विश्वक्सेनासंहिता /अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ विश्वक्सेनासंहिता
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
विश्वक्सेनासंहिता अध्यायाः


चतुर्दशोऽध्याय:
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि चरुपाकविधिं परम्।
श्रृणु नारद सर्वज्ञ व्रीहिक्षेत्रादिकान् क्रमात् ।। 1 ।।
न चोषरधरायां च चण्डालादिगृहान्तिके।
न श्मशानान्तिके भूम्यां धान्यसंग्रहणं भवेत् ।। 2 ।।
शुभक्षेत्रोद्भवं धान्यं त्र्यहाब्दं (त्र्यब्दं वा?) वत्सरं तु वा।
षण्मासं वा त्रिमासं वा सम्यक् पर्युषितं शुभम् ।। 3 ।।
रक्तशालिं ततो (तु वा?) श्वेतं कृष्णशालिं तथैव च।
संग्रहेऽस्मिन् मुनिश्रेष्ठ तण्डुलं श्वेतमुत्तमम् ।। 4 ।।
कुन्देन्दुमुक्तासंकाशै: तत्कृतै: (?) शालितण्डुलै:।
पाचयेद्धरिवेश्मस्य (-गेहस्य?) आग्नेय्यां पचनालये ।। 5 ।।
मन्त्रज्ञो वंशसंपन्न: प्रात:स्नानपरायण:।
हविषां पाकयोग्यस्तु बलवान् कर्मतत्पर: ।। 6 ।।
मानादि चाधुना वक्ष्ये श्रृणु गुह्यमनुत्तमम्।
द्विशतै: पञ्चविंशद्भि: व्रीहिभिश्चैव पूरितम् ।। 7 ।।
शुक्तिमात्रमिति ख्यातं मानं तेनैव कल्पयेत्।
तद्द्वयं तलमित्युक्तं प्रकुब्जं (-ञ्च:?)स्यात्तलद्वयम् ।। 8 ।।
तद्द्वयं प्रसृति: प्रोक्ता कुडुम्बं(-बं?)प्रसृतिद्वयम्।
अञ्जलिस्तद्द्वयं प्रोक्तं प्रस्थ: स्यादञ्जलिद्वयम् ।। 9 ।।
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत्।
तद्द्वयं शिवमित्युक्तं द्रोणं विद्याच्छिवद्वयम् ।। 10 ।।
द्रोणद्वयं भवेत् खारी भारं खारित्रयं भवेत्।
मानमेवं मया प्रोक्तं पात्रशुद्धिमथो श्रृणु ।। 11 ।।
चरुपात्रद्वयं प्रोक्तं ताम्रं मृण्मयमेव वा।
ताम्राभावे मुनिश्रेष्ठ मृण्मयं वाथ कारयेत् ।। 12 ।।
दिने दिने नवं गृह्यं साधयेत् साधकोत्तम:।
?B पात्राणि च शरावाणि संगृह्य परिचारक: ।। 13 ।।
शुद्धतोयेन संक्षाल्य विष्णुगायत्रिया पुन:।
प्रोक्षयेद्गन्धतोयेन पञ्चोपनिषदै: क्रमात् ।। 14 ।।
पात्रशुद्धिरिह प्रोक्ता हवि:संख्या(?)प्रचक्षते।
उत्तमोत्तममित्युक्तमष्टद्रोणैस्तु पूरितम् ।। 16 ।।
षड्द्रोणैस्तण्डुलै:सिद्धं भवेदुत्तममध्यमम्।
द्रोणहीनं भवेत्तत्र उत्तमाधममुच्यते ।। 17 ।।
मध्यमोत्तममित्युक्तं खारिद्वयसमन्वितम्।
द्रोणद्वयेन नैवेद्यं भवेन्मध्यममध्यमम् ।। 18 ।।
मध्यमाधममित्युक्तं *द्रोणद्वयसमद्वयम्*(?)।
द्रोणं चैव तदर्धं च तस्यार्धमधमत्रयम् ।। 19 ।।
तण्डुलैराढकैर्हीनं नैवेद्यं न प्रकल्पयेत्।
चरु:प्रस्थद्वय: प्रोक्त: हविराढकमुच्यते ।। 20 ।।
तस्मिन् (तत्तु?)श्रियादिदेवीनामाढकं वार्धमेव वा।
निवेदयेन्मुनिश्रेष्ठ तण्डुलानां विधिं श्रृणु ।। 21 ।।
द्वितीयावरणे चैव तृतीयावरणेऽपि वा।
कुर्याद्धान्यावघातस्य शालामीशानगोचरे ।। 22 ।।
दक्षिणे वाथ वायव्ये नैरृते वान्तरे तथा।
शालां च भूषयित्वा तु वितानाद्यैर्मनोहरै: ।। 23 ।।
गोमयेन समालिप्य शालिपिष्टैर्विचित्रयेत्।
ब्राह्मणी तु सुशीला च ब्राह्मण्येन समन्विता ।। 24 ।।
धान्यावघातं तत्रैव कुर्यादाममनुत्तमम्।
उलूखलादि संप्रोक्ष्य हरिरित्युच्चरन् क्रमात् ।। 25 ।।
घातयेत् सर्वधान्यानि पश्चात्तण्डुलमेव च।
आमं वाप्यथवा पक्वमेवमेव दिने दिने ।। 26 ।।
संस्कृत्य तण्डुलान् सर्वान् संगृह्य प्रणवेन तु।
निरीक्ष्य तण्डुलान् पश्चात् शर्करादीनि सर्वश: ।। 27 ।।
हरिस्मृत्या क्रमेणैव शुचिर्भूत्वा समहित: (ता?)।
परार्थे विष्णुपूजायां सच्छूद्रो वैष्णवो मुने ।। 28 ।।
न स्पृशेत् पक्वमामं...कुर्याद्यथारुचि।
तदभावे मुनिश्रेष्ठ वैष्णवानां गृहे गृहे ।। 29 ।।
दिने दिने तु कर्तव्यास्तण्डुला: शूद्रकैर्विना।
अस्मिन् (यस्तु?)शुद्रगृहे मोहाल्लेभाद्वा मुनिसत्तम ।। 30 ।।
तण्डुलं कुरुते पूजा निष्फला सा भविष्यति।
सर्वनाशमवाप्नोति तस्माद्यत्नेन वर्जयेत् ।। 31 ।।
स्वार्थार्चने यथाकामं भक्त्या देवाय दापयेत्।
अभिन्नास्तण्डुला ग्राह्या अखिन्नाश्च तथैव च ।। 32 ।।
अतुषाश्चाप्यपाषाणा: कृमिकीटविवर्जिता:।
अकणाश्च रजोपेता: *पांसुस्पर्शनवर्जिता*(?) ।। 33 ।।
अपक्वास्तण्डुलाश्चान्या: ?न निवेद्या: कथंचन।
पक्वमेव चरुं दद्यात् अपक्वं तु विवर्जयेत् ।। 34 ।।
वर्जितं च चरुं मोहात् निवेदयति चेन्मुने।
राक्षसाश्च पिशाचाश्च हृष्टा गृह्णान्ति तच्चरुम् ।। 35 ।।
कुप्यते(?)तु हरिश्चापि नात्र कार्या विचारणा।
तस्मात् सर्वप्रयत्नेन वर्जितं वर्जयेत् सदा ।। 36 ।।
उद्धरेत् सर्वपात्राणि प्रणवेन महामुने।
पुरा पात्राणि प्रक्षाल्य पूर्वोक्तेन विधानत: ।। 37 ।।
अष्टाक्षरेण मन्त्रेण आज्येनैव तु लेपयेत्।
स्पृशेच्च तण्डुलान् पश्चात् द्वादशाक्षरविद्यया ।। 38 ।।
क्षिपेद्द्वादशमुष्टिं तु क्रमाद्द्वादशनामभि:।
नमस्कारान्तसंयुक्तं ध्यात्वा तु हृदये हरिम् ।। 39 ।।
ततश्च चतुरो मुष्टीन् प्रक्षिपेन्मूर्तिनामभि:।
षड्भि:(?)प्रक्षालनं कृत्वा बीजेन परमेष्ठिना ।। 40 ।।
चुल्यामारोपयेत् पश्चाद्बीजेन पुरुषात्मना।
अग्निं समेधयेत् पश्चाद्विश्वबीजेन साधक: ।। 41 ।।
निवृत्या अभिघार्याथ सर्वेणैवावतारयेत्।
मूर्तिमन्त्रेण वा सर्वान् मूलमन्त्रेण वा मुने ।। 42 ।।
कारयेन्मुनिशार्दूल नित्ये नैमित्तिके क्रमात्।
चरुपाकविधानेऽस्मिन् मन्त्रान् सर्वान महामुने ।। 43 ।।
नमस्कारविहीनेन(-नांस्तु?) योजयेन्मन्त्रवित्तम:।
?हविरादिषु वक्ष्यामि वर्ज्यावर्ज्यविधिं क्रमात् ।। 44 ।।
नीलितं वर्जयेद्धव्यमतिपक्वं तथैव च।
तथाप्यपाकसंपूर्णमर्धतण्डुलमेव च ।। 45 ।।
वर्णान्तरगतं चैव गन्धदुष्टं च धूपितम्।
द्विपक्वं स्थापितं चैवाघ्रातं निष्वितनकम्(?) ।। 46 ।।
अपक्षुतं श्वासहतं मुखवायुहतं तथा।
परस्पृष्टं शुनादृष्टमदीक्षितनिरीक्षितम् ।। 47 ।।
स्वेदबिन्दुहतं चापि धामहस्तगतं (वामहस्तहतं?) तथा।
लङ्घितं शीतमत्युष्णं भिन्नपात्रगतं तथा ।। 48 ।।
कृमिकेशादिसहितं कोष्ठ(काष्ठ?)लोष्ठादिपाति(संयु)तम्।
मन्त्रहीनं क्रियाहीनं भक्तिहीनमतोषितम् (?) ।। 49 ।।
अर्कपात्रगतं चापि वर्जयेद्यत्नतश्चरुम्।
फलानि यत्नपक्वानि वर्जनीयानि सर्वश: ।। 50 ।।
कदलीफलमेकं तु यत्नपक्वेषु गृह्यते।
अपक्वम(-क्वं त्व?)ग्निनाशस्तं फलमत्र निवेदयेत् ।। 51 ।।
एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते ।
यजमानेच्छया तस्मिंस्तण्डुलं गृह्य साधक: ।। 52 ।।
तण्डुलद्विगुणं क्षीरं मुद्गसार: समो भवेत्।
पाचितं पायसं प्रोक्तं शेषं पूर्ववदाचरेत् ।। 53 ।।
तण्डुलस्य चतुर्थांशांस्तिलान् प्रक्षिप्य चूर्णितान्।
तच्चतुर्थं घृतं क्षिप्त्वा पाचयित्वा यथाविधि ।। 54 ।।
कृसरान्नमिति प्रोक्तं गौल्यान्नं त्वधुना श्रृणु।
पायसं पूर्ववत् कृत्वा तण्डुलेन समं गुलम् ।। 55 ।।
गुलार्धं प्रक्षिपेदाज्यं कदल्यादिफलं क्षिपेत्।
गुलान्नमिति संप्रोक्तं मुद्गान्नमधुनोच्यते ।। 56 ।।
तण्डुलेन समं मुद्गं नालिकेरुलान्वितम्।
मुद्गान्नमिति संप्रोक्तं हरिद्रान्नमिहोच्यते ।। 57 ।।
मरीचिरजनीयुक्तं जीरकै: सर्षपैर्युतम्।
उच्यते पाचितं ह्येतत् हरिद्रान्नं यथाविधि ।। 58 ।।
तद्विधिं चाधुना वक्ष्ये श्रृणु भागोत्तरं (पाकक्रमं?) मुने।
द्रोणतण्डुलमादाय कुन्देन्दुधवलप्रभम् ।। 59 ।।
पूर्ववत् पाचयित्वा तु मरीच्यादीनि विन्यसेत्।
मरीचं प्रस्थपादं च त्रिगुणं(णां?) रजनीं क्षिपेत् ।। 60 ।।
सर्षपं द्विगुणं चैव तदर्धं जीरकं क्षिपेत्।
द्रोणस्यैवं मया प्रोक्तं शेषं युक्त्या प्रयोजयेत् ।। 61 ।।
इति भागोत्तरं प्रोक्तं हरिद्रान्नस्य ते मया।
उपदंशान् प्रवक्ष्यामि श्रृणुष्व मुनिसत्तम ।। 62 ।।
गन्धवर्णरसोपेतं वस्त्रपूतं घृतं नवम्।
द्वात्रिंशदंशमाज्यं स्यात् गृह्णीयादत्र गोघृतम् ।। 63 ।।
षोडशांशं तु गुल्माषं तदर्धं गुलमिष्यते।
पक्वयुक्फलमूलं च सर्वं लवणमिश्रितम् ।। 64 ।।
घृतेन पाचयेत् सम्यक् तप्तकाञ्चनवन्मुने।
मरीचै रजनीमिश्रै: सर्षपैश्च महामुने ।। 65 ।।
पाचयित्वोपदंशानि देवेशाय निवेदयेत्।
शेषाणिं चोपदंशानि यजमानेच्छया पचेत् ।। 66 ।।
दधिखण्डरसैर्युक्तमष्टांशकमुदाहृतम्।
सूपं चैव तथा कुर्यात् यथावित्तानुसारत:(?) ।। 67 ।।
अतस्तत् परिमाणं तु वक्ष्यामि मुनिसत्तम।
यजमानेच्छया तस्मिन् गोदधि गृह्य साधक: ।। 68 ।।
तदर्धं तु गुलं क्षिप्त्वा तथा खण्डरसं क्षिपेत्।
तस्याभावे तु सर्पि: स्यात् मरीचं निशि(?)चूर्णकम् ।। 69 ।।
विन्यसेत् पाचितं ह्येतत् सूपं तत्र यथाविधि।
कदलीपनसाम्राणां परिपक्वफलानि च ।। 70 ।।
आम्रं चैवोपदंशं स्यात् श्रृणु पक्वोपदंशकान्।
कदलीपनसं चैव कारवल्लीद्वयं तथा ।। 71 ।।
कर्कवल्लीद्वयं चैव कूष्माण्डोर्वारुकं तथा।
बृहतीं कृष्णबृहतीं करवर्तं तथैव च ।। 72 ।।
कर्करीं क्षुद्रबृहतीमलसन्तीद्वयं तथा।
तथा कृष्णालसन्ती च ग्राह्याणि मधुराणि च ।। 73 ।।
मधुरेषु च सर्वेषु तालमेकं तु वर्जयेत्।
कदलीपनसाद्येषु(-द्यानां?)सारमुद्धृत्य नारद ।। 74 ।।
पात्रे निक्षिप्य देवाय दद्याच्चर्मादि वर्जयेत्।
वर्जितं वर्जयेद्यत्नान्निवेदयति चेन्मुने ।। 75 ।।
तत्पूजा निष्फला याति सर्वरोगविवृद्धिकृत्।
तस्माच्चर्मादि यत्नेन वर्जयेद्वर्जितं सदा ।। 76 ।।
कुलुत्थमाषनिष्पावं वर्जयेद्द्वे(-द्द्वि?) दलेषु च।
मुद्गद्वयं च शीबं च तथा कृष्णालसन्ति च (-काम्?) ।। 77 ।।
शर्कराद्वयसंयुक्तं सम्यक्पक्वं सुशीतलम्।
अन्नोपरि विनिक्षिप्य देवदेवं निवेदयेत् ।। 78 ।।
कोशातकीमलाबुं च पत्रजातीश्च वर्जयेत्।
फलानि कथितान्यत्र मूलानि श्रृणु तत्परम् ।। 79 ।।
वल्ली चैव महावल्ली वनवल्ली तथैव च।
पिण्डा चैव महापिण्डा क्षुद्रपिण्डा तथैव च ।। 80 ।।
सुगन्धोत्पलकन्दं च देवेशस्य प्रियं शुभम्।
ग्राह्याणि मूलान्येतानि देवदेवं निवेदयेत् ।। 81 ।।
अलाभे शेष (सर्व?) मूलानि (-नां?) वर्जयेद्वनसूरणम्।
तथैव नित्यपूजायां सूरणं मुनिसत्तम ।। 82 ।।
लोभान्मोहान्निवेद्यं चेत् (?) तत्पूजा निष्फला भवेत्।
तस्मात् प्रयत्नतो वर्ज्यं सूरणं परिवर्जयेत् ।। 83 ।।
काम्ये महोत्सवे चैव महान्ने तु महामुने।
यजमानेच्छया तस्मिन् (?) सूरणं तु निवेदयेत् ।। 84 ।।
विष्णुश्चैव महाविष्णुस्तथैव च महामुने।
तृप्यत्व(न्त्य?)त्र महान्नेन हृष्टा गृह्णन्ति तच्चरुम् ।। 85 ।।
कटुकाश्च तथाम्लाश्च तिक्ताश्चेति विशेषत:।
यथालाभोपदंशेन पाचयेल्लक्षणैर्युतम् ।। 86 ।।
मरीचिं निशिचूर्णं च तन्मध्ये कुडुबं क्षिपेत्।
आम्लोपदंशमित्याहु: सर्वसंपत् सुखावहम् ।। 87 ।।
कथितानि निवेद्यानि नान्यानि तु कथंचन।
पात्राणि च शरावाणि बाह्यशुद्धिश्च कारयेत् ।। 88 ।।
सर्वपात्रेषु बाह्येषु ऊर्ध्वपुण्ड्रं च भस्मना।
कारयेन्मूर्तिमन्त्रेण पूर्वादिषु यथाक्रमम् ।। 89 ।।
शरावे विष्णुमन्त्रेण पूर्वपात्रे (-भागे?) तु लाच्छयेत्।
महानसं समारभ्य गर्भगेहावसानकम् ।। 90 ।।
प्रथमेन जलै: प्रोक्ष्य भाण्डानुत्थापयेत् क्रमात्।
तेन मन्त्रेण मतिमान् सर्वानुत्थापयेत् क्रमात् ।। 91 ।।
एतस्मिन्नेव काले तु शङ्खं दध्मु (?) स्त्रिभि: पृथक्।
द्वारस्योत्तरपार्श्वे तु न्यसेत् पात्राणि सर्वश: ।। 92 ।।
सौवर्णं राजतं ताम्रमथवा कदलीदलम्।
शुद्धकांस्येन वा कुर्यात् पात्रं शतपलेन तु ।। 93 ।।
तदर्धं वा मुनिश्रेष्ठ द्वात्रिंशत् पलेन (-लकेन?) वा।
यथावित्तानुसारेण (?) पात्रं संगृह्य साधक: ।। 94 ।।
दर्वीघनं (?) समादाय आज्येनैवाभिघारयेत्।
अन्नेन पूरयेत् पात्रं गुल्माषेण गुडेन च ।। 95 ।।
पलेनाज्येन दध्ना च सोपदंशं निवेदयेत्।
चतुर्धास्मिन् विभज्यैकं भागं देवाय कल्पयेत् ।। 96 ।।
देवार्थं कल्पितं भागं देवेशाय निवेदयेत्।
निवेद्य काले तन्त्रज्ञ: अर्घ्यपाद्यादिकं ददेत् ।। 97 ।।
पुष्पं दत्वा नमस्कृत्य हरे: पादौ तु साधक:।
हस्तप्रक्षालनं कृत्वा देवस्यास्त्रेण मन्त्रवित् ।। 98 ।।
परिषेकं तत: कृत्वा पूर्ववत् साधकोत्तम:।
कृत्वा सु(स्व?)पाणी प्रक्षाल्य मूलमन्त्रेण संस्पृशेत् ।। 99 ।।
शेषं तु पूर्ववत् कृत्वा हविराद्यं महामुने।
स्वस्तिकासनसंयुक्ते देशिकोपेन्द्रतो मुख: ।। 100 ।।
दक्षिणे करशाखासु पञ्चोपनिषदं न्यसेत्।
निवेदयेद्धविस्तस्मिन् पञ्चधा परमेष्ठिना ।। 101 ।।
नमस्कृत्य जपेत् पश्चात् पञ्चोपनिषदा मुने।
पाणिं प्रक्षाल्य यत्नेन पृथक् पात्रे निवेदयेत् ।। 102 ।।
शङ्खदुन्दुभिसुयंक्तं नृत्तगेयसमन्वितम्।
देवदेवस्य देवर्षे नित्ये नैमित्तिके पुन: ।। 103 ।।
धूपं सुधूपितं भक्त्या पुनर्दधि निवेदयेत्।
पानीयं च पुनर्दत्वा केलिपात्रेऽमले शुभे ।। 104 ।।
तर्पणं पुनराचामं दत्वा तत्तत्प्रतिग्रहे।
गन्धपिष्टै:समुद्वर्त्य पाणिं सुश्वेतवाससा ।। 105 ।।
आच्छाद्य गन्धकल्केन पुनराचमनं ददेत्।
मुखवासं ततो दत्वा विधिवत् साधकोत्तम: ।। 106 ।।
पुनर्द्वितीयभागेन हविषा मूलविद्यया।
जुहुयादग्निकुण्डे तु समिदाज्यपुर:सरम् ।। 107 ।।
तृतीयेन बलिं दद्यात् प्राड्मुखो वाप्युदङ्मुख:।
पुनर्दत्वा जलं सम्यक् नमस्कृत्य प्रदक्षिणम् ।। 108 ।।
दत्वा तद्बलिशेषं तु बलिपीठे विनिक्षिपेत्।
तुर्यभागं तु संगृह्य आचार्यो मन्त्रवित्तम: ।। 109 ।।
प्राशयेत् प्राङ्मुखो भूत्वा पात्रशेषमनुत्तमम्।
तच्छेषं सर्वपापघ्नं सर्वरोगनिकृन्तनम् ।। 110 ।।
सर्वतीर्थप्रदं तस्माद्भक्षयेच्छेदषमुत्तमम्।
आलयस्योत्तरे वापि नैरृते वापि मन्त्रवित् ।। 111 ।।
भुक्त्वा चैव मुनिश्रेष्ठ शेषं पूर्ववदाचरेत्।
नित्यपूजाविधौ ब्रह्मन् चरुपाकविधौ क्रमात् ।। 112 ।।
एवमुक्तप्रकारेण कारयेत्तु दिने दिने।
महाहविर्विधिं वक्ष्ये ह्यष्टद्रोणं कनीयसम् ।। 113 ।।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चाधमोत्तमम्।
चतु: पञ्चगुणं षट्कं मध्यमस्य त्रयं विदु: ।। 114 ।।
सप्ताष्टनवमं प्रोक्तमुत्तमस्य त्रयं विदु:।
पूर्ववत् पाचयित्वा तु सर्वानुत्थापयेत् पृथक् ।। 115 ।।
मण्डपस्योत्तरे भागे न्यसेद्भाण्डान्यथ क्रमात्।
नैरृते वारुणे वापि विन्यसेच्च महाहवि: ।। 116 ।।
मण्डपं चतुरश्रं तु कृत्वालंकृत्य चाक्षतै:।
पिष्टचूर्णैरलंकृत्य पद्मं कुर्यात् सकर्णिकम् ।। 117 ।।
पटेनाच्छाद्य भूमिं तु रम्भापत्राणि चोपरि।
स्नानादिदेवकर्माणि पूर्ववत् कारयेत् क्रमात् ।। 118 ।।
देवस्नय पुरत: कृत्वा कार्यं विज्ञापयेच्छनै:।
पीठादुत्थाप्य देवेशं पादुकाभ्यामुपासक: ।। 119 ।।
शङ्खध्वनिसमायुक्तमानयेद्भोजनासनम्।
पाद्यार्घ्याचमनं दत्वा गन्धपुष्पै: प्रपूजयेत् ।। 120 ।।
प्रोक्षयित्वाभिघार्याथ चरुपात्राणि चैव हि।
पायसं कृसरं गौल्यं मुद्गान्नं च यथाक्रमम् ।। 121 ।।
शुद्धान्नं चैव सूपान्नं द(दा?)धिकं च महाहवि:।
आज्यं च गुडखण्डं च कदल्यादिफलत्रयम् ।। 122 ।।
आज्यपक्वोपदंशं च पात्रे सर्वं निवेदयेत्।
परिषेकं तत: कृत्वा ह्यन्नसूक्तेन संस्पृशेत् ।। 123 ।।
दद्यात्तद्दक्षिणे हस्ते हवि: प्राशनमुद्रया।
सुगन्धं स्वादुतोयं च दत्वा पानीयमुत्तमम् ।। 124 ।।
पुनराचमनं दत्वा वस्त्रेण प्रमृजेत् करौ।
गन्धकल्केन संमृज्य तत: पीठान्तरं नयेत् ।। 125 ।।
पूर्वमालां विमुक्त्वा तु (-च्याथ?)वेष्टयेन्मालया पुन:।
पुनराचमनं दत्वा हस्तौ संशोध्य वाससा ।। 126 ।।
पृथुकान्युपहाराणि अपूपान्तं निवेदयेत्।
नालिकेरफलं दत्वा पानीयाचमनं तत: ।। 127 ।।
पुनराचमनं दत्वा मुखवासं निवेदयेत्।
क्रमुकस्तु फलं भिन्नमपक्वं पक्वमेव वा ।। 128 ।।
कर्पूरतैलै: संसिक्तमसिक्तं वा मुनीश्वर।
ताम्बूलवल्लीपत्रैश्च सहितं क्षालितं क्रमात् ।। 129 ।।
एलाकक्कोलजातीश्च कर्पूरसहितं क्रमात्।
मातुलुङ्गफलैर्युक्तं नालिकेरुलान्वितम् ।। 130 ।।
शिला(सिता?)चूर्णेन संयुक्तं कर्पूरसहितेन च।
?B संस्कृतं प्रणवेनैव मुखवासं निवेदयेत् ।। 131 ।।
दत्वा च राजवत् सम्यक् पितृवत् पूजयेद्धरिम्।
पीठादुत्थाप्नय देवेशं प्रासादं तु परिभ्रमेत् ।। 132 ।।
शङ्खदुन्दुभिसंयुक्तं स्वस्तिसूक्तसमन्वितम्।
प्रासादं तु परिभ्राम्य गर्भागारं प्रवेशयेत् ।। 133 ।।
महाहविर्विधि: प्रोक्त: संक्षेपेण महामुने।
विशेषत: प्रवक्ष्यामि महान्नस्य विधिं क्रमात् ।। 134 ।।
गुह्याद्गुह्यं मुनिश्रेष्ठ श्रृणु नारद सत्तम।
चरुपाकविधानोक्तै: पूर्वोक्तैर्हव्यवृद्धिदानैश्च ।। 135 ।।
समुपेतं शालीनां दशशतकैस्तण्डुलप्रस्थै:।
सिद्धं महाहवि: स्यात्तु तदर्धं मध्यमं स्मृतम् ।। 136 ।।
तस्याप्यर्धकृतं यत्तदधममुक्तं महाहविसतज्ज्ञै:।
दुग्धानां तु गवां स्यादाढकषटकं गुणं चतुष्षष्टि ।। 137 ।।
फलं सर्पिस्तथाढकं स्यात्पञ्चप्रस्थमुद्गान्नम्।
(पलसर्पिराढकं स्यात् पञ्चप्रस्थं च मुद्गान्नम्?)
दलितानां शुद्धानां तोयं स्यादाढकद्वितयम् ।। 138 ।।
*कंसद्वितयं* (?) शाल्यास्तण्डुलमिष्टं पयोगुलान्नविधौ।
एतद्वरमस्यार्धं मध्यममस्यार्धमधमं स्यात् ।। 139 ।।
पायसमेतद्विधिना गुलसर्पिभ्यां विना पक्वम्।
समुद्गसारपक्वं शाल्यन्नं मुद्गसारान्नसमम् ।। 140 ।।
गुलपिष्टं सिद्धं सर्पिभ्यामपूपमुद्दिष्टम्।
कक्कोलैर्जा?तिफलै: पूगफलै: श्वेतभुजगपत्रै: ।। 141 ।।
पाषाणचूर्णमिश्रं समातुलुङ्गदलनालिकेरफलम्।
कर्पूरतैलमिश्रं संस्वङ्गं कथ्यते मुखवाससम् ।। 142 ।।
एलाचम्पककेतक्या वासितं तु पानीयम्।
कथितं यत्त्रिदशमुने महानिवेद्यादि तन्निखिलम् ।। 143 ।।
सिद्धं देवगृहे वा तत्पार्श्वे वा[पि]मन्त्रयोग्यं स्यात्।
यो मोहादन्यगृहे सिद्धं देवाय मन्त्रेण ।। 144 ।।
हविराद्यं तु हि दद्यात् स किल्बिषी राष्ट्रनाशी स्यात्।
भक्तैरन्यत्रापि क्वापि पक्वं समागतं यद्यत् ।। 145 ।।
बिम्बस्याग्रे तत्तत् प्रदर्श्य दद्याद्धि पक्वेभ्य:।
एतत् कृत्वा सम्यङ्महाहवि: प्रियतमं तु हरे: ।। 146 ।।
भक्त:सामीप्यं मध्यमकृत्.........।
सारूप्यं चाधमं च सालोक्यं परमम् ।। 147 ।।
*पयोदिगुलान्नं निवेद्य भक्त्या हरैति शान्तिम्*(?)।
*परमांशश्च मध्यमं ह्येति सर्वकामानि*(?) ।। 148 ।।
विशेषश्चात्र संप्रोक्त: महान्नादिविधौ मुने।
शेषं साधारणं कुर्या(विद्या?)दिति शास्त्रस्य निश्चय: ।। 149 ।।
महाहविविधौ चात्र द्विविधं मानमीरि?तम्।
द्विप्रकारं तु तन्त्रज्ञो यथायोगं समाचरेत् ।। 150 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां चरुपाकविधिर्नाम
चतुर्दशोऽध्याय:।