सामग्री पर जाएँ

रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/षष्ठः सर्गः(स्वयंवरवर्णनः)

विकिस्रोतः तः
← पञ्चमः सर्गः(अजस्वयंवराभिगमनः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
षष्ठः सर्गः(स्वयंवरवर्णनः)
कालिदासः
सप्तमः सर्गः(अजपाणिग्रहणः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

षष्ठः सर्गः ।


    जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ ।
    कामारि कामतातं वा कंचिद्देवं भजामहे ।।

  स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवत्सु ।
  वैमानिकानां मरुतामपश्यदाकृष्टलीलानरलोकपालान् ॥१॥

 स इति ॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपचारवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थानमनोज्ञवेषान्मनोहरनेपथ्यान्वैमानिकानां विमानैश्चरताम् ।। "चरति" इति ठक्प्रत्ययः ॥ मरुताममराणाम् ॥ “ मरुतौ पवनामरौ" इत्यमरः ॥ आकृलीलान्गृहीतसौभाग्यान् । आकृष्टमरुल्लीलानित्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ नरलोकं पालयन्तीति नरलोकपालाः ॥ कर्मण्यण्प्रत्ययः ॥ तान्भूपालानपश्यत् ॥ सर्गेऽस्मिन्नुपजातिश्छन्दः॥

  रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
  काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥२॥

 रतेरिति ॥ " रतिः स्मरप्रियायां च रागे च सुरते स्मृता" इति विश्वः॥ रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन । गृहीतरत्यनुनयेनेत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव । इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यतीति निश्चिक्युरित्यर्थः । सर्वातिशयसौन्दर्यमस्येति भावः ॥

  वैदर्भनिर्दिष्टम[]सौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
  शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥३॥

 वैदर्भेति ॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लृप्तेन सुविहितेन सोपानपथेन । मृगराजशावः सिंहपोतः ॥ "पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः ॥ शिलानां विभङ्गैर्भङ्गीभिस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव । आरुरोह ॥

  परार्ध्यवर्णास्तरणोपपन्नमासेदिवारत्नवदासनं सः।
  भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ४॥

 परायेति ॥ परार्ध्याः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बला- दिनोपपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्ठितवान्सोऽजः । मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह ॥ “सेनानीरग्निभूर्गुहः" इत्यमरः ॥ भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत् ॥ मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य । तद्द्वारा च तदारूढयोरपीति भावः॥

  तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
  []हस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥५॥

 तास्विति ॥ तासु राजपरंपरासु श्रिया लक्ष्म्या । कर्त्र्या । पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः । तरंगेषु तरणिरिव स्वयमेक एव प्रत्येकं संक्रामित इत्यर्थः । प्रभाविशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्व्यद्योतिष्ट । “द्युद्भयो लुङि" इति परस्मैपदम् । दुतादित्वादङ्प्रत्ययः ॥ तस्मिन्समये प्रत्येकं संक्रान्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः॥

  तेषां महार्हासन[]संस्थितानामुदारनेपथ्यभृतां स मध्ये ।
  रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः॥६॥

 तेषामिति ॥ महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम् । उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये । कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव ॥“पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्" इत्यमरः ॥ स रघुसूनुरेव धाम्ना तेजसा ।। "भूम्ना" इति पाठेऽतिशयेनेत्यर्थः ॥ रराज ॥ अत्र कल्पद्रुमशब्दः पञ्चान्यतमविशेषवचनः । उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम् ॥ कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ।।

  नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
  मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः॥७॥

 नेत्रेति ॥ पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः । स एव सर्वोत्कर्षेण ददृश इत्यर्थः ॥ कथमिव । मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे । रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते। त्यक्तपुष्पवृक्षा इत्यर्थः । द्विरेफा भृङ्गा इव । द्विपस्य वन्यविशेषणं द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम् ।।  त्रिभिर्विशेषकमाह-

  अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके।
  संचारिते चागुरुसारयोनौ धूपे स[]मुत्सर्पति वैजयन्तीः॥८॥

 अथेति ॥ अथान्वयज्ञैः राजवंशाभिर्वन्दिभिः स्तुतिपाठकैः ॥ “वन्दिनः स्तुतिपाठकाः" इत्यमरः ॥ सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति । विवशेत्युत्तरेण संबन्धः । एवमुत्तरत्रापि योज्यम् । संचारिते समन्तात्मचारिते। अगुरुसारो योनिः कारणं यस्य तस्मिन्धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति । अतिक्रम्य गच्छति सति ॥

  पुरोपकण्ठोपवना[]श्रयाणां क[]लापिनामुद्धतनृत्यहेतौ।
  प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे ॥९॥

 पुरोपकण्ठेति ॥ किं च । पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां तेषां कलापिनां बर्हिणामुद्धतनृत्यहेतौ । मेघध्वनिसादृश्यात्ताण्डवकारणे । प्रध्माताः पूरिताः शङ्खा यत्र तस्मिन् । मङ्गलार्थे मङ्गलप्रयोजनके । तूर्यस्वने वाद्यघोषे परितः सर्वतो दिगन्तान्मूर्छति व्याप्नुवति सति ॥

  मनुष्यवाह्यं च[]तुरस्रयानमध्यास्य कन्या परिवारशोभि ।
  विवेश मश्चान्तरराजमार्गं पतिंवरा क्लृप्तविवाहवेषा ॥ १० ॥

 मनुष्येति ॥ पतिं वृणोतीति पतिंवरा स्वयंवरा ॥ "अथ स्वयंवरा । पतिंवरा च वर्या च" इत्यमरः ॥" संज्ञायां भृतॄवृजि-" इत्यादिना खच्प्रत्ययः ॥ क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिबिकामध्यास्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गस्तं विवेश ॥

  तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
  निपेतुरन्तःकरणैनरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥ ११ ॥

 तस्मिन्निति ॥ नेत्रशतानामकलक्ष्य एकदृश्ये कन्यामये कन्यारूपे तस्मिन्विधातुर्विधानातिशये सृष्टिविशेषे नरेन्द्रा अन्तःकरणैर्निपेतुः । आसनेषु देहः केवलं

देहेरेव स्थिताः ॥ देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः ॥ अन्तःकरणकर्तृके निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ॥

  तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
  प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः॥१२॥

 तामिति ॥ तामिन्दुमतीं प्रति । अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः । प्रणयः प्रार्थना प्रेम वा ॥ “प्रणयास्त्वमी । विस्रम्भयाच्ञाप्रेमाणः" इत्यमरः। प्रणयेष्वग्रदूत्यः प्रथमदूतिकाः ॥ प्रणयप्रकाशकत्वसाम्याद्दूतीत्वव्यपदेशः । विविधाः शृङ्गारचेष्टाः शृङ्गारविकाराः पादपानां प्रवालशोभाः पल्लवसंपद इव बभूवुरुत्पन्नाः॥ अत्र शृङ्गारलक्षणं रससुधाकरे- "विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते" ॥ रतिरिच्छाविशेषः। तच्चोक्तं तत्रैव-“यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता" इति ॥ चेष्टाशब्देन तदनुभावविशेषा उच्यन्ते । तेऽपि तत्रैवोक्ताः- "भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये । तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः। ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसंभवाः" इति ॥ तत्र गात्रारम्भसंभवांश्चेष्टाशब्दोक्ताननुभावान् “कश्चित्-" इत्यादिभिः श्लोकैर्वक्ष्यति ॥ शृङ्गाराभासश्चायम् । एकत्रैव प्रतिपादनात् । तदुक्तम् - एकत्रैवानुरागश्चेत्तिर्यक्शब्दगतोऽपि वा । योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" इति ॥

 " शृङ्गारचेष्टा बभूवुः" इत्युक्तम् । ता एव दर्शयति-

  कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।
  रजोभिर[]न्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥१३॥

 कश्चिदिति ॥ कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढनालं गृहीतनालम् । आलोलैश्चञ्चलैः पत्रैरभिहतास्ताडिता द्विरेफा भ्रमरा येन तत्तथोक्तम् । रजोभिः परागैरन्तःपरिवेषं मण्डलं बध्नातीत्यन्तःपरिवेषबन्धि । लीलारविन्दं भ्रमयांचकार।। करस्थलीलारविन्दवत्त्वयाहं भ्रमयितव्य इति नृपाभिप्रायः। हस्तपूर्णकोऽयमपलक्षणक इतीन्दुमत्यभिप्रायः॥

  विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् ।
  प्रालम्बमु[]त्कृष्य य[१०]थावकाशं निनाय साचीकृतचारुवक्त्रः॥१४॥

 विस्रस्तमिति ॥विलसनशीलो विलासी ॥ “वौ कषलसकत्थस्रम्भः" इति घिनुण्प्रत्ययः ॥ अपरो राजांसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्बमृजुलम्बिनीं स्रजम् ।। "पालम्बमृजुलम्बि स्यात्कण्ठात्" इत्यमरः ॥ "प्रावारम्" इति पाठे तूत्तरीयं वस्त्रम् ।। उत्कृष्योध्दृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन्यथावकाशं स्वस्थानं निनाय ॥ प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्य इति नृपाभिप्रायः। गोपनीयं किंचिदङ्गेऽस्ति ततोऽयं प्रवृणुत इतीन्दुमत्यभिप्रायः॥

  आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशो[११]भः ।
  ति[१२]र्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ।। १५॥

 आकुञ्चितेति ॥ ततः पूर्वोक्तादन्योऽपरो राजा किंचित्समावर्जितनेत्रशोभ ईपदर्वाक्पातितनेत्रशोभः सन् । आकुञ्चिता आभुग्ना अग्राङ्गुलयो यस्य तेन तिर्यग्विसंसर्पिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान् ॥ पादाङ्गुलीनामाकुञ्चनेन त्वं मत्समीपमागच्छेति नृपाभिप्रायः। भूमिविलेखकोऽयमपलक्षणक इतीन्दुमत्याशयः । भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ॥

  निवेश्य वामं भुजमासनार्धे तत्संनिवेशादधिकोन्नतांसः ।
  कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ॥१६॥

 निवेश्येति ॥ कश्चिद्राजा वामं भुजमासनार्धे सिंहासनैकदेशे निवेश्य संस्थाप्य तत्संनिवेशात्तस्य वामभुजस्य संनिवेशात्संस्थापनादधिकोन्नतोऽसो वामांस एव यस्य स तथोक्तः सन् । विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठितहारः सन् ॥ “पृष्ठवंशाधरे त्रिकम्" इत्यमरः ।। सुहृत्समाभाषणतत्परोऽभूत् । वामपार्श्ववर्तिनैव मित्रेण संभाषितुं प्रवृत्त इत्यर्थः । अत एव विवृत्तत्रिकत्वं घटते ॥ त्वया वामाङ्गे निवेशितया सहैवं वार्तां करिष्य इति नृपाभिप्रायः। परं दृष्ट्वा पराङ्मुखोऽयं न कार्यकर्तेतीन्दुमत्यभिप्रायः ॥

  विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः ।
  प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥१७॥

 विलासिनीति ॥ अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम् ॥ "दलेऽपि बर्हम्" इत्यमरः ॥ प्रियानितम्ब उचितसंनिवेशैरभ्यस्तनिक्षेपणैर्नखागौर्विपाटयामास विदारयामास ॥ अहं तव नितम्ब एवं नखव्रणादीन्दास्यामीति नृपाशयः । तृणच्छेदकवत्पत्रपाटकोऽयमपलक्षणक इतीन्दुमत्याशयः॥

  कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
  रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥१८॥

 कुशेशयेति ॥ कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन ॥ “शतपत्रं कुशेशयम्" इत्यमरः।। रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण । अङ्गुलिषु भवान्यङ्गलीयान्यूर्मिकाः ॥ “अलङ्गीयकमूर्मिका" इत्यमरः ॥ "जिह्वामूलाङ्गुलेश्छः"

इति छप्रत्ययः ।रत्नानामङ्गुलीयानि तेषां प्रभयानुविद्धान्व्याप्तानक्षान्पाशान् ॥ "अक्षास्तु देवनाः पाशकाश्च ते" इत्यमरः ॥ सलीलमुदीरयामासोच्चिक्षेप ॥ अहं त्वया सहैवं रंस्य इति नृपाभिप्रायः । अक्षचातुर्ये कापुरुषोऽयमितीन्दुमत्यभिप्रायः। “अक्षैर्मा दीव्येत" इति श्रुतिनिषेधात् ॥

  कश्चिद्य[१३]थाभागमवस्थितेऽपि स्वसंनि[१४]वेशाद्व्यतिलङ्घिनीव ।
  [१५]ज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ।।१९॥

 कश्चिदिति ॥ कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव स्वस्थानाच्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङ्गुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास ॥ किरीटवन्मम शिरसि स्थितामपि त्वां भारं न मन्य इति नृपाभिमायः । शिरसि न्यस्तहस्तोऽयमपलक्षण इतीन्दुमत्यभिप्रायः॥

  ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी।
  प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥२०॥

 तत इति॥ ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा।श्रुतनृपवृत्तवंशेत्यर्थः।। सापेक्षत्वेऽपि गमकत्वात्समासः॥प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका ॥ कर्मण्यण्प्रत्ययः ॥" टिड्ढाणञ्-" इत्यादिना ङीप् ॥ प्राक्प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य संनिकर्ष समीपं नीत्वा पुंवत्पुंसा तुल्यम् ॥ "तेन तुल्यं क्रिया चेद्वतिः" इति वतिप्रत्ययः॥ अवदत् ॥

  असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
  राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥ २१॥

 असाविति॥ असौ राजा । असाविति पुरोवर्तिनो निर्देशः॥ एवमुत्तरत्रापि द्रष्टव्यम् ॥ शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः॥ “तत्र साधुः" इति यत्प्रत्ययः॥ शरणं भवितुमर्हः शरण्य इति नाथनिरुक्तिर्निर्मूलैव ॥ अगाधसत्त्वो गम्भीरस्वभावः ॥ “सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः" इति विश्वः ॥ मगधा जनपदाः । तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः ॥" प्रतिष्ठा कृत्यमास्पदम्" इत्यमरः ॥ प्रजारञ्जने लब्धवर्णो विचक्षणः । यद्वा प्रजारञ्जनेन लब्धोत्कर्षः । पराञ्छत्रूंस्तापयतीति परंतपः॥परंतपाख्यः ॥ “द्विषत्परयोस्तापेः" इति खच्प्रत्ययः । “खचि ह्रस्वः" इति ह्रस्वः । " अरुर्द्विषदजन्तस्य मुम्" इति मुमागमः ॥ नामेति प्रसिद्धौ । यथार्थनामा । शत्रुसंतापनादिति भावः॥

  कामं नृपाः स[१६]न्तु स[१७]हस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
  नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥२२॥

 काममिति ॥ अन्ये नृपाः कामं सहस्रशः सन्तु । भूमिमनेन राजन्वतीं शोभनराजवतीमाहुः । नैतादृक्कश्चिदस्तीत्यर्थः ॥ "सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्" इत्यमरः ॥ “ राजन्वान्सौराज्ये” इति निपातनात्साधुः । तथाहि । नक्षत्रैरश्विन्यादिभिस्ताराभिः साधारणैर्ज्योतिर्भिग्रहैर्भौमादिभिश्च संकुलापि रात्रिश्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती । नान्येन ज्योतिषेत्यर्थः॥

  क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः।
  शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥२३॥

 क्रियेति । अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्यात् । अविच्छिन्नादनुष्ठानादित्यर्थः । अजस्रं नित्यमाहूतसहस्रनेत्रः संश्चिरं शच्या अलकान्पाण्डुकपोलयोर्लम्बान्स्रस्तान् ॥ पचाद्यच् ॥ मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार ॥ प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति । “प्रोषिते मलिना कृशा" इति । "क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका" इति च स्मरणात् ॥

  अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
  प्रासादवातायनसंश्रि[१८]तानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥२४॥

 अनेनेति ॥ वरेण्येन वरणीयेन ॥ वृणोतेरौणादिक एण्यप्रत्ययः। अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत् । पाणिग्रहणमिच्छसि चेदित्यर्थः। प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङ्गनानां पाटलिपुराङ्गनानां नेत्रोत्सवं कुरु ॥ सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः॥

  एवं तयोक्ते तमवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला ।
  ऋजुप्रणामक्रिययै[१९]व तन्वी प्रत्यादिदेशैनमभाषमाणा ॥२५॥

 एवमिति ॥ एवं तया सुनन्दयोक्ते सति तं परंतपमवेक्ष्य किंचिद्विस्रंसिनी दूर्वाङ्का दूर्वाचिह्ना मधूकमाला गुडपुष्पमाला यस्याः सा ॥ “मधूके तु गुडपुष्पमधुद्रुमौ" इत्यमरः॥ वरणे शिथिलप्रयत्नेति भावः । तन्वीन्दुमत्येनं नृपमभाषमाणर्ज्वा | भावशून्यया प्रणामक्रिययैव प्रत्यादिदेश परिजहार ॥

  तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
  समीरणोत्थेव त[२०]रंगलेखा पद्मान्तरं मानसराजहंसीम् ॥ २६ ॥

 तामिति ॥ सैव नान्या । चित्तज्ञत्वादिति भावः । वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराजानं निनाय ॥ नयतिर्द्विकर्मकः॥ कथमिव । समीरणोत्था वातोत्पन्ना तरंगलेखोर्मिपङ्क्तिर्मानसे सरसि या राजहंसी तां पद्मान्तरमिव ॥

  जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः।
  वि[२१]नीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥२७॥

 जगादेति ॥ एनामिन्दुमतीं जगाद । किमिति । अयमङ्गनाथोऽङ्गदेशाधीश्वर: सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः ॥ पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरगामिनमकामयन्ताप्सरस इति प्रसिद्धिः ॥ किंच। सूत्रकारैर्गजशास्त्रवद्भिः पालकादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः। किलेत्यैतिह्ये । अत एवं भूमिगतोऽप्यैन्द्रं पदमैश्वर्यं भुङ्क्ते । भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः। गजाप्सरोदेवर्षिसेव्यत्वमैन्द्रपदशब्दार्थः ॥ पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयानीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृत्य भुवि संप्रदायं पावर्तयदिति कथा गीयते ॥

  अनेन प[२२]र्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
  प्रत्यर्पिताः शत्रुविलासिनीनामु[२३]न्मुच्य सूत्रेण विनैव हाराः॥२८॥

 अनेनेति ॥ शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून् ॥ “अस्रमश्रुणि शोणिते" इति विश्वः ॥ पर्यासयता प्रस्तारयता। भर्तृवधादिति भावः। अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण विना हारा एव प्रत्यर्पिताः । अविच्छिन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमिवेत्युत्प्रेक्षा गम्यते ॥

  निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।
  कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया।।

 निसर्गेति ॥ निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम् । सहावस्थानवि- रोधीत्यर्थः । श्रीश्च सरखती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितिर्यस्य त- देकसंस्थम् । उभयमिह संगतमित्यर्थः । हे कल्याणि ॥ “बबादिभ्यश्च” इति डी॥ कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्व- त्योस्तृतीया । समानगुणयोर्युवयादापत्यं युज्यत एवेति भावः ॥ दक्षिणनायकत्वं चास्य ध्वन्यते ॥ तदुक्तम्-"तुल्योऽनेकत्र दक्षिणः" इति ॥

  अथाङ्गराजादवतार्य चक्षुर्या[२४]हीति जन्यामवदत्कुमारी ।
  नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः३०

 अथेति ॥ अथ कुमार्यङ्गराजाचक्षुरवतार्य । अपनीयेत्यर्थः । जन्यां मातृसखी- म् ॥ “जन्या मातृसखीमुदोः" इति विश्वः ॥ सुनन्दां याहि गच्छेत्यवदत् ॥ “या- तेति जन्यानवदत्" इति पाठे जनीं वधूं वहन्तीति जन्या वधूवन्धवः । तान्यात ग- छतेत्यवदत् ॥ “जन्यो वरवधूज्ञातिनियतुल्यहितेऽपि च” इति विश्वः ॥ अथवा जन्या वधूभृत्या ॥"भृत्याश्चापि नवोढायाः" इति केशवः ॥ संज्ञायां जन्येति य- त्मत्ययान्तो निपातः । यदत्राह वृत्तिकारः- “जनीं वधूं वहन्तीति जन्या जामा- तुर्वयस्याः" इति । यच्चामरः "जन्याः स्निग्धा वरस्य ये" इति। तत्सर्वमुपलक्षणार्थ- मित्यविरोधः ॥ न चायमराजनिषेधो दृश्यदोषान्नापि द्रष्टदोषादित्याह-नेत्या- दिना ॥ असावङ्गराजः काम्यः कमनीयो नेति न । किंतु काम्य एवेत्यर्थः । सा कुमारी च सम्यग्द्रष्टुं विवक्तुं न वेदेति न । वेदेत्यर्थः। किंतु लोको जनो भिन्नचिहि रुचिरमपि किंचित्कस्मैचिन रोचते॥ किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः।।

  ततः परं दुःसहं द्वि[२५]षद्भिर्नृपं नि[२६]युक्ता प्रतिहारभूमौ
  निदर्शयामास वि[२७]शेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥ ३१ ॥

 तत इति ॥ ततोऽनन्तरं प्रतिहारभूमौ द्वारदेशे नियुक्ता दौवारिकी ॥ "स्त्री द्वारं प्रतीहारः" इत्यमरः॥ द्विषद्भिः शत्रुभिर्दुःसहं दुःसहम् । शूरमित्यर्थः । विशेषेण दृश्यं दर्शनीयम् । रूपवन्तमित्यर्थः । परमन्यं नृपम् । नवोत्थानं नवोदय- मिन्दुमिव । इन्दुमत्यै निदर्शयामास ॥

  अवन्तिनाथोऽयमुदप्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
  आरोग्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्रोल्लिखितो विभाति ॥३२

 अवन्तीति ॥ उदग्रबाहुर्दीर्घबाहुर्विशालवक्षास्तनुवृत्तमध्यः कुशवर्तुलमध्योऽयं

राजावन्तिनाथोऽवन्तिदेशाधीश्वरः। त्वष्ट्रा विश्वकर्मणा । भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः । चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम् ॥ भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुण्डाख्ये शिल्पियन्त्रके” इति विश्वः ॥ आरोप्य यत्नेनोल्लिखित उष्णतेजाः सूर्य इव । विभाति ॥ अत्र मार्कण्डेयः-" विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । भ्रममारोप्य तत्तेजःशातनायोपचक्रमे" इति ॥

  अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
  कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥३३॥

 अस्येति ॥ समग्रशक्तेः शक्तित्रयसंपन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रेसरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भवानां राज्ञां ये शिखामणयश्चूडामणयस्तेषां प्रभामरोहास्तमयं तेजोऽङ्गुरनाशं कुर्वन्ति । नासीरैरेवास्य शत्रवः पराजीयन्त इति भावः ॥

  असौ महाकालनिकेतनस्य व[२८]सन्नदूरे किल चन्द्रमौलेः ।
  [२९]मि[३०]स्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्३४॥

 असाविति ॥ असाववन्तिनाथः । महाकालं नाम स्थानविशेषः । तदेव निकेतनं स्थानं यस्य तस्य चन्द्रमौलेरीश्वरस्यादूरे समीपे वसन् । अत एव हेतोस्तमिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान्रात्रीर्निर्विशत्यनुभवति किल । नित्यज्योत्स्नाविहारत्वमेतस्यैव नान्ययेति भावः॥

  अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
  सि<ref>क्षिप्रा.<ref>प्रातरंगानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥३५॥

 अनेनेति ॥ रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूस्तस्याः संबोधनम्। हे रम्भोरु ॥ "ऊरूत्तरपदादौपम्ये" इत्यूङ्प्रत्ययः । नदीत्वाद्ध्रस्वः ॥ यूनानेन पार्थिवेन सह । सिप्रा नाम तत्रत्या नदी । तस्यास्तरंगाणामनिलेन कम्पितासूद्यानानां परंपरासु पङ्क्तिषु विहर्तुं ते तव मनसो रुचिः कच्चित् । स्पृहास्ति किमित्यर्थः । “ अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्" इत्यमरः ॥

  तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
  बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥३६॥

 तस्मिन्निति ॥उत्तमसौकुमार्योत्कृष्टानमार्दवा सेन्दुमती। अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन् । प्रतापेन तेजसा संशोषिताः शत्रव एव पङ्काः

कर्दमा येन तस्मिन् । तस्मिन्नवन्तिनाथे कुमुद्वती ॥ "कुमुदनडवेतसेभ्यो ड्मतुप्" इति ड्मतुप्प्रत्ययः ॥ भानुमत्यंशुमतीव । भावं चित्तं न बबन्ध । न तत्रानुरागमकरोदित्यर्थः ।। बन्धूनां पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ॥

  तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
  विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥३७॥

 तामिति ॥ सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्तिम् । कनकगौरीमित्यर्थः । गुणैरनूनाम् । अधिकामित्यर्थः । शोभना दन्ता यस्याः सा सुदती ॥ "वयसि दन्तस्य दत्" इति दत्रादेशः। “उगितश्च" इति ङीप्॥ तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टिम् । मधुरनिर्माणां स्त्रियमित्यर्थः । अनुगता आपो येषु तेऽनूपा नाम देशाः ॥ “ऋक्पूरब्धूःपथामानक्षे" इत्यप्रत्ययः समासान्तः। “ऊदनोर्देशे" इत्यूदादेशः ॥ तेषां राज्ञोऽनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ॥

  सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः ।
  अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥३८॥

 सङ्ग्रामेति ॥ सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः । युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः । अष्टादशसु द्वीपेषु निखाता स्थापिता यूपा येन स तथोक्तः । सर्वक्रतुयाजी सार्वभौमश्चेति भावः । जरायुजादिसर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य स तथोक्तः। योगी । ब्रह्मविद्वानित्यर्थः ॥ स किल भगवतो दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः । कृतवीर्यस्यापत्यं पुमान्कार्तवीर्यो नाम राजा बभूव किलेति । अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसादलब्ध इति भारते दृश्यते ॥

  अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ।
  अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥३९॥

 अकार्येति ॥ विनेता शिक्षको यः कार्तवीर्यः । अकार्यस्यासत्कार्यस्य चिन्तया । अहं चौर्यादिकं करिष्यामीति बुद्ध्या । समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः प्रादुर्भवन्सन् । प्रजानां जनानाम् ॥ "प्रजा स्यात्संततौ जने इत्यमरः ॥ अन्तःशरीरेष्वन्तःकरणेषु । शरीरशब्देनेन्द्रियं लक्ष्यते । अविनयमपि

प्रत्यादिदेश । मानसापराधमपि निवारयामासेसर्थः । अन्ये तु वाक्कायापराधमात्रप्रतिकर्तार इति भावः॥

  ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण ।
  कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥ ४०॥

 ज्याबन्धेति । ज्याया मौर्व्या बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन विनिःश्वसती ज्याबन्धोपरोधाद्दीर्घं निःश्वसती वक्त्रपरंपरा दशमुखी यस्य तेन निर्जितवासवेनेन्द्रविजयिना । अत्रेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः । लङ्केश्वरेण दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे । “कारा स्याद्बन्धनालये" इत्यमरः ॥ आ प्रसादादनुग्रहपर्यन्तमुषितं स्थितम् ॥ " नपुंसके भावे क्तः" ॥ एतत्प्रसाद एव तस्य मोक्षोपायो न तु क्षात्रमिति भावः ॥

  तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
  येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥ ४१ ॥

 तस्येति ॥ आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति । ख्यात इति शेषः । एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः । येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभी रूढमुत्पन्नं श्रियः संबन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूपमयशो दुष्कीर्तिः प्रमृष्टं निरस्तम् ॥ दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलप्रवादो मूढजनपरिकल्पित इत्यर्थः ॥ अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ॥

  आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
  धारां शि[३१]तां रामपरश्वधस्य संभावयत्यु[३२]त्पलपत्रसाराम् ॥४२॥

 आयोधन इति ॥ यः प्रतीप आयोधने युद्धे कृष्णगतिं कृष्णवर्त्मानमग्निं सहायमवाप्य क्षत्रियाणां कालरात्रिम् । संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामदग्न्यपरशोः ॥ “द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः इत्यमरः ॥ शितां तीक्ष्णां धारां मुखम् ॥ “खड्गादीनां च निशितमुखे धारा प्रकीर्तिता" इति विश्वः ॥ उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां संभावयति मन्यते ॥ एतन्नगरजिगीषयागतान्रिपून्वयमेव धक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा । दह्यन्ते च तथागताः शत्रव इति भारते कथानुसंधेया ॥

  अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
  प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः॥४३॥

अस्येति ॥ दीर्घबाहोरस्य प्रतीपस्वाङ्कलक्ष्मीर्भव । एनं वृणीष्वेत्यर्थः ॥ अनेनायं विष्णुतुल्य इति ध्वन्यते ॥ माहिष्मती नामास्य नगरी । तस्या वप्रः प्राकार एव नितम्बः । तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम् ॥ "ओघः प्रवाहो वेणी च" इति हलायुधः ॥ रेवां नर्मदा प्रासादजालैर्गवाक्षैः॥ “जालं समूह आनायो गवाक्षक्षारकावपि" इत्यमरः ॥ प्रेक्षितुं काम इच्छास्ति यदि ॥

  तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव ।
  शरत्प्रमृष्टाम्बुधरोपरोधःशशीव पर्याप्तकलो नलिन्याः॥४४॥

 तस्या इति ॥ प्रकामं प्रियं प्रीतिकरं दर्शनं यस्य सोऽपि । दर्शनीयोऽपीत्यर्थः । स क्षितीशः । शरदा प्रमृष्टाम्बुधरोपरोधो निरस्तमेघावरणः पर्याप्तकलः पूर्णकालः शशी नलिन्या इव । तस्या इन्दुमसा रुचये न बभूव । रुचिं नाजीजनदित्यर्थः । लोको भिन्नरुचिरिति भावः ॥

  सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लो[३३]कान्तरगीतकीर्तिम् ।
  आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी॥४५॥

 सेति ॥ लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोर्वंशयोर्मातापितृकुलयोर्दीपं प्रकाशकम् ॥ उभयवंशेत्यत्रोभयपक्षवन्निर्वाहः॥ शूरसेनानां देशानामधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्यान्तःपुरपालिकया ॥ “कर्मण्यण्" । " टिड्ढाणञ्-" इति ङीप् ॥ सा कुमारी जगदे ॥

  नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण ।
  सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः॥४६॥

 नीपेति ॥ यज्वा विधिवदिष्टवान् ॥ “ सुयजोर्ङ्वनिप्" इति ङ्वनिप्प्रत्ययः॥ एष पार्थिवः। नीपो नामान्वयोऽस्येति नीपान्वयो नीपवंशजः। यं सुषेणमाश्रित्य गुणैर्निर्ज्ञानमौनादिभिः । शान्तं प्रसन्नं सिद्धाश्रममृष्याश्रममेत्य प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणिभिरिव । नैसर्गिकः स्वाभाविकोऽपि परस्परेण विरोध उत्ससृजेत्यक्तः ॥

  यस्या[३४]त्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा ।
  हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ॥ ४७॥

 यस्येति ॥ हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्य कान्तिः शोभात्मगेहे स्वभवने संनिविष्टा संक्रान्ता । अविषह्यं विसोढुमशक्यं तेज: प्रतापस्तु । हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु ॥ "हर्म्यादि धनिनां वासः" इत्यमरः।। संरूढास्तृणाङ्कुरा येषां तेषु । शून्येष्वित्यर्थः । रिपुमन्दिरेषु शत्रुनगरेषु ॥ “मन्दिरं नगरे गृहे" इति विश्वः ॥ संनिविष्टम् । स्वजनाह्लादको द्विषंतपश्चेति भावः ॥

  यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले ।
  कलिंदकन्या म[३५]थुरां गतापि गङ्गोर्मिसंस[३६]क्तजलेव भाति ॥ ४८ ॥

 यस्येति ॥ यस्य सुषेणस्य वारिविहारकाले जलक्रीडासमयेऽवरोधानामन्तःपुराङ्गनानां स्तनेषु चन्दनानां मलयजानां प्रक्षालनाद्धेतोः । कलिंदो नाम शैलस्तत्कन्या यमुना ॥ "कालिंदी सूर्यतनया यमुना शमनस्वसा' इत्यमरः ॥ मथुरा नामास्य राज्ञो नगरी । तां गतापि । गङ्गाया विप्रकृष्टापीत्यर्थः ॥ मथुरायां गङ्गाभावं सूचयत्यपिशब्दाः ॥ कालिंदीतीरे मथुरा लवणासुरवधकाले शत्रुघ्नेन निर्मास्यतेति वक्ष्यति । तत्कथमधुना मथुरासंभव इति चिन्त्यम् । मथुरा मथुरापुरीति शब्दभेदः । यद्वा साम्येति ॥ गङ्गाया भागीरथ्या ऊर्मिभिः संसक्तजलेव भाति ॥ धवलचन्दनसंसर्गात्प्रयागादन्यत्राप्यत्र गङ्गासंगतेव भातीत्यर्थः ॥ "सितासिते हि गङ्गायमुने" इति घण्टापथः ॥

  त्र[३७]स्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः ।
  वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृ[३८]ष्णम् ॥ ४९ ॥

 त्रस्तेनेति ॥ तार्क्ष्याद्गरुडान्त्रस्तेन । यमुनौकः स्थानं यस्य तेन । कालियेन नाम नागेन विसृष्टं किलाभयदाननिष्क्रयत्वेन दत्तम् । किलेत्यैतिह्ये ॥वक्षःस्थलव्यापिरुचं मणिंं दधानो यः सुषेणः सकौस्तुभं कृष्णं विष्णुं ह्रेपयतीव व्रीडयतीव ॥ "अर्तिह्रे-" इत्यादिना पुगागमः ॥ कौस्तुभमणेरप्युत्कृष्टोऽस्य मणिरिति भावः ॥

  संभाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये ।
  वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः ॥ ५० ॥

 संभाव्येति ॥ युवानममुं सुषेणं भर्तारं संभाव्य मत्वा । पतित्वेनाङ्गीकृत्येत्यर्थः । मृदुप्रवालोत्तरोपरिप्रस्तारितकोमलपल्लवा पुष्पशय्या यस्मिंंस्तत्तस्मिंंश्चैत्ररथात्कुबेरोद्यानादनूने वृन्दावने वृन्दावननामक उद्याने हे सुन्दरि यौवनश्रीर्यौवनफलं निर्विश्यतां भुज्यताम् ॥

  अध्यास्य चाम्भःपृषतोक्षितानि शैलेय[३९]गन्धीनि शिलातलानि ।
  कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥५१

 अध्यास्येति ॥ किंच । प्रावृषि वर्षासु कान्तासु गोवर्धनस्याद्रेः कन्दरासु दरीषु ॥"दरी तु कन्दरो वा स्त्री" इत्यमरः ॥ अम्भसः पृषतैर्बिन्दुभिरुक्षितानि सिक्तानि । शिलायां भवं शैलेयम् ॥ “शिलाजतु च शैलेयम्" इति यादवः।। यद्वा शिलापुष्पाख्य ओषधिविशेषः ॥ “कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु । शैलेयम्" इत्यमरः ॥ "शिलाया ढः" इत्यत्र शिलाया इति योगविभागादिवार्थे ढप्रत्ययः ।। तद्गन्धवन्ति शैलेयगन्धीनि शिलातलान्यध्यास्याधिष्ठाय कलापिनांं बर्हिणां नृत्यं पश्य ॥

  नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूभवित्री।
  महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥५२॥

 नृपमिति ॥ “स्यादावर्तोऽम्भसा भ्रमः" इत्यमरः ॥ आवर्तमनोज्ञा नाभिः यस्याः सा । इदं च नदीसाम्यार्थमुक्तम् । अन्यवधूरन्यपत्नी भवित्री भाविनी सा कुमारी तं नृपम् । सागरगामिनी सागरं गन्त्री स्रोतोवहा नदी मार्गवशादुपेतं प्राप्तंं महीधरं पर्वतमिव । व्यत्यगादतीत्य गता ॥

  अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।
  आसेदुषींं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥५३॥

 अथेति॥अथ भुजिष्या किंकरी सुनन्दा ॥ "भुजिष्या किंकरी मता" इति हलायुधः॥ अङ्गदाश्लिष्टभुजंं केयूरनद्धबाहुं सादितशत्रुपक्षंं विनाशितशत्रुवर्गंं हेमाङ्गदंं नाम कलिङ्गनाथमासेदुषीमासन्नामबालेन्दुमुखींं पूर्णेन्दुमुखींं बालामिन्दुमतीं बभाषे॥

  असौ महेन्द्रादिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
  यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः॥५४॥

 असाविति ॥ महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी ॥ “महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे" इति भावः ॥ यस्य यात्रासु क्षरतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्राद्रिः पुरोऽग्रे यातीव । अद्रिकल्पा अस्य गजा इत्यर्थः ॥

  ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
  रि[४०]पुश्रियां साञ्जनबाष्पसेके ब[४१]न्दीकृतानामिव पद्धती द्वे॥५५॥

 ज्याघातेति ॥ सुभुजश्चापभृतां पुरोगो धनुर्धराग्रेसरो यः। बन्दीकृतानां प्रगृहीतानाम् ॥ “प्रग्रहोपग्रहौ बन्द्याम्" इत्यमरः ॥ रिपुश्रियां साञ्जनो बाष्पसेको ययोस्ते । कज्जलमिश्राश्रुसिक्ते इत्यर्थः । पद्धती इव । द्वे ज्याघातानां मौर्वाकिणानां रेखे राजी भुजाभ्यां बिभर्ति।। द्विवचनात्सव्यसाचित्वं गम्यते।रिपुश्रियां भुजाभ्यामेवाहरणात्तद्गतरेखयोस्तत्पद्धतित्वेनोत्प्रेक्षा । तयोः श्यामत्वात्साञ्जनाश्रुसेकोक्तिः॥

  यमात्मनः सद्मनि सं[४२]निकृष्टो मन्द्रध्वनित्याजितयामतूर्यः ।
  प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥ ५६ ॥

 यमिति ॥ आत्मनः सद्मनि सुप्तं यं हेमाङ्गदं संनिकृष्टः समीपस्थोऽत एव प्रासादवातायनैर्दृश्यवीचिर्मन्द्रेण गम्भीरेण ॥ "मन्द्रस्तु गम्भीरे" इत्यमरः ॥ ध्वनिना त्याजितं विवर्जितं यामस्य तूर्यं प्रहरावसानसूचकं वाद्यं येन स तथोक्तः॥ "द्वौ यामप्रहरौ समौ" इत्यमरः ॥ अर्णव एव प्रबोधयति । अर्णवस्यैव तूर्यकार्यकारित्वात्तद्वैयर्थ्यमित्यर्थः । समुद्रस्यापि सेव्यः किमन्येषामिति भावः ॥

  अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
  द्वीपान्तरानीतलवङ्गापुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥ ५७॥

 अनेनेति ॥ अनेन राज्ञा सार्धं तालीवनैर्ममेरेषु मर्मरेति ध्वनत्सु ॥ “अथ मर्मरः । स्वनिते वस्त्रपर्णानाम्" इत्यमरवचनाद्गुणपरस्यापि मर्मरशब्दस्य गुणिपरत्वं प्रयोगादवसेयम् ॥ अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः ॥ "लवङ्ग देवकुसुमम्" इत्यमरः ॥ मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड।

  प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् ।
  तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥५८॥

 प्रलोभितेति ॥ आकृत्या रूपेण लोभनीयाकर्षणीया । न तु वर्णनमात्रेणेत्यर्थः । विदर्भराजावरजा भोजानुजेन्दुमती तया सुनन्दयैवं प्रलोभितापि प्रचोदितापि । नीत्या पुरुषकारेण दूरकृष्टा दूरमानीता लक्ष्मीः प्रतिकूलं दैवं यस्य तस्मात्पुंस इव । तस्माद्धेमा्घ्गदादपावर्तत प्रतिनिवृत्ता ।।

  अथोरगाख्यस्य पुरस्य नाथं दौवारिकी दे[४३]वसरूपमेत्य ।
  इतचकोराक्षि विलोकयेति पू[४४]र्वानुशिष्टां निजगाद भोज्याम् ॥ ५९॥

 अथेति ॥ अथ द्वारे नियुक्ता दौवारिकी सुनन्दा ॥ “तत्र नियुक्तः" इति उक्प्रत्ययः ॥ " द्वारादीनां च" इत्यौआगमः ॥ आकारेण देवसरूपं देवतुल्यम् । उरगाख्यस्य पुरस्य पाण्ड्यदेशे कान्यकुब्जतीरवर्तिनागपुरस्य नाथमेत्य प्राप्य । हे चकोराक्षि, इतो विलोकयेति पूर्वानुशिष्ट पूर्वमुक्तां भोजस्य राज्ञो गोत्रापत्यर्ं स्त्रियं भोज्यामिन्दुमतीम् ॥ “क्रौड्यादिभ्यश्च" इत्यत्र भोजाक्षत्रियादित्युपर्सख्यानात्ष्यङ्प्रत्ययः । “यङ्श्चाप्" इति चाप् ॥ निजगाद । इतो विलोकयेति पूर्वमुक्ता पश्चाद्वक्तव्यं निजगादेत्यर्थः ॥

  पाण्ड्योऽयमं[४५]सार्पितलम्बहारः क्लृ[४६]प्ताङ्गरागो हरिचन्दनेन ।
  आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥६०॥

 पाण्ड्य इति ॥ अंसयोरर्पिताः । लम्बन्त इति लम्बाः । हारा यस्य सः। हरिचन्दनेन गोशीर्षाख्येन चन्दनेन ॥ “तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्" इत्यमरः ॥ क्लृप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः ।। "पाण्डोर्जनपदशब्दात्‌ क्षत्त्रियाड्‌ड्यण्‌ वक्तव्यः" इति ड्यण्प्रत्ययः । तस्य राजन्यपत्यवदिति वचनात् ॥ बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः । “वारिप्रवाहो निर्झरो झरः" इत्यमरः ॥ अद्रिराज इवाभाति॥

  विन्ध्यस्य संस्तम्भयिता महादेर्निःशेषपीतोज्झितसिन्धुराजः।
  प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः॥६१॥

 विन्ध्यस्येति ॥ विन्ध्यस्य नाम्नो महाद्रेः। तपनमार्गनिरोधाय वर्धमानस्येति शेषः । संस्तम्भयिता निवारयिता निःशेषं पीत उज्झितः पुनस्त्यक्तः सिन्धुराजः समुद्रो येन सोऽगस्त्योऽश्वमेधस्यावभृथे दीक्षान्ते कर्मणि ॥ “दीक्षान्तोऽवभृथो यज्ञः" इत्यमरः ॥ आर्द्रमूर्तेः । स्नातस्येत्यर्थः । यस्य पाण्ड्यस्य प्रीत्या स्नेहेन । न तु दाक्षिण्येन । सुस्नातं पृच्छतीति सौस्नातिकः । भवति ॥ पृच्छतौ मुस्नातादिभ्य इत्युपसंख्यानाट्टक् ॥

  अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः।
  पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥६२॥

 अस्त्रमिति । पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय । इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे । इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः॥

  अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
  रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः॥६॥

 अनेनेति ॥ महाकुलीनेन महाकुले जातेन ॥“महाकुलादञ्खञौ" इति

खञ्प्रत्ययः ॥ अनेन पाण्ड्येन पाणौ त्वदीये विधिवद्यथाशास्त्रं गृहीते सति गुर्वी गुरुः ॥ “वोतो गुणवचनात् ” इति ङीष् ॥ महीव रत्नैरनुविद्धो व्याप्तोऽर्णव एव मेखला यस्यास्तस्याः ॥ इदं विशेषणं मह्यामिन्दुमत्यां च योज्यम् ॥ दक्षिणस्या दिशः सपत्नी भव ॥ अनेन सपत्न्यन्तराभावो ध्वन्यते ॥

  ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
  तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ ६४ ॥

 ताम्बूलेति ॥ ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु ॥ “ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि " इति । “घोण्टा तु पूगः क्रमुकः" इति चामरः ॥ एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु॥ "गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् " इत्यमरः ॥ तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु ॥ “कालस्कन्धस्तमाल: स्यात्तापिच्छोऽपि" इत्यमरः॥ मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ॥

  इन्दीवरश्यामतनुनृपोऽसौ खं रोचनागौरशरीरयष्टिः ।
  अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥६५॥

 इन्दीवरेति ॥ असौ नृप इन्दीवरश्यामतनुः । त्वं रोचना गोरोचनेव गौरी शरीरयष्टिर्यस्याः सा । ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽन्योन्यशोभायाः परिवृद्धयेऽस्तु ॥

  स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः।
  दिवाकरादर्शनबद्धकोशे न[४७]क्षत्रनाथांशुरिवारविन्दे ॥६६ ॥

 स्वसुरिति ॥ विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्याश्चेतसि तदीयः सुनन्दासंबन्ध्युपदेशो वाक्यम् । दिवाकरस्यादर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथांशुश्चन्द्रकिरण इव । अन्तरमवकाशं न लेभे ।।

  संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
  नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६७॥

 संचारिणीति ॥ पतिंवरा सेन्दुमती रात्रौ संचारिणी दीपशिखेव यं यं भूमिपालं व्यतीयायातीत्य गता स स भूमिपालः । स सर्व इत्यर्थः ॥"नित्यवीप्सयोः" इति वीप्सायां द्विवचनम् ॥ नरेन्द्रमार्गे राजपथेऽट्टाख्यो गृहभेद इव ॥ "स्यादट्टः क्षौममस्त्रियां " इत्यमरः ॥ विवर्णभावं विच्छायत्वम् । अट्टस्तु तमोट्टतत्वम् । प्रपेदे।।

  तस्यां रघोः सूनुरुपस्थितायां वृणीत मां[४८] नेति समाकुलोऽभूत् ।
  वामेतरः संशयमस्य बाहुः केयूरबन्धोछ्वसितैर्नुनोद ॥ ६८॥

 तस्यामिति ॥ तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनुरजो मां वृणीत न वेति समाकुलः संशयितोऽभूत् । अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहुः । केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम् । तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ॥

  तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी।
  न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥६९॥

 तमिति ॥ कुमारी । सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य । अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता ॥ तथाहि । षट्पदाली भृङ्गावलिः ॥ प्रफुल्लतीति प्रफुल्लं विकसितम् । पुष्पितमित्यर्थः ॥ प्रपूर्वात्फुल्लतेः पचाद्यच् ॥ फलतेस्तु प्रफुल्तमिति पठितव्यम् । “अनुपसर्गात्-" इति निषेधात् ॥ इत्युभयथापि न कदाचिदनुपपत्तिरित्युक्तं प्राक् ॥ सहकारं चूतविशेषमेत्य ॥ “आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः" इत्यमरः ॥ वृक्षान्तरं न काङ्क्षति । न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः ॥

  तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
  प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥ ७॥

 तस्मिन्निति ॥ तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम् । इन्दोः प्रभेव प्रभा यस्यास्ताम् ॥ आह्लादकत्वादिन्दुसाम्यम् ॥ इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम् ॥ “प्रथने वावशब्दे" इति घञो निषेधात् “ऋदोरप्" इत्यप्पत्ययः ॥ “विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः" इत्यमरः ॥ वाक्यं वक्तुं प्रचक्रमे ।।

  इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
  काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः७१

 इक्ष्वाक्विति ।। इक्ष्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः । नृपाणां ककुदं श्रेष्ठः॥- "ककुच्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि" इति विश्वः॥ आहितलक्षण: प्रख्यातगुणः ॥ "गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ" इत्यमरः ॥ ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत् । यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः ॥ " महेच्छस्तु महाशयः" इत्यमरः ॥ उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाघ्यं प्रशस्तम् । ककुत्स्थस्यापत्यं पुमान्काकुत्स्थ इति शब्दं संज्ञां दधति बिभ्रति ॥ तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः ॥ पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदैवाको राजा देवैः सह समयवन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिललमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथानुसंधेया ॥ वक्ष्यते चायमेवार्थ उत्तर श्लोके ॥

  महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः।
  चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः॥७२॥

 महेन्द्रमिति ॥ यः ककुत्स्थः संति युद्धे । महानुक्षा महोक्षः ॥ "अचतुर-" इत्यादिना निपातः ॥ तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य । अतएव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन्बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार । तद्भर्तृनसुरानवधीदित्यर्थः ॥ न हि विधवाः प्रसाध्यन्त इति भावः ॥

  ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन ।
  उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽ[४९]धितष्ठौ ॥७३॥

 ऐरावतेति ॥ यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमादेन स्वकीयेन संघट्टयन्संघर्षयन्स्वामय्यां श्रेष्ठां मूर्तिमुपेयुषो- ऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्धासनम् ॥ "अर्ध नपुंसकम्" इति समासः ॥ अधितष्ठावर्धािष्ठतवान् । स्थादिष्वभ्यासेन चाभ्यासस्येसभ्यासेन व्यवायेऽपि षत्वम् ॥ न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुक्षत् । किंतु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः । अथवा । अर्धासनमपीत्यपेरन्वयः॥

  जातःकुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
  अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः॥७४॥

 जात इति ॥ उरुकीतिर्महायशाः कुलप्रदीपो वंशप्रदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल । यो दिलीपः शक्राभ्यसूयाविनिवृत्तये । न त्वशक्त्येति भावः । एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुः । तस्य भावे

तत्त्वेऽतिष्ठत् । इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः ।।

  यस्मिन्महीं शासति वा[५०]णिनीनां निद्रां वि[५१]हारार्धपथे गतानाम् ।
  वातोऽपि नास्रंसयदंशुकानि को लम्बयेदा[५२]हरणाय हस्तम् ॥७॥

 यस्मिन्निति ॥ यस्मिन्दिलीपे महीं शासति सति । विहरत्यत्रेति विहारः क्रीडास्थानम् । तस्यार्धपथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम् ॥ “वाणिनी नर्तकीमत्ताविदग्धवनितासु च " इति विश्वः । “वाणिन्यौ नर्तकीमत्ते" इत्यमरश्च ॥ अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत् । आहरणायापहर्तुं को हस्तं लम्बयेत् ।। तस्याज्ञा सिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः॥ अर्धश्चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावान्नैकदेशिसमासः॥

  पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता।
  [५३]तुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥७६॥

 पुत्र इति ॥ विश्वजितो नाम महाक्रतोः प्रयोक्तानुष्ठाता तस्य दिलीपस्य पुत्रो रघुः पदं पैत्र्यमेव प्रशास्ति पालयति । यो रघुश्चतसृभ्यो दिग्भ्य आवर्जिताहृता संभृता सम्यग्वर्धिता च या तां चतुर्दिगावर्जितसंभृतां विभूतिं संपदं मृत्पात्रमेव शेषो यस्यास्तामकरोत् ॥ विश्वजिद्यागस्य सर्वस्वदक्षिणाकत्वादित्यर्थः ॥

  आरूढमद्रीनुदधीन्वि[५४]तीर्णं भुजंगमानां वसतिं प्रविष्टम् ।
  ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥७७॥

 आरूढमिति ॥ किंच । अद्रीनारूढम् । उदधीन्वितीर्णमवगाढम् । सकलभूगोलव्यापकमित्यर्थः । भुजंगमानां वसतिं पातालं प्रविष्टम् । ऊर्ध्व स्वर्गादिकं गतं व्याप्तम् । इत्थं सर्वदिग्व्यापीत्यर्थः । अनुबध्नातीत्यनुबन्धि चाविच्छेदि । कालत्रयव्यापकं चेत्यर्थः । अतएवैवंभूतं यस्य यश इयत्तया देशतः कालतो वा केनचिन्मानेन परिच्छेत्तुं परिमातुं नालं न शक्यम् ॥

  असौ कुमारस्तमजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः।
  गुर्वी धुरं यो भुवनस्य पित्रा धुर्येण दम्यः स[५५]दृशं बिभर्ति ॥७॥

 असाविति ॥ असावजाख्यः कुमारः । त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव ॥ जयन्तः पाकशासनिः" इत्यमरः ॥ तं रघुमनुजातः । तस्माज्जात इत्यर्थः । तज्जातोऽपि तदनुजातो भवति जन्यजनकयोरानन्तर्यात् ॥ गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च " इति क्तः ॥ सोपसृष्टत्वात्सकर्मकत्वम् । आह चात्रैव सूत्रे वृत्तिकारः श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति" इति ॥ दम्या शिक्षणीयावस्थः । योऽजो गुर्वी भुवनस्य धुरं धुर्येण धुरंधुरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति ॥ यथा कश्चिद्वत्सतरोऽपि - धुर्येण महोक्षेण समं वहतीत्युपमालंकारोध्वन्यते ॥ “दम्यवत्सतरौ समौ" इत्यमरः ।।

  कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
  त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥७९॥

 कुलेनेति ॥ कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व । किं बहुना । रत्नं काञ्चनेन समागच्छतु संगच्छताम् ॥ प्रार्थनायां लोट् ॥ रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाद्युवयोः समागमः प्रार्थ्यत इत्यर्थः ॥

  'ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।
  दृष्टया प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ।। ८०॥

 तत इति ॥ ततः सुनन्दावचनस्यावसानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जा तनूकृत्य संकोच्य प्रसादेन मनःप्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य सजा स्वयंवरणार्थ स्रजेव कुमारमजं प्रत्यग्रहीत्स्वीचकार । सम्यक्सानुरागमपश्यदित्यर्थः॥

  सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
  रोमाञ्चलक्ष्येण सगात्रयष्टिं भित्त्वा निराकामदरालकेश्याः॥८१

 सति ॥ सा कुमारी यूनि तस्मिन्नजेऽभिलाषवन्धमनुरागग्रन्थिं शालीनतयाधृष्टतया ॥" स्यादधृष्टस्तुशालीनः इत्यमरः ।। “शालीनकौपीने अधृष्टकार्ययोः" इति निपातः ॥ वक्तुं न शशाक । तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन ॥ “ व्याजोऽपदेशो लक्ष्यं च इत्यमरः ॥ गात्रयष्टिं भित्त्वा निराक्रामत् ॥ सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ॥

  तथागतायां परिहासपूर्वं सख्यां सखी वे[५६]त्रभृदाबभाषे ।
  आर्ये व्रजामोऽन्यत इत्यथै[५७]नां वधूरसूयाकुटिलं ददर्श ॥ ८२॥

 तथेति ॥ सख्यामिन्दुमत्यां तथागतायां तथाभूतायाम् । दृष्टानुरागायां सत्यामित्यर्थः । सखी सहचरी ॥ " सख्यशिश्वीति भाषायाम्" इति निपातनान्ङीष् ॥ वेत्रभुत्सुनन्दा । हे आर्ये पूज्ये, अन्यतोऽन्यं प्रति व्रजाम इति परिहासपूर्वमावभाषे । अथ वधूरिन्दुमत्येनां सुनन्दामसूयया रोषेण कुटिलं ददर्श । अन्यागमनस्यासह्यत्वादित्यर्थः ॥

  सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करोपमोरूः ।
  आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ।। ८३॥

 सेति ॥ करभः करप्रदेशविशेषः ॥ “मणिबन्धादाकनिष्ठं करस्य करभो बहिः"

इत्यमरः ॥ करभ उपमा ययोस्तावूरू यस्याः सा करभोपमोरूः ॥ उरूत्तरपदादौपम्ये" इत्यूङ्प्रत्ययः॥सा कुमारी चूर्णेन मङ्गलचूर्णेन गौरं लोहितं गुणं स्रजम् । मूर्तं मूर्तिमन्तमनुरागमिव । धात्र्या उपमातुः सुनन्दायाः कराभ्यां रघुनन्दनस्याजस्य कण्ठे यथाप्रदेशं यथास्थानमासञ्जयामासासक्तं कारयामास । न तु स्वयमाससञ्ज । अनौचित्यात् ॥

  तया स्रजा मङ्गलपुष्पमय्यां विशालवक्षःस्थललम्बया सः ।
  अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः॥ ८४ ॥

 तयेति ॥ वरेण्यो वरणीय उत्कृष्टः ॥ वृत्र एण्यः ॥ सोऽजो मङ्गलपुष्पमय्या मधूकादिकुसुममय्या विशालवक्षःस्थले लम्बया लम्बमानया तया प्रकृतया स्रजा विदर्भराजावरजामिन्दुमतीं कण्ठार्पितो बाहू एव पाशौ यया ताममंस्त ॥ मन्यतेर्लुङ् ॥ बाहुपाशकल्पमुखमन्वभूदित्यर्थः ॥

  शशिनमुपगतेयं कौमुदी मेघमुक्तं
   जलनिधिमनुरूपं जह्नुकन्यावतीर्णा ।
  इति समगुणयोगप्रीतयस्तत्र पौराः
   श्रवणकटु नृपाणामेकवाक्यं विवव्रुः॥८५॥

 शशिनमिति ॥ तत्र स्वयंवरे समगुणयोस्तुल्यगुणयोरिन्दुमतीरघुनन्दनयोर्योगेन प्रीतिर्येषां ते समगुणयोगप्रीतयः पौराः पुरे भवा जनाः । इयमजसंगतेन्दुमती मेधैर्मुक्तं शशिनं शरच्चन्द्रमुपगता कौमुदी । अनुरूपं सदृशं जलनिधिमवतीर्णा प्रविष्टा जह्नुकन्या भागीरथी । तत्सदृशीत्यर्थः । इत्येवं नृपाणां श्रवणयोः कटु परुषमेकमविसंवादि वाक्यमेकवाक्यं विवव्रुः ॥ मालिनीवृत्तम् ॥

  प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् ।
  उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥ ८६ ॥

 प्रमुदितेति ॥ एकत एकत्र प्रमुदितो हृष्टो वरस्य जामातुः पक्षो वर्गो यस्य तत्तथोक्तम् । अन्यतोऽन्यत्र नितानं शून्यम् । भग्नाशत्वादप्रहृष्टमियर्थः । तत्क्षितिपतिमण्डलम् । उपसि प्रभाते प्रफुल्लपद्मं कुमुदवनेन प्रतिपन्ननिद्रं प्राप्तनिमीलनं सर इव सरस्तुल्यम् । आसीत् ॥ पुष्पिताग्रावृत्तमेतत् ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
स्वयंवरवर्णनो नाम षष्ठः सर्गः ।


  1. अथो.
  2. सहस्रधामा.
  3. संश्रितानाम्.
  4. शिखाभाषितकेतुमाले; शिखाभावितकेतुमाले.
  5. आश्रितानाम्,
  6. शिखण्डिनाम्.
  7. चतुरं
    च यानम्.
  8. अन्तःपरिवेषशोभि; अन्तःपरिवारबन्धि.
  9. उत्क्षिप्य.
  10. यथाप्रदेशम्,
  11. शोभी.
  12. रत्नांशुसंपृक्तनखप्रभेण.
  13. यथास्थानम्.
  14. स्वसंनिवेश.
  15. वज्रांशुभिन्नाङ्गुलिरन्ध्रम्; वज्रांशुभिनाङ्गुलिरत्नम्.
  16. सन्ति.
  17. सहस्रसंख्याः.
  18. संस्थितानाम्,
  19. इव.
  20. तरंगमाला.
  21. विनीतभागः किल सूत्रकारैः; विनीतभागः किल सत्रकारैः.
  22. पर्याश्रयता.
  23. आक्षिप्य.
  24. यातेति यान्यामवदत्.
  25. परेषाम्.
  26. प्रयुक्ता.
  27. विशेषकान्तम
  28. चन्द्रार्धमौलेर्निवसन्नदूरे.
  29. दिवापि बालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते.
  30. तामित्रपक्षे.
  31. सिताम्.
  32. उत्पलपत्रसारम्.
  33. देशान्तर.
  34. आत्मदेहे.
  35. मथुरागतापि.
  36. संपृक्त.
  37. त्रातेन.
  38. विष्णुम्.
  39. शैलेयनद्धानि.
  40. रिपुश्रियाः; रिपुश्रियः.
  41. बन्दीकृतायाः.
  42. संनिकृष्टम्; संनिविष्टम्; संनिविष्टः.
  43. देवस्वरूपम् ; देवसमानम्.
  44. नागाङ्गनाभाम्,
  45. अंसार्पितलम्बिहारः.
  46. कृताङ्गरागः.
  47. तारापतेरंशुः.
  48. मा.
  49. अधितस्थे.
  50. कामिनीनाम्.
  51. विहायार्धपथे.
  52. आभरणाय.
  53. चतुर्दिगावर्जसंभृतानाम्,
  54. प्रतीर्णम् .
  55. सदृशीम्.
  56. वेत्रधरा.
  57. एनम्.