विश्वक्सेनासंहिता /अध्यायः २७

विकिस्रोतः तः
← अध्यायः २६ विश्वक्सेनासंहिता
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →
विश्वक्सेनासंहिता अध्यायाः


सप्तविंशोऽध्याय:
विष्वक्सेन:--
अथात: संप्रवक्ष्यामि उत्सवस्य विधिं परम्।
सर्वशान्तिकरं पुण्यं सर्वयज्ञफलप्रदम् ।। 1 ।।
सर्वपापहरं पुंसां सर्वकर्मशुभावहम्।
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रैलोक्यभूषणम् ।। 2 ।।
उत्सवं त्वेकरात्रं तु त्रिरात्रिकमथापि वा।
पञ्चरात्रं तु वा विप्र सप्तरात्रमथापि वा ।। 3 ।।
नवरात्रं तु वा कुर्यात् उत्सवस्य तु विस्तरम्।
एकरात्रोत्सवो ब्राह्म: त्रियह: शैव उच्यते ।। 4 ।।
पञ्चाहश्चैन्द्र विज्ञेय: सप्ताहश्चार्षको भवेत्।
नवाहो दैविक: प्रोक्त उत्सव: पञ्चधोच्यते ।। 5 ।।
दैविकं सर्वशान्त्यर्थं राज्यवर्धनमार्षकम्।
ऐन्द्रं दुर्भिक्षनाशार्थं शैवं रोगविनाशनम् ।। 6 ।।
ब्राह्मं तु ब्रह्मवृद्धि: स्यात् उत्सवं पञ्चधा फलम्।
एकाहं त्रियहं वापि सप्ताहं तु नवाहकम् ।। 7 ।।
*पञ्चाहमादिकालोयमुत्सवं* ह्रासयेन्न तु।
वर्धयेत्तु यथाकामं ह्रासनं राष्ट्रनाशकृत् ।। 8 ।।
रातविभ्रमकृच्चापि दुर्भिक्षभयकृद्भवेत्।
उत्सवानां तत: कुर्यात् कारकस्यानुरूपत: ।। 9 ।।
शुभनक्षत्रयोगे च तिथिवारनिरीक्षिते।
प्रतिष्ठाऋक्षके वाथ नगरग्रामऋके ।। 10 ।।
राज्ञ: स्वजन्मनक्षत्रे यजमानेच्छया कुरु।
तत्क्रमं ते प्रवक्ष्यामि हरे: सुरमुने श्रृणु ।। 11 ।।
सवस्त्वमङ्गलं विद्धि ?तन्निरासात्तदुत्सव:।
पञ्चोत्तरदशाङ्गं च कथ्यते ताननुक्रमात् ।। 12 ।।
प्रथमं चाङ्कुरावाप: पताकारोहणं तत:।
शुद्धस्नानं तृतीयं स्यात् स्पपनं तु तत: परम् ।। 13 ।।
अङ्कुरस्योत्सवं पश्चात् होम: स्याद्भूषणं तत:।
अष्टमं तु बलिं विद्यात् नवमं तु महोत्सवम् ।। 14 ।।
तीर्थाधिवासनं पश्चात् तीर्थस्नानमनन्तरम्।
द्वादशं स्नपनं विद्यात् पुष्पयागमनन्तरम् ।। 15 ।।
दक्षिणासंप्रदानं च ध्वजस्याप्यवरोहणम्।
पञ्चोत्तरदशाङ्गोऽयमुत्सव: परिकीर्तित: ।। 16 ।।
सायंप्रात: कृतेनैव होमेन च समन्वितम्।
दक्षिण भिश्च संयुक्तं वैष्णवानां च पूजनम् ।। 17 ।।
आचण्डालान्तमन्नाद्यमुत्सवस्यैष संग्रह:।
*तद्भूतपितृयक्षाभि: ब्रह्मशैवान्यहानि च*(?) ।। 18 ।।
वैष्णवानि च शेषाणि सायं प्रातर्बलिं हरेत्।
सप्ताहे याज्ञिकैर्द्रव्यैर्बलिं कुर्याद्विचक्षण: ।। 19 ।।
पञ्चाहे ब्रह्मकादि: स्यात् त्रियहे वैष्णवादय:।
बलिभ्रमणपूर्वं तु होमं कुर्याद्विचक्षण: ।। 20 ।।
यात्रा चोत्सवबिम्बस्य द्विकालं पश्चिमं भवेत्।
एककालमथो वापि कारयेत्तन्त्रवित्तम: ।। 21 ।।
पूर्वाह्णे वाथ मध्याह्ने बलिदानं समाचरेत्।
बलिभ्रमणवेलायां परिभ्रम्य शनै: शनै: ।। 22 ।।
शङ्ख दिकुम्भपर्यन्तमष्टमङ्गलकान्(!)क्रमात्।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुक: ।। 23 ।।
धारयेच्छिरसा विद्वान् वैष्णवान् मङ्गलान् पृथक्।
एष क्रमो मया प्रोक्तो बलिद्रव्यमथोच्यते ।। 24 ।।
सिता: सुमनसो रजनीपराग-
लाजादधिकमलं सितचन्दनेन।
?B अहनि ससक्तु मुनेऽथ भूतसंज्ञे
प्रथमदिने बलिराह तृप्तिकारी ।। 25 ।।
तिलकुङ्कुमोदाक्षतनीलपुष्पं
द्वितीये पयोमिश्रितं वासरे स्यात्।
बलिस्तृप्तिकारी पितॄणां तदीये
मुने कथ्यते तत्तृतीये बलिश्च ।। 26 ।।
रक्तं पुष्पं सर्पिषापूपलाजा:
शरादं वा करम्भेण युक्तम्।
यक्षाणां तत्तृप्तिहेतोर्मुनीन्द्रै-
रिष्टै: प्राज्ञैरह्निरेषा बले: स्यात् ।। 27 ।।
एकोदनीलोत्पलनारिकेल-
क्षीरेण शालेरथ पिष्टकं च।
काकोदराणां दिवसे तुरीये
सक्तूनि चाहुर्बलिमार्यवर्या: ।। 28 ।।
कमलमक्षतमुत्पलवासितं
जलमथो कमलासनवासरे।
बलिरयं मुनिभि: परिगीयते
कनकसंनिभपुष्पचयै: सह ।। 29 ।।
पाटलसुरभितपूतजलैर्वा
वासितकुसुमचयैश्चरुरेषा-
पूपगुलयुत इति षष्ठदिने स्यात्
पावनचोदितहरिदिनपूजा ।। 30 ।।
विष्णोरुत्सवसप्तमे दिनवरे तत्तृप्तिकारी बलि:
पुष्पं श्यामलमोदनं च सगुलं सन्मल्लिकागन्धिकम्।
जातीवासितमम्बुपायसमपि स्यादष्टमे वासरे
पुष्पं मेचकमाह नारद महाविष्णोर्दिने स्याद्बलि: ।। 31 ।।
सदाविष्णोस्तृप्तयै कृसरमशिलैर्गन्धनिवहै:
सदीपैर्युक्तं शीतं जलमखिलवर्णैश्च कुसुमै:।
बलि: सक्तूपेतं नवमदिवसे नारदमुने
यथावत् कार्योऽयं नृपजनविवृद्ध्यै बलिविधि: ।। 32 ।।
कुमुदादीनां तु नामानि तेषां च परिवारकम्।
प्रवक्ष्यामि मुनिश्रेष्ठ समासेन यथाक्रमम् ।। 33 ।।
कुमुद: कुमुदाक्षश्च पुण्डरीकोऽथ वामन:।
शङ्कुकर्ण: सर्वनेत्र: सुमुख: सुप्रतिष्ठित: ।। 34 ।।
देवाश्च तेषां रिपवोऽसुराश्च
गन्धर्वयक्षा: पितरो भुजङ्गा:।
यक्षाश्च याश्चापि पिशाचजाति:
ये षष्ठको देवगणा ग्रहाख्या: ।। 35 ।।
बलिं तु मण्डले दद्याद्वेद्यादिक्रमयोगत:।
चतुष्पथेषु कोणेषु त्रिपथैकपथेषु च ।। 36 ।।
देवागारेऽथ वल्मीके कूपतीरेऽथ पर्वते।
तटाके चैत्यवृक्षेषु पर्वतस्य समीपगे (-के?) ।। 37 ।।
एवमादिषु देशेषु तोरणानि च कारयेत्।
संस्थाप्य परित: सम्यक् ग्रामाद्यष्टसु वास्तुषु ।। 38 ।।
उत्थापयित्वा केतूनां तोरणान्ते पृथक् पृथक्।
अथवाऽत्र मुनिश्रेष्ठ केतून् ग्रामादिवास्तुषु ।। 39 ।।
अष्टदिक्षु यथायोगं बलिपीठं प्रकल्पयेत्।
तालद्वयप्रमाणेन विस्तारायामतादृशम् ।। 40 ।।
मेखलाद्वयसंयुक्तं प्रत्यकं चतुरङ्गुलम्।
तन्मध्ये कर्णिकां कुर्यात्‌ वृत्तां वा चतुरश्रकाम् ।। 41 ।।
चतुरङ्गुलमायामां कर्णिकां मुनिसत्तम।
एवं पीठविधि: प्रोक्तो हरिपार्षदान् श्रृणु ।। 42 ।।
नारद:---
वद ममाखिल देवगुरोर्गुरो
प्रतिदिशं हरिपारिषदान् क्रमात्।
बलिभुज: कुमुदादिपुरोहितान्
हरिमहोत्सवकर्मणि वास्तुषु ।। 43 ।।
विष्वक्सेन:---
अहं खल्वखिलाण्डयोनेरशेषधिषणाधीशितुरप्रमेयस्?यानवरतसुखिनो हरे: महोत्सवादिषु ग्रामादिवास्तुषु ऐन्द्रादिदिक्स्थितानां कुमुदादीनां वर्णरूपवाहनायुधपरिवारमन्त्रार्चनादि यथामति कथयिष्ये---
कुमुदस्तु पुन: शुभ्रो मुकुन्द:(न्द?)पार्षद: कुन्दवासा: त्र्यक्ष: शङ्खचक्रधर: कृताञ्जलिपुटो ग्रामाभिमुखो हस्?त्यारूढो देवग्रहगणमध्ये स्थित:। उत्कट: प्रकटोन्मुखो विमुखोऽश्?वग्रीवोऽश्ववदनोऽश्वजिह्वो हस्तिवक्त्रो कुमुदो हस्तिपाद: केशववामननरकनरमर्दनमन्ददृष्टिकण्डु (कन्दु?) कन्दुकलोचनपटहाक्षविशालाक्षक्षामकक्षमपाण्डरपाण्डुपृष्ठदुर्दिनसुदिनवामदेवमहादेवमहाग्निमधुसूदनकनककालकभावनभवनभानुमद्भानुवेगभास्कराभास्करविश्वसेनविसेनविष्वक्सेनविसारिविस्तारनिस्तरविदण्डिदण्डकामदकामुककामभृत्कामनाशननामभि: पञ्चाशद्भि: पार्षदै: सौम्यै: नानाविधाकारै: परिवृतमेन संस्मृत्य अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपैरभ्यर्च्यानन्तरं तद्दिनविहितहव्यं निवेद्य बलिं दद्यात् अञ्जलिं दर्शयित्वा हरे: मुखादिवासं विधाय (मुखवासं दत्वा?) तद्देवतातृप्त्यर्थं शङ्खदुन्दुभिनृत्तगेयादि कारयेत्।
कुमुदाक्षं पुन: आग्नेय्यां स्थितं नीलवाससं त्रिणेत्रं काकवक्त्रं चतुर्भुजं मुष्टियुद्धहस्तं खड्गमुद्गरधारिणं महिषारूढं ग्रामाभिमुखमसुरग्रहगणमध्यस्थं आग्नेयनिधनाग्निजिह्वहुताशनाग्निरूपाग्निकेशाग्निवर्णाग्न्यग्निवक्त्रमहावक्त्रमहासेनमहोदरकरालकाकजिह्वकाकवक्त्राग्निवक्त्रमण्डुमण्डूकवक्त्रदेवदेवलकशर्वकशपकशङ्कुशङ्कुश्रवमारीचद्रोणमारीचमहिषमाहिषकुम्भनासविनासकुम्भकर्णविकर्णविदारिविक्रममस्करिमस्करसूकरसूकरास्यशशशशमुखसिंहसिंहमुखनरसिंहनरकालधृक्कालसूत्रसूत्रसूत्रविनालिनालकर्णै: परिवृतं अमुं यथापूर्वमभ्यर्च्य तद्दिनबलिद्रव्यं निवेद्याचमनं दत्वा अञ्जलिमुद्रां दर्शयित्वा बलिबरे मुखवासान्तं विधाय (मुखवासं दत्वा?) तद्दिग्देवतृप्त्यर्थं तूर्याणि घाषयेत्।
अन्तकाशास्थितं पुण्डरीकं पुण्डरीकत्विषं पुण्डरीकवदनं त्रिलोचनं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखमश्वारूढं पितृग्रहगणमध्यस्थ यमधर्मधरधर्मधर्मराजधनुर्धरविनयप्रश्रयनिश्रेयनिर्गुणालसकुणपक्रूरबाहुकुञ्जरप्रांशुदम?ननिष्कोपनिरनुक्रोशनिर्ममविवाहा (विभवा?) विभवहुताशाह्यू (बहू?)र्ध्वरक्षण संज्ञैकलपाकलकङ्ककटकावटशङ्खीचक्रीगदीखड्गीशार्ङ्गीशार्ङ्गधरवासुदेवभद्रकेतुमत्केतुकक्षमीज्वलनकिंनराश्वत्थसुप्तसुजपनजपपश्चिमकैक्षिकस्वंजबाडवक्षमीभि:परिवृतं पूर्ववदभ्यर्च्य तद्दिनबलिं निवेद्याचमनं [दत्वा] अञ्जलिं दर्शयित्वानन्तरं बलिकौतुके मुखवासं विधाय (दत्वा?) तद्दिग्देवतातृप्त्यर्थं शङ्खादि घोषयेत्।
निरृत्याशास्थितं वामनं धूम्रवर्णं धूम्रवाससं त्रिणयनं चतुर्भुजं शूलखड्गमुद्गरधरं मुष्टियुद्धहस्तं शकटारूढं ग्रामाभिमुखं यातुग्रहान्त: स्थितं
बलम्बिरृतिप्रकृतिविकृतिसुकृतिदारुणदमकरक्षकलक्षकमाधवमांसकनिष्ठुरखरभाषणप्रलम्?बकप्राणनप्रणयवीरसेनाङ्गदविभाषविभीषणरक्ताक्षलोहिताक्षरक्तजिह्वविजह्वकविद्युत्केशविशालाक्षविक्षरवीरहाक्षरप्राक्षरकामरूपीविरूपीसर्वगसर्वविद्गौरसंभवप्रभववारुणवसुविमर्दमदन (दमन?) वैकर्तनविकर्तृकपर्दीपृथुकन्दकीकन्दकनाकीवरुणारुणै: परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं विधायाञ्जलिं निर्वर्त्य[बलि] कौतुके मुखवासं विधाया (दत्वा?) नन्तरं तूर्याणि घोषयेत्।
वरुणदिगालयं शङ्कुकर्णं पीतवर्णं त्रिवीक्षणं पीतवाससं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं व्याघ्रारूढं पितृग्रहगणमध्यस्थं वरुणवारुणपाशीपाशधरगुरुक्षेपणक्षोभणनारदसर्वदरविसुमननामनहंसवैकुण्ठपरमपरहुनमत्वसुमत्भद्रभद्रवप्रभवमहाकर्णविकर्णशशकशलकपिकवानरनरककार्ष्णीकर्णधरांशुमत्चक्रृभृत् [उग्र] वज्रीवज्रनाभविनाभककरप (-भ?) कुरभदाक्षिणदक्षिण सुहृद्दुर्गन्धपूतिगन्धतार्क्ष्यगरुडविरोधरोधकरोधकङ्कणवृकोदरै: परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं दत्वा अञ्जलिं कृत्वा बलिबेरे मुखवासं दत्वा शङ्खादीन् घोषयेत्।
अथ पुनरनिलदिङ्निलयं अतितप्तहाटकनिभं सर्पनेत्रं त्रिणेत्रं चतुर्भुजं हरिद्रावाससं परशुपाशधरं मुष्टिसंनद्धहस्तं ग्रामाभिमुखं मृगाधिरूढं नागाभरणभूषितं गन्धर्वग्रहगणान्तं: स्थितं मरुन्मारुतगोरुर्व्याखुवायुसुतानिलगलर्तवर्तककंकमार्गणप्राङ्कणाचलबलबलनिधिवीरविरोधरोधकविधिसिद्धवसुयवसंकरधीरकमालीमालाविधिवस्तुसमर्थसमुहोत्सवकर्कटकटकगन्धगन्धवहपरसिक्तवसिक्तरोगीसेवकसेवनसवौषधभेषजरोगीगभवकारणकरणकर्तृगरवीरखल (अखल?) बलवाकुवाहसुचारुभि: परिवृतं यथोक्तमभ्यर्च्याचमनं दत्वा अञ्जलिं दर्शयित्वा बलिबिम्बान्नवास: निर्वर्त्य (बलिबिम्बेमुखवासं तद्दिनबलिं च दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घाषयेत्।
अनन्तरममृतकराशास्थितं श्यामच्छायं श्यामाम्बरधरं त्रिणेत्रं चतुर्भुजं जलजचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं यक्षग्रहगणमध्यस्थं सुमुखं मेषारूढं सोमसोमकलसोम (सोम्य?) सामवित्सामनायकसुधासुधाताधातासुराष्ट्रकाष्ठककलिकालधृक्कालचक्रकालकूटविषबलामृतामृतनाथकेयूरीकेवलीबलीविष्णुकृष्णपिशङ्गाङ्गी रेखालेखालेखपिकशुकलूबकशुकश्येनश्येनमुखमार्जारमरुभृद्वालगुल्मकणवककणशेषविशेषोच्छेद (-ष?) कर्दमपूतिविग्रहसाम्बसंवत्सरवेगीवेगधरमरुद्भि: चतुरै राक्षससहस्रगैर्नायकै: परिवृतं सागणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं परिवृतं सगणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं निवेद्यञ्जिलिं दर्शयित्वा [बलि] प्रतिमामुखवासं विधाया(दत्वा)शादेवतातृप्त्यर्थं शङ्खादीन् घोषयेत्।
अथ पुनरीशानशाप्रतिष्ठितं सुप्रतिष्ठितं सिंहारूढं रजतवर्णं रजतवाससं त्रिणेत्रं चतुर्भुजं खड्गमुद्गदधरं मुष्टियुद्धहस्तं ग्रामाभिमुखं पिशाचग्रहगणमध्यस्थं ईशानेश्वरव्यापीव्यसनविनशबुधधरबकविशवादशकुनिशकटघटवृक्षकक्षक्षमीक्षान्तिमातृरोमकपिञ्जलब्रह्मण्यब्रह्मविद्ब्रह्मीब्रह्मात्मब्रह्मसाधनवेदीवेदविदुद्बन्धशङ्करशङ्करधीमद्विसृष्टिरिष्टात्मदुष्टात्मदुष्टकर्मकृत्विनेतृविगोविन्दगोपतिगोप्तृमहेश्वरै: परिवृतं यथं क्तमभ्यर्च्याचमनं दत्वा तद्दिनबलिं दत्वाञ्जलिं दर्शयित्वा बलिबिम्बाननवासं निर्वर्त्य(दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घोषयेत्।
अनन्तस्थितं पृश्निगर्भं सिद्धग्रहगणान्वितं तप्तजाम्बूनदसंकाशं चतुर्वक्त्रं चतुर्भुजं अक्षसूत्रकमण्डलुधरं पुष्पाञ्जलिधरं हंसाधिरूढं पश्चिमाभिमुखं कमलोद्भवं कमलासनं सिद्धधातृविधातृधातृप्रजापतिलोकेशलोककृत्कर्तृस्रष्ट्रुब्रह्मात्मभसुतापतुलरीतिवर्धनाव्यक्तगुणवद्गौणगुणभुगुद्गीथप्रणवहिरण्यगर्भविरिञ्चपुष्करभासनभासविकर्णविजयरथन्तरच्छन्दोयजुऋगथर्वमरीच्यङ्गिरपुलहक्रतुवसिष्ठप्रचेतशलभभीष्महेमन्तशिशिरकुसुमाकरकलहविराहि (-गि?) अमर्षरोषणशोषणगतिहर्षणवर्धनै: पृश्निगर्भवशानुगै: भीमरूपमहाकायैरसंख्यपरिवारकै: व्याघ्रवक्त्रैर्मेषववत्रै: शशमुखे: स्वस्तिवक्त्रै: व्यालवक्त्रै: वराहवक्त्रै: कुक्कुटवक्त्रै: बलाकवक्त्रै: हंसवक्त्रै: मयूरवक्त्रै: स्वस्तिकास्यै: चक्रवाकाननै: कपोतास्यैरेकनेत्रै: द्विनेत्रै: त्रिणेत्रै: (बहुनेत्रै:?) एकपादै: द्विपादै: बहुपादै: एकवक्त्रै: बहुवक्त्रै: असंख्यै: परिवृतं विष्णुपार्षदेश्वरगणमध्यस्थं
ध्यात्वार्घ्यादिभिरभ्यर्च्य बलिद्रव्यं प्रदायाचमनाञ्जलिं दर्शयित्वा बिम्बाभिमुखं कृत्वा पुष्पाञ्जलि: साधको नमस्कृत्य समस्तमङ्गलवाद्यादि मुखवासं विधाय (दत्वा?) तद्देवतातृप्त्यै शङ्खादीन् घोषयेत्।
नारद:---
उत्सवेऽर्घ्यप्रदानादि चण्डादीनां गुरोऽस्ति किम्।
भेद: सामान्यतो वापि मन्त्रं किं वा विधि: प्रभो ।। 44 ।।
विष्वक्सेन:---
चण्डादिदेवताध्यानं कृत्वा देवमुखे तत:।
दक्षिणेऽर्घ्यं तथाचामं हस्ते पादे च पाद्यकम् ।। 45 ।।
ललाटे गन्धमादद्यात् पुष्पं शिरसि धारयेत्।
नासादक्षिणपार्श्वे तु धूपं दीपं ततो दृशि ।। 46 ।।
बलिद्रव्यं च पानीयं पुनराचमनं तथा।
दक्षिणे दोष्णि दद्यात्तु तत्प्रमाणमथो शृणु ।। 47 ।।
पाद्यार्घ्याचमनीयं तु परिमाणमथेच्यते (?)।
गन्धं षड्बिन्दुमात्रं तु पुष्पं मुष्टिप्रपूरितम् ।। 48 ।।
धूपं सुरभिणा व्याप्तं शान्तज्वालोच्छ्रितोत्थितम्।
बहुरेखमरत्यग्रं(?) दशमात्रं प्रदापेयत् ।। 49 ।।
दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम्।
धूपवद्दीपयेद्देवमुपचारनिवर्तकम् ।। 50 ।।
त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणे दृशि।
इत्थं निर्वर्त्य वाराणां राजराष्ट्रविवृद्धिकृत् ।। 51 ।।
अन्यथा परिवाराणां अर्चोत्सवविधौ भवेत्।
राजराष्ट्रविनाशाय दुर्भिक्षानर्थदो भवेत् ।। 52 ।।
ततश्चण्डादिमन्त्राणां लक्षणं कथ्यतेऽधुना।
प्रणवादिनमोऽन्तं च नाममन्त्रमिति स्मृतम् ।। 53 ।।
पीठे पीठे बलिं क्षिप्त्वा ग्राममध्ये समापयेत्।
भूतकृद्भ्यो नम: सर्वभूतेभ्यश्च नमोऽस्त्विति ।। 54 ।।
नमोऽस्तु सर्वभूतेभ्य इति मन्त्रमुदीरयेत्।
तस्मिन् वेद्यादिपर्यन्तं देशे मन्त्रमिति स्मृतम् ।। 55 ।।
अनुगच्छन्ति ये त्वत्र कौतुकं कौतुकान्विता:।
पदे पदे क्रतुफलं लभन्ते नात्र संशय: ।। 56 ।।
शुद्धवासा: शुचिर्भूत्वा कृतदन्तानुधावन:।
हविष्यभुग् यतात्मा च आचार्यो बलिमाचरेत् ।। 57 ।।
रात्रौ बलिप्रदानान्ते स्नानं सद्य: समाचरेत्।
प्रतिष्ठोत्सवहोमेषु स्नपनादौ विशेषत: ।। 58 ।।
आरभ्य तन्त्रानुक्तं च निरीक्ष्यान्यांस्तु कारयेत्।
अन्यथा केवलं तन्त्रमेकं वीक्ष्य प्रयोजयेत् ।। 59 ।।
*तत्संक्षेपं न विस्मृत्य* मोहात् सर्वविनाशकृत्।
तीर्थपूर्वदिने रात्रावधिवासनमाचरेत् ।। 60 ।।
यागमण्डपमध्ये वा देवस्य पुरतोऽथवा।
वेदिं कृत्वाथ शालीभिरष्टद्रोणसमन्वितम् ।। 61 ।।
तदर्धं तण्डुलं न्यस्य तन्मध्येऽम्बुजमालिखेत्।
कुशान् संस्तीर्य तन्मध्ये वस्त्राणि परितो न्यसेत् ।। 62 ।।
गन्धपुष्पै: समास्तीर्य प्रोक्षयेन्मूलविद्यया।
अष्टदिग्दीपसंयुक्तं कर्पूरागरुधूपितम् ।। 63 ।।
धूपयित्वा ततो वेदिं तन्मध्ये देवमानयेत्।
अर्घ्यपाद्यादिनाभ्यर्च्य हविरस्मै तु दापयेत् ।। 64 ।।
देवस्य पूर्वपार्श्वे तु पूर्णकुम्भं निधाय तु।
वेष्टितं सूक्ष्मवस्त्रैश्च हेमरत्नसमन्वितम् ।। 65 ।।
तस्मिन्नावाहयेत् तीर्थान् सरितश्च सरांसि च।
पूजयित्वैव गन्धाद्यैस्ततो देवं समर्चयेत् ।। 66 ।।
प्रार्थयेत्तीर्थयात्रार्थं प्रणिपत्यैव देशिक:।
देवदेव जगन्नाथ नमस्ते लोकभावन ।। 67 ।।
तीर्थयात्रां कुरुष्व त्वं प्रसीद पुरुषोत्तम।
प्रार्थचित्वैव देवेशं प्रोक्षयेत् कुम्भवारिणा ।। 68 ।।
पञ्चमन्त्रैश्च सूक्तेन पौरुषेण च मन्त्रवित्।
तथा नारायणं सूक्तं सृष्ट्य दिप्रतिपादकम् ।। 69 ।।
अथर्वणमिदं सूक्तं सर्वकामप्रदं शुभम्।
आत्मानं च तथाचार्यो वैष्णवांश्चैव सात्त्वतान् ।। 70 ।।
गङ्गस्नानफलं सर्वं(-र्वे?)लभन्ते प्रोक्षयेत्तदा।
पुनराचमनं दत्वा गन्धपुष्पादिनार्चयेत् ।। 71 ।।
हविर्निवेदनं कुर्यादपूपांश्च फलानि च।
पानीयाचमनं दत्वा मुखवासं तथैव च ।। 72 ।।
निवेदितं तु तत्सर्वं आचार्याय निवेदयेत्।
आचार्यस्य मन: प्रीतिरतिसंपत्तिकारिणी ।। 73 ।।
आचार्यस्यानुरूपेण सात्त्वतेभ्यो निवेदयेत्।
किञ्चिन्मात्रं गृहीत्वा तु सदस्यानां तु दापयेत् ।। 74 ।।
पुण्याहं वाचयित्वैव कौतुकं बन्धयेत्तत:।
दर्शयेद्देवदेवस्य मङ्गलानि यथाक्रमम् ।। 75 ।।
छत्रं चामरमादर्शं सुमुहर्ते निवेदयेत्।
शाययेच्छयने दिव्ये देवं मूलेन विद्यया ।। 76 ।।
आत्मानं कौतुकं बद्ध्वा रात्रिशेषं समापयेत्।
अथ तीर्थेऽहनि प्राप्ते नित्यकर्म समाप्य च ।। 77 ।।
मण्डपे मध्यमे भागे सोमेशाने तु लेपयेत्।
तन्मध्ये शालिना वेदिं कुर्यान्मध्येऽब्जमुत्तमम् ।। 78 ।।
उलूखलान(-न्य?)लंकृत्य निशाचूर्णै(-खण्डै?)स्तु पूरयेत्।
पूर्वोक्तेन विधानेन घातयेत्तत्त्रिधा पुन: ।। 79 ।।
तस्य पश्चिमभागे तु शालिमध्ये महामुने।
तीर्थार्थं स्थापयेच्चूर्णान् गन्धादीन् क्रमयोगत: ।। 80 ।।
गन्धचूर्णं तथा पिष्टं चूर्णं रजनिमेव च।
शालिमध्ये तु संस्थाप्य प्रागादीशावसानकम् ।। 81 ।।
नववस्त्रैस्तु संवेष्ट्य कलशान्(-शो?)लूखलान्(?)क्रमात्।
पश्चाद्रजनिचूर्णं तु पूरयेत् कलशे मुने ।। 82 ।।
अर्घ्यपाद्यादिनाभ्यर्च्य तं देवं मूलविद्यया।
स्नापयेद्देवदेवस्य मूर्ध्नि पश्चात् समाहित: ।। 83 ।।
गन्धादिचूर्णान् संगृह्य तीर्थदेशे समाचरेत्।
चूर्णोत्सवं तत: कुर्यात् चुर्णस्नानसमन्वितम् ।। 84 ।।
ग्रामं प्रदक्षिणं कृत्वा तीर्थदेशं समानयेत्।
पुण्याहाज्यारोपणं स्नानवस्त्रं
पाद्यार्घ्यं वै दन्तकाष्ठं च तोयम् ।। 85 ।।
दत्वादर्शं तैलमुद्वर्तनं च
धात्रीस्नानं स्नानपूर्वोपचारम्।
स्नानक्रमं प्रवक्ष्यामि नित्ये नैमित्तिकेऽपि च ।। 86 ।।
काम्ये तु वा प्रकुर्वीत देवदेवस्य शाङ्र्गिण:।
देवस्य पूर्वभागे तु मण्डलं पञ्चहस्तकम् ।। 87 ।।
कृत्वा तन्मध्यमे न्यस्य शालिद्रोणद्वयं मुने।
विस्तीर्य वेदिमध्ये तु तदर्धं तण्डुलं तथा ।। 88 ।।
तत्र मध्ये न्यसेद्विद्वान् कलशान् द्वादश क्रमात्।
मध्यमे तु घृतं न्यस्य तत्र पूर्वे दधि न्यसेत् ।। 89 ।।
दक्षिणे विन्यसेत् क्षीरं मधु वारुणगोचरे।
सोमे चोष्णोदकं न्यस्य साधक: परमार्थवित् ।। 90 ।।
आग्नेय्यां गन्धतोयं तु नैरृते पुष्पतोयकम्।
वायव्ये मङ्गलोदं तु ईशाने शुद्धवारिभि: ।। 91 ।।
हस्तमुत्सृज्य नवकादैन्द्रे वा चोत्तरेऽथवा।
स्थापयेत् क्रमयोगेन चूर्णानि क्रमयोगत: ।। 92 ।।
परमेष्ट्यादिभिर्मन्त्रै: स्नापयेत् पुरुषोत्तमम्।
ततश्च विमृजेच्चूर्णैर्मूलेनाङ्गादि दैवके ।। 93 ।।
पुनश्च कुशकूर्चेन मार्जयेद्बिम्बमुत्तमम्।
एवं वै कलशान् न्यस्य कूर्चद्रव्यात् न्यसेद्बुध: ।। 94 ।।
चक्रिकां स्थापयेत्तस्मिन् गन्धपुष्पं विनिक्षिपेत्।
नववस्त्रैस्तु संछाद्य गन्धपुष्पादिनार्चयेत् ।। 95 ।।
ततस्तु परित: कुर्याद्रक्षार्थं कुमुदादिकान्।
कुमुदं पूर्वदिग्भागे पुण्डरीकं तु दक्षिणे ।। 96 ।।
शङ्कुकर्णं प्रतीच्यां तु सुमुखं चोत्तरे न्यसेत्।
आग्नेये कुमुदाक्षं तु नैरृते वामनं न्यसेत् ।। 97 ।।
सर्पनेत्रं तु वायव्यामीशाने सुप्रतिष्ठतम्।
एवं तु कुमुदादींस्तु कलशेषु न्यसेद्बुध: ।। 98 ।।
तुलसीसहदेवी च बिल्वमौदुम्बरं तथा।
अश्वत्थं प्लक्षवकुलं सदाभद्रा प्रकीर्तिता: ।। 99 ।।
एतेषां पल्लवान् गृह्य कलशेषु न्यसेत् क्रमात्।
पुष्पादिभि: समभ्यर्च्य धूपदीपान्तमेव च ।। 100 ।।
एवं वै कलशान् न्यस्य द्रव्यदेवान् ब्रवीमि ते।
शालिनीवारमाषांश्च चन्दनोशीरमेव च ।। 101 ।।
पञ्चचूर्णमिति ख्यातं परागाणामनुत्तमम्।
चन्दनं कुङ्कुमोशीरं चम्पकोत्पलवासितम् ।। 102 ।।
गन्धतोयमिति ख्यातं गङ्गावारिसमप्रभम्।
उत्पलं मल्लिकाजातिपाटलं पद्ममेव च ।। 103 ।।
पञ्च पुष्पोदकमिदं पञ्चोपनिषदं न्यसेत्।
इन्द्रवल्यङ्कुराश्वत्थदलैकं पद्ममेव च ।। 104 ।।
एतत्तु कथितं पूर्वं मङ्गलं मङ्गलोदकम्।
शुद्धतोयं समादाय मन्त्रेण परमेष्ठिना ।। 105 ।।
कुशाग्रेण मथित्वा तु देवेशमभिषेचयेत्।
कुङ्कुमोशीरकुष्ठं च रजनीचन्दनं तथा ।। 106 ।।
एतत्तीर्थमयं पुण्यं तीर्थचूर्णमिति स्मृतम्।
रजनीष्वेकवर्ज्यं तु द्रोणं वाप्यर्धमेव वा ।। 107 ।।
आढकं वा तदर्धं वा चूर्णं कुर्यात्तु मन्त्रवित्।
चूर्णानामप्यलाभे तु रजनीचूर्णमुत्तमम् ।। 108 ।।
शालिभिर्वाथ सर्वेषां स्नापयेन्मूलविद्यया।
घृतादिस्नेहद्रव्याणामाढकं वार्धमेव वा ।। 109 ।।
सर्वेषामप्यलाभे तु पूरयेद्गन्धवारिणा।
तेनैव स्नापयेद्देवं यथावित्तानुसारत:(?) ।। 110 ।।
यत्प्रोक्तं चोत्सवे पुष्पं तस्या (?) एवं तु मन्त्रवित्।
तत्तद्दोषं स्मरेत् क्षिप्य तुलसी चोत्पलाक्षतम् ।। 111 ।।
एवं द्रव्यं तु संप्रोक्तं दैवतं कथयामि ते।
दामोदरावसानाश्च केशवाद्याश्च मूर्तय: ।। 112 ।।
घृतादिकलशानां तु देवता: परिकीर्तिता:।
रक्षार्थं कलशानां तु कुमुदादीनि दैवतम् ।। 113 ।।
उद्धारणक्रमं येन तत्प्रोक्तं दैवतं क्रमात्।
एवं संस्थाप्य विधिवत् पश्चाच्छुद्धिं समाचरेत् ।। 114 ।।
पुण्याहं वाचयित्वा तु प्रोक्षयेत् कुशवारिणा।
एवं संप्रोक्ष्य विधिवत् तत: स्नपनमाचरेत् ।। 115 ।।
घृतेन दध्ना पयसा मधुनोष्णाकदकेन च।
स्नापयेत् पञ्चचूर्णैश्च संप्रपूज्य प्रभुं मुने ।। 116 ।।
अष्टाक्षरेण गन्धाम्भ: पुष्पाम्भो द्वादशाक्षरै:।
मङ्गलं विष्णुगायत्र्या शुद्धाम्भ: प्रणवेन तु ।। 117 ।।
तीर्थचूर्णं तत: स्नाप्य मूलमन्त्रेण साधक:।
स्नपनान्ते तु संस्थाप्य रजनीचूर्णमुत्तमम् ।। 118 ।।
आज्यादिनिशि(?)चूर्णान्तं एवं संस्नापयेत् क्रमात्।
गन्धपुष्पादिनाभ्यर्च्य दीपान्तं च महामुने ।। 119 ।।
स्नपनान्ते तु मन्त्रज्ञ: कुमुदादींश्च रक्षकान्।
देवस्य शिरसि भ्राम्य भक्तानां तु प्रदापयेत् ।। 120 ।।
एवं तु स्नपनं कृत्वा नदीस्नानं तु कारयेत्।
तीरे देवं समानीय कुशकूर्चेन मार्जयेत् ।। 121 ।।
पाद्यादिदीपपर्यन्तं अर्चयेत् कौतुकं तत:।
अवगाह्य च तत्तीर्थं तीर्थानावाह्य सर्वत: ।। 122 ।।
कृत्वाघमर्षणं तत्र पञ्चमन्त्रै: समाहित:।
जलकेलिं तत: कृत्वा तीरमासाद्य देशिक: ।। 123 ।।
तत्र तीर्थजले स्नात: सर्वपापै: प्रमुच्यते।
अलंकृत्य तु वस्त्राद्यैर्गन्धपुष्पादिनार्चयेत् ।। 124 ।।
हविर्महाहविर्वापि दत्वा नृत्तादि कारयेत्।
देवस्य पूर्वदिग्देशे बलिं दद्यात् समाहित: ।। 125 ।।
नमोऽस्तु सर्वदेवेभ्य एवमुच्चार्य मन्त्रत:।
पालिकाद्यैरलंकृत्य यानमारोपयेद्धरिम् ।। 126 ।।
पुन: प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा।
आलयं वाप्यभावे तु यथावित्तानुसारत:(!) ।। 127 ।।
स्वस्तिवाचनसंयुक्तं शङ्खभेरीरवाकुलम्।
प्रदीपशतसंयुक्तं नृत्तगीतादिसंयुतम् ।। 128 ।।
पुष्पवृष्टिसमायुक्तमक्षता(?) लाजसंयुतम्।
सामगीतसमायुक्तं जयशब्दसमन्वितम् ।। 129 ।।
प्रदक्षिणं परिक्रम्य नद्रुतं नविलम्बितम्।
यागभूमिं समासाद्य पूजयित्वा यथाक्रमम् ।। 130 ।।
स्नपनं विधिवत् कृत्वा पुष्पयागं समारभेत्।
कृत्वा पद्मं चक्रकं मण्डलं वा
तत्र स्थाने वासुदेवादिकां (-का?) श्च ।। 131 ।।
शङ्खाद्या वै बाह्यतो लोकपाला:
विष्वक्सेनो वैनतेयश्च बाह्ये।
भूतेशा वै बाह्यत: पूजनीया:
गौल्यन्नं वै भक्ष्यमग्नेश्च कार्यम् ।। 132 ।।
पुण्याहार्घ्यं पुष्पमेकं बलिं च
पूजापुज्ये मूलबिम्बे स्थितं वै
चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत् ।। 133 ।।
ध्वजावरोहणं कुर्यात् उद्वास्यैव तु देवता:।
दत्वा महाबलिं ताभ्यो मुद्गान्नापूपलाजकै: ।। 134 ।।
सक्तुभिर्ग्रामबाह्ये च मध्ये चैव क्षमाप्य च।
ध्वजाद्विसर्जयेद्देवं वैनतेयं स्वमन्त्रत: ।। 135 ।।
एकरात्रिद्विरात्रे वा त्रिरात्रे तु महामुने।
ध्वजावरोहणं कुर्यात् अधिकं तु न कारयेत् ।। 136 ।।
अधिकं यदि चेत्तत्र स्नपनं कारयेत् क्रमात्।
उत्सवप्रतिमायां तु स्नपनं त्वधमोत्तमम् ।। 137 ।।
पञ्चविंशतिभिर्वापि कलशैर्द्वादशैस्तु वा।
यथावित्तानुसारेण (!) स्नपनं कारयेद्धरिम् ।। 138 ।।
ध्वजावरोहणं पश्चात् कारयेन्मन्त्रवित्तम:।
कर्षणादिषु पूजायां प्रतिष्ठारोहणादिषु ।। 139 ।।
ध्वाजारोहणवेलायां ध्वजस्याप्यवरोहणे।
उत्सवे बलिदाने तु शङ्खाद्यैश्चैव घोषयेत् ।। 140 ।।
शङ्खतूर्यादिनिर्घोषं हरितृप्तिकरं मुने।
रक्षोविद्रावणं चैव राजशान्तिकरं तथा ।। 141 ।।
राष्ट्रवृद्धिकरं सम्यक् यजमानसुखावहम्।
स्नपनस्थापनादीनां या मुद्रा यस्य कथ्यते ।। 142 ।।
तां तथाशक्नुवन् कर्तुं मूलमन्त्रं न्यसेत् करे।
तेन कुर्वन् क्रिया: सर्वा: करेण मुनिपुङ्गव ।। 143 ।।
तृतीयं समनुध्यानं ते चान्तेऽञ्जलिकारका:।
तृप्तिं कुर्वन्ति देवस्य जलस्थानजलेश्वरान्(?) ।। 144 ।।
तृप्त (तर्प) येदात्मनस्तृप्तिमिति गुह्योपदेशक:।
देवोत्सवादिक्रियया नृपस्य
बलायुरारोग्यजयश्रियश्च ।। 145 ।।
*राष्ट्रस्य वृद्धिर्धनधान्ययुग्वै
प्रयोजयित्रादि फलं सुखादि*।
उत्सवाङ्गमथो वक्ष्ये यागमण्डपमुत्तमम् ।। 146 ।।
दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा।
याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम् ।। 147 ।।
तत्पूर्वभागे कर्तव्यं कुण्डं लक्षणसंयुतम्।
कुण्डपार्श्वे मुनिश्रेष्ठ वेदिं कुर्याद्यथाविधि ।। 148 ।।
चतुर्हस्तप्रमाणेन कारयेद्वेदिमुत्तमाम्।
विस्तारायामतुल्या स्याद्यागवेदिर्महामुने ।। 149 ।।
त्रिहस्तं वा द्विहस्तं वा कारयेद्वेदिमुत्तमाम्।
रत्निमात्रसमुत्सेधामथवा तालमात्रकाम् ।। 150 ।।
दर्पणोदरसंकाशां यागवेदिमनुत्तमाम्।
एवं कृत्वा विधानेन वेदिं भुक्तिशुभप्रदाम् ।। 151 ।।
तत्रोपरि लिखेत् पद्ममष्टपत्रदलाकृति।
गोमयेन समालिप्य द्वादशाक्षरविद्यया ।। 152 ।।
प्रोक्षयेत्तेन मन्त्रेण कुशपूतेन वारिणा।
पालिका चाङ्कुरोपेतमष्टमङ्गलसंयुतम् ।। 153 ।।
पूर्वादिक्रमयोगेन शङ्खादीन् मङ्गलान्(!)न्यसेत्।
उत्तमादिक्रमं प्रोक्तं वेदिकालक्षणं मुने ।। 154 ।।
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा कुशाम्भसा।
स्वस्तिसूक्तं ततोच्चार्य(?)ब्राह्मणै: सह मन्त्रवित् ।। 155 ।।
तत्र मध्ये मुनिश्रेष्ठ शालिना वेदिमाचरेत्।
पञ्चभारप्रमाणं वा तस्यार्धं वार्धमेव वा ।। 156 ।।
विस्तीर्य वेदिमध्ये तु रक्तशाल्यन्तमेव वा।
पूर्ववद्विलिखेद्रक्तपद्ममष्टदलैर्युतम् ।। 157 ।।
तत्र मध्ये तु संस्थाप्य नवकुम्भान् यथाक्रमम्।
सूत्रत्रयसमोपेतान् गालितोदकपूरितान् ।। 158 ।।
वस्त्रयुग्मैरलंकृत्य गन्धपुष्पसमन्वितान्।
पञ्चरत्नसमोपेतान् कूर्चत्रयसमन्वितान् ।। 159 ।।
अश्?वत्थपल्लवैर्युक्तांश्चक्रिकाभि: पिधाय तु।
एवं लक्षणसंयुक्तकुम्भेष्वावाहयेत् क्रमात् ।। 160 ।।
महाबेरान्नयेच्छक्तिं मध्यकुम्भे महामुने।
पूर्वादि चष्टकुम्भेषु वासुदेवादिकान् यजेत् ।। 161 ।।
अर्घ्यपाद्यादिनाभ्यर्च्य हवींषि मुखवासकम्।
दापेयत् कुम्भमध्यस्थदेवाय मुनिसत्तम ।। 162 ।।
पूर्वादि चाष्टकुम्भेषु तच्छेषेण बलिं क्षिपेत्।
वासुदेवादिकान् ज्ञात्वा स्वनाम्नैव पृथक् पृथक् ।। 163 ।।
ततस्तु कुमुदादीनां कुम्भस्य परितोऽर्चयेत्।
घण्टाशब्दसमोपेतं कुक्कुटाण्डप्रमाणत: ।। 164 ।।
स्वस्तिवाचनसंयुक्तं धूपदीपसमन्वितम्।
स्वनम्ना बलिदानं तु साधयेत् साधकोत्तम: ।। 165 ।।
नारिकेलफलं दद्यात् सन्ध्ययोरेवमर्चयेत्।
तत्पूजान्ते तु मन्त्रज्ञो होमकर्म समारभेत् ।। 166 ।।
अष्टोत्तरशतं वापि तदर्धं वार्धमेव वा।
समिदादितिलान्तं तु जुहुयात् साधकोत्तम: ।। 167 ।।
होमान्ते बलिदानं तु कारयेद्ग्रामवास्तुषु।
ततस्तीर्थस्य दिवसे पूर्वाह्णे होमपूजनम् ।। 168 ।।
कारयेत् पूर्ववत् सम्यक् साधक: परमार्थवित्।
होमान्ते चानयेत् कुम्भात्तच्चक्षुर्मूलबेरके ।। 169 ।।
ततस्तु वासुदेवादीन् नयेत् पूर्ववदावृते।
वत्सरे वत्सरे ब्रह्मन् कर्तव्यं परमं शुभम् ।। 170 ।।
नित्यपूजाविहीनस्य प्रायश्चित्तं महोत्सवम्।
एवं संपूजयेद्देवं चोत्सवे यागमण्डपे ।। 171 ।।
तीर्थस्य दिवसं यावत्तावत् संपूजयेत् क्रमात्।
यागमण्डपपूजायामङ्कुरार्पणपूजने ।। 172 ।।
बलिशेषं होमशेषं पात्रशेषं तथैव च।
अस्मिन्निवेदितं सर्वमाचार्याय प्रदापयेत् ।। 173 ।।
अन्यथा निष्फलं याति यजमानस्य रोगकृत्।
तस्मात् सर्वप्रयत्नेन कारयेच्छास्त्रचोदितम् ।। 174 ।।
य: कारयेत्तु मतिमान् तत्फलं समवाप्नुयात्।
यागमण्डपपूजां तु विना चेदुत्सवं कुरु ।। 175 ।।
केवलं होममात्रेण चाप्यलं तु महोत्सवम्।
धन्यं यशस्यमायुष्यं सर्वपापनिकृन्तनम् ।। 176 ।।
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां [उत्सवविधिर्नाम]
सप्तविंशोऽध्याय:।