रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/एकादशः सर्गः(सीताविवाहवर्णनः)
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/दशमः सर्गः(रामावतारः) | रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्) एकादशः सर्गः(सीताविवाहवर्णनः) कालिदासः |
द्वादशः सर्गः(रावणवधः) → |
एकादशः सर्गः ।
रामचन्द्रचरणारविन्दयोरन्तरङ्गचरभृङ्गलीलया ।
तत्र सन्ति हि रसाश्चतुर्विधास्तान्यथारुचि सदैव निर्विश ।।
कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये ।
काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ १ ॥
कौशिकेनेति ॥ कौशिकेन कुशिकापत्येन विश्वामित्रेणैत्याभ्यागत्य स क्षितीश्वरो दशरथः। अध्वरविघातशान्तये यज्ञविघ्नविध्वंसाय । काकपक्षधरं बालकोचितशिखाधरम् ॥ “बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः” इति हलायुधः ॥ रामं याचितः किल प्रार्थितः खलु ॥ याचेर्द्विकर्मकादप्रधाने कर्मणि क्तः । अप्रधाने दुहादीनामिति वचनात् ॥ नायं बालाधिकार इत्याशङ्क्याह-तेजसां तेजस्विनां वयो बाल्यादि न समीक्ष्यते हि । अप्रयोजकमित्यर्थः ॥ अत्र सर्गे रथोद्धतावृत्तम् । उक्तं च-“रान्नराविह रथोद्धता लगौ” इति ॥
कृच्छ्रलब्धमपि ल[१]ब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणम् ।
अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता ॥ २ ॥
कृच्छ्रलब्धमिति ॥ लब्धा वर्णाः प्रसिद्धयो यैस्ते लब्धवर्णा विचक्षणाः ॥ “लब्धवर्णो विचक्षणः” इत्यमरः ॥ तान्भजत इति लब्धवर्णभाक् । विद्वत्सेवीत्यर्थः। स राजा कृच्छ्रलब्धमपि सलक्ष्मणं तं रामं मुनये दिदेशातिसृष्टवान् ॥ तथाहि । असुप्रणयिनां प्राणार्थिनामप्यर्थिता याच्ञा रघोः कुले कदाचिदपि न व्यहन्यत न विहता । न विफलीकृतेत्यर्थः ॥ यैरर्थिभ्यः प्राणा अपि समर्प्यन्ते तेषां पुत्रादित्यागो न विस्मयावह इति भावः ॥
यावदिति ॥ पार्थिवः पृथिवीश्वरस्तयो रामलक्ष्मणयोनिर्गमाय निष्क्रमणाय पुरमार्गसंस्क्रियां धूलिसंमार्जनगन्धोदकसेचनपुष्पोपहाररूपसंस्कारं यावदादिशत्याज्ञापयति । तावन्मरुत्सखैर्वायुसखैः । अनेन धूलिसंमार्जनं गम्यते । सपुष्पजलवर्षिभिः पुष्पसहितजलवर्षिभिर्घनैः सा मार्गसंस्क्रियाशु विदधे विहिता ॥ एतेन देवकार्यप्रवृत्तयोर्देवानुकूल्यं सूचितम् ॥
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्र[६]वत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥ ४ ॥
ताविति ॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः । प्रणतावित्यर्थः । भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः । अत एव नम्रयोः प्रणतयोः ॥ “नमिकम्पि-” इति रप्रत्ययः ॥ तयोरुपरि निपेतुः पतिताः ॥
तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशि[७]खण्डकावुभौ ।
धन्विनौ तमृषिमन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ ॥ ५ ॥
ताविति ॥ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावीषत्सिक्तचूडौ । “शिखा चूडा शिखण्डः स्यात्” इत्यमरः ॥ “शेषाद्विभाषा” इति कप्प्रत्ययः ॥ धन्विनौ तावुभौ । पौरदृष्टिभिः कृतानि मार्गतोरणानि संपाद्यानि कुवलयानि ययोस्तौ तथोक्तौ । संघशो निरीक्ष्यमाणावित्यर्थः । तमृषिमन्वगच्छताम् ॥
लक्ष्मणानुचरमेव राघवं नेतुमैच्छदृषिरित्यसौ नृपः।
आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा ॥ ६ ॥
लक्ष्मणेति ॥ ऋषिर्लक्ष्मणानुचरमेव लक्ष्मणमात्रानुचरं तं राघवं नेतुमैच्छदिति हेतोरसौ नृप आशिषं प्रयुयुजे प्रयुक्तवान् । वाहिनीं सेनां न प्रयुयुजे न प्रेषितवान् । हि यस्मात्साशीरेव तयोः कुमारयो रक्षणविधौ क्षमा शक्ता ॥
मातृवर्गचरणस्पृशौ मुनेस्तौ प्रपद्य पदवीं महौजसः ।
रेजतुर्गतिव[८]शात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव ॥ ७ ॥
मातृवर्गेति ॥ मातृवर्गस्य चरणान्स्पृशत इति मातृवर्गचरणस्पृशौ । कृतमातृवर्गनमस्कारावित्यर्थः ॥ “स्पृशोऽनुदके क्विन्” इति क्विन्प्रत्ययः ॥ तौ महौजसो मुनेः पदवीं प्रपद्य । महौजसो भास्करस्य गतिवशान्मेषादिराशिसंक्रान्त्यनुसारात्प्रवर्तिनौ मधुमाधवाविव चैत्रवैशाखाविव रेजतुः ॥ “फणां च सप्तानाम्” इति वैकल्पिकावेत्वाभ्यासलोपौ ॥ “स्याच्चैत्रे चैत्रिको मधुः” इति । “वैशाखे माधवो राधः” इति चामरः ॥
वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलमप्यशोभत ।
तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितम् ॥ ८ ॥
वीचीति ॥ वीचिलोलभुजयोस्तरंगचञ्चलबाह्वोः ॥ इदं विशेषणं नदोपमानसिद्ध्यर्थं वेदितव्यम् ॥ तयोश्चपलं चञ्चलमपि गतं गतिः शैशवाद्धेतोरशोभत ॥ किमिव । तोयदागमे वर्षासमये । उज्झत्युदकमित्युद्ध्यः । भिनत्ति कूलमिति भिद्यः ॥ “भिद्योद्ध्यौ नदे” इति क्यबन्तौ निपातितौ ॥ उद्ध्यभिद्ययोर्नदविशेषयोर्नामधेयसदृशं नामानुरूपं विचेष्टितमिव उदकोज्झनकूलभेदनरूपव्यापार इव ॥ समयोत्पन्नं चापलमपि शोभत इति भावः ॥
तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः ।
मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव ॥ ९ ॥
पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः ।
उह्यमान इव वाहनोचितः पादचारमपि न व्यभावयत् ॥ १० ॥
पूर्वेति ॥ वाहनोचितः सानुजो राघवः । पुराविदः पूर्ववृत्ताभिज्ञस्य पितृसखस्य मुनेः पूर्ववृत्तकथितैः पुरावृत्तकथाभिरुह्यमान इव वाहनेन प्राप्यमाण इव ॥ वहेर्धातोः कर्मणि शानच् ॥ “उह्यमानः” इत्यत्र दीर्घादिरपपाठः । दीर्घप्राप्त्यभावात् ॥ पादचारमपि न व्यभावयन्न ज्ञातवान् ॥
तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः ।
वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे ॥ ११ ॥
ताविति ॥ तौ राघवौ । कर्मभूतौ । सरांसि । कर्तॄणि । रसवद्भिर्मधुरैरम्बुभिः सिषेविरे। पतत्रिणः पक्षिणः । सुखयन्तीति सुखानि ॥ पचाद्यच् ॥ श्रुतीनां सुखानि । तैः कूजितैः । वायवः सुरभिपुष्परेणुभिः । जलदाश्छायया च । सिषेविर इति सर्वत्र संबध्यते ॥
नेति ॥ तप एषामस्तीति तपस्विनः ॥ “तपःसहस्राभ्यां विनीनीः” इति विनिप्रत्ययः ॥ लघुनेष्टेन ॥ “त्रिष्विष्टेऽल्पे लघुः” इत्यमरः ॥ तयोरुभयोः । कर्मभूतयोः । दर्शनेन यथा प्रीतिमापुः । तथा कमलशोभिनामम्भसां दर्शनेन नापुः । परिश्रमच्छिदां शाखिनां दर्शनेन च नापुः ॥
स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः ।
विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा ॥ १३ ॥
स्थाण्विति ॥ स आत्तकार्मुकः । दशरथस्यापत्यं पुमान्दाशरथी रामः ॥ “अत इञ्” इतीञ्प्रत्ययः ॥ स्थाणुर्हरः ॥ “स्थाणुः कोले हरे स्थिरे” इति विश्वः ॥ तेन दग्धवपुषो मदनस्य तपोवनं प्राप्य चारुणा विग्रहेण कायेन ॥ “विग्रहः समरे काये” इति विश्वः ॥ प्रतिनिधिः प्रतिकृतिः सदृशोऽभवत्कर्मणा न पुनः ॥ देहेन मदनसुन्दर इति भावः ॥
तौ सकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थ[११]लनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ १४ ॥
ताविति ॥ अत्र रामायणवचनम्--“अगस्त्यः परमः क्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपाहाय दारुणं रूपमस्तु ते” इति । तदेतदाह-विदितशापयेति ॥ कौशिकादाख्यातुः ॥ “आख्यातोपयोगे” इत्यपादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि ॥ “खिलमप्रहतं स्थानम्” इति हलायुधः ॥ तौ रामलक्ष्मणौ । स्थले निवेशिते अटनी धनु:कोटी याभ्यां तौ तथोक्तौ ॥ “कोटिरस्याटनिः” इत्यमरः ॥ लीलयैव धनुषी । अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये ॥ “ज्या मौर्वीमातृभूमिषु” इति विश्वः ॥ तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ ॥ नयतिर्द्विकर्मकः ॥
ज्येति ॥ अथ तयोर्ज्यानिनादं गृह्णती जानती । शृण्वतीत्यर्थः । बहुलक्षपाछविः कृष्णपक्षरात्रिवर्णा ॥ “बहुलः कृष्णपक्षे च” इति विश्वः ॥ चले कपाले एव कुण्डले यस्याः सा तथोक्ता ताडका । निबिडा सान्द्रा बलाकिनी बलाकावती ॥ "व्रीह्यादिभ्यश्च” इतीनिः ॥ कालिकेव घनावलीव ॥ “कालिका योगिनीभेदे कार्ष्ण्ये गौर्यां घनावलौ” इति विश्वः ॥ प्रादुरास प्रादुर्बभूव ॥
तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्व[१४]नोग्रया ।
अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया ॥ १६ ॥
तीव्रेति ॥ तीव्रवेगेन धुताः कम्पिता मार्गवृक्षा यया तथोक्तया । प्रेतचीवराणि वस्त इति प्रेतचीवरवाः । तया प्रेतचीवरवसा ॥ वसतेराच्छादनार्थात्क्विप् ॥ स्वनेन सिंहनादेनोग्रया तया ताडकया । पितृकानने श्मशान उत्थोत्पन्ना ॥ “आतश्चोपसर्गे” इत्युत्पूर्वात्तिष्ठतेः कर्तरि क्तप्रत्ययः । तया वात्ययेव वातसमूहेनेव ॥ “पाशादिभ्यो यः” इति यः ॥ भरताग्रजो रामोऽभ्यभाव्यभिभूतः ॥ कर्मणि लुङ् ॥ तीव्रवेगेत्यादिविशेषणानि वात्यायामपि योज्यानि ॥
उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥ १७ ॥
यच्चकार विवरं शिलाघने ता[१५]डकोरसि स रामसायकः ।
अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥ १८ ॥
यदिति ॥ स रामसायकः शिलावद्घने सान्द्रे ताडकोरसि यद्विवरं रन्ध्रं चकार तद्विवरं रक्षसामप्रविष्टविषयस्य । अप्रविष्टरक्षोदेशस्येत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ “विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च” इति विश्वः ॥ अन्तकस्य यमस्य द्वारतामगमत् ॥ इयं प्रथमा रक्षोमृतिरिति भावः ॥
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केव[१६]लाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥ १९ ॥
बाणेति ॥ बाणभिन्नहृदया निपेतुषी निपतिता सती ॥ “क्वसुश्च” इति क्वसुप्रत्ययः । “उगितश्च” इति ङीप् ॥ सा केवलामेकाम् ॥ “निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः” इत्यमरः ॥ स्वकाननभुवं न व्यकम्पयत् । किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत् ॥ ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥
अत्र ताडकाया अभिसारिकायाः समाधिरभिधीयते-
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥ २० ॥
रामेति ॥ सा । निशासु चरतीति निशाचरी राक्षसी। अभिसारिका च । दुःसहेन सोढुमशक्येन । राम एव मन्मथः । अन्यत्राभिरामो मन्मथः । तस्य शरेण हृदय उरसि मनसि च ॥ “हृदयं मनउरसोः” इति विश्वः । ताडिता विद्धाङ्गा गन्धवद्दुर्गन्धि यद्रुधिरमसृक्तदेव चन्दनं तेनोक्षिता लिप्ता । अपरत्र गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कमचन्दने ताभ्यामुक्षिता ॥ “रुधिरं कुङ्कुमासृजोः” इत्युभयत्रापि विश्वः ॥ जीवितेशस्यान्तकस्य प्राणेश्वरस्य च वसतिं जगाम ॥
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ता[१७]डकान्तकः ॥ २१॥
वामनाश्रमपदं ततः परं पावनं श्रुतमृषेरुपेयिवान् ।
उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ २२ ॥
वामनेति ॥ ततः परं राघवः । ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन् ॥ "उपेयिवाननाश्वाननूचानश्च" इति निपातः ॥ प्रथमजन्मचेष्टितानि रामवामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि । उन्मना उत्सुको बभूव ॥
आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणम् ।
बद्धपल्लवपुटाञ्जलिद्रुमं द[१८]र्शनोन्मुखमृगं तपोवनम् ॥ २३ ॥
आससादेति ॥ ततो मुनिः । शिष्यवर्गेण परिकल्पिता सज्जितार्हणा पूजासामग्री यस्मिंस्तत्तथोक्तम् । बद्धाः पल्लवपुटा एवाञ्जलयो यैस्ते तथाभूता द्रुमा यस्मिंस्तत्तथोक्तम् । दर्शनेन मुनिदर्शनेनोन्मुखा मृगा यस्मिंस्तत् । आत्मनस्तपोवनमासमाद ॥ एतेन विशेषणत्रयेणातिथिसत्कारताच्छील्यविनयशान्तयः सूचिताः ॥
तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥ २४ ॥
तत्रेति ॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः । क्रमेण पर्यायेण रात्रिदिवसयोरुदितौ शशिदिवाकरौ रश्मिभिरन्धतमसाद्गाढध्वान्तात् ॥ "ध्वान्ते गाढेऽन्धतमसम्" इत्यमरः ॥ "अवसमन्धेभ्यस्तमसः" इति समासान्तोऽच्प्रत्ययः ॥ लोकमिव । ररक्षतुः ।रक्षणप्रवृत्तावभूतामित्यर्थः ॥
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥ २५ ॥
उन्मुखः सपदि लक्ष्मणाग्रजो बाणमाश्रयमुखात्समुद्धरन् ।
रक्षसां बलमपश्यदम्बरे गृध्रपक्षपवनेरितध्वजम् ॥ २६ ॥
उन्मुख इति ॥ सपदि लक्ष्मणाग्रजो रामो बाणमाश्रयमुखात्तूणीरमुखात्स- मुद्धरन् । उन्मुख ऊर्ध्वमुखोऽम्बरे । गृध्रपक्षपवनैरीरिताः कम्पिता ध्वजा यस्य तत्तथोक्तम् । रक्षसां दुर्निमित्तसूचनमेतत् ॥ तदुक्तं शकुनार्णवे- “आसममृत्योनिकटे चरन्ति गृध्रादयो मूर्न्धि गृहोर्ध्वभागे" इति ॥ रक्षसां बलमपश्यत् ॥
तत्र यावधिपती मखद्विषां तौ शरव्यमकरोत्स नेतरान् ।
किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते ॥ २७॥
तत्रेति ॥ स रामस्तत्र रक्षसां वले यौ मखद्विषामधिपती तौ सुबाहुमारीचौ शरव्यं लक्ष्यमकरोत् ॥ “वेध्यं लक्ष्यं शरव्यं च" इति हलायुधः॥ इतरानाकरोत्॥ तथाहि । महोरगविसर्पिविक्रमो गरुडो गरुत्मानराजिलेषु जलव्यालेषु प्रवर्तते किम् । न प्रवर्तत इत्यर्थः॥ “अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ" इत्यमरः॥
सोऽस्त्रमुग्रजवमस्त्रकोविदः संदधे धनुषि वायुदैवतम् ।
तेन शैलगुरुमप्यपातयत्पाण्डुपत्रमिव ता[१९]डकासुतम् ॥ २८ ॥
स इति ॥ अस्त्रकोविदोऽस्त्रज्ञः स राम उग्रजवमुत्कटजवं वायुदैवतं वायुर्दैवतं यस्य तद्वायव्यमस्त्रं धनुषि संदधे संहितवान् ॥कर्तरि लिट् ॥ तेनास्त्रेण शैलवद्गुरुमपि ताडकासुतं मारीचम् । पाण्डुपत्रमिव । परिणतपर्णमिवतयर्थः । अपातयत्पातितवान् ।
य इति ॥ सुबाहुरिति योऽपरो राक्षसस्तत्र तत्र मायया शम्बरविद्यया विससर्प संचचार । क्षुरप्रैः शकलीकृतं खण्डीकृतं तं मुबाहुं कृती कुशलो रामः॥" कृती च कुशलः समौ" इत्यमरः॥आश्रमादहिः पत्रिणां पक्षिणाम् ॥ पत्रिणी शरपक्षिणी" इत्यमरः । व्यभजत् । विभज्य दत्तवानित्यर्थः॥
इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्विजः कुलपतेर्यथाक्रम वा[२२]ग्यतस्य निरवर्तयन्कियाः॥३०॥
इतीति ॥ इत्यपास्तमखविनयोस्तयो राघवयोः । संयुगे रणे साधुः सांयुगीनस्तम्॥ “प्रतिजनादिभ्यः खञ" इति खञ्प्रत्ययः।। “सांयुगीनोरणे साधुः" इत्य-
मरः॥ विक्रममभिनन्ध । ऋत्विजो याज्ञिकाः । वाचि यतो वाग्यतो मौनी तस्य
कुलपतेर्मुनिकुलेश्वरस्य क्रियाः क्रतुक्रिया यथाक्रमं निरवर्तयन्निष्पादितवन्तः ॥
तौ प्रणामचलकाकपक्षकौ भ्रातराव[२३]वभृथाप्लुतो मुनिः ।
आशिषामनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना ॥ ३१ ॥
ताविति ॥ अवभृथे दीक्षान्त आप्नुतः स्नातो मुनिः॥ “दीक्षान्तोऽवभृथो यज्ञः" इत्यमरः॥ प्रणामेन चलकाकपक्षकौ चञ्चलचूडौ तौ भ्रातरावाशिषामनुपदमन्वग्दर्भपाटिततलेन कुशक्षतान्तःप्रदेशेन । पवित्रेणेत्यर्थः । पाणिना समस्पृशसंस्पृष्टवान् । संतोषादिति भावः।
तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिथिलां व्रजन्वशी।
राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलम् ॥ ३२॥
तमिति ॥ संभृतक्रतुः संकल्पितसंभारो मिथिलायां भवो मैथिलो जनकस्तं विश्वामित्रं न्यमन्त्रयताहूतवान् ॥ वशी स मुनिमिथिलां जनकनगरीं व्रजंस्तस्य जनकस्य यद्धनुस्तच्छ्रवणजं कुतूहलं विभ्रतौ राघवावपि निनाय नीतवान् ॥
तैः शिवेषु वसतिर्गताध्वभिः सायमाश्रमतरुष्वगृह्यत ।
येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ ॥ ३३ ॥
तैरिति॥गताध्वभिस्तैस्त्रिभिः सायं शिवेषु रम्येष्वाश्रमतरुषु वसतिः स्थानमगृह्यत। येष्वाश्रमतरुषु दीर्घतपसो गौतमस्य परिग्रहः पत्नी॥पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः॥ अहल्येति यावत् । वासवस्येन्द्रस्य क्षणकलत्रतां ययौ ॥
प्रत्यपद्यतेति॥ शिलामयी भर्तृशापाच्छिलात्वं प्राप्ता गौतमवधूरहल्या चारु स्वं वपुश्चिराय पुनः प्रत्यपद्यत प्राप्तवती यत् । स किल्बिषच्छिदां पापहारिणाम् ॥ "पापं किल्विषकल्मषम्" इत्यमरः॥रामपादरजसामनुग्रहः किल प्रसादः। किलेति श्रूयते ॥
राघवेति ॥ राघवाभ्यामन्वितं युक्तमुपस्थितमागतं तं मुनिं जनको जनेश्वरो निशम्य । अर्थकामाभ्यां सहितं देहबद्धं बद्धदेहम् । मूर्तिमन्तमित्यर्थः ॥ वाहिताग्न्यादित्वात्साधुः॥ धर्ममिव । सपर्ययाभ्यगात्प्रत्युद्गतवान् ॥
तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू ।
मन्यते स्म पिबतां विलोचनैः पक्ष्मपातमपि वञ्चनां मनः॥३६ ॥
ताविति ॥ दिवः सुरवर्त्मन आकाशात् ॥ "द्यौः स्वर्गसुरवर्त्मनोः" इति विश्वः॥ गां भुवं गतौ ॥ " स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः" इत्यमरः॥ पुनर्वसू इव तन्नामकनक्षत्राधिदेवते इव स्थितौ । तौ राघवौ विलोचनैः पिबताम् । अत्यास्थया पश्यतामित्यर्थः । विदेहनगरी मिथिला । तन्निवासिनां मनः । कर्तृ । पक्ष्मपातं निमेषमपि तदृर्शनप्रतिबन्धकत्वाद्वञ्चनां विडम्बनां मन्यते स्म मेने ॥"लट् स्मे" इति भूतार्थे लट् ॥
यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः ।
राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥ ३७॥
यूपेति ॥ यूपवति क्रियाविधौ कर्मानुष्ठाने । क्रतावित्यर्थः । अवसिते समाप्ते सति कालविदवसरज्ञः कुशिकवंशवर्धन: स मुनी रामम् । अस्यतेऽनेनेत्यसनम् । इषूणामसनमिष्वसनं चापम् । तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांबभूव कथितवान् ॥
तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः ।
स्वं विचिन्त्य च धनुर्दुरा[२९]नमं पीडितो दुहितृशुल्कसंस्थया॥३८॥
तस्येति ॥ पार्थिवो जनकः। प्रथितवंशे जन्म यस्य तस्य तथोक्तस्य । एतेन वरसंपत्तिरुक्ता। शिशोस्तस्य रामस्य ललितं कोमलं वपुर्वीक्ष्य । स्वं स्वकीयं दुरानममानमयितुमशक्यम् ॥ नमेर्ण्यन्तात्खल्॥ धनुर्विचिन्त्य च । दुहितृशुल्कं कन्यामूल्यं जामातृदेयम् । “शुल्कं घट्टादिदेये स्याज्जामातुर्वन्धकेऽपि च" इति विश्वः॥ तस्य धनुर्भङ्गरूपस्य संस्थया स्थित्या ॥ “संस्था स्थितौ शरे नाशे" इति विश्वः।। पीडितो बाधितः ॥ शिशुना रामेण दुष्करमिति दुःखित इति भावः ॥
अब्रवीच्च भगवन्मतंगजैर्यदृहद्भिरपि कर्म दुष्करम् ।
तत्र नाहमनुमन्तुमुत्सहे मोघवृत्ति कलभस्य चेष्टि[३०]तम् ॥ ३९ ॥
अब्रवीदिति ॥अब्रवीच्च । मुनिमिति शेषः। किमिति । हे भगवन्मुने, बृहद्भिर्मतंगजैर्महागजैरपि दुष्करं यत्कर्म तत्र कर्मणि कलभस्य बालगजस्य ॥“कलभः करिशावकः” इत्यमरः ॥ मोघवृत्ति व्यर्थव्यापारं चेष्टितं साहसमनुमन्तुमहं नोत्सहे ।।
ह्येपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भूतः।
ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे ॥ ४० ॥
ह्रेपिता इति ॥ हे तात, तेन धनुषा बहवो धनुर्भूतो नरेश्वरा ह्रेपिता ह्रियं
प्रापिता हि ॥ जिह्रतेर्धातोर्ण्यन्तात्कर्मणि क्तः॥“अर्तिह्री-" इत्यादिना पुगागमः ॥ ते नरेश्वरा ज्यानिघातैः कठिनत्वचः स्वान्भुजान्धिगिति विधूयावमत्य प्रतस्थिरे प्रस्थिताः॥
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गि[३१]रा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥४१॥
प्रतीति ॥ ऋषिस्तं प्रत्युवाच । किमिति । अयं रामः सारतो बलेन निशम्यतां श्रूयताम् । अथवा गिरा सारवर्णनया कृतमलम् । गीर्न वक्तव्येत्यर्थः ॥ “युगपर्याप्तयोः कृतम्" इत्यमरः ॥ अव्ययं चैतत् । “कृतं निवारणनिषेधयोः" इति गणव्याख्याने । गिरेति करणे तृतीया । निषेधक्रियां प्रति करणत्वात् ॥ किंत्वशनिर्वज्रो गिराविव । चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥
एवमिति ॥ एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम् ॥ “हायनान्तयुवादिभ्योऽण्" इति युवादित्वादण् ॥ “पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि" इति विश्वः ॥ त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः ॥ “प्रमाणे द्वयसच्-" इत्यादिना मात्रच्प्रत्ययः । ततः स्वार्थे कप्रत्यय: ॥ तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव । श्रद्दधे विश्वस्तवान् ॥
व्यादिदेशेति ॥ अथ मैथिलः पार्श्वगान्पुरुषान्कार्मुकाभिहरणाय कार्मुकमानेतुम् ॥ "तुमर्थाच्च-" इति चतुर्थी ॥ सहस्रलोचन इन्द्रस्तैजसस्य तेजोमयस्य धनुषः प्रवृत्तय आविर्भावाय तोयदान्मेघानिव गणान्गणशः॥ “संख्यैकवचनाञ्च वीप्सायाम्" इति शस्प्रत्ययः ॥ व्यादिदेश प्रजिघाय ॥
तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य[३७] दाशरथिराददे धनुः ।
विद्रुतक्रतुमृगानुसारिणं येन बाणमसृजद्वृषध्वजः॥ १४ ॥
तदिति ॥ दाशरथी रामः प्रसुप्तभुजगेन्द्र इव भीषणं भयंकरं तद्धनुर्वीक्ष्याददे जग्राह । वृषो ध्वजश्चिह्रं यस्य स शिवो येन धनुषा । क्रतुरेव मृगः। विद्रुतं पला-
यितं ऋतुमृगमनुसरति ॥ ताच्छील्ये णिनिः ॥ तं विद्रुतक्रतुमृगानुसारिणं बाणमसृजन्मुमोच ॥
आततेति ॥ स रामः संसदा सभया विस्मयेन स्तिमिते नेत्रे यस्मिन्कर्मणि तद्यथा स्यात्तथेक्षितः सन् । शैलस्येव सारो यस्य तच्छैलसारमपि धनुः । स्मरः पेशलं कोमलं पुष्पचापमिव । नातियत्नतो नातियत्नात् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ आततज्यमधिज्यमकरोत् ।।
भज्यमानमतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः।
भार्गवाय दृढमन्यवे पुनः क्षत्रमुद्यतमिव न्यवेदयत् ॥ ४६॥
भज्यमानमिति ॥ तेन रामेणातिमात्रकर्षणाद्भज्यमानमतएव वज्रपरुषस्वनम् । वज्रमिव परुषः स्वनो यस्य तत् । धनुः । कर्तृ । दृढमन्यवे दृढक्रोधाय ॥ "मन्युः क्रोधे क्रतौ देन्ये" इति विश्वः ॥ भार्गवाय क्षत्रं क्षत्रकुलं पुनरुद्यतं न्यवेदयदिव ज्ञापयामासेव ॥
दृष्टेति ॥ अथ मैथिलो जनको रुद्रकार्मुके दृष्टः सारः स्थिरांशो यस्य तद्दृष्टसारम् ॥ “सारो बले स्थिरांशे च" इति विश्वः ॥ वीर्यमेव शुल्कम् । धनुर्भङ्गरूपमित्यर्थः । अभिनन्द्य राघवाय रामायायोनिजां देवयजनसंभवां तनयां सीतां रूपिणीं श्रियमिव साक्षाल्लक्ष्मीमिव न्यवेदयदर्पितवान् । वाचेति शेषः ॥ उक्तमेवार्थं सोपस्कारमाह-
मैथिलः सपदि सत्यसंगरो राघवाय तनयामयोनिजाम् ।
संनिधौ द्युतिमतस्तपोनिधेर[४४]ग्निसाक्षिक इवातिसृष्टवान् ॥१०॥
मैथिल इति ॥ सत्यसंगरः सत्यप्रतिज्ञः ॥ “अथ प्रतिज्ञाजिसंविदापत्सु संगरः" इत्यमरः ॥ मैथिलो राघवायायोनिजां तनयां द्युतिमतस्तेजस्विनस्तपोनिधेः कौशिकस्य संनिधौ । अग्निः साक्षी यस्य सोऽग्निसाक्षिकः ॥ “शेषाद्विभाषा" इति
कप्प्रत्ययः ॥ स इव । सपद्यतिसृष्टवान्दत्तवान् ॥प्राहिणोदिति ॥ महाद्युतिर्जनको महितं पूजितं पुरोधसं पुरोहितं कोसला- धिपतये दशरथाय प्राहिणोत्प्रहितवांश्च ॥ किमिति । निमिर्नाम जनकानां पूर्वजः कश्चित् । इदं निमेः कुलं दुहितुः सीतायाः परिग्रहात्स्नुषात्वेन स्वीकाराद्धेतोः। भृत्यस्य भावो भृत्यत्वम् ॥ सोऽस्यास्तीति भृत्यभावि दिश्यतामनुमन्यतामिति ॥
अन्वियेषेति ॥ स दशरथश्च सदृशीमनुरूपां स्नुषामन्वियेष । रामविवाहमा- चकाङ्क्षेत्यर्थः ॥ अनुकूलवाक्स्नुषासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्चैनं दशरथं प्राप ॥ तथाहि । कल्पवृक्षफलस्य यो धर्मः सद्यःपाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि । अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि ॥ कर्मकर्तरि लट् ॥ स्वयमेव पक्वं भवतीत्यर्थः ॥ “कर्मवत्कर्मणा तुल्यक्रियः" इति कर्मवद्भावात् “भावकर्मणोः" इत्यात्मनेपदम् ॥
तस्य कल्पितपुरस्क्रियाविधेःशुश्रवान्वचनमग्रजन्मनः।
उच्चचाल बलभित्सखो व[४९]शी सैन्यरेणुमुषितार्कदीधितिः ॥५१॥
तस्येति ॥ बलभित्सख इन्द्रसहचरो वशी स्वाधीनतावान् ॥ वश आय- त्ततायां च" इति विश्वः ॥ कल्पितपुरस्क्रियाविधेः कृतपूजाविधेस्तस्याग्रजन्मनो द्विजस्य वचनं जनकेन संदिष्टं शुश्रुवाञ्छ्रुतवान् ॥ शृणोतेः क्वसुः ॥ सैन्यरेणुमुषि- तार्कदीधितिः सन्नुच्चचाल प्रतस्थे ।
आससाद मिथिलां स वेष्टयन्पीडितोपवनप[५०]दपां बलैः ।
प्रीतिरोधमसहिष्ट सा पुरी स्त्रीव कान्तपरिभोगमायतम् ॥५२॥
आससादेति ॥ स दशरथो बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वे- ष्टयन्परिधीकुर्वन् । आससाद । सा पुरी । स्त्री युवतिरायतमतिसक्तं कान्तपरि- भोगं प्रियसंभोगमिव । प्रीत्या रोधं प्रीतिरोधमसहिष्ट सोढवती ॥ द्वेषरोधं तु न सहत इति भावः॥
तौ समेत्य स[५१]मये स्थितावुभौ भूपती वरुणवासवोपमौ ।
कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः ॥५३॥
विदः"इत्यमरः ॥ वरुणवासवावुपमोपमानं ययोस्तौ तथोक्तौ । तावुभौ भूपती ज- नकदशरथौ समेत्य स्वप्रभावसदृशीमात्ममहिमानुरूपां कन्यकानां सीतादीनां तन- यानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुर्विस्तृतवन्तौ ॥ तनोतेर्लिट्॥
पा[५२]र्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम् ।
यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे ॥५४॥
पार्थिवीमिति ॥ उद्वहतीत्युद्वहः ॥ पचाद्यच् ॥ रघूणामुद्वहो रघूद्वहो रामः। पृथिव्या अपत्यं स्त्री पार्थिवी ॥ " तस्यापत्यम्" इत्यणि “ टिड्ढा-" इति ङीप्। तां सीतामुदवहत्परिणीतवान् ॥ अथ लक्ष्मणस्तस्याः सीताया अनुजां जनकस्यौ- रसीमूर्मिलामुदवहत् ॥ यौ वरौजसौ तयो रामलक्ष्मणयोरवरजावनुजातौ भरतश- त्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके माण्डवीं श्रुतकीर्तिं चो- दवहताम् ॥ नात्र व्युत्क्रमविवाहदोषो भिन्नोदरत्वात् ॥ तदुक्तम्- "पितृव्यपुत्रे सापत्न्ये परनारीसुतेषु च । विवाहाधानयज्ञादौ परिवेत्ताद्यदूषणम्" इति ॥
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूप[५३]रिग्रहाः।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥५५॥
त इति ॥ ते चतुर्थसहितास्त्रयः । चत्वार इत्यर्थः । वृत्तानुसारादेवमुक्तम् । सूनवो नववधूपरिग्रहाः । सिद्धिमन्तः फलसिद्धियुक्तास्तस्य भूपतेर्दशरथस्य सा- मदानविधिभेदनिग्रहाश्चत्वार उपाया इव । बभुः ॥ विधीयत इति विधिः । दान- मेव विधिः । निग्रहो दण्डः । सुनूनामुपायैर्वधूनां सिदिभिश्चौपम्यमित्यनुसंधेयम्॥
ता न[५४]राधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थताम् ।
सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोगसंनिभः॥५६॥
ता इति ॥ ता नराधिपसुता जनककन्यका नृपात्मजैर्दशरथपुत्रैः कृतार्थतां कुलशीलवयोरूपादिसाफल्यमगमन् । ते च ताभिस्तथा ॥ किंच । स वराणां व- धूनां च समागमः । प्रत्ययानां प्रकृतीनां च योग इव । संनिभातीति संनिभः । अभवत् ॥ पचाद्यच् ॥ प्रत्ययाः सनादयो येभ्यो विधीयन्ते ताः प्रकृतयः ॥ यथा प्रकृतिप्रत्यययोः सहैकार्थसाधनत्वं तद्वदत्रापीति भावः ॥
एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः ।
अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत ॥ ५७॥
५६-५७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः ।
सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ।। एवमिति । एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसंभवान्पुत्रां-
स्तत्र मिथिलायां निवेश्य विवाह्य ॥ “निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः
इति विश्वः ॥ त्रिष्वध्वसु प्रयाणेषु सत्सु विमृष्टमैथिलः सन् । स्वां पुरी न्यवर्तत।
उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥
तस्य जातु मरुतः प्रतीपगा व[५५]र्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनीमुत्तटा इव नदीरयाः स्थलीम् ॥५०॥
तस्येति ॥ जातु कदाचिद्वर्त्मसु ध्वजा एव तरवस्तान्प्रमथ्नन्ति ये ते ध्वज- तरुप्रमाथिनः प्रतीपगाः प्रतिकूलगामिनो मरुतः । उत्तटा नदीरयाः स्थलीमकृत्रि- मभूमिमिव ॥ “जानपदकुण्ड-" इत्यादिना ङीप् ॥ तस्य वरूथिनीं सेनां भृश- तया भृशं चिक्लिशुः क्लिश्यन्ति स्म ॥
लक्ष्यत इति ॥ तदनन्तरं प्रतीपपवनानन्तरं बद्धं भीमं परिवेशस्य परिधेर्म- ण्डलं यस्य सः ॥ “परिवेशस्तु परिधिरुपसूर्यकमण्डले" इत्यमरः ॥ रविः । वै- नतेयशमितस्य गरुडहतस्य भोगिनः सर्पस्य भोगेन कायेन ॥ " भोगः सुखे स्त्र्या- दिभृतावहेश्च फणकाययोः" इत्यमरः ॥ वेष्टितश्च्युतः शिरोभ्रष्टो मणिरिव । लक्ष्यते स्म ॥
श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः॥६०॥
श्येनेति ॥ श्येनपक्षा एव परिधूसरा अलका यासां तास्तथोक्ताः । सांध्यमे- घा एव रुधिरार्द्राणि वासांसि यासां तास्तथोक्ताः । रजो धूलिरासामस्तीति र- जस्वलाः ॥ " रजःकृष्यासुतिपरिषदो वलच्" इति वलच्प्रत्ययः ॥ दिशः। रज- स्वला ऋतुमत्योऽङ्गना इव । “स्याद्रजः पुष्पमार्तवम्" इत्यमरः । अवलोकनक्षमा दर्शनार्हा नो बभूवुः ॥ एकत्रादृष्टदोषादपरत्र शास्त्रदोषादिति विज्ञेयम् ॥ अत्र र- जोवृष्टिरुत्पात उक्तः॥
भास्करश्च दिशमध्युवास यां तां श्रिताः प्रतिभयं ववासिरे ।
क्षत्रशोणितपितृक्रियोचितं चो[५८]दयन्त्य इव भार्गवं शिवाः ॥६१॥
भास्कर इति ॥ भास्करो यां दिशमध्युवास च यस्यां दिश्युषितः । “उ- पान्वध्याङ्वसः" इति कर्मत्वम् ॥ तां दिशं श्रिताः शिवा गोमायवः ॥ “स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः" इत्यमरः ॥क्षत्रशोणितेन या पितृक्रिया पितृतर्पणं तत्रोचितं परिचितं भार्गवं चोदयन्त्य इव प्रतिभयं भयंकरं ववासिरे रुरुवुः॥ वासृ शब्दे " इति धातोर्लिट् ॥ “ तिरश्वां वासितं रुतम्" इत्यमरः॥
तदिति ॥ तत्पतीपपवनादि वैकृतं दुर्निमित्तं प्रेक्ष्य कृत्यवित्कार्यतः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरुं वसिष्ठमन्वयुङ्गापृच्छत् ।। ऽनुयोगः पृच्छा च " इत्यमरः ॥ स गुरुः स्वन्तं शुभोदकं भावीति तस्य राज्ञो व्यथामलघयल्लघुकृतवान् ।
तेजसः सपदि राशिरु[६१]त्थितः प्रादुरास किल वाहिनीमुखे ।
यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिरात् ॥६३॥
तेजस इति ॥ सपद्युत्थितस्तेजसो राशिर्वाहिनीमुखे सेनाग्रे प्रादुरास किल खलु । यः सैनिकैर्नयनानि प्रमृज्य चिराल्लक्षणीया भावनीया पुरुषाकृतिर्यस्य स तथोक्तः। अभूदिति शेषः ॥
पि[६२]त्र्यमंशमुपवीतलक्षणं मातृकं च धनुरूर्जितं दधत् ।
यः ससोम इव धर्मदीधितिः सद्विजित इव चन्दनद्रुमः ॥ ६४॥
पित्र्यमिति ॥ उपवीतं लक्षणं चिह्नं यस्य तम् । पितुरयं पित्र्यः॥ य्वृतुपित्रुषसो यत्" इति यत्प्रत्ययः ॥ तमंशम् । धनुषोर्जितं धनुरूर्जितम् । मातुरयं मातृकः ॥ “ऋतष्ठन्" इति ठञ्प्रत्ययः ॥ तमंशं च दधद्यो भार्गवः । ससोमश्चन्द्रयुक्तो धर्मदीधितिः सूर्य इव । मद्विजिहः ससर्पश्चन्दन दुम इव । स्थितः ।।
येन रोषपरुषात्मनः पितुः शासने स्थितिभिदोऽपि तस्थुषा ।
वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो म[६३]ही ॥६५॥
येनेति ॥ रोषपरुष आत्मा बुद्धिर्यस्य सः॥ "आत्मा जीवो धृतिर्बुद्धिः इत्यमरः ॥ तस्य रोषपरुपात्मनः स्थितिभिदोऽअपि मर्यादालङ्घिनोऽपि पितुः शासने
तस्थुषा स्थितेन वेपमानजननीशिरश्छिदा येन प्राग्घृणाजीयत । ततोऽनन्तरं महाजीयत ॥ मातृहन्तुः क्षत्रवधात्कृतो जुगुप्सेति भावः ॥ अक्षबीजवलयेन निर्बभौ दक्षिणश्रवणसंस्थितेन यः[६४]।
क्षत्रियान्तकरणेकविंशतेाजपूर्वगणनामिवोद्वहन् ॥ ६६ ।।
अक्षेति ॥ यो भार्गवो दक्षिणश्रवणे मंस्थितेनाक्षबीजवलयेनाक्षमालया क्षत्रि- यान्तकरणानां क्षत्रियवधानामेकविंशतेरेकविंशतिसंख्याया व्याजोऽक्षमालारूपः पूर्वो यस्यास्तां गणनामुगृहन्निव निर्बभौ ॥
तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितम् ।
बालसनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिव ॥६॥
तमिति ॥ पितुर्जमदग्नेर्वधभवेन क्षत्रियकर्तृकवधोद्भवेन मन्युना कोपेन राजवं- शानां निधनाय नाशार्थम् ॥ “निधनं स्यात्कुले नाशे” इति विश्वः ॥ दीक्षितम् । प्रवृत्तमित्यर्थः । तं भार्गवं स्वां दशां चावलोक्य बाला: मूनवो यस्य स पार्थिवो विषसाद ॥ स्वस्यातिदौर्बल्याच्छतोश्चातिक्रोधात्कांदिशीकोऽभवदित्यर्थः ॥
ना[६५]म राम इति तुल्यमात्मजे वर्तमानमहिते च दारुणे।
हृद्यमस्य भयदायि चाभवद्रत्नजातमिव हारसर्पयोः॥ ६८॥
नामेति ॥ आत्मजे पुत्रे दारुणे घोरेऽहिते शत्रौ च तुल्यमविशेषेण वर्तमान राम इति नाम । हारसर्पयोर्वर्तमानं रत्नजातं रत्नजातिरिव । अस्य दशरथस्य हृधं हृदयंगमं भयदायि भयंकरं चाभवत् ॥
अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः।
क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ॥ ६९॥
अर्ध्यमिति ॥ स भार्गवः । अर्घ्यमय॑मिति वादिनं नृपमनवेक्ष्य । यतो यत्र भरताग्रजस्ततस्तत्र ॥ “इतराभ्योऽपि दृश्यन्ते" इति सार्वविभक्तिकस्तसिः॥ क्षत्रे क्षत्रकुले विषये यः कोपदहनो रोषानिस्तस्याचिषं ज्वालामिव स्थिताम् ॥ ज्वालाभासोर्न पुंस्यचिः" इत्यमरः ॥ उदग्रा तारका कनीनिका यस्यास्ताम् ॥ तारकाक्ष्णः कनीनिका" इत्यमरः ॥ दृशं संदधे ॥
तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः ।
अगलीविव[६६]रचारिणं शरं कुर्वता निजगदे युयुत्सुना ॥ ७० ॥
तेनेति ॥कार्मुकनिषक्तमुष्टिना । शरमङ्गुलीविवरचारिणं कुर्वता । योद्धुमिच्छता युयुत्सुना । तेन भार्गवेण ! कर्त्रा। विगतभीनिर्भीकः सन् । पुरोगतोऽग्रगतो राघवो निजगद उक्तः॥ कर्मणि लिट् ॥
क्षत्रेति ॥क्षत्रजातं क्षत्रजातिर्मेऽपकारेण पितृवधरूपेण वैरि द्वेषि । तत्क्षत्रजातं बहुश एकविंशतिवारानिहत्य शमं गतोऽस्मि ॥ तथापि सुप्तसो दण्डघटनादिव तव विक्रमस्य श्रवादाकर्णनाद्रोषितो रोषं प्रापितोऽस्मि ॥
मैथिलस्य धनुरन्यपार्थिवैस्वं किलानमितपूर्वम[६९]क्षणोः।
तन्निशम्य भवता समर्थये वीर्यशृङ्गमिव भग्नमात्मनः ॥७२॥
मैथिलेति ॥ अन्यैः पार्थिवैः । अनमितपूर्व पूर्वम मतम् ॥ मुप्मुपैति समासः ॥ अस्य मैथिलस्य धनुस्त्वमक्षणोः क्षतवान् । किलेति वार्तायाम् ॥ “वार्ता संभाव्ययोः किल" इत्यमरः ॥ तद्धनुर्भनं निशम्याकर्ण्य भवतात्मनो मम वीर्यमेव शृङ्गं भममिव समर्थये मन्ये ।।
अन्यदा ज[७०]गति राम इत्ययं शब्द उच्चरित एव मामगात् ।
व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि ॥७३॥
अन्यदेति ॥ अन्यदान्यस्मिन्काले जगति राम इत्ययं शब्द उच्चरितः सन्मामेवागात् ॥ संप्रति त्वय्युदयोन्मुखे सति व्यस्तत्तिविपरीतत्तिः । अन्यगामीति यावत् । स शब्दो मे व्रीडमावहति लज्जां करोति ॥
बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितं द्वौ रिपू मम मतौ समागसौ ।
धे[७१]नुवत्सहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतः ॥ ७४ ॥
बिभ्रत इति ॥ अचले क्रौञ्चादावप्यकुण्ठितमस्त्रं बिभ्रतो मम द्वौ समागसौ तुल्यापराधी रिपू मतौ । धेनोः पितृहोमधेनोर्वत्सस्य हरणाद्धेतोर्हैहयः कार्तवीर्यश्च च । कीर्तिमपहर्तुमुद्यत उद्युक्तस्त्वं च ॥ वत्सहरणे भारतश्लोकः--"प्रमत्तश्चाश्रमात्तस्य होमधेन्वास्ततो बलात् । जहार वत्सं क्रोशन्त्या अभञ्ज च महाद्रुमान्" इति।।
क्षत्रियान्तकरणोऽपि विक्रमस्तेन मामवति नाजिते त्वयि ।
पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥७५॥
क्षत्रियोति ॥ तेन कारणेन । क्रियते येनासौ करणः। क्षत्रियान्तस्य करणाऽपि विक्रमः । त्वय्यजिते । मां नावति न प्रीणाति । तथाहि । पावकस्याग्नेर्महिमा स गण्यते यः कक्षवत्कक्ष इव ॥ तत्र तस्यैव" इति सप्तम्यर्थे वतिः॥
सागरे&पि ज्वलति॥ विद्धि चा[७२]त्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुममम्॥ ७६ ॥
विद्धीति॥ किंच । ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च विद्धि । यद्धनुस्त्वयाभाज्यभञ्जि ॥ "भञ्जेश्च चिणि" इति विभाषया नलोपः ॥ तथाहि । नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति ॥ ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ॥
तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥७७॥
तदिति ॥ तत्तस्मान्मदीयमिदमायुधं कार्मुकं ज्यया संगमय्य संयोज्य ॥ "ल्यपि लघुपूर्वात्" इति णेरयादेशः॥ सशरं यथा तथा त्वया विकृष्यताम् । प्रधनं रणस्तिष्ठतु । प्रधनं तावदास्तामित्यर्थः ॥ "प्रधनं मारणे रणे" इति विश्वः ॥ एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन ॥ "तरसी बलरंहसी" इत्यमरः ॥ त्वया जितः ॥
कातरोऽसि यदि वो[७३]द्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलिः ॥७८॥
कातर इति ॥ यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि । वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थना ञ्जलिर्बध्यताम् ॥ "तौ युतावञ्जलिः पुमान्" इत्यमरः॥
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥७९॥
एवमिति ॥ भीमदर्शने भार्गव एवमुक्तवति सति । राघवः स्मितेन हासेन विकम्पिताधरः सन् । तद्धनुग्रहणमेव समर्थमुचितमुत्तरं प्रत्यपद्यताङ्गीचकार ।
पूर्वेति॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत् ॥ तथाहि । नवाम्बुदः केवलो रिक्तोऽतिसुभगः । त्रिदशचापेनेन्द्रधनुषा लञ्छितश्चिह्नितः किं पुनः । सुभग एवेति भावः॥तेनेति ॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत् । कर्मणे प्रभवतीति कार्मुकं धनुश्च ॥ "कर्मण उकञ्" इत्युकञ्प्रत्ययः॥ अधिरोपितम् । भूभृतां रिपुर्भार्गवश्च । धूमशेषो धूमकेतनोऽग्निरिव । निष्पभो निस्तेजस्क आस बभूव ॥ आसेति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा ॥
तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ।
पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥८२॥
ताविति ॥ परस्परस्थितावन्योन्याभियुक्तौ । वर्धमानं च परिहीनं चेति द्वन्द्वः । वर्धमानपरिहीने तेजसी ययोस्तावुभौ राघवभार्गवावपि । दिनात्यये सायंकाले पर्वणि भवौ पार्वणौ शशिदिवाकराविव । जनता जनसमूहः ॥ "ग्रामजनबन्धुसहायेभ्यस्तल" इति तल्प्रत्ययः ॥ पश्यति स्मापश्यत् ॥ अत्र राघवस्य शशिना भार्गवस्य भानुनौपम्यं द्रष्टव्यम् ॥
तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि ।
स्वं च संहितम[७८]मोघमाशुगं व्याजहार हरसूनुसंनिभः ॥ ८३ ॥
तमिति ॥ हरसूनुसंनिभः स्कन्दसमः कृपामृदू राघवः । आत्मनि विषये स्खलितवीर्यं कुण्ठितशक्तिं तं भार्गवं स्वं स्वकीयं संहितममोघमाशुगं बाणं चावेक्ष्य । व्याजहार बभाषे ॥
न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि ।
शंस किं गतिमनेन पत्रिणा हन्मि लोकमु[७९]त ते मखार्जितम् ॥८१॥
नेति ॥ अभिभवत्यपि त्वयि । विप्र इति हेतोः। निर्दयं प्रहर्तुमलं शक्तो नास्मि । किंत्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि । उत मखार्जितं लोकं स्वर्गं हन्मि शंस ब्रूहि ॥
प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनम् ।
गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा ॥८५॥
भस्मसात्कृतवतः पितृद्विषः पा[८०]त्रसाच्च वसुधां ससागराम् ।
आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥८६॥
भस्मसादिति ॥ पितृद्विषः पितृवैरिणो भस्मसात्कृतवतः कोपेन भस्मीकुर्वतः॥ "विभाषा सातिकार्त्स्न्ये " इति सातिप्रत्ययः ॥ ससागरां वसुधां च पात्रसात्पात्राधीनं देयं कृतवतः ॥ "देये त्रा च" इति चकारात्सातिः ॥ कृतकृत्यस्य मे परमेष्ठिना परमपुरुषेण त्वयाहितः कृतो जयविपर्ययः पराजयोऽपि श्लाघ्य आशास्य एव
तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे ।
पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलपम् ॥८७॥
तदिति ॥ तत्तस्मात्कारणाद्धे मतिमतां वर पुण्यतीर्थगमनायाभुमिष्टामीप्सितां मे गति रक्ष पालय । किंतु खिलीकृता दुर्गमीकृतापि खर्गपद्धतिरभोगलोलुपं भोगनिःस्पृहं मां न पीडयिष्यति । अतस्तामेव जहीत्यर्थः॥
प्रत्यपद्यत तथेति राघवः प्रा[८१]ङ्मुखश्च विससर्ज सायकम् ।
भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः॥८८॥
प्रत्यपद्यतेति ॥ राघवस्तथेति प्रत्यपद्यताङ्गीकृतवान् । प्राङ्मुख इन्द्रदिङ्मुखः सायकं विससर्ज च । स सायकः सुकृतोऽपि साधुकारिणोऽपि॥करोतेः क्विप् ५॥ भार्गवस्य दुरत्ययो दुरतिक्रमः स्वर्गमार्गस्य परिघः प्रतिबन्धोऽभवत् ॥
राघवोऽ[८२]पि चरणौ तपोनिधेः क्षम्यतामिति वदन्समस्पृशत् ।
निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये ॥ ८९॥
राघव इति ॥ राघवोऽपि क्षम्यतामिति वदस्तपोनिधेर्भार्गवस्य चरणौ समस्पृशत्मणनाम ॥ तथाहि । तरस्विनां बलवतां तरसा बलेन निर्जितेषु शत्रुषु प्रणतिरेव कीर्तये । भवतीति शेषः॥
राजसत्वमिति॥मातुरागतं मातृकं राजसत्वं रजोगुणप्रधानत्वमवधूय पितुरागतं पित्र्यं शमं यदा गमितोऽस्मि । तदा त्वया ममापेक्षितत्वादनिन्दितमगर्हितं फलं स्वर्गहानिलक्षणं यस्य सोऽयं निग्रहोऽपकारोऽप्यनुग्रहीकृतो ननूपकारीकृतः खलु॥
१ २ ३ ४ ५ ६ ७ सा[८७]धयाम्यहमविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः।
ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजमृषिस्तिरोदधे ॥९॥
साधयामीति ॥ अहं साधयामि गच्छामि । देवकार्यमुपपादयिष्यतः संपादयिष्यतस्तेऽविघ्नमस्तु विघ्नाभावोऽस्तु ॥ “अव्ययं विभक्ति-" इत्यादिनार्थाभावेऽव्ययीभावः ॥ सह लक्ष्मणेन सलक्ष्मणः । तम् ॥ " तेन सहेति तुल्ययोगे" इति बहुव्रीहिः ॥ लक्ष्मणाग्रजं राममिति वच अचिवानुक्तवान् ॥ ब्रूञः क्वसुः॥ ऋषिस्तिरोदधेऽन्तर्दधे ॥
तस्मिन्गते विजयिनं परिरभ्य रामं
स्नेहादमन्यत पिता पुनरेव जातम् ।
तस्याभवत्क्षणशुचः परितोषलाभः
कक्षामिलजिततरोरिव वृष्टिपातः ॥ ९२ ॥
तस्मिन्निति ॥ तस्मिन्भार्गवे गते सति । विजयिनं रामं पिता स्नेहापरिरभ्यालिङ्गय पुनर्जातमेवामन्यत ॥ क्षणं शुग्यस्येति विग्रहः । क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषपातिः । कक्षाग्निना दावानलेन । कक्षः शुष्ककाननवीरुधोः" इति विश्वः ॥ लचितस्याभिहतस्य तरोदृष्टिपात इव । अभवत् ॥
अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये
कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुरमविशदयोध्यां मैथिलीदर्शनीनां
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ ९३ ॥
अथेति ॥ अथ । ईषदसमाप्तः शर्वः शर्वकल्पः ॥ " ईषदसमाप्तौ-" इति कल्पप्पत्ययः॥ अवनिपालः कप्ता रम्या नवा उपकार्या यस्मिन्स तस्मिन्पथि क तिचिच्छवरी रात्रीगमयित्वा मैथिलीदर्शनीनामङ्गनानां लोचनैः कुवलयानि येषां संजातानि कुवलयिताः॥ “तदस्य संजातं तारकादिभ्य इतच्" इतीतच्मत्ययः॥ कुवलयिता गवाक्षा यस्यास्तां पुरमयोध्यामविशत्मविष्टवान् ॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
सीताविवाहवर्णनो नामैकादशः सर्गः ।
- ↑ मेदिनीपतिः.
- ↑ सत्क्रियाम्.
- ↑ तावता.
- ↑ विहिता.
- ↑ सान्द्रपुष्प.
- ↑ प्रयास्यतोः.
- ↑ शिखण्डिकौ.
- ↑ वशप्रवर्तिनौ.
- ↑ विकचपद्मशोभिनाम्।
- ↑ न च.
- ↑ स्थलनिवेशताटनी; स्थलनिवेशिताटिनी.
- ↑ अनुगृह्णती.
- ↑ ताटका.
- ↑ उग्रगन्धया.
- ↑ ताटकोरसि.
- ↑ केवलम्.
- ↑ ताटकान्तकः.
- ↑ दर्शनोत्सुक.
- ↑ ताटकासुतम्.
- ↑ विससर्ज .
- ↑ पक्षिणाम् .
- ↑ वाग्जितस्य.
- ↑ अवभृथप्लुतः.
- ↑ या.
- ↑ सकलकल्मषच्छिदाम्.
- ↑ ऋषिम्,
- ↑ सहितः.
- ↑ स पर्ययात्.
- ↑ दुरासदम् .
- ↑ साहसम् .
- ↑ कृतं गिरा,
- ↑ इत्थम्।
- ↑ गोपलाञ्छने.
- ↑ आदिदेश.
- ↑ सः.
- ↑ कार्मुकस्य हरणाय.
- ↑ प्रेक्ष्य.
- ↑ आत्तसज्जम्.
- ↑ च.
- ↑ कोमलम्.
- ↑ पार्थिवः; स्वां ददौ
- ↑ इति.
- ↑ अमरद्युतिः.
- ↑ अग्निसाक्षिकम्.
- ↑ महाद्युतिम्,
- ↑ इष्यताम्.
- ↑ सत्यम्.
- ↑ कल्पवृक्षसमधर्मकाङ्क्षितम्.
- ↑ बली.
- ↑ पादपैः.
- ↑ समयस्थितौ.
- ↑ मैथिलीम्,
- ↑ परिग्रहात्.
- ↑ च पार्थिवसुताः-
- ↑ वर्त्मनि.
- ↑ परिवेष.
- ↑ भोगवेष्टन:-
- ↑ नोदयन्त्यः; प्रेरयन्त्यः.
- ↑ मरुतादि.
- ↑ क्षिप्रशान्तम् ; क्षिप्रशान्त्यम् .
- ↑ उच्छिखः.
- ↑ पित्र्यवंशम्
- ↑ क्षिति:
- ↑ सः.
- ↑ रामनाम:.
- ↑ विवरवर्तिनम्.
- ↑ अपकारि वैरि.
- ↑ उद्यतः; उत्थितः
- ↑ अक्षिणो:.
- ↑ जयति.
- ↑ तातधेनुहरणात् .
- ↑ आत्तरसम्
- ↑ च
- ↑ शुभदर्शन:
- ↑ लाञ्छनः
- ↑ भूमिनिहतैककोटि तत्; भूमिनिहितैककोटिना
- ↑ प्राप वर्णविकृति च भार्गवो वृष्टिधौत इव पासवध्वजः
- ↑ अवन्ध्यम्
- ↑ अथ
- ↑ विप्प्रसात्.
- ↑ प्राङ्मुखम् .
- ↑ अथ.
- ↑ यतः.
- ↑ फले.
- ↑ मयि.
- ↑ अनुग्रहः कृतः.
- ↑ साधु यामि.