लघुसिद्धान्तकौमुदी/कर्मकर्तृप्रकिया
दिखावट
(कर्मकर्तृप्रकिया इत्यस्मात् पुनर्निर्दिष्टम्)
← भावकर्मप्रकिया | लघुसिद्धान्तकौमुदी कर्मकर्तृप्रकिया वरदराजः |
लकारार्थप्रकिया → |
अथ कर्मकर्तृप्रक्रिया
यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः॥
कर्मवत्कर्मणा तुल्यक्रियः॥ लसक_७६३ = पा_३,१.८७॥
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात्। कार्यातिदेशो ऽयम्। तेन यगात्मनेपदचिण्वदिटः स्युः। पच्यते फलम्। भिद्यते काष्ठम्। अभेदि। भावे, भिद्यते काष्ठेन॥
इति कर्मकर्तृप्रक्रिया॥