रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनम्)
रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) कालिदासः |
द्वितीयः सर्गः(नन्दिनीवरप्रदानः) → |
॥ श्रीः ॥
र घु वं श म् ।
॥ संजीविन्या समेतम् ॥
प्रथमः सर्गः ।
मातापितृभ्यां जगतो नमो वामार्धजानये। |
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । |
वाणीं काणभुजीमजीगणदवाशासीच्च वैयासिकी- |
मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया । |
इत्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात्काव्यनिर्माणस्य विशिष्टशब्दार्थप्रतिपत्तिमूलकत्वेन विशिष्टशब्दार्थयोश्च" शब्दजातमशेषं तु धत्ते शर्वस्य वल्लभा। अर्थरूपं यदखिलं धत्ते मुग्धेन्दुशेखरः" इति वायुपुराणसंहितावचनबलेन पार्वतीपरमेश्वरायत्तत्वदर्शनात्तत्प्रतिपित्सया तावेवाभिवादयते-
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥
वागर्थाविति॥ वागर्थाविवेत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम् । एवमन्यत्रापि द्रष्टव्यम् ॥ वागर्थाविव शब्दार्थाविव संपृक्तौ । नित्यसंबद्धावित्यर्थः॥ नित्यसंबद्धयोरुपमानत्वेनोपादानात् ॥ “नित्यः शब्दार्थसंबन्धः" इति मीमांसकाः ॥ जगतो लोकस्य पितरौ । माता च पिता च पितरौ ॥ " पिता मात्रा" इति द्वन्दैकशेषः ॥ “मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ" इत्यमरः ॥ एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्थप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते॥ पर्वतस्यापत्यं स्त्री पार्वती ॥ "तस्यापत्यम्" इत्यण् । “टिड्ढाणञ्-" इत्यादिना ङीप् ॥ पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ ॥ परमशब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाच्च पार्वतीशब्दस्य पूर्वनिपातः ॥ वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये ॥ अत्रोपमालंकारः स्फुट एव । तथोक्तम्- "स्वतःसिद्धेन भिन्नेन संपन्नेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा" इति ॥ प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ । भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते । तदुक्तम्-" शुभदो मो भूमिमयः" इति । वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः॥
संप्रति कविः स्वाहंकारं परिहरति "क्व सूर्य-" इत्यादिश्लोकद्वयेन-
क्व सूर्यप्रभवो वंशः क्वचाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥
क्व सूर्येति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् ॥ “ऋदोरप्"| " अकर्तरि च कारके संज्ञायाम्" इति साधुः॥ सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व । अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व ॥ द्वौ क्वशब्दौ महदन्तरं सूचयतः ॥ सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः । तथा च तद्विषयप्रबन्धनिरूपणं तु दुरापास्तमिति भावः ॥ तथाहि । दुस्तरं तरितुमशक्यम् ॥ " ईषद्दुःसुषु-" इत्यादिना खल्प्रत्ययः ॥ सागरं मोहादज्ञानादुडुपेन प्लवेन ॥ “ उडुपं तु प्लवः कोलः" इत्यमरः ॥ अथवा चर्मावनद्धेन पानपात्रेण ॥ “चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्" इति सज्जनः ॥ तितीर्षुस्तरीतुमिच्छुरस्मि भवामि ॥ तरतेः सन्नन्तादुप्रत्ययः॥ अल्पसाधनैरधिकारम्भो न सुकर इति भावः । इदं च वंशोत्कर्षकथनं स्वप्रबन्धमहत्त्वार्थमेव । तदुक्तम्-"प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः" इति ॥
मन्द इति ॥ किं च मन्दो मूढः ॥ “मूढाल्पापटुनिर्भाग्या मन्दाः स्युः" इत्यमरः॥ तथापि कवियशःप्रार्थी । कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः खर्व इव ॥ “खर्वो ह्रस्वश्च वामनः" इत्यमरः ॥ उपहास्यतामुपहासविषयताम् ॥ "ऋहलोर्ण्यत्" इति ण्यत्प्रत्ययः ॥ गमिष्यामि प्राप्स्यामि ॥
मन्दश्चेत्तर्हि त्यज्यतामयमुद्योग इत्यत आह-
अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥४॥
अथवेति ॥ अथवा पक्षान्तरे पूर्वैः सूरिभिः कविभिर्वाल्मीकादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक्सैव द्वारं प्रवेशो यस्य तस्मिन् । अस्मिन्सूर्यप्रभवे वंशे कुले । जन्मनैकलक्षणः संतानो वंशः । वज्रेण मणिवेधकसूचीविशेषेण ॥ "वज्रं त्वस्त्री कुलिशशस्त्रयोः । मणिवेधे रत्नभेदे” इति केशवः ॥ समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति । वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥
एवं रघुवंशे लब्धप्रवेशस्तद्वर्णनां प्रतिजानानः “ सोऽहम्" इत्यादिभिः पञ्चभिः श्लोकैः कुलकेनाह-
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥५॥
किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि ॥ आ जन्मनः । जन्मारभ्येत्यर्थः ॥"आङ् मर्यादाभिविध्योः" इत्यव्ययीभावः॥ शुद्धानाम् ॥ सुप्सुपेति समासः ॥ एवमुत्तरत्रापि द्रष्टव्यम् ॥ आजन्मशुद्धानाम् । निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थः । आफलोदयमाफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम् । प्रारब्धान्तगामिनामित्यर्थः । आसमुद्रं क्षितेरीशानाम् । सार्वभौमाणामित्यर्थः । आनाकं रथवर्त्म येषां तेषाम् । इन्द्रसहचारिणामित्यर्थः ॥ अत्र सर्वत्राङोऽभिविध्यर्थत्वं द्रष्टव्यम् । अन्यथा मर्यादार्थत्वे जन्मादिषु शुद्ध्यभावप्रसङ्गात् ॥
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥६॥
यथाविधीति ॥ विधिमनतिक्रम्य यथाविधि ॥ “यथासादृश्ये" इत्यव्ययीभावः। तथा हुतशब्देन सुप्सुपेति समासः ॥ एवं “यथाकामार्चित-" इत्यादीनामपि द्रष्टव्यम् ॥ यथाविधि हुता अग्नयो यैस्तेषाम् । यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम् । यथापराधमपराधमनतिक्रम्य दण्डो येषां तेषाम् । यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीलानाम् ॥ चतुर्भिर्विशेषणैर्देवतायजनार्थिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥७॥
त्यागायेति॥ त्यागाय । सत्पात्रे विनियोगस्त्यागस्तस्मै ॥ “त्यागो विहापितं दानम्" इत्यमरः ॥ संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय । सत्याय मितभाषिणां मितभाषणशीलानाम् । न तु पराभवाय । यशसे कीर्तये ॥ “यशः कीर्तिः समज्ञा च" इत्यमरः ॥ विजिगीषूणां विजेतुमिच्छूनाम् । न त्वर्थसंग्रहाय । प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम् । न तु कामोपभोगाय ॥अत्र “त्यागाय" इत्यादिषु "चतुर्थी तदर्थ-" इत्यादिना तादर्थ्ये चतुर्थीसमासविधानज्ञापकाच्चतुर्थी ॥ गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः ॥ “दारेष्वपि गृहाः" इत्यमरः । “जाया च गृहिणी गृहम्" इति हलायुधः ॥ “मेधृ संगमे" इति धातोर्णिनिः॥ एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यशःपरत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥८॥
इत्यञ्प्रत्ययः ॥ “शिशुत्वं शैशवं बाल्यम्" इत्यमरः ॥ तस्मिन्वयस्यभ्यस्तविद्यानाम् । एतेन ब्रह्मचर्याश्रमो विवक्षितः ॥ यूनो भावो यौवनं तारुण्यम् ॥ युवादित्वादण्प्रत्ययः ॥ "तारुण्यं यौवनं समम्" इत्यमरः ॥ तस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम् । एतेन गृहस्थाश्रमो विवक्षितः । वृद्धस्य भावो वार्द्धकं वृद्धत्वम् ॥ “द्वन्द्वमनोज्ञादिभ्यश्च" इति वुञ्प्रत्ययः ॥ " वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि" इति विश्वः ॥ संघातार्थेऽत्र “वृद्धाच्च" इति वक्तव्यात्सामूहिको वुञ् ॥ तस्मिन्वार्द्धके वयसि मुनीनां वृत्तिरिव वृत्तिर्येषां तेषाम् । एतेन वानप्रस्थाश्रमो विवक्षितः । अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन ॥ “योगः संनहनोपायध्यानसंगतियुक्तिषु” इत्यमरः ॥ तनुं देहं त्यजन्तीति तनुत्यजां देहत्यागिनाम् ॥ “कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः" इत्यमरः ।। "अन्येभ्योऽपि दृश्यते" इति क्विप् ॥ एतेन भिक्ष्वाश्रमो विवक्षितः॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय प्र[४]चोदितः ॥९॥
रघूणामिति ॥ सोऽहं लब्धप्रवेशः । तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन् । तेषां रघूणां गुणैस्तद्गुणैः । आजन्मशुद्ध्यादिभिः॥ कर्तृभिः ॥ कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम् ॥ युवादित्वात्कर्मण्यण् । “क्रियार्थोपपदस्य" इत्यादिना चतुर्थी ॥ प्रचोदितः प्रेरितः सन् । रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये ॥ कुलकम् ॥
संप्रति स्वप्रबन्धपरीक्षार्थं सतः प्रार्थयते-
तमिति॥तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति ॥ तथाहि । हेम्नो विशुद्धिर्निदोषस्वरूपं श्यामिकापि लोहान्तरसंसर्गात्मको दोषोऽपि वाग्नौ संलक्ष्यते । नान्यत्र । तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः । नान्य इति भावः ॥ वर्ण्य वस्तूपक्षिपति-
वैवस्वतो मनुर्नाम माननीयो म[७]नीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥११॥
वैवस्वत इति ॥ मनस ईषिणो मनीषिणो धीराः । विद्वांस इति यावत् ॥ पृषोदरादित्वात्साधुः॥ तेषां माननीयः पूज्यः। छन्दसां वेदानाम् ॥ “छन्दः पद्ये च वेदे च" इति विश्वः॥ प्रणव ओंकार इव । महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः॥ क्षिधातोरैश्वर्यार्थात्क्विप् तुगागमश्च ॥ तेषामाद्य आदिभूतः । विवस्वतः सूर्यस्यापत्यं पुमान्वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः।
दिलीप इति रा[८]जेन्दुरिन्दुः क्षीरनिधाविव ॥१२॥
तदन्वय इति ॥ शुद्धिरस्यास्तीति शुद्धिमान् । तस्मिञ्छुद्धिमति तदन्वये तस्य मनोरन्वये वंशे ॥ “ अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्" इति हलायुधः॥ अतिशयेन शुद्धिमाञ्छुद्धिमत्तरः ॥ "द्विवचनविभज्योप-" इत्यादिना तरप् ॥ दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः ।। उपमितं व्याघ्रादिना समासः ॥ क्षीरनिधाविन्दुरिव प्रसूतो जातः ॥
“व्यूढ-" इत्यादित्रिभिः श्लोकैर्दिलीपं विशिनष्टि-
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवा[९]श्रितः ॥१३॥
व्यूढेति ॥ व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः ॥ “उर:प्रभृतिभ्यः कप्"॥ “व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च” इति यादवः॥ वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा ॥ “सप्तम्युपमान-" इत्यादिनोत्तरपदलोपी बहुव्रीहिः॥ शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः॥"प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः" इति यादवः ॥ “उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे” इत्यमरः ॥ महाभुजो महाबाहुः । आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः क्षात्रः क्षत्रसंबन्धी धर्म इव । स्थितः । मूर्तिमान्पराक्रम इव स्थित इत्युत्प्रेक्षा ।
सर्वातिरिक्तसारेण सर्वतेजोभिभा[१०]विना।
स्थितः सर्वोन्नतेनोर्वी क्रान्त्वा मेरुरिवात्मना ॥१४॥
बले स्थिरांशे च" इत्यमरः ॥ सर्वाणि भूतानि तेजसाभिभवतीति सर्वतेजोभिभावी तेन । सर्वेभ्य उन्नतेनात्मना शरीरेण ॥ "आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि" इति विश्वः॥ मेरुरिव । ऊर्वी क्रान्त्वाक्रम्य स्थितः । मेरावपि विशेषणानि तुल्यानि ॥ “अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा" इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः।
आगमैः सदृशारम्भ आ[११]रम्भसदृशोदयः ॥१५॥
आकारेति ॥ आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः । प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्रपरिश्रमः । आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म । तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः॥
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चा[१२]भिगम्यश्च यादोरत्नैरिवार्णवः ॥१६॥
भीमेति ॥ भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजःप्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम् । यादोभिर्जलजीवैः ॥ “यादांसि जलजन्तवः" इत्यमरः ॥ रत्नैश्चार्णव इव । अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ॥
रेखामात्रमपि क्षुण्णादा[१३] मनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः॥१७॥
रेखामात्रमिति ॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिव्यापारो यासां ताः ॥ "चक्रधारा प्रधिर्नेमिः" इति यादवः॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ प्रजाः । आ मनोः । मनुमारभ्येत्यभिविधिः ॥ पदद्वयं चैतत् । समासस्य विभाषितत्वात् ॥ क्षुण्णादभ्यस्तात्प्रहताच्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम् । इतस्तत इत्यर्थः । रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम् । ईषदपीत्यर्थः ॥
"प्रमाणे द्वयसज्-" इत्यादिना मात्रच्प्रत्ययः ॥ परशब्दविशेषणं चैतत् । न व्यतीयुर्नातिक्रान्तवत्यः ॥ कुशलसारथिप्रेषिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥ प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि र[१४]सं रविः ॥१८॥
प्रजानामिति ॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृद्ध्यर्थमेव ॥ अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । ग्रहणक्रियाविशेषणं चैतत् ॥ ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत् ॥ “भागधेयः करो बलिः" इत्यमरः ॥ तथाहि । रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधोत्स्रष्टुं दातुम् । उत्सर्जनक्रियाविशेषणं चैतत् । रसमम्ब्वादत्ते गृह्णाति ॥ "रसो गन्धे रसे स्वादे तिक्तादौ विषरोगयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे" इति विश्वः ॥ सम्प्रति बुद्धिशौर्यसंपन्नस्य तस्यार्थसाधनेषु परानपेक्षत्वमाह-
सेनेति ॥ तस्य राज्ञः सेना चतुरङ्गबलम् । परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव । छत्रचामरादितुल्यमभूदित्यर्थः ॥ “पुंसि संज्ञायां घः प्रायेण" इति घप्रत्ययः ॥ “छादेर्घेऽद्व्युपसर्गस्य" इत्युपधाह्रस्वः ॥ अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव । शास्त्रेष्वकुण्ठिताव्याहता बुद्धिः ॥ "व्यापृता" इत्यपि पाठः ॥ धनुष्याततारोपिता मौर्वी ज्या च ॥ “मौर्वी ज्या शिञ्जिनी गुणः" इत्यमरः ॥ नीतिपुरःसरमेव तस्य शौर्यमभूदित्यर्थः ॥
राज्यमूलं मन्त्रसंरक्षणं तस्यासीदित्याह-
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥२०॥
तस्येति ॥ संवृतमन्त्रस्य गुप्तविचारस्य ॥ "वेदभेदे गुप्तवादे मन्त्रः" इत्यमरः॥ शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः । इङ्गितं चेष्टितं हृदयगतविकारो वा ॥ "इङ्गितं हृद्गतो भावो बहिराकार आकृतिः" इति सज्जनः ॥ गूढे आकारेङ्गिते यस्य । स्वभावचापलाद्भ्रमपरंपरया मुखरागादिलिङ्गैर्वा तृतीयगामिमन्त्रस्य तस्य । प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः ॥ प्रागित्यव्ययेन पूर्वजन्मोच्यते । तत्र भवाः प्राक्तनाः "सायंचिर-" इत्यादिना ट्युल्प्रत्ययः ॥ संस्काराः पूर्वकर्मवासना इव । फलेन कार्येणानुमेया अनुमातुं योग्या आसन् । अत्र याज्ञवल्क्यः-“मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामाफलोदयात्" इति ॥
संप्रति सामाद्युपायान्विनैवात्मरक्षादिकं कृतवानित्याह-
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सो[१९]ऽर्थमसक्तः सुखमन्वभूत् ॥२१॥
जुगोपेति ॥ अत्रस्तोऽभीतः सन् ॥ “त्रस्तो भीरुभीरुकभीलुकाः" इत्यमरः ॥ त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवात्मानं शरीरं जुगोप रक्षितवान् । अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे । अर्जितवानित्यर्थः । अगृध्नुरगर्धनशील एवार्थददे स्वीकृतवान् । “गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुमाभौ" इत्यमरः॥" त्रसिगृधिधृषिक्षिपेः क्नुः" इति क्नुप्रत्ययः ॥ असक्त आसक्तिरहित एव सुखमन्वभूत् ॥
परस्परविरुद्धानामपि गुणानां तत्र साहचर्यमासीदित्याह-
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥२२॥
ज्ञान इति ॥ ज्ञाने परवृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम् ॥ यथाह कामन्दकः-"नान्योपतापि वचनं मौनं व्रतचरिष्णुता" इति ॥ शक्तौ प्रतीकारसामर्थेऽपि क्षमापकारसहनम् ॥ अत्र चाणक्यः-"शक्तानां भूषणं क्षमा" इति ॥ त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः ॥ अत्राह मनुः-"न दत्त्वा परिकीर्तयेत्” इति । इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिरनुबन्धित्वात्सहचारित्वात् । सह प्रसवो जन्म येषां ते सप्रसवाः । सोदरा इवाभूवन् ॥ विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥
द्विविधं वृद्धत्वं ज्ञानेन वयसा च । तत्र तस्य ज्ञानेन वृद्धत्वमाह-
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीवृद्धत्वं जरसा विना ॥२३॥
अनाकृष्टस्येति ॥ विषयैः शब्दादिभिः ॥ “रूपं शब्दो गन्धरसस्पर्शश्च विषया अमी" इत्यमरः ॥ अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः ॥ दृशेः क्वनिप् ॥ धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना ॥ "विस्रसा जरा" इत्यमरः ॥ षिद्भिदादिभ्योऽङ्" इत्यङ्प्रत्ययः । “जराया जरसन्यतरस्याम्" इति जरसादेशः ॥ वृद्धत्वं वार्द्धकमासीत् ॥ तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः ॥ नाथस्तु चतुर्विधं वृद्धत्वमिति ज्ञात्वा "अनाकृष्टस्य" इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः ॥२४॥
प्रजानामिति ॥ प्रजायन्त इति प्रजा जनाः॥ “उपसर्गे च संज्ञायाम्" इति डप्रत्ययः ॥ “प्रजा स्यात्संततौ जने" इत्यमरः ॥ तासां विनयस्य शिक्षाया आधानात्करणात् । सन्मार्गप्रवर्तनादिति यावत् । रक्षणाद्भयहेतुभ्यस्त्राणात् । आपन्निवारणादिति यावत् । भरणादन्नपानादिभिः पोषणादपि ॥ अपिः समुच्चये ॥ स राजा पिताभूत् ॥ तासां पितरस्तु जन्महेतवो जन्ममात्रकर्तारः केवलमुत्पादका एवाभूवन् । जननमात्र एव पितॄणां व्यापारः । सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः ॥ आहुश्च–“स पिता यस्तु पोषकः" इति ॥
स्थित्या इति ॥ दण्डमर्हन्तीति दण्डयाः ॥ “दण्डादिभ्यो यः" इति यप्रययः ॥ अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति" इति शास्त्रवचनात् ॥ तान्दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः ॥ प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः । मनीषिणो विदुषः । दोषज्ञस्येति यावत् ॥ “विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी' इत्यमरः ॥ तस्य दिलीपस्यार्थकामावपि धर्म एवास्तां जातौ ॥ अस्तेर्लङ् ॥ अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः ॥ आह च गौतमः- “न पूर्वाह्नमध्यंदिनापराह्नानफलान्कुर्यात् । यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात्" इति ॥
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥२६॥
दुदोहेति ॥ स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह । करग्रहणेन रिक्तां चकारेत्यर्थः ॥ मघवा देवेन्द्रः सस्याय सस्यं वर्षयितुं दिवं स्वर्गं दुदोह । द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः ॥ "क्रियार्थोपपदस्य-" इत्यादिना यज्ञसस्याभ्यां च तुर्थी ॥ एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः ॥ राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः ॥ उक्तं च दण्डनीतौ--"राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत्" इति ॥
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ २७ ॥
न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु ॥ कुतः । यद्यस्मात्कारणात्तस्करता चौर्यं परस्वेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता । अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः ॥ अथवा । "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि" इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः ॥
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीद[२३]ङ्गुलीवोरगक्षता ॥ २८ ॥
द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि । आर्तस्य रोगिण औषधं यथौषधमिव । तस्य संमतोऽनुमत आसीत् । दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि । उरगक्षता सर्पदष्टाङ्गुलीव । "छिन्द्याद्बाहुमपि दुष्टात्मनः" इति न्यायात् । त्याज्य आसीत् ॥ तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥
तस्य परोपकारित्वमाह--
तं वेधा विदधे नूनं महाभूतसमाधिना।
तथाहि सर्वे तस्यासन्परार्थैकफला गुणाः ॥ २९ ॥
तमिति ॥ वेधाः स्रष्टा ॥ "स्रष्टा प्रजापतिर्वेधाः" इत्यमरः ॥ तं दिलीपम् । समाधीयतेऽनेनेति समाधिः कारणसामग्री । महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज । नूनं ध्रुवम् । इत्युत्प्रेक्षा ॥ तथाहि । तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परमयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन् ॥ महाभूतगणोपमानेन कारणगणाः कार्यM संक्रामन्तीति न्यायः सूचितः ॥
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ ३० ॥
विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम् ॥ “स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः शालः प्राचीनं प्रान्ततो वृतिः” इत्यमरः॥परितः खातं परिखा दुर्गवेष्टनम् ॥ “खातं खेयं तु परिखा” इत्यमरः ॥ “ अन्येष्वपि दृश्यते” इत्यत्रापिशब्दात्खनेर्डप्रत्ययः ॥ अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम् ॥ अभूततद्भावे च्विः ॥ अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशासनामुर्वीमेकपुरीमिव शशास । अनायासेन शासितवानित्यर्थः।।
तस्य दाक्षिण्यरू[२४]ढेन नाम्ना मगधवंशजा।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥३१॥
तस्येति ॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा ॥ “सप्तम्यां जनेर्डः” इति डप्रत्ययः॥ एतेनाभिजात्यमुक्तम् । दाक्षिण्यं परच्छन्दानुवर्तनम् ॥ “दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु” इति शाश्वतः ॥ तेन रूढं प्रसिद्धम् । तेन नाम्ना । अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव । सुदक्षिणेति प्रसिद्धा पत्न्यासीत् ॥ अत्र श्रुतिः-“ यज्ञो गन्धर्वस्तस्य दक्षिणाप्सरसः” इति ॥ “दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम् । ते दक्षन्ते दक्षिणां प्रतिगृह्य” इति च ॥
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥३२॥
कलत्रवन्तमिति ॥ वसुधाधिपः । अवरोधेऽन्तःपुरवर्गे महति सत्यपि । मनस्विन्या दृढचित्तया । पतिचित्तानुवृत्त्यादिनिर्बन्धक्षमयेत्यर्थः । तया सुदक्षिणया लक्ष्म्या चात्मानं कलत्रवन्तं भार्यावन्तं मेने ॥ “कलत्रं श्रोणिभार्ययोः” इत्यमरः॥ वसुधाधिप इत्यनेन वसुधया चेति गम्यते ॥
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः।
विलम्बितफलैः कालं स निनाय मनोरथैः ॥३३॥
तस्यामिति ॥ स राजा । आत्मानुरूपायां तस्याम् । आत्मनो जन्म यस्यासावात्मजन्मा पुत्रः। तस्मिन्समुत्सुकः । यद्वा । आत्मनो जन्मनि पुत्ररूपेणोत्पत्तौ समुत्सुकः सन् ॥ आत्मा वै पुत्रनामासि” इति श्रुतेः ॥ विलम्बितं फलं पुत्रप्राप्तिरूपं येषां तैर्मनोरथैः कदा मे पुत्रो भवेदित्याशाभिः कालं निनाय यापयामास ॥
संतानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ ३४ ॥
संतानोति ॥ तेन दिलीपेन । संतानोऽर्थः प्रयोजनं यस्य तस्मै संतानार्थाय विधयेऽनुष्ठानाय । स्वभुजादवतारितावरोपिता जगतो लोकस्य गुर्वी धूर्भार्रः सचिवेषु निचिक्षिपे निहिता ॥
अथाभ्यर्च विधातारं प्रयतौ पुत्रकाम्यया ।
तौ दंपती वशिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ ३५॥
अथेति ॥ अथ धुरोऽवतारानन्तरं पुत्रकाम्ययात्मनः पुत्रेच्छया ॥ “काम्यच्च” इति पुत्रशब्दात्काम्यच्प्रत्ययः । “अ प्रत्ययात्” इति पुत्रकाम्यधातोरकारप्रत्ययः । ततष्टाप् ॥ तया तौ दंपती जायापती ॥ राजदन्तादिषु जायाशब्दस्य दमिति निपातनात्साधुः ॥ प्रयतौ पूतौ विधातारं ब्रह्माणमभ्यर्च्य ॥ “स खलु पुत्रार्थिभिरुपास्यते” इति मान्त्रिकाः ॥ गुरोः कुलगुरोर्वशिष्ठस्याश्रमं जग्मतुः । पुत्रप्राप्त्युपायापेक्षयेति शेषः॥
स्निग्धेति ॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम् । प्रावृषि भवः प्रावृषेण्यः ॥ “प्रावृष एण्यः” इत्येण्यप्रत्ययः॥ तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव । आस्थितावारूढौ । जग्मतुरिति पूर्वेण संबन्धः ॥ इरा आपः ॥ “इरा भूवाक्सुराप्सु स्यात्” इत्यमरः ॥ इरावान्समुद्रः । तत्र भव ऐरावतोऽभ्रमातङ्गः ॥ “ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः” इत्यमरः । “अभ्रमातङ्गत्वाच्चाभ्रस्थत्वादभ्ररुपत्वात्” इति क्षीरस्वामी ॥ अत एव मेघारोहणं विद्युत्साहचर्यं च घटते । किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा । ऐरावतस्य स्त्रैरावतीति क्षीरस्वामी । तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति ॥ एकरथारोहणोत्तया कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥
३४-३५ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
गङ्गां भगीरथेनैव पूर्वेषां पावनक्षमाम् ।
ईप्सिता(१) संतति न्यस्ता तेन मन्त्रिषु कौशला(२) ॥ (१ इच्छता.२ कोसला.)
मा भूदाश्रमपीडेति परिमेयपुरःसरौ।
अनुभावविशेषात्तु सेनापरिवृताविव[२७] ॥ ३७॥
मा भूदिति ॥ पुनः किंभूतौ दंपती । आश्रमपीडा मा भून्मास्त्विति हेतोः॥ “माङि लुङ्” इत्याशीरर्थे लुङ् । “ न माङ्योगे” इत्यडागमनिषेधः ॥ परिमेयपुरःसरौ परिमितपरिचरौ । अनुभावविशेषात्तु तेजोविशेषात्सेनापरिवृताविव स्थितौ ॥
सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणू[२८]त्किरैर्वातैराधूतवनराजिभिः॥३८॥
सेव्यमानाविति ॥ पुनः कथंभूतौ । सुखः शीतलत्वात्प्रियः स्पर्शो येषां तैः। शालनिर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः॥ “शालः सर्जतरुः स्मृतः” इति शाश्वतः ॥ उत्किरन्ति विक्षिपन्तीत्युत्किराः ॥ “इगुपध-” इत्यादिना किरतेः कप्रत्ययः ॥ पुष्परेणूनामुत्किरास्तैराधूता मान्द्यादीषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ॥
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥३९॥
मनोभिरामा इति ॥ रथनेमिस्वनोन्मुखैः । मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः । शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः । शुद्धविकृतभेदेनाविष्कृतावस्थायां च्युताच्युतभेदेन वा षड्जो द्विविधः । तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते । अत एवाह-षड्जसंवादिनीरिति । षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्--“ नासाकण्ठमुरस्तालु जिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः” ॥ स च तन्त्रीकण्ठजन्मा स्वरविशेषः । “ निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ” इत्यमरः ॥ षड्जेन संवादिनीः सदृशी: । तदुक्तं मातङ्गेन-- “ षड्जं मयूरो वदति” इति ॥ मनोभिरामा मनसः प्रियाः । के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः ॥ केका वाणी मयूरस्य” इत्यमरः ॥ ताः केकाः शृण्वन्तौ । इति श्लोकार्थः ।
परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥
परस्परेति ॥ विश्रम्भाददूरं समीपं यथा भवति तथोज्झितं वर्त्म यैस्तेषु ।
स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धासञ्जिता दृष्टिर्नेत्रं यस्तेषु ॥ “दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि” इति हलायुधः ॥ कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः ॥ मृग्यश्च मृगाश्च मृगाः ॥ “पुमान्स्त्रिया” इत्येकशेषः ॥ तेषां द्वन्द्वेषु मिथुनेषु ॥ “स्त्रीपुंसौ मिथुनं द्वन्द्वम्” इत्यमरः ॥ परस्पराक्ष्णां सादृश्यं पश्यन्तौ । द्वन्द्वशब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
सारसैः कलनिह्रादै[२९] क्वचिदुन्नमिताननौ ॥४१॥
श्रेणीति ॥ श्रेणीबन्धात्पङ्क्तिबन्धनाध्देतोरस्तम्भामाधारस्तम्भरहिताम् । तोरणं बहिर्द्वारम् ।। “तोरणोऽस्त्री बहिर्द्वारम्” इत्यमरः ॥ तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः । उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योत्प्रेक्षेयम् । कलनिर्ह्रादरैव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः । करणैः । क्वचिदुन्नमिताननौ ।। “सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः” इति यादवः॥
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः[३०]।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥
पवनस्येति ॥ प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद्गन्तव्यदिगभिमुखत्वात् । तुरगोत्कीर्णै रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ ॥ “शिरसा वेष्टनशोभिना सुतः” (८।१२) इति वक्ष्यति ॥
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥४३॥
सरसीष्विति ॥ सरसीषु वीचिविक्षोभशीतलमूर्मिसंघटनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम् । एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम् । अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौ ॥
ग्रामेष्वात्मविसृष्टेषु यूपचिन्हेषु यज्वनाम् ।
अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः॥४४॥
ग्रामेष्विति ॥ आत्मविसृष्टेषु स्वदत्तेषु । यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम् ।।
“ यज्वा तु विधिनेष्टवान्” इत्यमरः ॥ “ सुयजोर्ङ्वनिप्” इति ङ्वनिप्प्रत्ययः ॥
आशिष आशीर्वादान् । अर्घः पूजाविधिः । तदर्थं द्रव्यमर्घ्य॑म् ॥ “पादार्घाभ्यां च” इति यत्प्रत्ययः ॥ “षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि” इत्यमरः ॥ अर्घ्यस्यानुपदमन्वक् । अर्घ्यस्वीकारानन्तरमित्यर्थः । प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम् ॥ पश्चादर्थेऽव्ययीभावः ॥ “अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्” इत्यमरः ॥
हैयंगवीनमादाय घोषवृद्धानुपस्थितान्[३१] ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥
हैयंगवीनमिति ॥ ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम् ॥ ह्यः पूर्वेद्युर्भवम् ।। “तत्तु हैयंगवीनं यद्ह्योगोदोहोद्भवं घृतम्” इत्यमरः ॥ “हैयंगवीनं संज्ञायाम्” इति निपातः । तत्सद्योघृतमादायोपस्थितान्घोषवृद्धान् ॥ घोष आभीरपल्ली स्यात्" इत्यमरः । वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ ॥"दुह्याच् — ” इत्यादिना पृच्छतेर्द्विकर्मकत्वम् ।। कुलकम् ॥
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ४६॥
कापीति ॥ व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोस्तयोः सुदक्षिणादिलीपयोः । हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव । योगे सति काप्यनिर्वाच्याभिख्या शोभासीत् ॥ “अभिख्या नामशोभयोः” इत्यमरः॥ “आतश्चोपसर्गे” इत्यङ्प्रत्ययः ॥ चित्रा नक्षत्रविशेषः। शिशिरापगमे चैत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ॥
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपमः॥४७॥
तत्तदिति ॥ प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः । योग्यदर्शनीय इत्यर्थः । भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयँल्लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमोपमानं यस्येति विग्रहः ॥ इदं विशेषणं तत्तदर्शयन्नित्युपयोगितयैवास्य ज्ञातृत्वसूचनार्थम् ॥
स दुष्पापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥४८॥
स इति ॥ दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः । श्रान्तवाहनो दूरोपगमनान्क्लान्तयुग्यः । महिष्याः सखा महिषीसखः ॥ “राजाहःसखिभ्यष्टच्” इति टच्प्रत्ययः ॥ सहायान्तरनिरपेक्ष इति भावः ॥ स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वशिष्ठस्याश्रमं प्रापत्प्राप ॥ पुषादित्वादङ्॥
तमाश्रमं विशिनष्टि-
वनान्तरादिति ॥ वनान्तरादन्यस्माद्वनादुपावृत्तैः प्रत्यावृत्तैः । समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः । तैः “आङिताच्छील्ये” इति हरतेराङ्पूर्वादच्प्रत्ययः ॥ अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः । तैस्तपस्विभिः पूर्यमाणम् ॥ “प्रोष्यागच्छतामाहिताग्रीनामग्नयः प्रत्युद्यान्ति” इति श्रुतेः । यथाह- “कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति । एवमेतमग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन् ” इति ॥
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगैः॥ ५० ॥
आकीर्णमिति ॥ नीवाराणां भाग एव भागधेयोंऽशः ॥ “ रूपनामभागेभ्यो धेयः” इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रययः ॥ तस्योचितैः । अत एवोटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः। ऋषिपत्नीनामपत्यैरिव । आकीर्णं व्याप्तम्
सेकान्ते मुनिकन्याभि[३४]स्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहंगानामालवालाम्बुपायिनाम् ॥ ५१ ॥
सेकान्त इति ॥ सेकान्ते वृक्षमूलसेचनावसाने मुनिकन्याभिः । सेक्त्रीभिः । आलवालेषु जलावापप्रदेशेषु यदम्बु तत्पायिनाम् ॥ “स्यादालवालमावालमावापः” इत्यमरः ॥ विहंगानां पक्षिणां विश्वासाय विश्रम्भाय “ समौ विश्वासविश्रम्भौ” इत्यमरः ॥ तत्क्षणे सेकक्षण उज्झिता वृक्षका ह्रस्ववृक्षा यस्मिंस्तम् ॥ हस्वार्थे कप्रत्ययः॥
आतपा[३५]त्ययसंक्षिप्तनीवारासु निषादिभिः।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ ५२॥
आतपात्ययेति ॥ आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु ॥ “नीवारास्तृणधान्यानि” इत्यमरः ॥ उटजानां पर्णशालानामङ्गनभूमिषु चत्वरभागेषु ।। “पर्णशालोटजोऽस्त्रियाम्” इति ।
“ अङ्गनं चत्वराजिरे” इति चामरः ॥ निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ॥
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोध्दूतैर्धूमैराहुतिगन्धिभिः॥५३॥
अभ्युत्थितेति ॥ अभ्युत्थिताः प्रज्वलिताः । होमयोग्या इत्यर्थः ॥ “समिद्धेऽग्नावाहुतीर्जुहोति” इति वचनात् ॥ तेषामग्रीनां पिशुनैः सूचकैः पवनोध्दूतैः । आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः । तैर्धूमैराश्रमोन्मुखानतिथीन्पुनानं पवित्रीकुर्वाणम् ॥ कुलकम् ॥
अथेति ॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम् । धुरं वहन्तीति धुर्या युग्याः ॥ “धुरो यड्ढकै” इति यत्प्रत्ययः ॥ “धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः” इत्यमरः ।। धुर्यान्रथाश्वान्विश्रामय विनीतश्रमान्कुर्वित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार ॥ “विश्रमय” इति ह्रस्वपाठे “जनीजॄष्-” इति मित्वे “ मितां ह्रस्वः” इति ह्रस्वः। दीर्घपाठे “मितां ह्रस्वः” इति सूत्रे “वा चित्तविरागे" इत्यतो “वा” इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाध्द्रस्वाभाव इति वृत्तिकारः ।।
तस्मै सभ्याः सभार्याय गोप्त्ने गुप्ततमेन्द्रियाः।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥५५॥
तस्मा इति ॥ सभायां साधवः सभ्याः ॥ “सभाया यः” इति यप्रत्ययः ॥ गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्त्ने रक्षकाय । नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एवार्हते प्रशस्ताय । पूज्यायेत्यर्थः ॥ “ अर्हः प्रशंसायाम्” इति शतृप्रत्ययः ॥ तस्मै राज्ञेऽर्हणां पूजां चक्रुः ॥ “ पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः” इत्यमरः ॥
विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् ।
[३८]अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।। ५६ ॥
विधेरिति ॥ स राजा सायंतनस्य सायंभवस्य ॥ “सायंचिरम्-” इत्यादिना
ट्युल्प्रत्ययः॥ विधेर्जपहोमाद्यनुष्ठानस्यान्तेऽवसानेऽरुन्धत्यान्वासितं पश्चादुपवेशनेनोपसेवितम् ।। कर्मणि क्तः। उपसर्गक्शात्सकर्मकत्वम् । “अन्वास्यैनाम्” इत्यादिवदुपपद्यते ॥ तपोनिधिं वशिष्ठम् । स्वाहया स्वाहादेव्या॥ “अथाग्नायी स्वाहा च हुतभुक्प्रिया" इत्यमरः ॥ अन्वासितं हविर्भुजमिव । ददर्श ॥ “ समित्पुष्पकुशाग्न्यम्बुमृदन्नाक्षतपाणिकः । जपं होमं च कुर्वाणो नाभिवाद्यो द्विजो भवेत्” इत्यनुष्ठानस्य मध्येऽभिवादननिषेधाद्विधेरन्ते ददर्शेत्युक्तम् ॥ अन्वासनं चात्र पतिव्रताधर्मत्वेनोक्तं न तु कर्माङ्गत्वेन । विधेरन्त इति कर्मणः समाप्त्यभिधानात् ।।
तयोर्जगृहतुः [३९]पादान्राजा राज्ञी च मागधी।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः॥ ५७ ॥
तयोरिति ॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवशिष्ठयोः पादाञ्जगृहतुः ॥ “पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्” इत्यमरः ॥ पादग्रहणमभिवादनम् । गुरुपत्नी गुरुश्च । कर्तारौ । सा च स च तौ सुदक्षिणादिलीपौकर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः । आशीर्वादादिभिः संभावयांचक्रतुरित्यर्थः ।।
[४०]तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः॥५८॥
तमिति ॥ मुनिः । अतिथ्यर्थमातिथ्यम् ॥ "अतिथेर्ञ्य” इति ञ्यप्रत्ययः ॥ आतिथ्यस्य क्रिया । तया शान्तो रथक्षोभेण यः परिश्रमः स यस्य स तं तथोक्तम् । राज्यमेवाश्रमस्तत्र मुनिम् । मुनितुल्यमित्यर्थः । तं दिलीपं राज्ये कुशलं पप्रच्छ ॥ पृच्छतेस्तु द्विकर्मकत्वमित्युक्तम् । यद्यपि राज्यशब्दः पुरोहितादिष्वन्तर्गतत्वाद्राजकर्मवचनः तथाप्यत्र सप्ताङ्गवचनः । “उपपन्नं ननु शिवं सप्तस्वङ्गेषु” ( १।६०) इत्युत्तरविरोधात् ॥ तथाह मनुः “स्वाम्यमात्यपुरं राष्ट्रं कोषदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यते” इति । तत्र “ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥” इति मनुवचने सत्यपि तस्य राज्ञो महानुभावत्वाद्ब्राह्मणोचितः कुशलप्रश्न एव कृत इत्यनुसंधेयम् । अत एवोक्तम् “राज्याश्रममुनिम्” इति ॥
अथेति ॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां
वरः श्रेष्ठः॥ “ यतश्च निर्धारणम्” इति षष्ठी ॥ अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थादनपेताम् ॥ “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ वाचमाददे । वक्तुमुपक्रान्तवानित्यर्थः ॥ अथर्वनिधेरित्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । यथाह कामन्दक:-- “त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम्” इति ॥
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च [४३]प्रतिहर्ता त्वमापदाम् ॥ ६० ॥
उपपन्नमिति ॥ हे गुरो । सप्तस्वङ्गेषु स्वाम्यमात्यादिषु ॥ “स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि” इत्यमरः॥शिवं कुशलमुपपन्नं ननु युक्तमेव ॥ नन्ववधारणे ॥,, प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु” इत्यमरः॥ कथमित्यत्राह--यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम् ॥ उभयत्रापि “तत आगतः” इत्यण् । “टिड्डाणञ्-” इत्यादिना ङीप्॥ आपदां व्यसनानां त्वं प्रतिहर्ता वारयितासि ॥ अत्राह कामन्दकः-“ हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम्” इति ॥
तत्र मानुषापत्प्रतीकारमाह--
तव मन्त्रकृतो मन्त्रैर्दूरात्प्र[४४]शमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदःशराः ॥ ६१ ॥
तवेति ॥ दूरात्परोक्ष एव प्रशमितारिभिः । मन्त्रान्कृतवान्मन्त्रकृत् ॥ “सुकर्मपापमन्त्रपुण्येषु कुञ्ः” इति किम् ॥ तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः । कर्तृभिः । दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टलक्ष्यभिदो मे शराः प्रत्यादिश्यन्त इव । वयमेव समर्थाः किमेभिः पिष्टपेषकैरिति निराक्रियन्त इव । इत्युत्प्रेक्षा ॥ “प्रत्यादेशो निराकृतिः” इत्यमरः ॥ त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ॥
संप्रति दैविकापत्प्रतीकारमाह--
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
[४५]वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ।। ६२ ।।
हविरिति ॥ हे होतः, त्वया विधिवदग्निष्वावर्जितं प्रक्षिप्तं हविराज्यादिकम्। कर्तृ । अवग्रहो वर्षप्रतिबन्धः ॥ “ अवे ग्रहो वर्षप्रतिबन्धे” इत्यञ्प्रत्ययः ॥ “वृष्टिर्वर्षं तद्विघातेऽवग्राहावहौ समौ” इत्यमरः ॥ तेन विशोषिणां विशुष्यतां सस्यानां वृष्टिर्भवति । वृष्टिरूपेण सस्यान्युपजीवयतीति भावः । अत्र मनु:--"अग्नौ दत्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति।
पुरुषायुषजीविन्यो निरातङ्का निरीतयः।
यन्मदीयाः प्रजास्त[४६]स्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥ ६३ ॥
पुरुषेति ॥ आयुर्जीवितकालः । पुरुषस्यायुः पुरुषायुषम् । वर्षशतमित्यर्थः ॥ “शतायुर्वै पुरुषः” इति श्रुतेः ॥ “अचतुर-”आदिसूत्रेणाच्प्रत्ययान्तो निपातः ॥ मदीयाः प्रजाः । पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः । निरातङ्का निर्भयाः॥ “ आतङ्को भयमाशङ्का” इति हलायुधः ॥ निरीतयोऽतिवृष्टयादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः ॥ “व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम्” इति हलायुधः ॥ ब्रह्मणो वर्चो ब्रह्मवर्चसम् ॥ “ब्रह्महस्तिभ्यां वर्चसः” इत्यच्प्रत्ययः॥ “अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” इति कामन्दकः ॥
त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना।
सानुबन्धाः कथं न स्युः संपदो मे निरापदः॥ ६४ ॥
त्वयेति ॥ ब्रह्मा योनिः कारणं यस्य तेन ब्रह्मपुत्रेण गुरुणा त्वयैवमुक्तप्रकारेण चिन्त्यमानस्यानुध्यायमानस्य । अत एव निरापदो व्यसनहीनस्य मे संपदः सानुबन्धाः सानुस्यूतयः । अविच्छिन्ना इति यावत् । कथं न स्युः । स्युरेवेत्यर्थः ॥
संप्रत्यागमनप्रयोजनमाह--
किंतु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥६५॥
किंस्विति ॥ किंतु तवैतस्यां वध्वां स्नुषायाम् ॥ “वधूर्जाया स्नुषा चैव” इत्यमरः ॥ अदृष्टा सदृश्यनुरूपा प्रजा येन तं मां सद्वीपापि । रत्नानि सूयत इति
रत्नसूरपि ॥ “ सत्सूद्विष-” इत्यादिना क्विप् ।। मेदिनी नावति न प्रीणाति ॥
अवधातू रक्षणगतिप्रीत्याद्यर्तेषूपदेशादत्र प्रीणने ॥ रत्नसूरपीत्यनेन सर्वरत्नेभ्यः पुत्ररत्नमेव श्लाघ्यमिति सूचितम् ॥
तदेव प्रतिपादयति--
नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः॥६६॥
नूनमिति ॥ मत्तः परं मदनन्तरम् ॥ “पञ्चम्यास्तसिल्”॥ पिण्डविच्छेददर्शिनः पिण्डदानविच्छेदमुत्प्रेक्षमाणाः । वंशोद्भवा वंश्याः पितरः । स्वधेत्यव्ययं पितृभोज्ये वर्तते । तस्याः संग्रहे तत्परा आसक्ताः सन्तः श्राद्धे पितृकर्मणि ।। “पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः” इत्यमरः ॥ प्रकामभुजः पर्याप्तभोजिनो न भवन्ति नूनं सत्यम् ॥ “ कामं प्रकामं पर्याप्तम्” इत्यमरः ॥ निर्धना ह्यापद्धनं कियदपि संगृह्णन्तीति भावः ॥
मत्परं दुर्लभं मत्वा नूनंमावर्जितं मया ।
पयः [४७]पूर्वैः स्वनिश्वासैः कवोष्णमुपभुञ्जते ॥६७ ॥
मत्परमिति ॥ मत्परं मदनन्तरम् ॥ “अन्यारात्-” इत्यादिना पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मयावर्जितं दत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजैः कवोष्णमीषदुष्णं यथा तथोपभुज्यते । नूनमिति तर्के । कवोष्णमिति कुशब्दस्य कवादेशः॥ “कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति” इत्यमरः ।
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः ।
प्रकाशश्चा[४८]प्रकाशश्च लोकालोक इवाचलः॥ ६८॥
सोऽहमिति ॥ इज्या यागः ॥ “व्रजयजोर्भावे क्यप्” इति क्यप्प्रत्ययः ॥ तया विशुद्धात्मा विशुद्धचेतनः प्रजालोपेन संतत्यभावेन निमीलितः कृतनिमीलनः सोऽहम् । लोक्यत इति लोकः । न लोक्यत इत्यलोकः । लोकश्चालोकश्चात्र स्त इति लोकश्चासावलोकश्चेति वा लोकालोकश्चक्रवालोऽचल इव ॥ “ लोकालोकश्चक्रवालः” इत्यमरः ॥ प्रकाशत इति प्रकाशश्च देवर्णविमोचनात् । न प्रकाशत इत्यप्रकाशश्च पितॄणामविमोचनात् ॥पचाद्यच् ॥ अस्मीति शेषः। लोकालोकोऽप्यन्तः सूर्यसंपर्काद्वहिस्तमोव्याप्त्या च प्रकाशश्चाप्रकाशश्चेति मन्तव्यम् ॥
ननु तपोदानादिसंपन्नस्य किमपत्यैरित्यत्राह--
लोकान्तरेति ॥ समुद्भवत्यस्मादिति समुद्भवः कारणम् । तपोदाने समुद्भवो यस्य तत्तपोदानसमुद्भवं यत्पुण्यं तल्लोकान्तरे परलोके सुखं सुखकरम् ॥ शुद्धवंशे भवा शुद्धवंश्या संततिर्हि परत्र परलोक इह च लोके शर्मणे सुखाय ॥ “शर्मशातसुखानि च" इत्यमरः ॥ भवतीति शेषः॥
तयेति ॥ हे विधातः स्रष्टः, तया संतत्या हीनमनपत्यं माम् । स्नेहात्प्रेम्णा स्वयमेव सिक्तं जलसेकेन वर्धितं वन्ध्यमफलम् ॥ "वन्ध्योऽफलोऽवकेशी च इत्यमरः ॥ आश्रमस्य वृक्षकं वृक्षपोतमिव । पश्यन्कथं न दूयसे न परितप्यसे ॥ विधातरित्यनेन समर्थोऽप्युपेक्षस इति गम्यते ॥
असह्येति ॥ हे भगवन्, मे ममान्त्यमृणं पैतृकमृणम् । अनिर्वाणस्य मज्जनरहितस्य ॥ “निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने” इति यादवः ॥ दन्तिनो गजस्य । अरुर्मर्म तुदतीत्यरुंतुदं मर्मस्पृक् ॥ “व्रणोऽस्त्रियामीर्ममरुः” इति ॥ अरुंस्तुदस्तु मर्मस्पृक्" इति चामरः ॥ “ विध्वरुषोस्तुदः” इति खश्प्रत्ययः । “अरुर्द्विषत्-” इत्यादिना मुमागमः ॥ आलानं बन्धनस्तम्भमिव ॥ “ आलानं बन्धनस्तम्भे” इत्यमरः ॥ असह्या सोढुमशक्या पीडा दुःखं यस्मिंस्तदवेहि । दुःसहदुःखजनकं विद्धीत्यर्थः ।। “निर्वाणोत्थानशयनानि त्रीणि गजकर्मणि” इति पालकाव्ये ॥ “ऋणं देवस्य यागेन ऋषीणां दानकर्मणा । संतत्या पितृलोकानां शोधयित्वा परिव्रजेत्”॥
तस्मादिति ॥ हे तात, तस्मात्पैतृकादृणाद्यथा मुच्ये मुक्तो भवामि ॥ कर्मणि लट् ॥ तथा संविधातुं कर्तुमर्हसि । हि यस्मात्कारणादिक्ष्वाकूणामिक्ष्वाकुवंश्याना
म् ॥ तद्राजत्वाद्बहुष्वणो लुक् ॥ दुरापे दुष्प्राप्येऽर्थे । सिद्धयस्त्वदधीनास्त्वदायत्ताः । इक्ष्वाकूणामिति शेषे षष्ठी । “न लोक-” इत्यादिना कृद्योगे षष्ठीनिषेधात् ॥
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन [५७]इव ह्रदः॥७३॥
इतीति ॥ इति राज्ञा विज्ञापित ऋषिर्ध्यानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन्क्षणमात्रम् । सुप्तमीनो ह्रद इव । तस्थौ ।।
सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ ७४ ।।
स इति ॥ स मुनिः प्रणिधानेन चित्तैकाग्र्येण भावितात्मा शुद्धान्तःकरणो भुवो भर्तुर्नृपस्य संततेः स्तम्भकारणं संतानप्रतिबन्धकारणमपश्यत् ॥ अथानन्तरमेनं नृपं प्रत्यबोधयत् । स्वदृष्टं ज्ञापितवानित्यर्थः ॥ एनमिति “ गतिबुद्धि- ”इत्यादिनाणि कर्तुः कर्मत्वम् ॥
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यतः ।
आसीत्कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥७५॥
पुरोति॥ पुरा पूर्वं शक्रमिन्द्रमुपस्थाय संसेव्योर्वीं प्रति भुवमुद्दिश्य यास्यतो गमिष्यतस्तव पथि कल्पतरुच्छायामाश्रिता सुरभिः कामधेनुरासीत् । तत्र स्थितेत्यर्थः ॥
ततः किमित्याह-
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचरः॥७६ ॥
धर्मेति ॥ ऋतुः पुष्पम् । रज इति यावत् ॥ “ऋतुः स्त्रीकुसुमेऽपि च” इत्यमरः॥ ऋतुना निमित्तेन स्नातामिमां राज्ञीं सुदक्षिणां धर्मस्यर्त्वभिगमनलक्षणस्य लोपाद्भ्रंशाद्यद्भयं तस्मात्स्मरन्ध्यायन् ॥ “ मृदङ्गं दैवतं विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन् ॥” इति शास्त्रात्प्रदक्षिणक्रियार्हायां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचरितवानसि । व्यासक्ता हि विस्मरन्तीति भावः ॥ ऋतुकालाभिगमने मनुः- .“ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा” इति ॥ अकरणे दोषमाह पराशर:--"ऋतुस्नातां तु यो भार्यां स्वस्थः सन्नोपगच्छति। बालगोघ्नापराधेन विध्यते नात्र संशयः” इति ॥
अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥७७॥
अवजानासीति ॥ यस्मात्कारणान्मामवजानासि तिरस्करोषि । अतः कारणान्मत्प्रसूतिं मम संततिमनाराध्यासेवयित्वा ते तव प्रजा न भविष्यतीति सा सुरभिस्त्वां शशाप ॥ शप आक्रोशे॥
कथं तदस्माभिर्न श्रुतमित्याह-
स शापो न त्वया राजन्न च सारथिना श्रुतः।
नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ ७८॥
स इति ॥ हे राजन्, स शापस्त्वया न श्रुतः । सारथिना च न श्रुतः ॥ अश्रवणे हेतुमाह-क्रीडार्थमागता उद्दामानो दाम्न उद्गता दिग्गजा यस्मिंस्तथोक्त आकाशगङ्गाया मन्दाकिन्याः स्रोतसि प्रवाहे नदति सति ॥
अस्तु प्रस्तुते किमायातमित्यत्राह-
ईप्सितं[५८] तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः॥७९॥
ईप्सितमिति ॥ तदवज्ञानात्तस्या धेनोरवज्ञानादपमानादात्मनः स्वस्याप्तुमिष्टमीप्सितं मनोरथम् ॥ आप्नोतेः सन्नन्तात्क्तः । ईकारश्च ॥ सार्गलं सप्रतिबन्धं विद्धि जानीहि ॥ तथाहि । पूज्यपूजाया व्यतिक्रमोऽतिक्रमणं श्रेयः प्रतिबध्नाति॥
तर्हि गत्वा तामाराधयामि । सा वा कथंचिदागमिष्यतीत्याशा न कर्तव्येत्याह-
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः।
भुजंगपिहितद्वारं पातालमधितिष्ठति ॥ ८०॥
हविष इति ॥ सा च सुरभिरिदानीं दीर्घं सत्रं चिरकालसाध्यो यागविशेषो यस्य तस्य प्रचेतसो हविषे दध्याज्यादिहविरर्थं भुजंगपिहितद्वारं भुजंगावरुद्धद्वारं ततो दुष्प्रवेशं पातालमधितिष्ठति पाताले तिष्ठतीत्यर्थः ॥ “ अधिशीङ्स्थासां कर्म” इति कर्मत्वम् ॥
तर्हि का गतिरित्यत आह-
सुतामिति ॥ तस्याः सुरभेरियं तदीया । तां सुतां सुरभेः प्रतिनिधिं कृत्वा शुचिः शुद्धः। सह पत्न्या वर्तत इति सपत्नीकः सन् ॥“नद्यृतश्च” इति कप्प्रत्ययः ॥ आराधय । हि यस्मात्कारणात्सा प्रीता तुष्टा सती । कामान्दोग्धीति कामदुघा भवति ॥ “दुहः कब्घश्च" इति कप्प्रत्ययः । घादेशश्च ।।
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ ८२॥
इतीति ॥ इति वादिनो वदत एव होतुर्हवनशीलस्य ॥ “ तृन्” इति तृन्प्रत्ययः ॥ अस्य मुनेराहुतीनां साधनं कारणम् । नन्दयतीति व्युत्पत्त्या नन्दिनी नामानिन्द्यागर्ह्या प्रशस्ता धेनुर्वनादाववृते प्रत्यागता । “अव्याक्षेपो भविष्यन्त्याः कार्यसिध्देर्हि लक्षणम्” इति भावः ॥
संप्रति धेनुं विशिनष्टि--
[६१]ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला।
बिभ्रती श्वेतरोमाङ्कं संध्येव शशिनं नवम् ॥ ८३॥
ललाटेति ॥ पल्लववत्स्निग्धा चासौ पाटला च । संध्यायामप्येतद्विशेषणं योज्यम् । ललाट उदयो यस्य स ललाटोदयः । तमाभुग्नमीषद्वक्रम् ॥ “आबिद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि” इत्यमरः ॥ “उदितश्च" इति निष्ठातस्य नत्वम् ।। श्वेतरोमाण्येवाङ्कस्तं बिभ्रती । नवं शशिनं बिभ्रती संध्येव । स्थिता ।।
भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
[६२]प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ।। ८४ ॥
भुवमिति ॥ कोष्णेन किंचिदुष्णेन ॥ “कवं चोष्णे” इति चकारात्कादेशः ॥ अवभृथादप्यवभृथस्नानादपि मेध्येन पवित्रेण ॥ “पूतं पवित्रं मेध्यं च ” इत्यमरः ॥ वत्सस्यालोकेन प्रदर्शनेन प्रवर्तिना प्रवहता प्रस्नवेन क्षीराभिस्यन्दनेन भुवमभिवर्षन्ती सिञ्चन्ती । कुण्डमिवोध आपीनं यस्याः सा कुण्डोध्नी ॥ “ऊधस्तु क्लीबमापीनम्” इत्यमरः ॥ “ऊधसोऽनङ्” इत्यनङादेशः ॥“बहुव्रीहरूधसो ङीष्” इति ङीष् ॥
रज इति ॥ खुरोध्दूतैरन्तिकात्समीपे गात्रं स्पृशद्भिः॥ “दूरान्तिकार्थेभ्यो
द्वितीया च" इति चकारात्पञ्चमी ॥ रजसां कणैः । महीं क्षियत ईष्ट इति महीक्षित्। तस्य । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम् । शुध्दिमादधाना कुर्वाणा ॥ एतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना-“आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्" इति ॥
तामिति ॥ निमित्तज्ञः शकुनज्ञस्तपोनिधिर्वशिष्ठः । पुण्यं दर्शनं यस्यास्तां तां धेनुं दृष्ट्वा । आशंसितं मनोरथः ॥ नपुंसके भावे क्तः ॥ तत्रावन्ध्यं सफलं प्रार्थनं यस्य स तम् । अवन्ध्यमनोरथमित्यर्थः । याजयितुं योग्यं याज्यं पार्थिवं पुनरब्रवीत्।।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ ८७॥
अदूरेति ॥ हे राजन्, आत्मनः कार्यस्य सिद्धिमदूरवर्तिनीं शीघ्रभाविनीं विग-णय विद्धि । यद्यस्मात्कारणात्कल्याणी मङ्गलमूर्तिः ॥ “बह्वादिभ्यश्च" इतिङीप् । इयं धेनुर्नाम्नि कीर्तिते कथिते सत्येवोपस्थिता ॥
वन्येति ॥ वने भवं वन्यं कन्दमूलादिकं वृत्तिराहारो यस्य तथाभूतः सन् । इमां गां शश्वत्सदा । आ प्रसादादविच्छेदेनेत्यर्थः । आत्मनस्तव । कर्तुः । अनुगमनेनानुसरणेन । अभ्यसनेनानुष्ठातुरभ्यासेन विद्यामिव । प्रसादयितुं प्रसन्नां कर्तुमर्हसि ॥
गवानुसरणप्रकारमाह-
प्रस्थितायां प्रतिष्ठेथाः [६९]स्थितायां स्थितिमाचरेः।
निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः॥ ८९॥
प्रस्थितेति ॥ अस्यां नन्दिन्यां प्रस्थितायां प्रतिष्ठेथाः प्रयाहि ॥ “समवप्रविभ्यः स्थः" इत्यात्मनेपदम् ॥ स्थितायां निवृत्तगतिकायां स्थितिमाचरेः स्थितिं कुरु । तिष्ठेत्यर्थः। निषण्णायामुपविष्टायां निषीदोपविश ॥ विध्यर्थे लोट् ॥ पीतमम्भो यया तस्यां पीताम्भसि सत्यामपः पिबेः पिब ।
वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
[७०]प्रयता प्रातरन्वेतु सायं प्रत्युव्द्रजेदपि ॥ ९० ॥
वधूरिति ॥ वधूर्जाया च भक्तिमती प्रयता सती गन्धादिभिरर्चितामेनां गां प्रतरा तपोवनात् ॥ आङ् मर्यादायाम् । पदद्वयं चैतत् ॥ अन्वेत्वनुगच्छतु । सायमपि प्रत्युद्व्रजेत्प्रत्युद्गच्छेत् ॥ विध्यर्थे लिङ्॥
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेयाः[७१] पितेव धुरि पुत्रिणाम् ॥९१ ॥
इतीति ॥ इत्यनेन प्रकारेण त्वमा प्रसादात्प्रसादपर्यन्तम् ॥ “आङ् मर्यादाभिविध्योः” इत्यस्य वैभाषिकत्वादसमासत्वम् ॥ अस्या धेनोः परिचर्यापरः शुश्रूषापरो भव । ते तवाविघ्नं विघ्नस्याभावोऽस्तु ॥ “अव्ययं विभक्ति-” इत्यादिनार्थाभावेऽव्ययीभावः ॥ पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनिमत्ययः॥ धुर्यग्रे स्थेयास्तिष्ठेः ॥ आशीरर्थे लिङ् । “एलिङि” इत्याकारस्यैकारादेशः ॥ त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः ॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः ।
आदेशं देशकालज्ञः शिष्यः शासितुरानतः॥ ९२ ॥
तथेति ॥ देशकालज्ञः । देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन् । अत एव प्रीतिमाञ्छिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः ॥ “पत्नीपरिजनादानमूलशापाः परिग्रहाः” इत्यमरः ॥ आनतो विनयनम्रः सन् । शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार ॥
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक्स्रष्ट्रर्विससर्जोदि[७२]तश्रियम् ॥ ९३॥
अथोति ॥ अथ प्रदोषे रात्रौ दोषज्ञो विद्वान् ॥ “विद्वान्विपश्चिद्दोषज्ञः” इत्यमरः ॥ सूनृतवाक्सत्यप्रियवाक् ॥ “प्रियं सत्यं च सूनृतम्” इति हलायुधः ॥ स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः । अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति । उदितश्रियं विशांपतिं मनुजेश्वरम् ॥ “द्वौ विशौ वैश्यमनुजौ” इत्यमरः॥ संवेशाय निद्रायै ॥ “स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि” इत्यमरः ॥ विससर्जाज्ञापयामास ॥
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ ९४ ॥
सत्यामिति ॥ कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः । तपःसिध्दौ सत्यामपि । तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः । नियमापेक्षया तदाप्रभृत्येव
व्रतचर्यापेक्षया । अस्य राज्ञो वन्यामेव । संविधीयतेऽनयेति संविधाम् । कुशादिशयनसामग्रीम् ॥ “आतश्चोपसर्गे” इति कप्रत्ययः । “अकर्तरि च कारके संज्ञायाम्” इति कर्माद्यर्थत्वम् ॥ कल्पयामास संपादयामास ।।
निर्दिष्टां कुलपतिना स पर्णशाला-
मध्यास्य प्रयतपरिग्रहद्वितीयः।
तच्छिष्याध्ययननिवेदितावसानां
संविष्टः कुशशयने निशां निनाय ॥९५॥
निर्दिष्टामिति ॥ स राजा कुलपतिना मुनिकुलेश्वरेण वशिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्ठाय । तस्यामधिष्ठानं कृत्वेत्यर्थः ॥ “ अधिशीङ्-” इत्यादिनाधारस्य कर्मत्वम् । कर्मणि द्वितीया ॥ प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः । कुशानां शयने संविष्टः सुप्तः सन् । तस्य वशिष्ठस्य शिष्याणामध्ययनेनापररात्रे वेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास ॥ अपररात्रेऽध्ययने मनु:-“निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ” । “ न चापररात्रमधीत्य पुनः स्वपेत्” इति गौतमश्च ॥ प्रहर्षणीवृत्तमेतत् । तदुक्तम्-“म्नौ जौ गस्त्रिदशयतिः प्रहर्षणीयम्” ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वशिष्ठाश्रमाभिगमनो नाम प्रथमः सर्गः ।
- ↑ प्रेप्सुः.
- ↑ गम्ये.
- ↑ मोहात्.
- ↑ प्रणोदितः; प्रमोदितः; प्रसारितः.
- ↑ इच्छन्ति.
- ↑ हेतवे.
- ↑ महीभृताम्.
- ↑ राजेन्द्रः.
- ↑ आस्थितः.
- ↑ विभाविना.
- ↑ प्रारम्भ.
- ↑ अधिगम्यः.
- ↑ आत्मनः.
- ↑ रसान्.
- ↑ सेनापरिच्छदः.
- ↑ स्वयम्.
- ↑ शास्त्रे च.
- ↑ व्यावृता; व्याहता; अव्याहता.
- ↑ अर्थान्.
- ↑ प्रणयत:.
- ↑ दण्डम्.
- ↑ धर्माय.
- ↑ दष्टोऽङ्गुष्ठ इवाहिना.
- ↑ युक्तेन.
- ↑ एकस्यन्दनम्.
- ↑ आश्रितौ.
- ↑ परिगतौ.
- ↑ रेणूत्करैः.
- ↑ निह्लादैः.
- ↑ शासिनः.
- ↑ उपागतान्.
- ↑ स्कन्धासक्तसमित्कुशैः.
- ↑ अग्निप्रत्युद्गमात्पूतैः पूर्यमाणम्.
- ↑ विविक्तीकृत
- ↑ अपाय.
- ↑ अवारोपयत्.
- ↑ अवरूरोह.
- ↑ अन्वासिनम्.
- ↑ पादौ.
- ↑ आतिथेयस्तमातिथ्यं विनीताध्य; आतिथेयस्तमातिथ्यविनीताङ्ग.
- ↑ विदः.
- ↑ पुरःसरः.
- ↑ प्रतिहन्ता.
- ↑ सशमितारिभिः; संयमितारिभिः.
- ↑ वृष्ट्यै.
- ↑ तत्र.
- ↑ पयः पूर्वैः सनिःश्वासकवोष्णमुपभुज्यते पयः पूर्वेः सनिःश्वासं कवोष्णमुपभुञ्जते; पयः पूर्वे स्वनिश्वासैः कवोष्णमुपभुञ्जते.
- ↑ अन्धकारः.
- ↑ शुद्धवंशा.
- ↑ तु.
- ↑ विनेतर; वितानम्.
- ↑ पादपम्.
- ↑ ऋणबन्धम्.
- ↑ नवबद्धस्य.
- ↑ यथा विमुच्येऽहम्.
- ↑ यथा.
- ↑ यथा.
- ↑ अवेहि तदवज्ञानाद्यत्नापेक्षं मनोरथम; अवेहि तदवज्ञानादनपेक्षं मनोरथम्.
- ↑ स गां मदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः; स त्वमेकान्तरां तस्यां मदीयां वत्समातरम्.
- ↑ सा वां कामं निधास्यति.
- ↑ ताम्रललाटाजां रेखा बिभ्रती सासितेतराम् । संध्या प्रातिपदेनेव प्र(द्यु)तिभिन्ना हिमांशुना.
- ↑ प्रस्रवेण.
- ↑ तीर्थाभिषेकसंशुद्धिम्.
- ↑ महीभृतः; महीपतेः.
- ↑ तपोधनः.
- ↑ अवन्ध्यम्.
- ↑ वृत्तिम्.
- ↑ सम्यगाराधने.
- ↑ स्थानम्.
- ↑ प्रयाताम्.
- ↑ भूयाः.
- ↑ ऊर्जित.