विश्वक्सेनासंहिता /अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ विश्वक्सेनासंहिता
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
विश्वक्सेनासंहिता अध्यायाः


षोडशोऽध्याय:
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि प्रतिष्ठालक्षणं परम्।
सर्वलक्षणसंयुक्तमल्पकायं चतुर्भुजम् ।। 1 ।।
तत्तन्मूर्त्यनुसारेण कारयेत् सुमनोहरम्।
प्रथमं च द्वितीयं च संक्षेपाच्छृणु सुव्रत ।। 2 ।।
प्रतिष्ठाया: क्रमं चास्मिन् साधकानां हिताय तु।
कृत्वाङ्कुरार्पणं सम्यक् पञ्चसप्तदिनात् पुरा ।। 3 ।।
जलाधिवासनं कृत्वा यथा वै तत्र चोदितम्।
पूर्वोक्तमण्डपे मध्ये वेदिं कृत्वा यथाविधि ।। 4 ।।
कारयेत् सर्वकर्माणि शास्त्रदृष्ट्या समाहित:।
तदलाभे मुनिश्रेष्ठ श्रृणु मण्डपलक्षणम् ।। 5 ।।
पञ्चोत्तरशतं(?)वापि हस्तद्वादशकं तु वा।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।। 6 ।।
वितानवस्त्रसंछन्नमलंकारैरलंकृतम्।
कार्पासकैर्नवैर्वस्त्रै: स्तम्भान् संपरिवेष्टयेत् ।। 7 ।।
तोरणान् कलशांश्चापि मध्ये वेदिं तु कारयेत्।
दशतालस्तु ?विस्तार एकहस्तसमुच्छ्रय: ।। 8 ।।
वेदिकायास्तु (-यां तु?)परित: चतुर्दिक्षु यथाविधि।
कारयेदग्निकुण्डानि चतुरश्रादि नारद ।। 9 ।।
स्थण्डिले वाप्यभावे तु कारयेत् तरुणालये।
जलाधिवासादुत्थाप्य मण्डपे चानयेद्धरिम् ।। 10 ।।
सुवर्णसूच्या तत्रैव नेत्रोन्मीलनमाचरेत्।
तच्चक्षुरिति वामं च चित्रं देवेति दक्षिणम् ।। 11 ।।
धेनुद्वयं दर्शयित्वा तत: स्नपनमाचरेत्।
एकाशीतिक्रमेणैव स्नपनं त्वधमोत्तमम् ।। 12 ।।
कलशै: पञ्चविंशैर्वा तत:सप्तदशैस्तु वा।
द्वादशैर्नवकैर्वापि यथासंभवमाचरेत् ।। 13 ।।
पुण्याहं वाचयित्वैव शयनं कल्पयेत्तत:।
पञ्चभारप्रमाणैश्च शालींस्तत्रैव विक्षिपेत् ।। 14 ।।
तदर्धं तण्डुलं चैव शाल्योपरि विनिक्षिपेत्।
तस्योपरि लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।। 15 ।।
तस्य मध्ये तु तन्त्रज्ञ: छादयेत् कम्बलेन तु।
शयनं त्रिविधं प्रोक्तं क्षौमं कार्पासकं तु वा ।। 16 ।।
ऊर्णामयं च तत्सर्वं व्याघ्रचर्मोत्तरच्छदम्।
चित्रवस्त्रत्रयं वापि नववस्त्रत्रयं तु वा ।। 17 ।।
यथावित्तानुसारेण(?)मार्गेणैकेन कल्पयेत्।
शिरोपधानसंयुक्तं पादगण्डूलसंयुतम् ।। 18 ।।
वामदक्षिणभागाभ्यां सुकपोलस्थलद्वयम्।
शयनं कल्पयित्वैवं गन्धपुष्पै:समर्चितम् ।। 19 ।।
वस्त्रैराभरणैर्माल्यैरलंकृत्य जनार्दनम्।
आचार्यो मूर्तिपै:सार्धं स्वस्तिवाक्यसमन्वितम् ।। 20 ।।
छत्रचामरसंयुक्तं शयने संनिवेशयेत्।
द्वादशाक्षरमन्त्रेण शाययेद्दक्षिणाशिर: ।। 21 ।।
वैष्णवीकरणं कुर्यात् पूर्वं मूर्तिधरो मुने।
मन्त्रन्यासं तत: कुर्यात् मूर्तिमन्त्रेण साधक: ।। 22 ।।
नृत्तगीतसमायुक्तं वेदाध्ययनसंयुतम्।
प्राङ्मुखोदङ्मुखो भूत्वा वेदिकोपरि दक्षिणे ।। 23 ।।
प्राणायामान् क्रमात् कृत्वा प्रणवेनैव देशिक:।
सृष्टिन्यासं स्थितिन्यासं संहृतिन्यासमेव च ।। 24 ।।
तद्बिम्बे मुनिशार्दूल यथातथ्येन विन्यसेत्।
पञ्चविंशतितत्त्वानि प्रतिमायां न्यसेत्तत: ।। 25 ।।
पञ्चोपनिषदैर्न्यस्य प्रणवै:सह मन्त्रवित्।
अथवा देवदेवस्य मन्त्रन्यासं श्रृणु क्रमात् ।। 26 ।।
चतुरभ्यधिकं विंशत् सूक्तं नारायणं क्रमात्।
देवस्य पादौ संस्पृष्ट्वा आचार्य: सूक्तमुच्चरन् ।। 27 ।।
तस्यान्ते पौरुषं ब्रह्मन् षोडषं सूक्तमुच्चरेत्।
ततस्त्वथर्ववेदे च सृष्ट्यादिप्रतिपादकम् ।। 28 ।।
नारायणोपनिषदं त्रि: पठेत् पदसंस्पृशेत्।
आत्मा यादि(?) नमोन्तं यन्मन्त्रमष्टशतं जपेत् ।। 29 ।।
पूजायामधिवासे च प्रतिष्ठायां षडक्षरम्।
न्यासमेषु प्रकुर्वीत तद्बिम्बहृदि देशिक: ।। 30 ।।
अन्यथा निष्फलं सर्वं नात्र कार्या विचारणा।
तस्मात् सर्वप्रयत्नेन षडक्षरजपान्तर(-क?)म् ।। 31 ।।
यद्यत् प्रोक्तं मुनिश्रेष्ठ तत्तत् कुर्वीत बुद्धिमान्।
एवं न्यासं क्रमात् कृत्वा वेष्टयेन्नववस्त्रकै: ।। 32 ।।
पुष्पाञ्जलिर्नमस्कृत्य पूजयेत् पुरुषोत्तमम्।
शङ्खदुन्दुभिनिर्घोषै: नृत्तगेयैश्च पूजयेत् ।। 33 ।।
आवाहयेत् ततो देवं मूर्ध्नि मूलेन मन्त्रवित्।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ।। 34 ।।
तत्तन्मूर्त्यनुसारेण ध्यायेद्देवं सनातनम्।
पाद्यार्घ्याचमनीयं च गन्धपुष्पादिभि: क्रमात् ।। 35 ।।
गौल्यं पायसमुद्गान्नं सोपदंशं घृताप्लुतम्।
निवेदयित्वां देवस्य दाधिकं तु निवेदयेत् ।। 36 ।।
पानीयाचमनीयं च मुखवासं निवेदयेत्।
ततस्तु शाययेद्देवं नमस्कृत्य तु देशिक: ।। 37 ।।
गन्धतोयेन संपूर्णान् सूत्रत्रयसुवेष्टितान्।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ।। 38 ।।
पक्वबिम्बफलाकारान् मृद्घटान् लक्षणान्वितान्।
पञ्चरत्नसमायुक्तान् हेमपञ्चायुधान्वितान् ।। 39 ।।
सौवर्णं चापि श्रीवत्सं सौवर्णगरुडान्वितम्।
शङ्खं चक्रं च कूर्मं च संस्मरेन्मूलविद्यया ।। 40 ।।
सकूर्चं सापिधानं च वस्त्रयुग्मेन वेष्टितम्।
देवस्य दक्षिणे पार्श्वे विन्यसेद्धान्यराशिषु ।। 41 ।।
प्रधानकुम्भमादाय प्राङ्मुखो वाप्युदङ्मुख:।
पञ्चमूर्तिमनुध्यायेत् तत्कुम्भेऽवाह्य नारद ।। 42 ।।
ब्रह्मबीजेन तत्कुम्भं गन्धपुष्पै: समर्चयेत्।
कर्मार्चा चोत्सवं स्नानं बलिर्यात्रा च पञ्चमम् ।। 43 ।।
स्नाने प्रतिष्ठाधिवासे कालमेकं(?)तु कारयेत्।
देवेन सह संयोज्य देवीनां मुनिसत्तम ।। 44 ।।
विद्यश्वराष्टकुंभांश्च अष्टदिक्ष्वथ विन्यसेत्।
हेमरत्नयुतांश्चैव वस्त्रसंवेष्टितान् शुभान् ।। 45 ।।
इन्द्रादीशानपर्यन्तं वाराहादींश्च विन्यसेत्।
स्वनाम्ना पूजयेत्तांश्च शङ्खादीन् मङ्गलान्(?)न्यसेत् ।। 46 ।।
गन्धपुष्पाक्षतांश्चैव वस्त्रेण परिवेष्टितान्।
एवं कृत्वा विधानेन मूर्तिहोमं समाचरेत् ।। 47 ।।
ऋगादिवेदसंयुक्तं दिक्षु पूर्वादिषु द्विज।
शङ्खादिघोषसंयुक्तं नृत्तगीतसमन्वितम् ।। 48 ।।
वीणावेणुसमायुक्तं होमकर्म समाचरेत्।
वैष्णवा?ग्निं समादाय कुण्डेष्वग्निं निधापयेत् ।। 49 ।।
पालशाखादिरं चैव बिल्वमौदुम्बरं तथा।
समिदष्टशतं प्रोक्तं पृथक् पूर्वादि कल्पयेत् ।। 50 ।।
पालाशखादिराभावे बिल्वैरेव तु कारयेत्।
बिल्वाभावे मुनिश्रेष्ठ औदुम्बरमथाचरेत् ।। 51 ।।
पूर्वादि चाग्निकुण्डेषु समिध: परिकीर्तिता:।
आज्यं चरुवदुद्दिष्टं तत्संख्या च पृथक्पृथक् ।। 52 ।।
अग्निमध्ये तथा पद्मं ध्यायेत् केसरपत्रकम्।
तत्रस्?था देवता ध्यात्वा होमं कुर्याद्विचक्षण: ।। 53 ।।
जुहुयु: प्राङ्मुखा: सर्वे सोत्तरीया: स्वलंकृता:।
भोजयेद्ब्राह्मणान् रात्रौ भक्तान् द्वादश पायसम् ।। 54 ।।
वेदाध्ययनमेवात्र चतुर्दिक्षु च कारयेत्।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ।। 55 ।।
पूर्वादि चोत्तरान्तं तु यथासंरव्यं प्रकल्पयेत्।
शान्तिहोमं तत: कृत्वा होमान्ते च यथाक्रमम् ।। 56 ।।
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च।
पौरुषेण च सूक्तेन प्रत्येकं षोडशाहुती: ।। 57 ।।
पूर्वादि चोत्तरान्तं तु कुण्डे चैव यथाक्रमम्।
हुत्वा हुत्वा स्पृशेयुस्ते प्रतिमां मूलविद्यया ।। 58 ।।
मधु हुत्वा स्पृशेत् पादं क्षीरं हुत्वोदरं स्पृशेत्।
दधि हुत्वा च वदनं हुत्वाज्यं शिरसि स्पृशेत् ।। 59 ।।
पलाशशाखया प्राच्यां सिञ्चेत्तन्मूर्तिधारक:।
दक्षिणस्यां तत: सिञ्चेत् खादिरस्य तु शाखया ।। 60 ।।
सिञ्चेत्तन्मूर्तिधारस्तु प्रतीच्यां बिल्वशाखया।
उदुम्बरेण चोदीच्यां सिञ्चेत्तन्मूर्तिधारक: ।। 61 ।।
आचार्य: कोणदेशे तु सिञ्चेद्वेतसशाखया।
पुष्पाञ्जलिं(-लि:?)नमस्कृत्य आचार्यो मूलविद्यया ।। 62 ।।
उत्तराग्नौ तु जुहुयात् आचार्यो मधुरत्रयम्।
गुलाज्यमधुसंमिश्रं मधुरत्रयमुच्यते ।। 63 ।।
मूलमन्त्रेण जुहुयात् प्रत्येकाष्टाहुती: क्रमात्।
नृत्तगेयैश्च वाद्यैश्च वेदाध्ययनसत्कथाम् (-संयुतै:) ।। 64 ।।
अनिर्वाणप्रदीपैश्च रात्रिशेषं समापयेत्।
प्रभातायां तु शर्वर्यां स्नात्वाचार्य: प्रयत्नवान् ।। 65 ।।
द्वारस्य दक्षिणे पार्श्वे स्थण्डिले चतुरश्रके।
कारयेद्वास्तुहोमं तु समिदाज्यचरूनपि ।। 66 ।।
अपामार्गस्य समिध: शम्याश्च खदिरस्य च।
यक्षरक्ष: पिशाचानां शान्त्यर्थं जुहुयात् पृथक् ।। 67 ।।
प्रणवादिस्वमन्त्रैश्च जुहुयान्मन्त्रवित्तम:।
दिशाहोमांश्च कुर्वीत प्रासादस्य समन्तत: ।। 68 ।।
स्थण्डिलेष्वेवमेवाग्निं जुहुयाद्दिक्पतीन् क्रमात्।
ध्यात्वा ध्यात्वा स्वमन्त्रेण समिदादि यथाक्रमम् ।। 69 ।।
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजा:।
उदुम्बरश्च काश्मर्य: समिधोऽष्टौ प्रकीर्तिता: ।। 70 ।।
ऐन्द्रादीशानपर्यन्तं समिदाज्यचरूनपि।
एवं समाप्य विधिवत् वास्तुहोमादिकान् क्रमात् ।। 71 ।।
कारयेन्मुनिशार्द्वल पश्चात् पूर्णाहुतिं हुनेत्।
वौषडन्तेन मन्त्रेण आचार्य: पश्चिमेऽनले ।। 72 ।।
द्वादशाक्षरमन्त्रेण स्रुचा पूर्णाहुतिं हुनेत्।
गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम् ।। 73 ।।
पूर्णाहुतिं क्रमात् कृत्वा त्रिधा मन्त्रमनुस्मरन्।
गोमयेन समालिप्य बालस्थानं समन्तत: ।। 74 ।।
मूलस्थानं तु वा तत्र मूलमन्त्रेण मन्त्रवित्।
अष्टदिक्षु यथान्यायं कारयेद्यत्नतो ध्वजान् ।। 75 ।।
तोरणान् शास्त्रविहितान् चतुर्दिक्षु निवेशयेत्।
दर्भमालादिसंयुक्तं मुक्तादामैर (-माद्य?) लंकृतम् ।। 76 ।।
सर्वालंकारसंयुक्तं पुष्पमालाविभूषितम्।
पुण्याहं वाचयित्वा तु पूजनीयांश्च पूजयेत् ।। 77 ।।
वस्त्राभरणकं सम्यगाचार्यय प्रदापयेत्।
आचार्यमनस: प्रीतिरतिसंपत्तिकारिणी ।। 78 ।।
सौवर्णं ब्रह्मसूत्रं तु सौवर्णं कर्णभूषणम्।
अङ्गुलीवलयं चैव प्रकोष्ठवलयं तथा ।। 79 ।।
अलंकृत्यैवमाचार्यं दक्षिणां तस्य दापयेत्।
पञ्चविंशतिनिष्कं तु सुवर्णं दक्षिणोत्तमम् ।। 80 ।।
तदर्धं मध्यमं चैव तदर्धमधमं भवेत्।
एवमेव तु कर्तव्य उत्सवे दक्षिणाक्रम: ।। 81 ।।
उत्तमादिक्रमात् प्रोक्ता दक्षिणा मुनिसत्तम।
यथा (-द्वै?)वित्तानुसारेण दद्याद्वा(-द्वै?)दक्षिणां मुने ।। 82 ।।
अत्रोपयुक्तं यद्द्रव्यं देवतालंकृतिं विना।
आचार्याय प्रदातव्यं वस्त्रव्रीह्यादिकं तथा ।। 83 ।।
आचार्यदक्षिणार्धांशतुल्या स्थापकदक्षिणा।
तदर्धं मूर्तिपानां तु वास्तुशान्तिकृतस्तथा ।। 84 ।।
होतॄणां दक्षिणार्धं स्याद् अध्येतॄणां तु दक्षिणा।
सर्वेषां चैव दातव्यं वस्त्रयुग्मं नवं शुभम् ।। 85 ।।
दैवज्ञं पूजयेत् पश्चात् सुमुहूर्तप्रदो हि स:।
गेयनृत्तकरांश्चैव पूजयेद्वैष्णवांस्तत: ।। 86 ।।
मूहूर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया।
सूर्यमण्डलमध्यस्थं देवं नारायणं प्रभुम् ।। 87 ।।
कुम्भे पञ्चप्रतीके च आवाह्य प्रणवेन तु।
अर्घ्यपाद्यापदिनाभ्यर्च्य एकमूर्तिमनुस्मरेत् ।। 88 ।।
पूजयित्वा मुनिश्रेष्ठ स्वयं तु विगतस्पृह:।
श्रियं पुष्टिं तथा कुम्भमध्ये संपूजयेत्तत: ।। 89 ।।
प्रणवादि स्वनाम्ना तु साधको मन्त्रवित्तम:।
तत्कुम्भान्?तर्गतं देवं स्थापयेत् साधकोत्तम: ।। 90 ।।
स्थापकश्चोद्धरेत् कुम्भमाचार्यो वा मुनीश्वर।
उत्तर्योष्णीषसंयुक्तमुद्धरेत् कुम्भमुत्तमम् ।। 91 ।।
तथैव समलंकृत्य स्थापकं मुनिसत्तम।
आचार्यो मूर्तिपैर्युक्त: प्रतिमामुद्धरेत् क्रमात् ।। 92 ।।
मङ्गलानु(-न्यु?)द्धरेयुश्च दिशाहोमकरास्तथा।
शङ्खदुन्दुभिघोषैश्च स्वस्तिवाचनसंयुतम् ।। 93 ।।
नृत्तगेयसमायुक्तं धूपदीपसमन्वितम्।
पुष्पवृष्टिसमायुक्तं वितानध्वजसंयुतम् ।। 94 ।।
ततस्तु समलंकृत्य देवाग्रे वैष्णवान् शुभान्।
गन्धतोयेन संपूर्णान् सूत्रत्रयसुवेष्टितान् ।। 95 ।।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान्।
वर्धनीं गृह्य तन्त्रज्ञो देवाग्रेऽच्छिन्नधारया ।। 96 ।।
गेहं प्रदक्षिणं कृत्वा बालस्थानं प्रवेशयेत्।
प्रतिमां मूर्तिमन्त्रेण स्थापयेन्मन्त्रवित्तम: ।। 97 ।।
ततश्च पञ्चमन्त्राणां (-न्त्रांश्च?) स्थापयेद्विहितेन च।
तस्याग्रे स्थापयेत् कुम्भमाचार्यस्तन्त्रवित्तम: ।। 98 ।।
तत्तोयं प्रतिमामूर्ध्नि मूलमन्त्रेण सेचयेत्।
श्रियादीनां(?)स्वमन्त्रैस्तु सेचयेद्देववत् क्रमात् ।। 99 ।।
कर्मार्चनादि मूर्तीनां(?) सेचयेन्?मूलबेरवत्।
कुम्भाच्छेषोदकं गृह्य तच्छरावे निषिच्य च ।। 100 ।।
शलाकमात्रया चैव धारयाच्छिन्नया पुन:।
परित: परिषेकं च कुर्यान्मूलेन मन्त्रवित् ।। 101 ।।
अञ्जलिं दर्शयित्वा तु सर्वमन्त्रांश्च(-मन्त्रं च?)संस्मरेत्।
द्वारस्योत्तरपार्श्वे तु न्यासहोमं स्वमन्त्रत: ।। 102 ।।
स्थण्डिले मुनिशार्दूल पञ्चरात्रविशारदै:।
कारयेत् समिदाद्यैस्तु प्रत्येकैकाहुतिं क्रमात् ।। 103 ।।
मन्त्रन्यासं तत: कुर्यात् पूर्ववत् साधकोत्तम:।
तथैव कारयेत्तस्मिन् स्थापको न्यासमुत्तमम् ।। 104 ।।
पश्चाद्देवं समालम्ब्य पूजयेत् साधकोत्तम:।
गन्धपुष्पादिनाभ्यर्च्य प्रणम्य च जनार्दनम् ।। 105 ।।
संनिधानं कुरुष्वेति प्रणमेत् दण्डवत् क्षितौ।
तस्मिन् काले महाप्राज्ञो वेदाध्ययनमाचरेत् ।। 106 ।।
पुष्पाञ्जलिर्नमस्कृत्य आचार्यो मन्त्रमुच्चरेत्।
सर्वं न्यूनातिरिक्तं च मया पूर्वं च यत्कृतम् ।। 107 ।।
तत्सर्वं देवदेवेश क्षन्तुमर्हसि मे प्रभो।
ततस्तु मुनिशार्दूल प्रासादं प्रोक्षयेद्बुध: ।। 108 ।।
कुम्भोदकादशेषं तु बहिरन्तश्च सर्वश:।
पौरुषेणैव सूक्तेन प्रोक्षणादेव शुद्ध्यति ।। 109 ।।
पायसं कृसरं गौल्यं मुद्गान्नं च निवेदयेत्।
ताम्बूलं मुखवासं च परिवारांश्च(?)कल्पयेत् ।। 110 ।।
होमपूर्वेण्?ा मन्त्रज्ञो ह्यन्तर्बहिरनुक्रमात्।
लोकपालान् मुनिश्रेष्ठ कल्पयेत्तु यथाक्रमम् ।। 111 ।।
अन्यावरणदेवांश्च बालगेहे न कल्पयेत्।
दिने दिने तु कर्तव्यो होमूपर्वो बलिक्रम: ।। 112 ।।
चण्डादीशावसानं तु बलिं दद्यात् पृथक्पृथक्।
महापीठार्धमानं तु विस्तरायामतादृशम् ।। 113 ।।
बालगेहस्य पूर्वे तु कल्पयेत् पीठमुत्तमम्।
पीठोपरि मुने पद्ममष्टपत्रं सकर्णिकम् ।। 114 ।।
पूर्ववत् पार्षदान् सर्वान् तिष्ठन्तौ(-तो?)बलिपीठकौ(-के?)।
बलिशेषं न्यसेद्धीमान् पूर्ववन्मन्त्रसंयुतम् ।। 115 ।।
उत्सवस्नपनादीनि कारयेच्छास्त्रचोदितम्।
शेषं साधारणं कुर्यात् बालस्थाने मुनीश्वर ।। 116 ।।
बालस्थानं विना पूर्वं मूलस्थानं न कारयेत्।
यदि कुर्यान्महादोष: कर्तृदेशविनाशन: ।। 117 ।।
बालगेहार्चनाबिम्बं मूलागारे न पूजयेत्।
पूजयेद्यदि तद्बिम्बं कर्ता राष्ट्रं च नश्यति ।। 118 ।।
तस्मात् सर्वप्रयत्?नेन मूलागारे न पूजयेत्।
प्रतिष्ठान्ते मुनिश्रेष्ठ उत्सवं कारयेत् क्रमात् ।। 119 ।।
पञ्चसप्तनवाहं वा यथावित्तानुसारत:(?)।
ध्वजं चैवोत्सवारंभे सद्य: कुर्यात्तु तद्दिने ।। 120 ।।
तीर्थान्ते स्नपनं कुर्यात् पूर्वोक्तेन विधानत:।
पुष्पयागविधानं तु नेष्यतेऽस्मिन् महामुने ।। 121 ।।
इति संक्षेपत: प्रोक्तो बालस्थानविधिर्मुने।
एवमेव द्वितीयस्य प्रतिष्ठालक्षणं परम् ।। 122 ।।
विशेषं चात्र वक्ष्याभि द्वितीयस्य मुहामुने।
प्रतिष्ठार्क्षस्य पूर्वेद्यु: मध्यरात्रेऽल्पगेहके ।। 123 ।।
स्थण्डिलं चतुरश्रं च हस्तमात्रं समन्तत:।
कारयित्वा मुनिश्रेष्ठ पश्चाद्देवं नयेद्बुध: ।। 124 ।।
बिम्बाग्रे स्थण्डिले मध्ये मूलमन्त्रमनुस्मरन्।
कुम्भं संस्थाप्य विधिवत् तत्कुम्भे कल्पयेद्धरिम् ।। 125 ।।
आनयेन्मूर्तिमन्त्रेण गन्धपुष्पादिनार्चयेत्।
कुम्भस्यान्तर्गतं देवं रविमध्ये नयेत् क्षणात् ।। 126 ।।
पश्चाद्देवं समावाह्य महाकुम्भे महामुने।
तत्कुम्भान्तर्गतं देवं मूलबेरे न्येद्बुध: ।। 127 ।।
पूर्ववत् प्रोक्षयेन्मूलस्थानं तन्त्रविचक्षण:।
परिवारानशेषांस्तु कल्पयेच्छास्त्रचोदितम् ।। 128 ।।
दिग्देवान् विधिवत् स्थाप्य पूजयेत्तद्दिने दिने।
विशेषश्चात्र संप्रोक्त: शेषं साधारणं भवेत् ।। 129 ।।
युक्त्या युक्तिविशेषेण कारयेदिह नारद।
प्रथमे च द्वितीये च क्रियासु मुनिसत्तम ।। 130 ।।
एवं कृते तु विधिवत् तद्राज्ञो राष्ट्रवासिनाम्।
कर्तु: कारयितुश्चैव आयु: श्रीश्चापि वर्धते ।। 131 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रतिष्ठाविधिर्नाम षोडशोऽध्याय:।।