खर्गेऽपि व्यश्रूयत विश्रुतम् ॥

  पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
  पुत्रस्तथैवा[१३]त्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥ ११ ॥

 पितेति ॥ स पिता क्षेमधन्वा समाराधनतत्परेण शुश्रूषापरेण तेन पुत्रेण यथैव पुत्री बभूव तथैव स पुत्रो देवानीक आत्मजवत्सलेन तेन पित्रा पितृमान्बभूव । लोके पितृत्वपुत्रत्वयोः फलमनयोरेवासीदित्यर्थः॥

  पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य ।
  धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥१२॥

 पूर्व इति॥गुणानामेकनिधिर्यज्वा विधिवदिष्टवांस्तयोः पितृपुत्रयोर्मध्ये पूर्वः पिता क्षेमधन्वात्मसमे स्वतुल्य आत्मोद्भवे पुत्रे देवानीके चिरोढां चिरधृतां वर्णचतुष्टयस्य धुरं रक्षाभारं निधाय यजमानलोकं यष्टृलोकं नाकं जगाम ॥

  वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्विषतामपीष्टः।
  सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥१३॥

 वशीति॥ तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुर्नामेति वक्ष्यमाणनामकः ।वशं वशकरं मधुरं वदतीति वशंवदः ॥ “ प्रियवशे वदः खच्" इति खच्प्रत्ययः॥ तस्य भावस्तत्त्वम् । तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत् । अर्थादेवानीकनिर्धारणं लभ्यते । तथाहि । प्रयुक्तमुच्चारितं माधुर्यं सकृदेकवारं विविग्नान्भीतानपि हरिणान्ग्रहीतुं वशीकर्तुमीष्टे शक्नोति ॥

  अहीनगुर्नाम स[१४] गां समग्रामहीनबाहुद्रविणः शशास ।
  यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्य[१५]नर्थैर्व्यसनैर्विहीनः ॥ १४ ॥

 अहीनगुरिति ॥ अहीनबाहुद्रविणः समग्रभुजपराक्रमः ॥ “द्रविणं काञ्चनं

वित्तं द्रविणं च पराक्रमः" इति विश्वः ॥ हीनसंसर्गपराङ्मुखन्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युवाऽप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सर्वां गां भुवं शशास ॥

  गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
  उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५॥

 गुरोरिति ॥ पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्च गुरोः पितुरनन्तरम् । अवतीर्णो भुवं प्राप्त आद्यः पुमान्विष्णुरिव । अस्खलितैरप्रतिहतैश्चतुरुपक्रमैः सामाद्युपायैः ॥ “ सामादिभिरुपक्रमैः” इति मनुः ॥ चतुर्दिगीशश्चतसृणां दिशामीशो वभूव ॥

  तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।
  उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ।।१६

 तस्मिन्निति ॥ अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति । उच्चैःशिरस्त्रादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियात्रं पारियात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ।

  तस्याभवत्सूनुरुदारशीलः शि[१६]लः शि[१७]लापट्टविशालवक्षाः।
  जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः १७

 तस्येति ॥ तस्य पारियात्रस्योदारशीलो महावृत्तः ॥ “शीलं स्वभावे सद्वृत्त्ते" इत्ममरः ॥ शिलापट्टविशालवक्षाः शिलः शिलाख्यः सूनुरभवत् । यः सूनुः शिलीमुखैर्बाणैः ॥ “अलिबाणौ शिलीमुखौ " इत्यमरः ॥ जितारिपक्षोऽपीड्यमानः स्तूयमानः सन् । शालीनतामधृष्टतां लज्जामव्रजदगच्छत् । " स्यादधृष्टे तु शाली- नः" इत्यमरः॥ “शालीनकौपीने अधृष्टाकार्ययोः" इति निपातः ॥

  तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव ।
  सुखानि सोऽभुङ्क्त सुखोपरोधि वृ[१८]त्तं हि राज्ञामुपरुद्धवृ[१९]त्तम्॥१८॥

 तमिति ॥ अनिन्दितात्मागर्हितस्वभावः स पारियात्र आत्मसंपन्नं बुद्धिसम्पन्नम्। "आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च" इत्युभयत्राप्यमरः ॥ युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त । न त्वकृत्वेत्येवकारार्थः। किमर्थं युव-

१६-१७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-- तस्माद्बभूवाथ दलाभिधानो दयान्वितः पद्मदलाक्षदृष्टिः। कुन्दावदातो रिपुदन्तिसिंहः पतिः पृथिव्याः कुलकैरिवेन्दुः॥ राजशब्दकरणमित्याशङ्कयान्यथा सुखोपभोगो दुर्लभ इत्याह-सुखोपरोधीति ॥ हि यस्माद्राज्ञां वृत्तं प्रजापालनादिरूपं सुखोपरोधि बहुलत्वात्सुखप्रतिबन्धकम् । अतएवोपरुद्धवृत्तम् । कारादिबद्धसदृशमित्यर्थः । उपरुद्धस्य स्वयमूढभारस्य च सुखं नास्तीति भावः॥

  तं रागबन्धिष्ववितृप्तमेव भोगेषु सौभाग्यविशेषभोग्यम् ।
  विलासिनीनामरतिक्षमापि जरा वृथा मत्सरिणी जहार ॥१९॥

 तमिति ॥ रागं बध्नन्तीति रागबन्धिनः ।रागप्रवर्तका इत्यर्थः । तेषु भोगेषु विषयेष्ववितृप्तमेव सन्तं किंच विलासिनीनां भोक्त्रीणां सौभाग्यविशेषेण सौन्दर्यातिशयेन हेतुना भोग्यं भोगार्हम् ॥ “चजोः कु घिण्यतोः” इति कुत्वम् ॥ तं पारियात्रं रतिक्षमा न भवतीत्यरतिक्षमापि । अतएव वृथा मत्सरिणी रतिक्षमासु । विलासिनीष्वित्यर्थः । जरा जहार वशीचकार ॥

  उन्नाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः।
  सु[२०]तोऽभवत्पङ्कजनाभक[२१]ल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य ॥२०॥

 उन्नाभ इति ॥ तस्य शिलाख्यस्योनाभ इत्युद्गतनामधेयः प्रसिद्धनामायथार्थ यथा तथोन्नतं नाभिरन्धं यस्य सः । गम्भीरनाभिरियर्थः ॥ तदुक्तम् स्वरः सत्त्वं च नाभिश्च गाम्भीर्यं त्रिषु शस्यते" ॥ पङ्कजनाभकल्पो विष्णुसदृशः कृत्स्नस्य नृपमण्डलस्य नाभिः प्रधानम् ॥" नाभिः प्रधाने कस्तूरीमदेऽपि क्वचिदीरितः" इति विश्वः ॥ सुतोऽभवत् ॥ " अच् प्रत्यन्ववपूर्वात्सामलोम्नः" इत्यत्राजिति योगविभागादुन्नाभपद्मनाभादयः सिद्धाः ॥

  ततः परं वज्रधरप्रभावस्त[२२]दात्मजः संयति वज्रघोषः।
  बभूव वज्राकरभू[२३]षणायाः पतिः पृथिव्याः किल व[२४]ज्रणाभः॥२१॥

 तत इति ॥ ततः परं वज्रधरप्रभाव इन्द्रतेजाः संयति सङ्ग्रामे वज्रघोषोऽशनितुल्यध्वनिर्वज्रणाभो नाम तस्योन्नाभस्यात्मजो वज्राणां हीरकाणामाकराः खनय एव भूषणानि यस्यास्तस्याः पृथिव्याः पतिर्बभूव किल खलु ॥ “ वज्रं त्वस्त्री - कुलिशशस्त्रयोः । मणिवेधे रत्नभेदेऽप्यशनावासनान्तरे" इति केशवः ॥



१९-२० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

    हित्वाथ भोगांस्तपसोत्तमेन त्रिविष्टपं प्राप्तवति क्षितीशे ।
    तदात्मजः सागरधीरचेताः शशास पृथ्वी सकला नृसोमः ॥

  तस्मिन्गते द्यां[२५] सु[२६]कृतोपलब्धां तत्संभवं श[२७]ङ्खणमर्णवान्ता ।
  उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरु[२८]दितैः खनिभ्यः ॥ २२ ॥

 तस्मिन्निति ॥ तस्मिन्वज्रणाभे सुकृतोपलब्धां सुधर्मार्जितां द्यां स्वर्गं गते सति । उत्खातशत्रुमुद्धृतशत्रुं शङ्खणं नाम तत्संभवं तदात्मजमर्णवान्ता वसुधा खनिभ्य आकरेभ्य उदितैरुत्पन्नै रत्नोपहारैरुत्कृष्टवस्तुसमर्पणैरुपतस्थे सिषेवे ॥ "जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते" इति भरतविश्वौ ॥

  तस्यावसाने ह[२९]रिदश्वधामा पित्र्यं प्रपेदे पदम[३०]श्विरूपः ।
  वेलातटेषूषितसैनिकाश्वं पुराविदो यं व्यु[३१]षिताश्वमाहुः ॥ २३ ॥

 तस्येति ॥ तस्य शङ्खणस्यावसानेऽन्ते हरिदश्वधामा सूर्यतेजाः । अश्विनोरिव रूपमस्येत्यश्विरूपोऽतिसुन्दरः । तत्पुत्र इति शेषः । पित्र्यमिति संबन्धिपदसामर्थ्यात् । पित्र्यं पदं प्रपेदे ॥ वेलातटेषूषिता निविष्टाः सैनिका अश्वाश्च यस्य तम् । अन्वर्थनामानमियर्थः । यं पुत्रं पुराविदो वृद्धा व्युषिताश्वमाहुः ॥

  आराध्य विश्वेश्वरमीश्वरेण तेन क्षितेर्विश्व[३२]सहो वि[३३]जज्ञे ।
  पातुं सहो वि[३४]श्वसखः समग्रां विश्वंभरामात्मजमूर्तिरात्मा ॥२४ ॥

 आराध्येति॥तेन क्षितेरीश्वरेण व्युषिताश्वेन विश्वेश्वरं काशीपतिमाराध्योपास्य विश्वसहो नाम विश्वसखः समग्रां सर्वां विश्वंभरां भुवं पातुं रक्षितुं सहत इति सहः क्षमः ॥ पचाद्यच् ॥ आत्मजमूर्तिः पुत्ररूप्यात्मा स्वयमेव ॥ "आत्मा वै पुत्रनामासि" इति श्रुतेः ॥ विजज्ञे सुषुवे ॥ विपूर्वो जनिर्गर्भविमोचने वर्तते ॥ यथाह भगवान्पाणिनिः--"समां समां विजायते" इति ॥

  अंशे हिरण्याक्षरिपोः स[३५] जाते हिरण्यनाभे तनये नयज्ञः ।
  द्विषामसह्यः सुतरां तरूणां हिरण्यरेता इव सानिलोऽभूत् ॥ २५ ॥

 अंश इति ॥ नयज्ञो नीतिज्ञः स विश्वसहः । हिरण्याक्षरिपोर्विष्णोरंशे हिरण्यनाभे नाम्नि तनये जाते सति । तरूणां सानिलो हिरण्यरेता हुतभुगिव । द्विषां सुतरामसह्योऽभूत् ॥

  पिता पितॄणामनृणस्तमन्ते वयस्यनन्तानि सुखानि लिप्सुः ।
  राजानमाजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव ॥२६ ॥

 पितेति ॥ पितॄणामनृणः । निवृत्तपितृऋण इत्यर्थः ॥ "प्रजया पितृभ्यः" इति श्रुतेः ॥ अत एव कृती । कृतकृत्य इत्यर्थः । पिता विश्वसहोऽन्ते वयसि वार्द्धकेऽनन्तान्यविनाशानि मुखानि लिप्सुः । मुमुक्षुरित्यर्थः । आजानुविलम्बिबा- हुं दीर्घबाहुम् । भाग्यसंपन्न मिति भावः । तं हिरण्यनाभं राजानं कृत्वा वल्कलवा- न्बभूव । वनं गत इत्यर्थः॥

  कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
  तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥२७

 कौसल्य इति ॥ उत्तरकोसलानां पत्युः पतझान्वयभूषणस्य सूर्यवंशाभरण- स्य सोमसुतः सोमं सुतवतः । यज्वन इयर्थः । “सोमे सुत्रः" इति किप ॥ तस्य हिरण्यनाभस्य । द्वितीयः सोमश्चन्द्र इव । नेत्रोत्सवो नयनानन्दकरः कौसल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सुतोऽभूत् ॥

  यशोभिराब्रह्मसभं प्रकाशः स ब्र[३६]ह्मभूयं गतिमाजगाम ।
  अमिष्ठमाधाय निजेऽधिकारे ब्रमिष्ठमेव स्वतनुप्रसूतम् ॥ २८ ॥

 यशोभिरिति ॥ आ ब्रह्मसभाया आब्रह्मसभं ब्रह्मसदनपर्यन्तम् ॥ अभि- विधावव्ययीभावः ॥ यशोभिः प्रकाशः प्रसिद्धः स कौसल्योऽतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मविदमित्यर्थः ॥ ब्रह्मशब्दान्मतुवन्तादिष्ठन्प्रत्यये “विन्मतोलक" इति मतुपो लुक् । “नस्तद्धिते" इति टिलोपः ॥ ब्रह्मिष्ठं ब्रह्मिष्ठाख्यं स्वतनुप- सूतं स्वात्मजमेव निजे स्वकीयेऽधिकारे प्रजापालनकृस आधाय निधाय । ब्रह्मणो भावो ब्रह्मभूयं ब्रह्मत्वं तदेव गतिस्तामाजगाम ॥ मुक्तोऽभूदिसर्थः॥ स्या- ब्रह्मभूयं ब्रह्मखम्" इत्यमरः ॥ भुवो भावे क्यप् ॥

  तस्मिन्कुलापीडनिभे वि[३७]पीडं सम्यग्महीं शा[३८]सति शासनाङ्काम् ।
  प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरॉ[३९]नन्दजलाविलाक्ष्यः॥२९॥

 तस्मिन्निति ॥ कुलापीडनिभे कुलशेखरतुल्ये ॥ “वैकक्षकं तु तत् । यत्ति- यक्षिप्तमुरसि शिखास्वापाडशेखरौ इत्यमरः ॥ सुप्रसि सत्संतानवति ॥ "नित्यसिमजामेधयोः" इत्यसिप्रत्ययः ॥ तस्मिन्प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शा- सनाको शासनचिह्नां महीं विपीडं निर्वाधं यथा तथा सम्यक्शासति सति । आ- नन्दजलाविलाक्ष्य आनन्दबाप्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ॥

  पात्रीकृतात्मा गुरुसेवनेन स्प[४०]ष्टाकृतिः पत्ररथेन्द्रकेतोः ।
  तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदप्रसंख्याम् ॥३०॥

 पात्रीकृतेति ॥ गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा ॥ “योग्यभाजनयोः पात्रम् इत्यमरः ॥ पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः । तत्सरूप इत्यर्थः ॥ आकृतिः कथिता रूपे सामान्यवपुषोरपि" इति विश्वः॥ पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्रः पुत्राख्यो राजा । यद्वा

पुत्रशब्द आवर्तनीयः । पुत्रः पुत्राख्यः पुत्रः सुतः । तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत् । अग्रगण्यं चकारेत्यर्थः॥

  वंशस्थितिं वंश[४१]करेण तेन संभाव्य भावी स सखा मघोनः ।
  [४२]पस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रि[४३]दशत्वमाप ॥ ३१ ॥

 वंशेति ॥ स्पृश्यन्त इति स्पर्शा विषयाः । तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः। अतएव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन् । स्वर्गं जिगमिषुरित्यर्थः । स ब्रह्मिष्ठो वंशकरेण वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य त्रिषु पुष्करेषु तीर्थविशेषेषु ॥ “दिक्संख्ये संज्ञायाम्” इति समासः ॥ उपस्पृशन्स्नानं कुर्वंस्त्रिदशत्वं देवभूयमाप॥

  तस्य प्रभानिर्जितपु[४४]ष्परागं पौ[४५]ष्यां तिथौ पु[४६]ष्यमसूत पत्नी।
  [४७]स्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पु[४८]ष्य इव द्वितीये।।३२।।

 तस्येति ॥ तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ ॥ "पुष्ययुक्ता पौर्णमासी पौषी" इत्यमरः ॥ “नक्षत्रेण युक्तः कालः" इत्यण्प्रत्ययः । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत । द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनाः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥

  महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा।
  तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः॥३३

 महीमिति ॥ महेच्छो महाशयः ॥ " महेच्छस्तु महाशयः" इत्यमरः ॥ जन्मभीरुः संसारभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा । शिष्यभूतः सन्नित्यर्थः । सयोगाद्योगिनस्तस्माज्जैमिनेर्योगं योगविद्यामधिगम्याजन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत । क्लृपे: संपद्यमाने चतुर्थी वक्तव्या ॥ मुक्त इत्यर्थः ।।


  ततः परं त[४९]त्प्रभवः प्रपेदे ध्रु[५०]वोपमेयो ध्रु[५१]वसंधिरु[५२]र्वीम् ।
  यस्मिन्नभूज्ज्यायसि स[५३]त्यसंधे संधिर्ध्रुव: संनमताम[५४]रीणाम्॥३४॥

 तत इति ।। ततः परं स पुष्यः प्रभवः कारणं यस्य स तत्प्रभवः । तदात्मज इत्यर्थः । ध्रुवेणौत्तानपादिनोपमेयः ॥ "ध्रुव औत्तानपादिः स्यात्" इत्यमरः ॥ ध्रुवसंधिरुर्वीं प्रपेदे । ज्यायसि श्रेष्ठे सत्यसंधे सत्यमतिज्ञे यस्मिन्ध्रुवसंधौ संनमताम् । अनुद्धतानामित्यर्थः । अरीणां संधिर्ध्रुव: स्थिरोऽभूत् । ततः सार्थकनामेत्यर्थः॥

  सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
  मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृ[५५]सिंह: ॥३५॥

 सुत इति ॥ मृगायताक्षो नृसिंहः पुरुषश्रेष्ठः स ध्रुवसंधिदर्शात्ययेन्दुप्रियदर्शने प्रतिपच्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन्सिंहाद्विपदं मरणमवापत् ॥ व्यसनासक्तिरनर्थावहेति भावः॥

  स्वर्गामिनस्तस्य तमै[५६]कमत्यादमात्यवर्गः कुलतन्तुमेकम् ।
  अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार ॥३६॥

 स्वरिति ॥ स्वर्गामिनः स्वर्यातस्य तस्य ध्रुवसंधेरमात्यवर्गः । अनाथा नाथहीना अत एव दीनाः शोच्याः प्रकृतीः प्रजा अवेक्ष्य । कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनमैकमत्याद्विधिवत्साकेतनाथमयोध्याधीश्वरं चकार ।।

  नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन ।
  रघोः कुलं कु[५७]ड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥३७॥

 नवेति ॥ अप्रौढनरेन्द्रं तद्रघो: कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन् ॥ “पृथुकः शावकः शिशुः" इत्यमरः ॥ तेन काननेन च । कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हमासीत् । नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि मूचितानि ।।

  लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
  दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ३८

 लोकेनेति ॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतो: पितुस्तुल्यः पितृसरूप एव भावी भविष्यति लोकेन जनेन संभावितस्तर्कित:॥ तथाहि । कलभप्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्याशा दिशो वृण्वन्गच्छन्दृष्टो हि ॥

  तं राजवीथ्यामधिहस्ति या[५८]न्तमाधोरणालम्बितम[५९]ग्र्यवेशम् ।
  षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण॥ ३९॥

 तमिति ॥राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि ॥ विभक्त्यर्थेऽव्ययीभावः॥ यान्तं गच्छन्तम् । हस्तिनमारुह्य गच्छन्तमित्यर्थः । आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्ष: ॥ "तद्धितार्थ-" इत्यादिना समासः । तमधीष्टो भृतो भूतो भावीत्यधिकारे " चित्तवति नित्यम्" इति तद्धितस्य लुक् ॥ ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः ॥ " ईषदसमाप्तौ-" इत्यादिना देशीयर्प्रत्ययः ॥ तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त । पितरि यादृग्गौरवं तादृशेनैव ददृशुरित्यर्थः ॥

  कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
  तेजोमहिम्ना पुनरा[६०]वृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥४०॥

 काममिति॥स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक्प्रतिपूरणाय नाकल्पत । बालत्वाद्व्याप्तुं न पर्याप्त इत्यर्थः॥चामीकरपिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजःसंपदा त्ववृतात्मा विस्तारितदेहः संस्तत्सिंहासनं व्याप व्याप्तवान् ॥

  तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।
  सा[६१]लक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ॥११॥

 तस्मादिति॥ तस्मात्सिंहासनादपादानादधोऽधोदेशं प्रति किंचिदिवावतीर्णावीषल्लम्बौ तपनीयपीठं काञ्चनपीठमसंस्पृशन्तावल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसिक्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धरुन्नतैर्मौलिभिर्मुकुटैर्ववन्दिरेप्रणेमुः।।

  मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या ।
  शब्दो महाराज इति प्रे[६२]तीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि॥४२॥

 मणाविति ॥ अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न तथैवार्भके शिशावपि तस्मिन्सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ॥

  पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् ।
  तस्याननादुच्चरितो वि[६३]वादश्र्वस्खाल वेलास्वपि नार्णवानाम्।।४३॥

 पर्यन्तेति ॥ पर्यन्तयोः पार्श्वयो: संचारिते चामरे यस्य तस्य तस्य बालस्य संवन्धिन: कपोलयोर्लोलावुभौ काकपक्षौ यस्य तस्मादाननादुच्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल। शिशोरपि तस्याज्ञाभङ्गो नासीदित्यर्थः ॥ चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः॥ उभयकाकपक्षादित्यत्र-"वृत्तिविषये उभयपुत्र इतिवदुभशब्दस्थान उभयशब्दप्रयोगः" इत्युक्तं प्राक् ॥

  नि[६४]र्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः।
  तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥४४॥

 निवृत्तेति ॥ निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजारिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार । अखिलमपि शत्रुवर्गमवधीदिति भावः॥

  शि[६५]रीषपुष्पाधिकसौकुमार्यः खेदं स यायाद[६६]पि भूषणेन ।
  नितान्तगुर्वीमपि सो[६७]ऽनुभावाद्धुरं धरित्र्या बि[६८]भरांबभूव ॥४५॥

 शिरीषेति ॥ शिरीषपुष्पाधिकसौकुमार्यः । कोमलाङ्ग इत्यर्थः । अतएव स राजा भूषणेनापि खेदं श्रमं यायाद्गच्छेत् । एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात्सामर्थ्याद्विभरांबभूब बभार ॥ “भीह्री भृहुवां श्लुवच्च" इति विकल्पादाम्प्रत्ययः॥

  न्यस्ताक्षरामक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावत् ।
  [६९]र्वाणि तावच्छ्रुतवृद्धयोगात्फ[७०]लान्युपायुङ्क्त स दण्डनीतेः ॥४६॥

 न्यस्तेति ॥ अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपङ्क्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां मातृकां कार्त्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुङ्क्तान्वभूव । प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यमानं शास्त्रं संवादार्थमिवाभवदित्यर्थः॥

  उरस्यपर्याप्तनिवेशभा<refभागम्; भोगात्.></ref>गा प्रौढीभविष्यन्तमु[७१]दीक्षमाणा।
  संजातलज्जेव तमातपत्रच्छायाछलेनोपजुगूह लक्ष्मीः॥४७॥

 उरसीति ॥ उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा। अतएव प्रौढीभविष्यन्तं वर्धिष्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातलज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनमातपत्रच्छायाछलेनोप-


जुगूहालिलिङ्ग ।। छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः ॥ प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः॥

  अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।
  अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः॥४८॥

 अनश्नुवानेनेति ॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता । अबद्धं मौर्वीकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन । अस्पृष्टः खड्गत्सरुः खड्गमुष्टिर्येन तेन ॥ "त्सरुः खड्गादिमुष्टौ स्यात्" इत्यमरः ॥ एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमी रक्षावत्यासीत् । शिशोरपि तस्य तेजस्तादृगित्यर्थः ।

  न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
  वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रतिमानमा[७२]पुः४९

 नेति ॥ काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः । किंतु वंशे भवा वंश्या लोककान्ता जनप्रिया: प्रारम्भ आदौ सूक्ष्मास्तस्य गुणाः शौर्यौदार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ॥

  स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् ।
  तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ५०

 स इति ॥ स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन् । त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः । तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयीवार्त्तादण्डनीतीः पित्र्याः पितृसंबन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार । अत्र कौटिल्यः-"धर्माधर्मौ त्रय्यामर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्याम्” इति ॥ अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम् । आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य ॥ यथाह कामन्दक: "त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या मनोर्मताः। त्रय्या एव विभागोऽयं येन सान्वीक्षिकी मता" इति ॥

  व्यू[७३]ह्य स्थितः किंचिदिवो[७४]त्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
  आकर्णमाकृष्टसबाणधन्वा व्यरोचता[७५]स्त्रेषु विनीयमानः॥५१॥

 व्यूह्येति ॥ अस्त्रेषु धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽत एवोत्तरार्धं पूर्वकायं किंचिदिव व्यूह्य विस्तार्य स्थितः । उन्नद्धचूडमूर्ध्वमुत्कृष्य बद्धकेशः । अञ्चितमाकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः सन्व्यरोचताशोभत ॥

  अथ मधु वनितानां ने[७६]त्रनिर्वेशनीयं
   मनसिजतरुपुष्पं रो[७७]गबन्धप्रवालम् ।
  अकृतकविधि सर्वाङ्गीणमाकल्पजातं
   विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२ ॥

 अथेति ॥ अथ स सुदर्शनो वनितानां नेत्रनिर्वेशनीयं भोग्यम् । नेत्रपेयमित्यर्थः ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः ॥ मधु क्षौद्रम् । रागबन्धोऽनुरागसंतान एव प्रवालः पल्लवो यस्य तत् । मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम् । अकृतकविध्यकृत्रिमसंपादनम् । सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् ॥"तत्सर्वादेः-" इत्यादिना खप्रत्ययः॥ आकल्पजातमाभरणसमूहभूतम् । आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे ॥ विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ।।

  प्रतिकृतिरचनाभ्यो दू[७८]तिसंदर्शिताभ्यः
   समधिकतररूपाः शुद्धसंतानकामैः ।
  अधिविविदुरमात्यैराहृतास्तस्य यूनः
   प्रथमपरिग्रहीते श्रीभुवौ राजकन्याः॥५३ ॥

 प्रतिकृतीति ॥ दूतिभिः कन्यापरीक्षणार्थं प्रेषिताभिः संदर्शिताभ्यो दृतिसंदर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यो विन्यासेभ्यः ॥ “पञ्चमी विभक्ते" इति पञ्चमी । समधिकतररूपाः। चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः । शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य संबन्धिन्यौ प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च ते अधिविविदुरधिविन्ने चक्रुः । आत्मना सपत्नीभावं चक्रुरित्यर्थः॥ “कृतसापत्निकाध्यूढाविधिन्ना " इत्यमरः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वंशानुक्रमो नामाष्टादशः सर्गः ।


  1. सुतायाः.
  2. उरुकार्येण.
  3. संपत्तिफलात्मकेन; संपन्नफलात्मकेन.
  4. तस्मिन्.
  5. तप्रभवः; स प्रभवः; तत्प्रभवः.
  6. अजयें.
  7. मनः.
  8. आहितपुण्डरीकम् ;
    आहितपुण्डरीक्षम्.
  9. आश्रिता.
  10. दत्तम्
  11. क्षामतनुः.
  12. चकार.
  13. अधिकवत्सलेन.
  14. महीम् .
  15. अनर्थव्यसनैः; अनार्यव्यसनैः.
  16. शीलः.
  17. शिलापाट.
  18. वार्तम्.
  19. वृत्ति.
  20. आसोत्सुतः.
  21. तुल्यः.
  22. तस्यात्मजः.
  23. मेखलायाः.
  24. वज्रनाभः, वज्रनामा.
  25. स्वः.
  26. सुकृतोपलब्धम्.
  27. खण्डनम्; षण्डनम्.
  28. खनितैः.
  29. हरिदश्वनामा.
  30. अश्वरूपः.
  31. ध्युषिताश्वम्.
  32. विश्वसखः, विश्वसमः; विष्णुसमः.
  33. अधिजज्ञे.
  34. विश्वसहः; विश्वसृजः.
  35. सुजाते.
  36. ब्रह्मभूयाम्.
  37. विपीडाम्.
  38. शासनाकम्.
  39. आनन्दमलाकुलाक्ष्यः; आनन्दजलोक्षिताक्ष्यः.
  40. स्पृष्टाकृतिः.
  41. वंशधरेण.
  42. अपस्पृशन् ; अपः स्पृशन्.
  43. त्रिषु शान्तिम्.
  44. पद्मरागम्.
  45. पुष्याम्.
  46. पुष्पम्.
  47. यस्मिन्.
  48. पुष्पः.
  49. तत्प्रभवम्.
  50. ध्रुवोपमेयम्.
  51. ध्रुवसंधिम्.
  52. उर्वी.
  53. सत्यसंधिः.
  54. नृपाणाम्.
  55. नृसोमः.
  56. एकपुत्रम्.
  57. पुष्करकुड्मलेन; कुड्मलपङ्कजेन.
  58. यन्तम्.
  59. पूर्वकायम् ; मध्यदेशम्.
  60. आवितानम् ; आ वितानात्.
  61. सकुङ्कुमौ.
  62. प्रयुक्त:; प्रसिद्धः
  63. अपि वादः.
  64. निर्वृत्तजाम्बूनदपट्टबन्धे; निवृत्तजाम्बूनदपट्टबन्धे.
  65. शिरीषपुष्पोपम.
  66. अथ.
  67. च.
  68. बिभरांचकार.
  69. तावत्क्षितीशः, तावत्फलानि.
  70. वृद्धानि; पक्वानि.
  71. उदीक्षमाणम्; उपेक्षमाणा.
  72. ईयुः.
  73. व्यूहस्थितः.
  74. उत्तराङ्गम् ; उन्नतांस:.
  75. अस्त्रे स
  76. नेत्रनिर्वेशपेयम्.
  77. रागबन्धि.
  78. दूत.