रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/चतुर्थः सर्गः(रघुदिग्विजयः)

विकिस्रोतः तः
← तृतीयः सर्गः(रघुराज्याभिषेकः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
चतुर्थः सर्गः(रघुदिग्विजयः)
कालिदासः
पञ्चमः सर्गः(अजस्वयंवराभिगमनः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

चतुर्थः सर्गः।


   शारदा शारदाम्भोजवदना वदनाम्बुजे ।
   सर्वदा सर्वदास्माकं सन्निधिं संनिधिं क्रियात् ॥

  स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ।
  दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १ ॥

 स इति ॥ स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् ॥ पुरोहितादित्वाद्यक् ॥ प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽनिरिव । अधिकं बभौ ॥ “सौर तेजः सायमग्निं संक्रमते । आदियो वा अस्तं यनग्निमनुमविशति । अग्नि वा आदिसः सायं प्रविशति" इत्यादिश्रुतिः प्रमाणम् ।।

  दि[१]लीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
  पूर्वं प्र[२]धूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥२॥

 दिलीपेति ॥दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्य पूर्वं

\ दिलीपकाले राजा हृदये प्रकर्षेण धूमोऽस्य संजातः प्रधूमितोऽग्निः संतापाग्निरुत्थित इव प्रज्वलित इव । पूर्वेभ्योऽधिकसंतापोऽभूदित्यर्थः।। राजकर्तृकस्यापि निशमनस्याग्नावुपचरान्न समानकर्तृकत्वविरोधः ॥

  पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः।
  नवाभ्युत्थानदर्षिन्यो ननन्दुः स[३]प्रजाः प्रजाः॥३॥

 पुरुहूतेति ॥ पुरुहूतध्वज इन्द्रध्वजः ॥ स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-“एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर। पर्जन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः" इति । “चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम् । आहुः शक्रध्वजं नाम पौरलोकसुखावहम्" ॥ पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः । उदूर्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजा जनाः ॥"प्रजा स्यात्संततौ जने" इत्युभयत्राप्यमरः ॥ ननन्दुः ॥

  सममेव समाक्रान्तं द्वयं द्विरदगामिना ।
  तेन सिंहासनं पि[४]त्र्यमखिलं चारिमण्डलम् ॥४॥

 सममिति ॥ द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामिना ॥ “कर्तर्युपमाने" इति “सुप्यजातौ-" इति च णिनिः ॥ तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम् ॥ किं तद्वयम् ॥ पितुरागतं पित्र्यम् ॥ “पितुर्यत्" इति यत्प्रत्ययः॥ सिंहासनम् । अखिलमरीणां मण्डलं राष्ट्रं च ॥

 अथ सिंहासनारोहणानन्तरं तस्य लक्ष्मीसंनिधानमाह-

  छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
  पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥५॥

 छायेति॥ अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते- पद्मा लक्ष्मीः ॥ " लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया" इत्यमरः । सा स्वयमदृश्या किल । किलेति संभावनायाम् । सती छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन । न तु स्वरूपतो दृश्येन ॥ छायामण्डलमित्यनेनानातपज्ञानं लक्ष्यते॥ “छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्युभयत्राप्यमरः। पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे । अन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः॥  संप्रति सरस्वती सांनिध्यमाह-

  परिकल्पितसांनिध्या काले काले च बन्दिषु ।
  स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥६॥

 परिकल्पितेति ॥ सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु॥"नित्यवीप्सयोः" इति वीप्सायां द्विर्वचनम् ॥ बन्दिषु परिकल्पितसांनिध्या कृतसंनिधाना सती स्तुत्यं स्तोत्रार्हं तं रघुम् । अर्थ्याभिरर्थादनपेताभिः ॥ “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ स्तुतिभिः स्तोत्रैरुपतस्थे । देवताबुद्ध्या पूजितवतीत्यर्थः ॥ देवतात्वं च “ना विष्णुः पृथिवीपतिः" इति वा लोकपालात्मकत्वाद्वेत्यनुसंधेयम् ॥ एवं च सति “उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु" इति वक्तव्यादात्मनेपदं सिध्द्यति ॥

  मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
  तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा॥७॥

 मन्विति ॥ वसुंधरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्युक्ता यद्यपि। भुक्तैवेत्यर्थः ॥ यद्यपीत्यवधारणे ॥ “अप्यर्थे यदिवार्थे स्यात्" इति केशवः ॥ तथापि तस्मिन्राज्ञि । अन्यः पूर्वो यस्याः सान्यपूर्वा । अन्यपूर्वा न भवतीत्यनन्यपूर्वा । अनन्योपभुक्तेवासीत् । तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः ।।

 अत्र कारणमाह-

  स हि सर्वस्य लोकस्य युक्तदण्डतया मनः।
 आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥८॥

 स इति ॥ हि यस्मात्कारणात्स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन आददे जहार । क इव । अतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ दक्षिणो दक्षिणदिग्भव नभस्वान्वायुरिव । मलयानिल इवेत्यर्थः ॥ युक्तदण्डतयेत्यत्र कामन्दक:- उद्वेजयति तीक्ष्णेन मृदुना परिभूयते । दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते" इति।।

  मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ।
  फलेन सहकारस्य पुष्पोद्गम इव प्रजाः॥९॥

 मन्देति ॥ तेन रघुणा प्रजा गुरौ दिलीपविषये । सहकारोऽतिसौरभश्चूतः ॥ "आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः" इत्यमरः ॥ तस्य फलेन पुष्पोद्गमे पुष्पोदय इव ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पौत्सुक्याः कृताः।

गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः॥

  नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् ।
  पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः॥१०॥

 नयविद्भिरिति ॥ नयविद्भिर्नीतिशास्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये । तमधिकृत्येत्यर्थः । सद्धर्मयुद्धादिकमसत्कूटयुद्धादिकं चोपदर्शितम् । तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत् । संक्रान्त इत्यर्थः ॥ उत्तरः पक्षो नाभवत् । न संक्रान्त इत्यर्थः ॥ तत्र सदसतोर्मध्ये सदेवाभिमतं नासत् । तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः ।। पक्षः साधनयोग्यार्थः । “पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु" इति केशवः ॥

  पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः ।
  नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ ११॥

 पश्चानामिति ॥ पृथिव्यादीनां पञ्चानां भूतानामपि गुणा गन्धादय उत्कर्षमतिशयं पुपुषुः ॥ अत्रोत्प्रेक्षते--तस्मिन्रघौ नाम नवे महीपाले सति सर्वं वस्तुजातं नवमिवाभवत् । तदेव भूतजातमिदानीमपूर्वगुणयोगादपूर्वमिवाभवदिति भावः ।।

  यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा।
  तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ १२ ॥

 यथेति॥ यथा चन्दयतीत्याह्लादयतीति चन्द्र इन्दुः॥ चदिधातोरौणादिको रप्रत्ययः॥ प्रह्लादनादाह्लादकरणादन्वर्थोऽनुगतार्थनामकोऽभूत् । यथा च तपतीति तपनः सूर्यः॥ नन्द्यादित्वाल्ल्युप्रत्ययः ॥ प्रतापात्संतापजननादन्वर्थः । तथैव स राजा प्रकृतिरञ्जनादन्वर्थः सार्थकराजशब्दोऽभूत् ॥ यद्यपि राजशब्दो राजतेर्दीप्यर्थात्कनिन्प्रत्ययान्तो न तु रञ्जेस्तथापि धातूनामनेकार्थत्वाद्रञ्जनाद्राजेत्युक्तं कविना।।

  कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने।
  चतुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थद[५]र्शिना ॥ १३ ॥

 काममिति ॥ विशाले तस्य रघोर्लोचने कामं कर्णान्तयोर्विश्रान्ते कर्णप्रान्तगते ॥ चक्षुष्मत्ता तु। चक्षुःफलं त्वित्यर्थः । सूक्ष्मान्कार्यार्थान्कर्तव्यार्थान्दर्शयति प्रकाशयतीति सूक्ष्मकार्यार्थदर्शिना शास्त्रेणैव ॥ शास्त्रं दृष्टिर्विवेकिनामिति भावः ।।

  [६]ब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।
  पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ १४ ॥

 लब्धेति ॥ अथ लब्धस्य राज्यस्य प्रशमनेन परिपन्थिनामनुरञ्जनप्रतीकाराभ्यां स्थिरीकरणेन स्वस्थं समाहितचित्तमेनं रघुं पङ्कजलक्षणा पद्मचिह्ना । श्रियोऽपि विशेषणमेतत् । शरत् । द्वितीया पार्थिवश्री राजलक्ष्मीरिव । समुपस्थिता प्राप्ता ।। 'रक्षा पौरजनस्य देशनगरग्रामेषु गुप्तिस्तथा योधानामपि संग्रहोऽपि तुलया मानव्यवस्थापनम् । साम्यं लिङ्गिषु दानवृत्तिकरणं त्यागः समानेऽर्चनं कार्याण्येव महीभुजां प्रशमनान्येतानि राज्ये नवे" ॥

  नि[७]र्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः ।
  प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः॥ १५॥

 निवृष्टेति ॥ निःशेषं वृष्टा निर्वृष्टाः ॥ कर्तरि क्तः । अत एव लघवः । तैर्मेघैर्मुक्तवर्त्मा त्यक्तमार्गः । अत एव सुदुःसहः । तस्य रिपोर्भानोश्च प्रतापः पौरुषमातपश्च ॥ “प्रतापौ पौरुषातपौ" इति यादवः ॥ युगपद्दिशो व्यानशे व्याप ।

  वा[८]र्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ ।
  प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥ १६ ॥

 वार्षिकमिति ॥ इन्द्रः । वर्षासु भवं वार्षिकम् । वर्षानिमित्तमित्यर्थः ॥ “वर्षाभ्यष्टक्" इति उक्प्रत्ययः ॥ धनुः संजहार ॥ रघुजैत्रं जयशीलम् ॥ जेतृशब्दात्तृन्नन्तात् "प्रज्ञादिभ्यश्च" इति स्वार्थेऽण्प्रत्ययः॥ धनुर्दधौ ॥ हि यस्मात्ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य दृष्टिविजयलक्षणस्य साधनविषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ ॥ “पर्यायोद्यमविश्रमौ" इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तौ पर्यायोद्यमविश्रमौ । द्वयोः पर्यायकरणादक्लेश इति भावः।

  पुण्डरीकातपत्रस्तं वि[९]कसत्काशचामरः ।
  ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ १७॥

 पुण्डरीकेति ॥ पुण्डरीकं सिताम्भोजमेवातपत्रं यस्य स तथोक्तः । विकसन्ति काशानि काशाख्यतृणकुसुमान्येव चामराणि यस्य स तथोक्तः । ऋतुः शरदृतुः पुण्डरीकनिभातपत्रं काशनिभचामरं तं रघुं विडम्बयामासानुचकार ॥ तस्य रघोः श्रियं पुनः शोभां तु न प्राप ॥ "शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते' इति शाश्वतः॥

  प्रसादसुमुखे तस्मिश्चन्द्रे च विशदप्रभे।
  तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः॥१८॥

 प्रसादेति॥प्रसादेन सुमुखे तस्मिन्रघौ विशदप्रभे निर्मलकान्तौ चन्द्रे च द्वयोविषये तदा चक्षुष्मतां प्रीतिरनुरागः समरसा समस्वादा । तुल्यभोगेति यावत् ॥ "रसो गन्धे रसः स्वादे" इति विश्वः ॥ आसीत् ।।

  हंसश्रे[१०]णीषु तारासु कुमुद्वत्सु च वारिषु ।
  विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ १९॥

 हंसेति ॥ हंसानां श्रेणीषु पङ्क्तिषु । तारासु नक्षत्रेषु । कुमुदानि येषु सन्तीति कुमुद्वन्ति । कुमुद्वान्कुमुदप्रायः इत्यमरः ॥ कुमुदनडवेतसेभ्यो ड्मतुप्" तेषु । कुमुदप्रायेष्वित्यर्थः । वारिषु च तदीयानां रघुसंबन्धिनां यशसां विभूतयः संपदः पर्यस्ता इव प्रसारिताः किम् । इत्युत्प्रेक्षा ॥ अन्यथा कथमेषां धवलिमेति भावः॥

  [११]क्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
  आकुमारकथोध्दातं शालिगोप्यो जगुर्यशः॥२०॥

 इक्ष्विति ॥ इक्षूणां छायेश्क्षुच्छायम् ॥ “छाया बाहुल्ये" इति नपुंसकत्वम् ।। तत्र निषण्णा इक्षुच्छायनिषादिन्यः ॥ “इक्षुच्छायानिषादिन्यः" इति स्त्रीलिङ्गपाठ इक्षोच्छायेति विग्रहः। अन्यथा बहुत्वे नपुंसकत्वप्रसङ्गात् ॥ शालीन्गोपायन्ति रक्षन्तीति शालिगोप्यः सस्यपालिकाः स्त्रियः ॥ “कर्मण्यण्" । " टिड्ढाण-" इत्यादिना ङीप् ॥ गोप्तू रक्षकस्य तस्य रघोः । गुणेभ्य उदयो यस्य तद्गुणोदयं गुणोत्पन्नमाकुमारं कुमारादारभ्य कथोद्धातः कथारम्भो यस्य तत् । कुमारैरपि स्तूयमानमित्यर्थः । यशो जगुर्गायन्ति स्म ॥ अथवा कुमारस्य सतो रघोर्याः कथा इन्द्रविजयादयस्तत आरभ्याकुमारकथम् ॥ तत्राप्यभिविधावव्ययीभावः ॥ आकुमारकथमुद्धातो यस्मिन्कर्मणि । गानक्रियाविशेषणमेतत् ।। स्यादभ्यादानमुद्धात आरम्भः" इत्यमरः॥ आकुमारकथोद्भूतम्" इति पाठे कुमारस्य सतस्तस्य कथाभिश्चरितैरुद्भूतं यद्यशस्तद्यश आरभ्य यशो जगुरिति व्याख्येयम् ।।

  प्रससादोदयादम्भः कुम्भयोनेर्महौजसः ।
  रघो[१२]रभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ २१ ॥

 प्रससादेति ॥ महौजसः कुम्भयोनेरगस्त्यस्य ॥ “अगस्त्यः कुम्भसंभवः" इत्यमरः ॥ उदयादम्भः प्रससाद प्रसन्नं बभूव ॥ महौजसो रघोरुदयादभिभवाशङ्किद्विषतां मनश्चुक्षुभे कालुष्यं प्राप ॥ “अगस्त्योदये जलानि प्रसीदन्ति" इत्यागमः॥

  मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः।
  लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ २२ ॥

 मदेति ॥ मदोदग्रा मदोद्धताः । ककुदेषामस्तीति ककुद्मन्तः । महाककुद इत्यर्थः॥ यवादित्वान्मकारस्य वत्वाभावः । सरितां कूलान्युद्रुजन्तीति कूलमुद्रुजाः। "उदि कूले रुजिवहोः" इति खश्प्रत्ययः ॥ "अरुर्द्विष-" इत्यादिना मुमागमः॥ महान्त उक्षाणो महोक्षाः॥ "अचतुर- " इत्यादिना निपातनादकारान्तः ॥ लीलाखेलं विलाससुभगं तस्य रघोरुत्साहवतो वपुष्मतः परभञ्जकस्य विक्रमं शौर्यमनुप्रापुरनुचक्रुः॥

  प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः।
  असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥ २३ ॥

 प्रसवैरिति ॥ मदस्येव गन्धो येषां तैर्मदगन्धिभिः ॥ “उपमानाच्च" इतीकारः समासान्तः ॥ सप्तपर्णानां वृक्षविशेषाणाम् ॥ “सप्तपर्णो विशालत्वक्शारदो विषमच्छदः" इत्यमरः ॥ प्रसवैः पुष्पैराहतास्तस्य रघोर्नागा गजाः ॥“गजेऽपि नागमातङ्गौ” इत्यमरः ॥ असूययेवाहतिनिमित्तया स्पर्धयेव सप्तधैव प्रसुस्रुवुर्मदं ववृषुः। प्रतिगजगन्धाभिमानादिति भावः ॥ “करात्कटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः" इति पालकाव्ये । करान्नासारन्ध्राभ्यामित्यर्थः॥

  सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् ।
  यात्रायै चोद[१३]यामास तं शक्तेः प्रथमं शरत् ॥२४॥

 सरित इति ॥ सरितो गाधाः सुप्रतराः कुर्वती। पथो मार्गाश्चाश्यानकर्दमाञ्शुष्कपङ्कान्कुर्वती ॥“संयोगादेरातो धातोर्यण्वतः" इति श्यतेर्निष्ठातस्य नत्वम् ॥ शरच्छरदृतुस्तं रघु शक्तेरुत्साहसशक्तेः प्रथमं प्राग्यात्रायै दण्डयात्रायै चोदयामास प्रेरयामास ॥ प्रभावमन्त्रशक्तिसंपन्नस्य शरत्स्वयमुत्साहमुत्पादयामासेत्यर्थः ।।

  [१४]स्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ ।
  प्रदक्षिणार्चिर्व्याजेन हस्तेनेव[१५] जयं ददौ ॥२५॥

 तस्मा इति ॥ वाजिनामश्वानां नीराजनाविधौ नीराजनाख्ये शान्तिकर्मणि सम्यग्विधिवध्दुतो होमसमिद्धो वह्निः । प्रगता दक्षिणं प्रदक्षिणम् ॥ तिष्ठद्रुप्रभृतित्वादव्ययीभावः॥ प्रदक्षिणं यार्चिर्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ । उक्तमाहवयात्रायाम् -" इद्धः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगां

करोति" इति ॥ वाजिग्रहणं गजादीनामप्युपलक्षणं तेषामपि नीराजनाविधानात् ।।

  स गुप्तमूलप्र[१६]त्यन्तः शुद्धपार्ष्णिरयान्वितः ।
  षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ २६ ॥

 स इति ॥ गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्रान्तदुर्गं च येन स गुप्तमूलप्रत्यन्तः । शुद्धपार्ष्णिरुद्धृतपृष्ठशत्रुः सेनया रक्षितपृष्ठदेशो वा । अयान्वितः शुभदैवान्वितः ॥ "अयः शुभावहो विधिः" इत्यमरः। स रघुः षड्विधं मौलभृत्यादिरूपं बलं सैन्यम् ॥ “मौलं भृत्यः सुहृच्छ्रेणी द्विषदाटविकं बलम्" इति कोषः || आदाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ॥

  अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ।
  पृषतैर्मन्दरोद्भूतैः क्षीरोर्मय इवाच्युतम् ॥ २७॥

 अवाकिरन्निति॥ वयोवृद्धाः पौरयोषितस्तं रघुं प्रयान्तं लाजैराचारलाजैः । मन्दरोद्ध्दूतैः पृषतैर्बिन्दुभिः क्षीरोर्मयः क्षीरसमुद्रोर्मयोऽच्युतं विष्णुमिव । अवाकिरन्पर्यक्षिपन् ॥

  स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
  अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ २८ ॥

 स इति ॥प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित् । प्राचीनबर्हिरिन्द्रः॥ "पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिस्तथा" इतीन्द्रपर्यायेषु हलायुधाभिधानात् ॥ तेन तुल्यः स रघुः । अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान्रिपूंस्तर्जयन्निव भर्त्सयन्निव ॥ तर्जिभर्त्स्योरनुदात्तेत्त्वेऽपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनात्परस्मैपदमिति वामनः॥प्रथमं प्राचीं दिशं ययौ ।

  रजोभिः स्य[१७]न्दनोद्धूतैर्गजैश्च घनसंनिभैः।
  भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।। २९ ॥

 रजोभिरिति ॥ किं कुर्वन् । स्यन्दनोद्धूतै रजोभिर्घनसंनिभैर्वर्णतः क्रियातः परिमाणतश्च मेघतुल्यैर्गजैश्च यथाक्रमं व्योमाकाशं भुवस्तलमिव भूतलं च व्योमेव कुर्वन् । ययाविति पूर्वेण संबन्धः॥

  प्रतापोऽग्रे ततः शब्दः प[१८]रागस्तदनन्तरम् ।
  ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥ ३० ॥

 प्रताप इति ॥ अग्रे प्रतापस्तेजोविशेषः ॥ “स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्" इत्यमरः ॥ ततः शब्दः सेनाकलकलः । तदनन्तरं परागो धूलिः ॥ “परागः पुष्परजसि धूलिस्नानीययोरपि" इति विश्वः ॥ पश्चाद्रथादि रथाश्चादिकं चतुरङ्गबलम् ॥ "स्थानीकम्” इति पाठ इतिशब्दाध्याहारेण योज्यम् ॥ इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव ॥ “स्कन्धः प्रकाण्डे कायांशे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च" इति हैमः ॥ सा चमूर्ययौ ॥

  मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
  विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥ ३१॥

 मर्विति॥ स रघुः शक्तिमत्त्वात्समर्थत्वान्मरुपृष्ठानि निर्जलस्थानानि ॥"समानौ मरुधन्वानौ” इत्यमरः ॥ उदम्भांस्युद्भूतजलानि चकार । नाव्या नौभिस्तार्या नदीः ॥" नाव्यं त्रिलिङ्गं नौतार्ये" इत्यमरः ॥ “ नौवयोधर्मविषमूल-" इत्यादिना यत्प्रत्ययः ॥ सुप्रतराः मुखेन तार्याश्चकार । विपिनान्यरण्यानि ॥ “अटव्यरण्यं विपिनम्" इत्यमरः ॥ प्रकाशानि निर्वृक्षाणि चकार ॥ शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः ॥

  स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
  बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः॥ ३२ ॥

 स इति ॥ महतीं सेनां पूर्वसागरगामिनीं कर्षन्स रघुः । हरस्य जटाभ्यो भ्रष्टां गङ्गां कर्षन् । सापि पूर्वसागरगामिनी । भगीरथ इव । बभौ ॥ भगीरथो नाम कश्चित्कपिलदग्धानां सागराणां नप्ता तत्पावनाय हरकिरीटाद्गङ्गां प्रवर्तयिता राजा। यत्संबन्धाद्गङ्गा च भागीरथीति गीयते ॥

  त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः।
  तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥३३॥

 त्याजितैरिति ॥ “फलं फले धने बीजे निष्पत्तौ भोगलाभयोः" इति केशवः ॥ फलं लाभम् । वृक्षपक्षे प्रसवं च । त्याजितैः ॥ त्यजेर्ण्यन्यताद्विकर्मकादप्रधाने कर्मणि क्तः ॥ उत्खातैः स्वपदाच्च्यावितैः । अन्यत्रोत्पाटितैः । बहुधा भग्रै रणे जितैः । अन्यत्र छिन्नैः । नृपैः । पादपैर्दन्तिनो गजस्येव । तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत् ॥ “प्रकाशं प्रकटं स्पृष्टमुल्बणं विशदं स्फुटम्" इति यादवः ॥

  पौरस्त्यानेवेमाक्रामंस्तांस्ताञ्जनपदाञ्जयी।
  प्राप तालीवनश्याममुपकण्ठं महोदधेः॥ ३४ ॥

३०-३१ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

पुरोगैः कलुषास्तस्य सह प्रस्थायिभिः कृशाः ।
पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः ॥


 पौरस्त्यानिति ॥ जयी जयनशीलः ॥ “जिदृक्षिविश्री-" इत्यादिनेनिप्रत्ययः ॥ स रघुरेवम् । पुरो भवान्पौरस्त्यान्प्राच्यान् ॥ " दक्षिणापश्चात्पुरसस्त्यक्" इति त्यक्प्रत्ययः ॥ तांस्तान् । सर्वानित्यर्थः ॥ वीप्सायां द्विरुक्तिः ॥ जनपदान्देशानाक्रामंस्तालीवनैः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप ॥

  अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
  आत्मा संरक्षितः सुह्यैर्वृत्तिमा[१९]श्रित्य वैतसीम् ॥३५॥

  अनम्राणामिति ॥ अनम्राणाम् ॥ कर्मणि षष्ठी ॥ समुद्धर्तुरुन्मूलयितुस्तस्माद्रघोः सकाशात् ॥ “भीत्रार्थानां भयहेतुः" इत्यपादानत्वात्पञ्चमी । सिन्धुरयान्नदीवेगादिव सुह्यैः सुह्मदेशीयैः ।। सुह्मादयः शब्दा जनपदवचनाः क्षत्रियमाचक्षते ॥ वैतसीं वेतसः संबन्धिनीं वृत्तिम् । प्रणतिमित्यर्थः । आश्रित्य । आत्मा संरक्षितः ॥ अत्र कौटिल्यः-" बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्ममातिष्ठेत्" इति ॥

  वङ्गानुत्खाय तरसा नेता नौसाधनोद्य[२०]तान् ।
  निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः॥ ३६॥

 वङ्गानिति ॥ नेता नायकः स रघुर्नौभिः साधनैरुद्यतान्संनद्धान्वङ्गान्राज्ञस्तरसा बलेन ॥ “तरसी बलरंहसी" इति यादवः ॥ उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्थम्भान्निचखान। स्थापितवानित्यर्थः ।।

  आपादपद्मप्र[२१]णताः कलमा इव ते रघुम् ।
  फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः॥ ३७॥

 आपादेति ॥ आपादपद्ममङ्घ्रिपद्मपर्यन्तं प्रणताः । अत एवोत्खाताः पूर्वमुद्धृता अपि प्रतिरोपिताः पश्चात्स्थापितास्ते वङ्गाः । कलमा इव शालिविशेषा इव ॥ "शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी" इत्यमरः ॥ तेऽप्यापादपद्म पादपद्ममूलपर्यन्तं प्रणत्ताः ॥ “पादो बुध्ने तुरीयांशशैलप्रत्यन्तपर्वताः" इति विश्वः ॥ उत्खातप्रतिरोपिताश्च ॥ रघुं फलैर्धनैः । अन्यत्र सस्यैः । संवर्धयामासुः ॥ “ फलं फले धने बीजे निष्पत्तौ भोगलाभयोः । सस्ये” इति केशवः ॥

  से तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः ।
  [२२]त्कलादर्शितपथः क[२३]लिङ्गाभिमुखो ययौ ॥ ३८॥

 स इति ॥ स रघुर्बद्धा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदीं तीर्त्वा ॥ "करभाम्" इति केचित्पठन्ति ॥ उत्कलै राजभिरादर्शितपथः संदर्शितमार्गः सन् । कलिङ्गाभिमुखो यूयौ ॥

  से प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।
  अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ ३९॥

 स इति ॥ स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य ॥ “महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः" इति विष्णुपुराणात्॥ मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम् । यन्ता सारथिर्गम्भीरवेदिनो द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णं निशितमङ्कुशमिव । न्यवेशयन्निक्षिप्तवान् ॥"त्वग्भेदाच्छोणितस्रावान्मांसस्य क्रथनादपि । आत्मानं यो न जानाति स स्याद्गम्भीरवेदिता" इति राजपुत्रीये ॥ “चिरकालेन यो वेत्ति शिक्षा परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः" इति मृगचर्मीये.।।

  प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः।
  पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः॥ ४० ॥

 प्रतीति ॥ गजसाधनः सन्कालिङ्गः कलिङ्गानां राजा ॥ “द्व्यञ्मगधकलि"इत्यादिनाण्प्रत्ययः ॥ अस्त्रैरायुधैस्तं रघुम् । पक्षाणां छेद उद्यतमुद्युक्तं शक्रं शिलावर्षी पर्वत इव । प्रतिजग्राह प्रत्यभियुक्तवान् ॥

  द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् ।
  सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ ४१ ॥

 द्विषामिति ॥ काकुत्स्थो रघुस्तत्र महेन्द्राद्रौ द्विषां नाराचदुर्दिनं नाराचानां बाणविशेषाणां दुर्दिनम् । लक्षणया वर्षमुच्यते। विषह्य सहित्वा सद्यथाशास्त्रं मङ्गलस्नात इव विजयमङ्गलार्थमभिषिक्त इव । जयश्रियं प्रतिपेदे पाप ॥ “यत्तु सर्वौषघिस्नानं तन्माङ्गल्यमुदीरितम्" इति यादवः ॥

  ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।।
  ना[२४]रिकेलासवं योधाः शात्रवं च पपुर्यशः॥ ४२ ॥

४१-४२ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-

वायव्यास्त्रविनिर्धूतात्पक्षविद्धान्महोदधेः ।
गजानीकात्स कालिङ्ग तार्क्ष्यः सर्पमिवाददे ॥


 ताम्बूलीनामिति ॥ तत्र महेन्द्राद्रौ । युध्द्यन्त इति योधाः॥ पचाद्यच् ।।रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यैस्ते तथोक्ताः सन्तो नारिकेलासर्व

नारिकेलमद्यं ताम्बूलीनां नागवल्लीनां दलैः पपुः । तत्र विजह्रुरित्यर्थः । शात्रवं यशश्च पपुः । जहुरित्यर्थः ॥

  गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः ।
  श्रियं म[२५]हेन्द्रनाथस्य जहार न तु मेदिनीम् ॥४३॥

 गृहीतेति ॥ धर्मविजयी धर्मार्थं विजयशीलः स नृपो रघुः । गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः । तस्य महेन्द्रनाथस्य कालिङ्गस्य श्रियं जहार । धर्मार्थमिति भावः । मेदिनीं तु न जहार । शरणागतवात्सल्यादिति भावः ॥

  ततो वेलातटेनैव फलवत्पूगमालिना ।
  [२६]गस्त्याचरितामाशामनाशास्यजयो ययौ ॥४४॥

 तत इति ॥ ततः प्राचीविजयानन्तरं फलवत्पूगमालिना फलितक्रमुकश्रेणीमता ॥ व्रीह्यादित्वादिनिप्रत्ययः॥ वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येना चरितामाशां दक्षिणां दिशमनाशास्यजयः । अयत्नसिद्धत्वादप्रार्थनीयजयः सन् । ययौ ॥ “अगस्त्यो दक्षिणामाशामाश्रिय नभसि स्थितः । वरुणस्यात्मजो योगी विन्ध्यवातापिमर्दनः" इति ब्रह्मपुराणे ॥

  स सैन्यपरिभोगेण गजदानसुगन्धिना ।
  कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ ४५ ॥

 स इति ॥ स रघुः । गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना ॥ "गन्धस्य-" इत्यादिनेकारादेशः समासान्तः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिकगन्धविवक्षायामेवेकारादेशः । तथापि निरङ्कुशाः कवयः । तथा माघकाव्ये-" ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः" (६।५०)। नैषधे च- " अपां हि तृप्ताय न वारिधारा सादुः सुगन्धिः स्वदते तुषारा" (३।९३) इति ॥ न कर्मधारयान्मत्वर्थीय इति निषेधादिनिप्रत्यय पक्षोऽपि जघन्य एव । सेनायां समवेताः सैन्याः॥ “ सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते" इत्यमरः ॥ “ सेनाया वा” इति ण्यप्रत्ययः ॥ तेषां परिभोगेन

कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत् ॥ संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥

  बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
  मा[२७]रीचोद्धान्तहारीता मलयाद्रेरुपत्यकाः॥४६॥

 बलैरिति ॥ विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः ॥ “बलं शक्तिर्बलं सैन्यम्" इति यादवः ॥ मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ता हारीताः पक्षिविशेषा यासु ताः ॥ "तेषां विशेषा हारीतो मद्रुः कारण्डवः प्लवः" इत्यमरः ॥ मलयाद्रेरुपत्यका आसन्नभूमयः ॥ “उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका" इत्यमरः॥“ उपाधिभ्यां त्यकन्-" इत्यादिना त्यकन्प्रत्ययः ॥ अध्युषिताः । उपत्यकासूषितमित्यर्थः ॥ “उपान्वध्याङ्वसः" इति कर्मत्वम् ॥

  ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
  तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः॥४७॥

 ससञ्जुरिति ॥ अश्वैः क्षुण्णानामेलानामेलालतानामुत्पतिष्णव उत्पतनशीलाः ॥ “ अलंकृञ्-"इत्यादिनेष्णुप्रत्ययः॥ फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु ॥ सर्वधनीतिवदिन्नन्तो बहुव्रीहिः ॥ मत्तेभानां कटेषु ससक्षुः सताः ॥ “गजगण्डे कटीकटौ” इति कोषः ॥

  भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
  नास्रसत्करिणां ग्रैवं त्रिपदीछेदिनामपि ॥४८॥

 भोगीति ॥ चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनान्निम्नेषु समर्पितं सञ्जितं त्रिपदीछेदिनां पादशृङ्खलच्छेदकानामपि ॥ “त्रिपदी पादबन्धनम्" इति यादवः ।। करिणाम् । ग्रीवासु भवं ग्रैवं कण्ठवधनम् ॥ “ग्रीवाभ्योऽण्च" इत्यण्प्रत्ययः ॥ नास्रसन्न स्रस्तमभूत् ॥ “शुद्ध्यो लुङि" इति परस्मैपदे पुषादित्वादङ् । “ अनिदिताम्-" इति नकारोपः ॥

  दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
  तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥४९॥


४६-४७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-

आजानेयखुरक्षुण्णपक्कलाक्षेत्रसंभवम्
व्यानशे सपदि व्योम कीटकोशाविल रजः ।।


 दिशीति ॥ दक्षिणस्यां दिशिं रवेरपि तेजो मन्दायते मन्दं भवति ॥ लोहितादित्वात्क्यष्पत्ययः ॥ “वा क्यषः" इत्यात्मनेपदम् ॥ दक्षिणायने तेजोमान्द्यादिति भावः । तस्यामेव दिशि पाण्ड्याः । पाण्डूनां जनपदानां राजानः

पाण्ड्याः । पाण्डोर्ङ्यण्वक्तव्यः ॥ रघोः प्रतापं न विपेहिरे न सोढवन्तः ॥ सूर्यविजयिनोऽपि विजितवानिति नायकस्य महानुत्ककर्षो गम्यते ॥

  ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः।
  ते निपत्य ददुस्तस्मै यशः स्वमिव संचितम् ॥ ५० ॥

 ताम्रपर्णीति ॥ ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य संगतस्य महोदधेः संबन्धि संचितं मुक्तासारं मौक्तिकवरम् ।। " सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु" इत्यमरः ॥ स्वं स्वकीयं संचितं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः ॥ यशसः शुभ्रत्वादौपम्यम् ॥ ताम्रपर्णीसंगमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ।।

  स निर्विश्य यथाकामं तटेष्वा[२८]लीनचन्दनौ ।
  स्तनाविव दिशस्तस्याःशैलौ मलय[२९]दर्दुरौ॥ ५१ ॥
  असह्यविक्रमः सह्यं दू[३०]रान्मुक्तमुदन्वता।
  नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ५२ ॥

 स इति । असह्येति च ॥ युग्ममेतत् ॥ असह्यविक्रमः स रघुस्तटेषु सानुप्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ ॥ “ गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्" इत्यमरः ॥ स्तनपक्षे प्रान्तेषु व्याप्तचन्दनानुलेपौ । तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः ॥ उदकान्यस्य सन्तीत्युदन्वानुदधिः ॥ "उदन्वानुदधौ च" इति निपातः ॥ उदन्वन्ता दूरान्मुक्तं दूरतस्त्यक्तम् ।। “स्तोकान्तिकदूरार्थकृच्छाणि क्तेन" इति समासः ॥ पञ्चम्याः स्तोकादिभ्यः इत्यलुक् ॥ स्रस्तांशुक मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत्माप्तोअतिक्रान्तो वा ॥

 संप्रति प्रतीचीं दिशमभिययावित्याह-

  तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः।
  रा[३१]मास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः॥ ५३ ॥

 तस्येति ॥ अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः ॥ अपरान्तास्तु पाश्चात्त्यास्ते च सूर्यरिकादयः" इति यादवः ॥ विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः ॥ “ अनीकं तु रणे सैन्ये" इति विश्वः ॥ अर्णवो रामस्य जामदग्न्यस्यास्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः॥

  भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्।
  अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः॥५४॥

 भयेति ॥ तेन रघुणा भयेनोत्सृष्टविभूषाणां परिहृतभूषणानां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः ।। एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ॥

  मु[३२]रलामारुतोद्धूतमगमत्कैतकं रजः।
  तद्योधवारबाणानामयत्नपटवासताम् ॥ ५५॥

 मुरलेति ॥ मुरला नाम केरलदेशेषु काचिन्नदी । तस्या मारुतेनोद्धूतमुत्थापितम् ॥ “मुरवीमारुतोद्धूतम्" इति केचित्पठन्ति ॥ कैतकं केतकीसंबन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम् ॥"कञ्चको वारबाणोऽस्त्री" इत्यमरः।। अयत्नपटवासतामयत्नसिद्धवस्त्रवासनाद्रव्यत्वमगमत् ॥ “पिष्टातः पटवासकः" इत्यमरः॥

  अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
  वर्मभिः पवनोद्धूतराजतालीवनध्वनिः॥ ५६ ॥

 अभ्यभूयतेति ॥ चरतां गच्छतां वाहानां वाजिनाम् ॥ वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः" इत्यमरः ॥ गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः॥ कर्तरि क्तः॥ "गात्रसञ्जितैः" इति वा पाठः । सञ्जतेर्ण्य॑न्तात्कर्मणि क्तः॥ वर्मभिः कवचैः॥ "मर्मरः" इति पाठे वाहानां गात्रशिञ्जितैर्गात्रध्वनिभिरित्यर्थः । मर्मरो मर्मरायमाण इति ध्वनेर्विशेषणम् ॥ पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः॥

  खर्जूरीस्कन्धन[३३]द्धानां मदोद्गारसुगन्धिषु ।
  कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥ ५७ ॥

 खर्जुरीति॥ खर्जुरीणां तृणद्रुमविशेषाणाम् ॥ “खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः" इत्यमरः ॥ स्कन्धेषु प्रकाण्डेषु ॥ “ अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः" इत्यमरः ॥ नद्धानां बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु॥ “गन्धस्य" इत्यादिनेकारः॥ कटेषु गण्डेषु पुंनागेभ्यो नाग-


केशरेभ्यः पुन्नागपुष्पाणि विहाय ॥ ल्यब्लोपे पञ्चमी॥ शिलीमुखा अलयः पेतुः।। "अलिबाणौ शिलीमुखौ” इत्यमरः ॥ ततोऽपि सौगन्ध्यातिशयादिति भावः ॥

  अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ ।
  अपरान्तमहीपालव्याजेन रघवे करम् ॥५८॥

 अवकाशमिति ॥ उदन्वानुदधी रामाय जामदग्न्याय। अभ्यर्थितो याचितः सन् । अवकाशं स्थानं ददौ किल । किलेति प्रसिद्धौ । रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ ॥ “बलिहस्तांशवः कराः" इत्यमरः ॥ अपरान्तानां समुद्रमध्यदेशवर्तित्वात्तैर्दत्ते करे समुद्रदत्तत्वोपचारः॥ करदानं च भीत्या । न तु याच्ञयेति रामाद्रघोरुत्कर्षः॥

  मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
  त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः॥ ५९॥

 मत्तेति ॥ तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव ॥ भावे क्तः॥ व्यक्तानि स्फुटानि विक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णावलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोच्चैर्जयस्तम्भं चकार ॥गाढप्रकाशस्त्रिकूटोऽद्रिरेवोत्कीर्णवर्णस्तम्भ इव रघोर्जयस्तम्भोऽभूदित्यर्थः ॥

  पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना।
  इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी॥६०॥

 पारसीकानिति ॥ ततः स रघुः । संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान्रिपूनिव । पारसीकान्राज्ञो जेतुं स्थलव र्र्तत्ममना प्रतस्थे । न तु निर्दिष्टेनापि जलपथेन । समुद्रयानस्य निषिद्धत्वादिति भावः ।।

  यवनीमुखपद्मानां सेहे मधुमदं न सः ।
  बालातपमिवाब्जानामकालजलदोदयः॥६१॥

 यवनीति ॥ स रघुर्यवनीनां यवनस्त्रीणाम् ॥ “जातेरस्त्रीविषयादयोपधात्" इति ङीष् ॥ मुखानि पद्मानीव मुखपद्मानि ॥ उपमितसमासः ॥ तेषां मधुना मद्येन यो मदो मदरागः ॥ कार्यकारणभावयोरभेदेन निर्देशः॥ तं न सेहे ॥ कमिव ।अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां संबन्धिनं बालातपमिव । अब्जहितत्वादब्जसंबन्धित्वं सौरातपस्य ।।

  सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनैः।
  शार्ङ्गकूजितविज्ञेयप्र[३४]तियोधे रजस्यभूत् ॥ ६२ ॥

 सङ्ग्राम इति ॥ तस्य रघोरश्वसाधनैर्वाजिसैन्यैः ॥ “साधनं सिद्धिसैन्ययोः"

इति हैमः ॥ पश्चाद्भवैः पाश्चात्त्यैर्यवनैः सह ॥ “दक्षिणापश्चात्पुरसस्त्यक्" ॥ सहार्थे तृतीया॥शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि । तेषां कूजितैः शब्दैः ॥ “शार्ङ्ग पुनर्धनुषि शार्ङ्गिणः । जये च शृङ्गविहिते चापेऽप्याह विशेषतः" इति केशवः ॥अथवा शार्ङ्गैः शृङ्गसंबन्धिभिः कूजितर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटा यस्मिस्तस्मिन्रजसि तुमुलः सङ्ग्रामः संकुलं युद्धमभूत् ॥ “तुमुलं रणसंकुले' इत्यमरः।।

  भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् ।
  तस्तार सरघाव्याप्तैःस क्षौ[३५]द्रपटलैरिव ॥ ६३॥

 भल्लेति ॥ स रघुर्भल्लापर्जितैर्बाणविशेषकृतैः ॥ " स्नुहीदलफलो भल्लः इति यादवः ॥ श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः ॥ “सिध्मादिभ्यश्च इति लच्प्रत्ययः ॥ तेषां पाश्चात्त्यानां शिरोभिः । सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः ॥ “सरघा मधुमक्षिका” इत्यमरः ॥ क्षुद्राः सरघाः॥ 'क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका" इत्यमरः॥ क्षुद्राभिः कृतानि क्षौद्राणि मधूनि ॥ “मधु क्षौद्रं माक्षिकादि" इत्यमरः ॥ "क्षुद्राभ्रमरवटरपादपादञ्' इति संज्ञायामञ्प्रत्ययः॥ तेषां पटलैः संचयैरिव ॥ “पटलं तिलके नेत्ररोगे छन्दसि संचये । पटिके परिवारे च" इति हैमः ॥ महीं तस्ताराच्छादयामास ॥

  अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः।
  प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ६४ ॥

 अपनीतेति ।। शेषा हतावशिष्टा अपनीतशिरस्त्राणा अपसारितशीर्षण्याः सन्तः ॥ " शीर्पकम् । शीर्षण्यं च शिरस्त्रे” इत्यमरः ।। शरणागतलक्षणमेतत् । तं रघुं शरणं ययुः ॥ तथाहि । महात्मनां संरम्भः कोपः ॥ “संरम्भः संभ्रमे कोपे" इति विश्वः॥ प्रणिपातः प्रणतिरेव प्रतीकारो यस्य स हि ॥ महतां परकीयमौद्धत्य- मेवासह्यं न तु जीवितमिति भावः ॥

  विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
  आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥६५॥

 विनयन्त इति ॥ तस्य रघोर्योधा भटा आस्तीर्णान्यजिनरत्नानि चर्मश्रेष्ठानि यासु तासु द्राक्षावलयानां भूमिषु ।। “मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च" इत्यमरः ।। मधुभिर्द्राक्षाफलप्रकृतिकैर्मद्यैर्विजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः॥

"कर्तृस्थे चाशरीरे कर्मणि" इत्यात्मनेपदम् । " लट् स्मे" इति भूताथ लट् ।।

  ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
  शरैरुस्त्रैरिवोदी[३६]च्यानुद्धरिष्यन्रसानिव ॥६६॥

 तत इति ॥ ततो रघुर्भास्वान्सूर्य इव शरैबाणैरुस्त्रैः किरणैरिव ॥ "किरणोस्रमयूखांशुगभस्तिघृणिघृष्णयः" इत्यमरः ॥ उदीच्यानुदग्भवान्नृपान्रसानुदकानीवोद्धरिष्यन्कौबेरीं कुबेरसंबन्धिनीं दिशमुदीचीं प्रतस्थे ॥ अनेकेनेव शब्देनेयमुपमा । यथाह दण्डी- “एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा" इति ॥

  विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः।
  दुधुवुर्वाजिनः स्कन्धाँल्लग्नकुङ्कुमकेसरान् ॥ ६७॥

 विनीतेति ॥ सिन्धुर्नाम काश्मीरदेशेषु कश्चिनदविशेषः ॥ “देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्" इत्यमरः ॥ सिन्धोस्तीरे विचेष्टनैरङ्गपरिर्वतनैर्विनीताध्वश्रमास्तस्य रघोर्वाजिनोऽश्वा लग्नाः कुङ्कमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान् । यद्वा लग्नकुङ्कुमाः केसराः सटा येषां तान् ॥ अथ कुङ्कुमम् । काश्मीरजन्म" इत्यमरः ॥ “केसरो नागकेसरे । तुरंगसिंहयो स्कन्धकेशेषु बहुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्" इति हैमः ॥ स्कन्धान्कायान् ॥ स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च" इति हैमः ॥ दुधुवुः कम्पयन्ति स्म ॥

  तत्र हू[३७]णावरोधानां भर्तृषु व्यक्तविक्रमम् ।
  कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ६८॥

 तत्रेति ॥ तत्रोदीच्यां दिशि भर्तृषु व्यक्तविक्रमम् । भर्तृवधेनस्फुटपराक्रममित्यर्थः । रघुचेष्टितं रघुव्यापारः । हूणा जनपदाख्याः क्षत्रियाः । तेषामवरोधा अन्तःपुरस्त्रियः । तासां कपोलेषु पाटलस्य पाटलिन्मस्ताडनादिकृतारुण्यस्यादेश्युपदेशकं बभूव ।। अथवा पाटल आदेश्यादेष्टा यस्य तद्भभूव । स्वयं लेख्याप्यत इत्यर्थः।

  काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
  गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः॥६९॥



 काम्बोजा इति ॥ काम्बोजा राजानः समरे तस्य रघोर्वीर्यं प्रभावम् ॥

"वीर्यं तेजःप्रभावयोः" इति हैमः ॥ सोढुमनीश्वरा अशक्ताः सन्तः । गजानामालानं बन्धनम् ।। भावे ल्युटि “ विभाषा लीयतेः" इत्यात्वम् ॥ तेन परिक्लिष्टैः परिक्षतैरक्षोटैर्वृक्षविशेषैः सार्धमानताः ।

  तेषां सदश्वभूयिष्ठास्तु[३८]ङ्गा द्रविणराशयः ।
  [३९]पदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥७०॥

 तेषामिति ॥ तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम् ॥ “हिरण्यं द्रविणं द्युम्नम्" इत्यमरः ॥ राशय एवोपदा उपायनानि ॥ “उपायनमुपाग्राह्यमुपहारस्तथोपदा" इत्यमरः ॥ कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसद्विविशुः ॥ “मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः" इत्यमरः॥ तथाप्युत्सेका गर्वास्तु न विविशुः । सत्यपि गर्वकारणे न जगर्वेत्यर्थः॥

  ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः ।
  वर्धयन्निव तत्कूटानु[४०]ध्दूतैर्धातुरेणुभिः ॥७१॥

 तत इति ॥ ततोऽनन्तरमश्वसाधनः सन्गौर्या गुरुं पितरं शैलं हिमवन्तम् । उद्धूतैरश्वखुरोद्धूतैर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटांस्तस्य शृङ्गाणि ॥ "कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः ॥ वर्धयन्निव । आरुरोह । उत्पल्द्धूलिदर्शनाद्गिरिशिखरवृद्धिभ्रमो जायत इति भावः ॥

  शशंस तुल्यसत्त्वानां सैन्य[४१]घोषेऽप्यसंभ्रमम् ।
  गु[४२]हाशयानां सिं[४३]हानां परिवृत्यावलोकितम् ॥ ७२ ॥

 शशंसेति ॥ तुल्यसत्त्वानां सैन्यैः समानबलानाम् । गुहासु शेरत इति गुहाशयास्तेषाम् ॥ “ अधिकरणे शेतेः" इत्यच्प्रत्ययः ॥ “दरी तु कन्दरो वास्त्री देवखातबिले गुहा" इत्यमरः ॥ सिंहानां हरीणाम् ।। "सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्ष। केसरी हरिः" इत्यमरः ॥ संबन्धि परिवृत्य परावृत्यावलोकितं शयित्वैव ग्रीवाभङ्गेनावलोकनम् । कर्तृ । सैन्यघोषे सेनाकलकले संभ्रमकारणे सत्यप्यसंभ्रमयन्तः क्षोभविरहित्वम् ।। नञः प्रसज्यप्रतिषेधेऽपि समास इष्यते ॥ शशंस कथयामास ।

सैन्येभ्य इत्यार्थाल्लभ्यते ॥ बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः ॥ असंभ्रान्तत्वे हेतुस्तुल्यसत्त्वानामिति । न हि समबलः समबलाद्बिभेति भावः ॥

  भूर्जेषु मर्मरीभूताः कीचकदध्वनिहेतवः ।
  गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ ७३ ॥

 भूर्जेष्विति ॥ भूर्जेषु भूर्जपत्रेषु ॥ "भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता" इति यादवः ॥ मर्मरः शुष्कपर्णध्वनिः ॥ "मर्मरः शुष्कपर्णानाम्" इति यादवः । अयं च शुक्लादिशब्दवद्गुणिन्यपि वर्तते प्रयोज्यते च-- मर्मरैरगुरुधूपगन्धिभिः" इति ॥ अतो मर्मरीभूताः । मर्मरशब्दवन्तो भूता इत्यर्थः । कीचकानां वेणुविशेषाणां ध्वनिहेतवः । श्रोत्रसुखाश्चेति भावः । गङ्गाशीकरिणः । शीतला इत्यर्थः । मरुतो-वाता मार्गे तं सिषेविरे ॥

  विशश्रमुर्नमेरूणां छायास्वध्यास सैनिकाः ।
  दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ ७४ ॥

 विशश्रमुरिति ॥ सैनिकाः । सेनायां समवेताः ॥ प्राग्वहतीयष्ठक्प्रत्ययः ॥नमेरूणां सुरपुंनागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तूरीमृगाणां नाभिभिर्वासितोत्सङ्गाः सुरभिततला दृषदः शिला अध्यास्याधिष्ठाय ॥ अधिशीङ्स्थासां कर्म" इति कर्म ॥ दृषत्स्वधिरुह्येत्यर्थः ॥ विशश्रमुर्विश्रान्ताः ॥

  सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः |
  आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ ७५ ॥

 सरलेति ॥ सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम् । ग्रीवासु भवानि ग्रैवेयाणि । कण्ठशृङ्खलानि ॥ "ग्रीवाभ्योऽण्च" इति चकाराड्ढञ्प्रत्ययः ॥ तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्लताविशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन् ॥

  तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः ।
  [४४]जवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ ७६ ॥

 तस्येति ॥ तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रैवैः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वर्ष्म प्रमाणम् ॥ वर्ष्म देहप्रमाणयोः" इत्यमरः ॥ शशंसुः कथितवन्तः ॥ देवदारुस्कन्धत्वक्क्षतैर्गजानामौन्नत्यमनुमीयत इत्यर्थः ॥

  तत्र ज[४५]न्यं रघोर्घोरं प[४६]र्वतीयैर्गणैरभूत् ।
  ना[४७]राचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥ ७७॥

 तत्रेति ॥ तत्र हिमाद्रौ रघोः। पर्वते भवैः पर्वतीयैः ॥ “ पर्वताच्च " इति छप्रत्ययः ॥ गणैरुत्सवसंकेताख्यैः सप्तभिः सह । “गणानुत्सवसंकेतानजयत्सप्त पाण्डवः" इति महाभारते ॥ नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दिपालानामश्मनां च निष्पेषेण संघर्षणोत्पतिता अनला यस्मिंस्तत्तथोक्तम् ॥ “क्षेपणीयो भिन्दिपालः खड्गो दीर्घो महाफलः" इति यादवः ॥ घोरं भीमं जन्यं युद्धमभूत् ॥ "युद्धमायोधनं जन्यम्" इत्यमरः ॥

  शरैरु[४८]त्सवसंकेतान्स कृत्वा विरतोत्सवान् ।
  जयोदाहरणं बाह्वोर्गापयामास किंनरान् ॥ ७८॥

 शरैरिति ॥ स रघुः शरैर्बाणैरुत्सवसंकेतान्नाम गणान्विरतोत्सवान्कृत्वा। जित्वेत्यर्थः। किंनरान्बाहोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास ॥ “ गतिबुद्धि-" इत्यादिना किंनराणां कर्मत्वम् ।।

  [४९]रस्परेण विज्ञातस्तेषूपायनपाणिषु ।
  राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा॥७९॥

 परस्परेति॥ तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः। हिमाद्रिणापि राज्ञः सारो बलरूपो विज्ञातः॥ एतेन तत्रत्यवस्तूनामनर्घ्यत्वं गणानामभूतपूर्वश्च पराजय इति ध्वन्यते ॥

  तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः।
  पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ८०॥

 तत्रेति ॥ स रघुस्तत्र हिमाद्रावक्षोभ्यमधृष्यं यशोराशिं निवेश्य निधाय । पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव । अवरुरोहावततार ॥ कैलासमगत्वैव प्रतिनिवृत्त इत्यर्थः । न हि शूराः परेण पराजितमभियुज्यन्त इति भावः ॥

  चकम्पे तीर्ण[५०]लौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः ।
  तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ।। ८१॥

 चकम्प इति ॥ तस्मिन्ररघौ । तीर्णा लौहित्या नाम नदी येन तस्मिस्तीर्णलौहित्ये

सति । प्राग्ज्योतिषाणां जनपदानामीश्वरस्तस्य रघोर्गजानामालानतां प्राप्तैः कालागुरुद्रुमैः कृष्णागुरुवृक्षै: सह चकम्पे कम्पितवान् ॥

  न प्रसेहे स रुद्धार्क[५१]मधारावर्षदुर्दिनम् ।
   रथवर्त्मरजोऽप्यस्य कुत एव पताकिनीम् ॥ ८२ ॥

 नेति ॥ स प्राग्ज्योतिषेश्वरो रुद्धार्कमावृतमूर्यम् । अधारावर्ष च तदुर्दिनं च धारावृष्टिं विना दुर्दिनीभूतम् । अस्य रघो रथवर्त्ंमरजोऽपि न प्रसेहे । पताकिनीं सेनां तु कुत एव प्रसेहे । न कुतोऽपीत्यर्थः॥

  तमीशः कामरूपाणामत्याखण्डलविक्रमम् ।
  भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः॥ ८३ ॥

 तमिति ॥ कामरूपाणां नाम देशानामीशोऽत्याखण्डलविक्रममतीन्द्रपराक्रमं तं रघुम् । भिन्नाः स्रवन्मदाः कटा गण्डा येषां तैर्नागैर्गजैः । साधनैः। भेजे । नागान्दत्त्वा शरणं गत इत्यर्थः । कीदृशैर्नागैः । यैरन्यारघुव्यतिरिक्तान्नृपानुपरु रोध । शूराणामपि शूरो रघुरिति भावः ॥

  कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् ।
  रत्नपुष्पोपहारेण छायामानर्च पादयोः॥ ८४ ॥

 कामरूपेश्वर इति ॥ कामरूपेश्वरो हेमपीठस्याधिदेवतां तस्य रघोः पादयोश्छायां कनकमयपादपीठव्यापिनीं कान्तिं रत्नान्येव पुष्पाणि तेषामुपहारेण समर्पणे नानार्चार्चयामास ॥

  इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् ।
  रजो विश्रा[५२]मयन्राज्ञां छत्रशून्येषु मौलिषु॥ ८५॥

 इतीति ॥ जिष्णुर्जयशीलः ॥ "ग्लाजिस्थश्च ग्स्नुः" इति ग्स्नुप्रत्ययः ॥ स रघुरितीत्थं दिशो जित्वा रथैरुद्धतं रजश्छत्रशून्येषु । रघोरेकच्छत्रकत्वादिति भावः । राज्ञां मौलिषु किरीटेषु ॥ “मौलिः किरीटे धम्मिले चूडाकंकेलिमूर्धजे' इति हैमः ॥ विश्रामयन् । संक्रामयन्नित्यर्थः। न्यवर्तत निवृत्तः ॥

  स विश्वजितमा[५३]जह्रे यज्ञं सर्वखदक्षिणम् ।
  आदानं हि विसर्गाय सतां वारिमुचामिव ॥ ८६ ॥

 स इति ॥ स रघुः सर्वस्वं दक्षिणा यस्य तं सर्वस्वदक्षिणम् ॥ “विश्वजित्सर्वस्वदक्षिणः" इति श्रुतेः॥ विश्वजितं नाम यज्ञमाजह्रे । कृतवानित्यर्थः ॥ युक्तं

चैतदित्याह- सतां साधूनाम् । वारिमुचां मेघानामिव । आदानमर्जनं विसर्गाय त्यागाय हि । पात्रविनियोगायेत्यर्थः॥

  सत्रान्ते सचिवसखः पुरस्क्रियाभि-
   र्गुर्वीभिः शमितपराजयव्यलीकान् ।
  काकुत्स्थश्चिरविरहोत्सुकावरोधा-
   न्राजन्यान्स्वपुरनिवृत्तयेऽनुमेने ॥ ८७॥

 सत्रान्त इति ॥ काकुत्स्थो रघुः सत्रान्ते यज्ञान्ते ।। सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च" इत्यमरः ॥ सचिवानाममात्यानां सखेति सचिवसखः सन् । “सचिवो भृतकेऽमात्ये" इति हैमः ॥ तेषामत्यन्तानुसरणद्योतनार्थं राज्ञः सखित्वव्यपदेशः ॥ “राजाहःसखिभ्यष्टच्"। गुर्वीभिर्महतीभिः ॥"गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके" इति हैमः ॥ पुरस्क्रियाभिः पूजाभिः शमितं पराजयेन व्यलीकं दुःखं वैलक्ष्यं वा येषां तान् ॥ “दुःखे वैलक्ष्ये व्यलीकम्” इति यादवः ॥ चिरविरहेणोत्सुका उत्कण्ठिता अवरोधा अन्तःपुराङ्गना येषां तान् । राज्ञोऽपत्यानि राजन्याः क्षत्रियाः । तान् ॥ “राजश्वशुराद्यत्" इत्यपत्यार्थे यत्प्रत्ययः॥ 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्" इत्यमरः ॥ स्वपुरं प्रति निवृत्तये प्रतिगमनायानुमेनेऽनुज्ञातवान् ॥ प्रहर्षणीवृत्तमेतत् । तदुक्तम्- “म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षणीयम्" इति ।

  ते रेखाध्वजकुलिशातपत्रचिह्नं
   सम्राजश्चरणयुगं प्रसादलभ्यम् ।
  प्रस्थानप्रणतिभिरङ्गुलीषु चकु‌‌- ‌
   र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ।। ८८ ॥

 त इति ॥ते राजानः। रेखा एव ध्वजाश्च कुलिशानि चातपत्राणि च । ध्वजाद्याकाररेखा इत्यर्थः। तानि चिह्नानि यस्य तत्तथोक्तम् । प्रसादेनैव लभ्यं प्रसादलभ्यम् । सम्राजः सार्वभौमस्य रघोश्चरणयुगं प्रस्थाने प्रयाणसमये याः प्रणतयो नमस्कारास्ताभिः । करणैः । अङ्गुलीषु मौलिषु केशबन्धनेषु याः स्रजो माल्यानि ताभ्यश्च्युतैर्मकरन्दैः पुष्परसैः ॥ " मकरन्दः पुष्परसः" इत्यमरः ॥ रेणुभिः परागैश्च ॥ “परागः सुमनोरजः" इत्यमरः ॥ गौरं गौरवर्णं चक्रुः ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रघुदिग्विजयो नाम चतुर्थः सर्गः ।


  1. न्यस्तशस्त्रं दिलीपं च तं च शुश्रूवुषां पतिम् । राज्ञामुद्धतनाराचे हृदि शल्यमिवारितम्,
  2. प्रधूमिते.
  3. सुप्रजाः.
  4. पैत्र्यम् .
  5. दर्शिनः.
  6. लब्धप्रशमनं स्वस्थम्.
  7. निर्विष्टलघुभिर्मेघैः सवितुस्तस्य चोभयोः। वर्धिष्णवो दिशा भागान्प्रतापा यत्र रेचिताः.
  8. अधिज्यमायुधं कर्तुं समयोऽयं रघोरिति । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना. (१संहृतम्.
  9. विलसत्.
  10. श्रेणिषु.
  11. तस्य गोप्तुर्द्विरेफाणां कर्णोत्पलनिपातिनाम् । स्वरसंवादिभिः कण्ठैः शालिगोप्यो
    जगुर्गुणान्
  12. परिभव.
  13. नादेयामास; मेरयांमास
  14. सम्यक्तस्य
  15. एव
  16. पर्यन्तः.
  17. स्यदनोत्कीर्णैः; तुरगोत्कीर्णः.
  18. पुरोगाः.
  19. पुरोगाः.
  20. उद्धतान्.
  21. प्रवणाः.
  22. उत्कलैर्दर्शितपथः; उत्कलादे शितपथः.
  23. कलिङ्गाभिमुखम्.
  24. नालिकेरासपम्.
  25. माहेन्द्रनाथस्य.
  26. माहेन्द्रनाथस्य.
  27. मरीचोद्धान्तहारीताः; मरिचोद्धान्तहारीताः
  28. आलीढ.
  29. दुर्दुरी; दुर्दरौ.
  30. दूरमुक्तम्.
  31. रामेषु.
  32. मरुला.
  33. २बद्धानाम्,
  34. प्रतियोधः
  35. क्षौद्रैः,पटलैः.
  36. औदीच्यान्.
    ६६-६७ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते
    जितानजव्यस्तानेव कृत्वा रथपुरःसरान् ।
    महार्णवमिवौर्वाग्निः प्रविवेशोत्तरापथम् ॥ (१ काकुत्स्थः.)
  37. वङ्कू तीर; वङ्क्षुतीर. ३ हूनावरोधानाम्. ४ अङ्कोलै:; अक्षोडेः.
  38. तुङ्गद्रविणराशयः.
  39. विविशुस्तं कोसलेशमुदन्वन्तमिवापगाः; विविशुस्तं विशानाथमुदन्वन्तमिवापगाः.
  40. उद्धतैः.
  41. सैन्यघोषोऽथ संभ्रमम्.
  42. गुहागतानाम्.
  43. सत्त्वानाम्,
  44. गजवर्म.
  45. युद्धम्.
  46. पार्वतीयः.
  47. विमर्दः सह तैस्तत्र निष्पषोत्पमितानल:.
  48. उच्छिन्न; उत्सन्न.
  49. परस्परस्य.
  50. लोहित्ये
  51. अधारावर्षि दुर्दिनम्,
  52. विश्रमयन्.
  53. आरेभे.