कौटिलीय अर्थशास्त्रं १४
दिखावट
Book | Chapt | परबलघातप्रयोगः
- 14.1.01 चातुर्वर्ण्यरक्षाऽर्थं औपनिषदिकं अधर्मिष्ठेषु प्रयुञ्जीत
- 14.1.02 कालकूटादिर्विषवर्गः श्रद्धेयदेशवेषशिल्पभाषाऽभिजनापदेशैः कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मभिर्म्लेच्छजातीयैरभिप्रेतैः स्त्रीभिः पुम्भिश्च परशरीर उपभोगेष्ववधातव्यः
- 14.1.03 राजक्रीडाभाण्डनिधानद्रव्य उपब्भोगेषु गूढाः शस्त्रनिधानं कुर्युः, सत्त्राजीविनश्च रात्रिचारिणोऽग्निजीविनश्चाग्निनिधानम्
- 14.1.04 चित्रभेककौण्डिन्यककृकणपञ्चकुष्ठशतपदीचूर्णं उच्चिदिण्गकम्बलीशतकन्द( कर्दम? ) इध्मकृकलासचूर्णं गृहगोलिकान्धाहिकक्रकण्टकपूतिकीटगोमारिकाचूर्णं भल्लातकावल्गुजरसम्युक्तं सद्यःप्राणहरं, एतेषां वा धूमः
- 14.1.05ab कीटो वाऽन्यतमः तप्तः कृष्णसर्पप्रियङ्गुभिः |
- 14.1.05chd शोषयेद् एष सम्योगः सद्यःप्राणहरो मतः
- 14.1.06 धामार्गवयातुधानमूलं भल्लातकपुष्पचूर्णयुक्तं आर्धमासिकः
- 14.1.07 व्याघातकमूलं भल्लातकपुष्पचूर्णयुक्तं कीटयोगो मासिकः
- 14.1.08 कलामात्रं पुरुषाणां, द्विगुणं खराश्वानां, चतुर्गुणं हस्त्य्.उष्ट्राणाम्
- 14.1.09 शतकर्दम उच्चिदिङ्गकरवीरकटुतुम्बीमत्स्यधूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रवातानुवाते प्रणीतो यावच्चरति तावन् मारयति
- 14.1.10 पूकिकीटमस्त्यकटुतुम्बीशतकर्दम इध्म इन्द्रगोपचूर्णं पूतिकीटक्षुद्रारालाहेमविदारीचूर्णं वा बस्तशृङ्गखुरचूर्णयुक्तं अन्धीकरो धूमः
- 14.1.11 पूतिकरञ्जपत्त्रहरितालमनःशिलागुञ्जारक्तकार्पासपलालान्यास्फोटकाचगोशकृद्रसपिष्टं अन्धीकरो धूमः
- 14.1.12 सर्पनिर्मोकं गोऽश्वपुरीषं अन्धाहिकशिरश्चान्धीकरो धूमः
- 14.1.13 पारावतप्लवकक्रव्यादानां हस्तिनरवराहाणां च मूत्रपुरीषं कासीसहिङ्गुयवतुषकणतण्डुलाः कार्पासकुटजकोशातकीनां च बीजानि गोमूत्रिकाभाण्डीमूलं निम्बशिग्रुफणिर्जकाक्षीवपीलुकभङ्गः सर्पशफरीचर्म हस्तिनखशृङ्गचूर्णं इत्येष धूमो मदनकोद्रवपलालेन हस्तिकर्णपलाशपलालेन वा प्रणीतः प्रत्येकशो यावच्चरति तावन् मारयति
- 14.1.14 कालीकुष्ठनडशतावलीमूलं सर्पप्रचलाककृकणपञ्चकुष्ठचूर्णं वा धूमः पूर्वकल्पेनार्द्रशुष्कपलालेन वा प्रणीतः सङ्ग्रामावतरणावस्कन्दनसङ्कुलेषु कृतनेजन उदकाक्षिप्रतीकारैः प्रणीतः सर्वप्राणिनां नेत्रघ्नः
- 14.1.15 शारिकाकपोतबकबलाकालेण्डं अर्काक्षिपीलुकस्नुहिक्षीरपिष्टं अन्धीकरणं अञ्जनं उदकदूषणं च
- 14.1.16 यवकशालिमूलमदनफलजातीपत्त्रनरमूत्रयोगः प्लक्षविदारीमूलयुक्तो मूक उदुम्बरमदनकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः
- 14.1.17 शृङ्गिगौतमवृककण्टकारमयूरपदीयोगो गुञ्जालाङ्गलीविषमूलिक इङ्गुदीयोगः करवीराक्षिपीलुकार्कमृगमारणीयोगो मद्नकोद्रवक्वाथयुक्तो हस्तिकर्णपलाशक्वाथयुक्तो वा मदनयोगः
- 14.1.18 समस्ता वा यवस इन्धन उदकदूषणाः
- 14.1.19 कृतकण्डलकृकलासगृहगोलिकान्धाहिकधूमो नेत्रवधं उन्मादं च करोति
- 14.1.20 कृकलासगृहगोलिकायोगः कुष्ठकरः
- 14.1.21 स एव चित्रं एकान्त्रमधुयुक्तः प्रमेहं आपादयति, मनुष्यलोहितयुक्तः शोषम्
- 14.1.22 दूषीविषं मदनकोद्रवचूर्णं अपजिह्विकायोगः
- 14.1.23 मातृवाहकाञ्जलिकारप्रचलाकभेकाक्षिपीलुकयोगो विषूचिकाकरः
- 14.1.24 पञ्चकुष्ठककौण्डिन्यकराजवृक्षपुष्पमधुयोगो ज्वरकरः
- 14.1.25 भासनकुलजिह्वाग्रन्थिकायोगः खरीक्षीरपिष्टो मूकबधिर.करो मासार्धमासिकः
- 14.1.26 कलामात्रं पुरुषाणां इत् समानं पूर्वेण
- 14.1.27 भङ्गक्वाथ उपनयनं औषधानां, चूर्णं प्राणभृतां, सर्वेषां वा क्वाथ उपनयनं, एवं वीर्यवत्तरं भव्ति
- 14.1.28 इति योगसम्पत्
- 14.1.29 शाल्मली विदारीधान्यसिद्धो मूलवत्सनाभसम्युक्तश्चुच्छुन्दरीशोणितप्रलेपेन दिग्धो बाणो यं विध्यति स विद्धोऽन्यान् दशपुरुषान् दशति, ते दष्टा दशान्यान् दशन्ति पुरुषान्
- 14.1.30 बल्लातकयातुधानावानुधामार्गवबाणानां पुष्पैरेलकाक्षिगुग्गुलुहालाहलानां च कषायं बस्तनरशोणितयुक्तं दंशयोगः
- 14.1.31 ततोऽर्धधरणिको योगः सक्तुपिण्याकाभ्यां उदके प्रणीतो धनुःशतायामं उदकाशयं दूषयति
- 14.1.32 मत्स्यपरम्परा ह्येतेन दष्टाऽभिमृष्टा वा विषीभवति, यश्च एतद् उदकं पिबति स्पृशति वा
- 14.1.33 रक्तश्वेतसर्षपैर्गोधा त्रिपक्षं उष्ट्रिकायां भूमौ निखातायां निहिता वध्येन उद्धृता यावत् पश्यति तावन् मारयति, कृष्णसर्पो वा
- 14.1.34 विद्युत्प्रदग्धोऽङ्गारो ज्वालो वा विद्युत्प्रदग्धैः काष्ठैर्गृहीतश्चानुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणाऽभिहुतोऽग्निः प्रणीतश्च निस्प्रतीकारो दहति
- 14.1.35ab कर्माराद् अग्निं आहृत्य क्षौद्रेण जुहुयात् पृथक् |
- 14.1.35chd सुरया शौण्डिकाद् अग्निं मार्गतोऽग्निं घृतेन च
- 14.1.36ab माल्येन च एकपत्न्य्ऽग्निं पुंश्चल्य्ऽग्निं च सर्षपैः |
- 14.1.36chd दध्ना च सूतिकास्वग्निं आहिताग्निं च तण्डुलैः
- 14.1.37ab चण्डालाग्निं च मांसेन चिताग्निं मानुषेण च
- 14.1.37chd समस्तान् बस्तवसया मानुषेण ध्रुवेण च
- 14.1.38ab जुहुयाद् अग्निमन्त्रेण राजवृक्षस्य दारुभिः |
- 14.1.38chd एष निष्प्रतिकारोऽग्निर्द्विषतां नेत्रमोहनः
- 14.1.39 अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर्नमास्ते
- 14.1.40 अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा ( इति)
Chapt | प्रलम्भनं, तत्र अद्भुत उत्पादनम्
- 14.2.01 शिरीष उदुम्बरशमीचूर्णं सर्पिषा संहृत्यार्धमासिकः क्षुद्योगः
- 14.2.02 कशेरुक उत्पलकन्देक्षुमूलबिसदूर्वाक्षीरघृतमण्डसिद्धो मासिकः
- 14.2.03 माषयवकुलत्थदर्भमूलचूर्णं वा क्षीरघृताभ्यां, वल्लीक्षीरघृतं वा समसिद्धं, सालपृश्निपर्णीमूलकल्कं पयसा पीत्वा, पयो वा तत्सिद्धं मधुघृताभ्यां अशित्वा मासं उपवसति
- 14.2.04 श्वेतबस्तमूत्रे सप्तरात्र उषितैः सिद्धार्थकैः सिद्धं तैलं कटुकालाबौ मासार्धमासस्थितं चतुष्पदद्विपदानां विरूपकरणम्
- 14.2.05 तक्रयवभक्षस्य सप्तरात्राद् ऊर्ध्वं श्वेतगर्दभस्य लेण्डयवैः सिद्धं गौरसर्षपतैलं विरूपकरणम्
- 14.2.06 एतयोरन्यतरस्य मूत्रलेण्डरससिद्धं सिद्धार्थकतैलं अर्कतूलपतङ्गचूर्णप्रतीवापं श्वेतीकरणम्
- 14.2.07 श्वेतकुक्कुटाजगरलेण्डयोगः श्वेतीकरणम्
- 14.2.08 श्वेतबस्तमूत्रे श्वेतसर्षपाः सप्तरात्र उषितास्तक्र( ? ) मर्क.क्षीरलवणं धान्यं च पक्षस्थितो योगः श्वेतीकरणम्
- 14.2.09 कटुकालाबौ वलीगते गतंऽर्धमासस्थितं गौरसर्षपपिष्टं रोम्णां श्वेतीकरणम्
- 14.2.10ab अलोजुनेति यः कीटः श्वेता च गृहगोलिका |
- 14.2.10chd एतेन पिष्तेनाभ्यक्ताः केशाः स्युः शङ्खपाण्डराः
- 14.2.11 गोमयेन तिन्दुकारिष्टकल्केन वा मर्दिताङ्गस्य भल्लातकरसानुलिप्तस्य मासिकः कुष्ठयोगः
- 14.2.12 कृष्णसर्पमुखे गृहगोलिकामुखे वा सप्तरात्र उषिता गुज्जाः कुष्ठयोगः
- 14.2.13 शुकपित्ताण्डरसाभ्यङ्गः कुष्ठयोगः
- 14.2.14 कुष्ठस्यप्रियालकल्ककषायः प्रतीकारः
- 14.2.15 कुक्कुटकोशातकी( ? ) शतावरीमूलयुक्तं आहारयमाणो मासेन गौरो भवति
- 14.2.16 वटकषायस्नातः सहचरकल्कदिग्धः कृष्णो भवति
- 14.2.17 शकुनकण्गुतैलयुक्ता हरितालमनःशिलाः श्यामीकरणम्
- 14.2.18 खद्योतचूर्णं सर्षपतैलयुक्तं रात्रौ ज्वलति
- 14.2.19 खद्योतगण्डूपदचूर्णं समुद्रजन्तूनां भृङ्गकपालानां खदिरकर्णिकाराणां पुष्पचूर्णं वा शकुनकङ्गुतैलयुक्तं तेजनचूर्णम्
- 14.2.20 पारिभद्रकत्वन्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनं अग्निना
- 14.2.21 परिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरं अग्निना ज्वलति
- 14.2.22 पीलुत्वन्मषीमयः पिण्डो हस्ते ज्वलति
- 14.2.23 मण्डूकवसादिग्धोऽग्निना ज्वलति
- 14.2.24 तेन प्रदिग्धं अङ्गं कुशाम्रफलतैलसिक्तं समुद्रमण्डूकीफेनकसर्जरसचूर्णयुक्तं वा ज्वलति
- 14.2.25 मण्डूककुलीरादीनां वसया समभागं तैलं सिद्धं अभ्यङ्गं गात्राणां अग्निप्रज्वालनम्
- 14.2.26 वेणुमूलशैवललिप्तं अङ्गं मण्डूकवसादिग्धं अग्निना ज्वलति
- 14.2.27 पारिभद्रकप्पतिबलावञ्जुलवज्रकदलीमूलकल्केन मण्डूकवसासिद्धेन तैलेनाभ्यक्तपादोऽङ्गारेषु गच्छति
- 14.2.28ab उप उदका प्रतिबला वञ्जुलः पारिभद्रकः |
- 14.2.28chd एतेषां मूलकल्केन मण्डूकवसया सह
- 14.2.29ab साधयेत् तैलं एतेन पादावभ्यज्य निर्मलौ |
- 14.2.29chd अङ्गारराशौ विचरेद् यथा कुसुमसञ्चये
- 14.2.30 हंसक्रौञ्चमयूराणां अन्येषां वा महाशकुनीनां उदकप्लवानां पुच्छेषु बद्धा नलदीपिका रात्रावुल्कादर्शनम्
- 14.2.31 वैद्युतं भस्माङ्गिशमनम्
- 14.2.32 स्त्रीपुष्पपायिता माषा व्रजकुलीमूलं मण्डूकवसामिश्रं चुल्लुयां दीप्तायां अपाचनम्
- 14.2.33 चुल्लीशोधनं प्रतीकारः
- 14.2.34 पीलुमयो मणिरग्निगर्भः सुवर्चलामूलग्रन्थिः सूत्रग्रन्थिर्वा पिचुपरिवेष्टितो मुख्याद् अग्निधूम उत्सर्गः
- 14.2.35 कुशाम्रफलतैलसिक्तोऽग्निर्वर्षप्रवातेषु ज्वलति
- 14.2.36 समुद्रफेनकः तैलयुक्तोऽम्भसि प्लवमानो ज्वलति
- 14.2.37 प्लवमानानां अस्थिषु कल्माषवेणुना निर्मथितोऽग्निर्न उदकेन शाम्यति, उदकेन ज्वलति
- 14.2.38 शस्त्रहतस्य शूलप्रोतस्य वा पुरुषस्य वामपार्श्वपर्शुकास्थिषु कल्माषवेणुना निर्मथितोऽग्निः स्त्रियाः पुरुषस्य वाऽस्थिषु मनुष्यपर्शुकया निर्मथितोऽग्निर्यत्र त्रिरपसव्यं गच्छति न चात्रान्योऽग्निर्ज्वलति
- 14.2.39ab चुच्चुन्दरी खञ्जरीटः खारकीटश्च पिष्यते |
- 14.2.39chd अश्वमूत्रेण संसृष्टा निगलानां तु भञ्जनम्
- 14.2.40 अयस्कान्तो वा पाषाणः कुलीरदर्दुरखारकीटवसाप्रदेहेन द्विगुणः
- 14.2.41 नारकगर्भः कङ्कभासपार्श्व उत्पल उदकपिष्टश्चतुष्पदद्विपदानां पादलेपः
- 14.2.42 उलूकगृध्रवसाभ्यां उष्ट्रचर्म उपानहावभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्योजनान्यश्रान्तो गच्छति
- 14.2.43 श्येनकङ्ककाकगृध्रहंसक्रौञ्चवीचीरल्लानां मज्जानो रेतांसि वा योजनशताय, सिंहव्याघ्रद्वीपकाक उलूकानां मज्जानो रेतांसि वा
- 14.2.44 सार्ववर्णिकानि गर्भपतनान्युष्ट्रिकायां अभिषूय श्मशाने प्रेतशिशून् वा तत्समुत्थितं मेदो योजनशताय
- 14.2.45a अनिष्टैरद्भुत उत्पातैः परस्य उद्वेगं आचरेत् |
- 14.2.45b आराज्याय इति निर्वादः समानः कोप उच्यते ( इति)
Chapt | प्रलम्भनं, तत्र भैषज्यमन्त्रयोगः
- 14.3.01 मार्जार उष्ट्रवृकवराहश्वाविद्वागुलीनप्तृकाक उलूकानां अन्येषां वा निशाचराणां सत्त्वानां एकस्य द्वयोर्बहूनां वा दक्षिणानि वामानि चाक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत्
- 14.3.02 ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति
- 14.3.03ab एकाम्लकं वराहाक्षि खद्योतः कालशारिवा |
- 14.3.03chd एतेनाभ्यक्तनयनो रात्रौ रूपाणि पश्यति
- 14.3.04 त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां यवान् आवास्याविक्षीरेण सेचयेत्
- 14.3.05 ततो यवविरूढमालां आबध्य नष्टच्छायारूपश्चरति
- 14.3.06 त्रिरत्र उपोषितः पुष्येण श्वमार्जार उलूकवागुलीनां दक्षिणानि वामानि चाक्षीणि द्विधा चूर्णं कारयेत्
- 14.3.07 ततो यथास्वं अभ्यक्ताक्षो नष्टच्छायारूपश्चरति
- 14.3.08 त्रिरात्र उपोषितः पुष्येण पुरुषघातिनः काण्डकस्य शलाकां अञ्जनीं च कारयेत्
- 14.3.09 ततो अन्यतमेनाक्षिचूर्णेनाभ्यक्ताक्षो नष्टच्छायारूपश्चरति
- 14.3.10 त्रिरात्र उपोषितः पुष्येण कालायसीं अञ्जनीं शलाकां च कारयेत्
- 14.3.11 ततो निशाचराणां सत्त्वानां अन्यतमस्य शिरःकपालं अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत्
- 14.3.12 तद् अञ्जनं पुष्येण उद्धृत्य तस्यां अञ्जन्यां निदध्यात्
- 14.3.13 तेनाभ्यक्ताक्षो नष्टछायारूपश्चरति
- 14.3.14 यत्र ब्राह्मणं आहिताग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रिरात्र उपोषितः पुष्येण स्वयंमृतस्य वाससा प्रसेवं कृत्वा चिताभस्मना पूरयित्वा तं आबध्य नष्टच्छायारूपश्चरति
- 14.3.15 ब्राह्मणस्य प्रेतकार्ये यो गौर्मार्यते तस्यास्थिमज्जचूर्णपूर्णाऽहिभस्त्रा पशूनां अन्तर्धानम्
- 14.3.16 सर्पदष्टस्य भस्मना पूर्णा प्रचलाकभस्त्रा मृगाणां अन्तर्धानम्
- 14.3.17 उलूकवागुलीपुच्छपुरीषजान्व्ऽस्थिचूर्णपूर्णाऽहिभस्त्रा पक्षिणां अन्तर्धानम्
- 14.3.18 इत्यष्टावन्तर्धानयोगः
- 14.3.19ab बलिं वैरोचनं वन्दे शतमायं च शम्बरम् |
- 14.3.19chd भण्डीरपाकं नरकं निकुम्भं कुम्भं एव च
- 14.3.20ab देवलं नारदं वन्दे वन्दे सावर्णिगालवम् |
- 14.3.20chd एतेषां अनुयोगेन कृतं ते स्वापनं महत्
- 14.3.21ab यथा स्वपन्त्यजगराः स्वपन्त्यपि चमूखलाः |
- 14.3.21chd तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः
- 14.3.22ab भण्डकानां सहस्रेण रथनेमिशतेन च |
- 14.3.22chd इमं गृहं प्रवेक्ष्यामि तूष्णीं आसन्तु भाण्डकाः
- 14.3.23ab नमस्कृत्वा च मनवे बद्ध्वा शुनकफेलकाः |
- 14.3.23chd ये देवा देवलोकेषु मानुषेषु च ब्राह्मणाः
- 14.3.24ab अध्ययनपारगाः सिद्धा ये च कौलास तापसाः |
- 14.3.24chd एतेभ्यः सर्वसिद्धेभ्यः कृतं ते स्वापनं महत्
- 14.3.25 अतिगच्छन्ति च मय्यपगच्छन्तु संहताः
- 14.3.26 अलिते, वलिते, मनवे स्वाहा
- 14.3.27 एतस्य प्रयोगः
- 14.3.28 त्रिरात्र उपोषितः कृष्णचतुर्दश्यां पुष्ययोगिन्यां श्वपाकीहस्ताद् विलखावलेखनं क्रीणीयात्
- 14.3.29 तन्माषैः सह कण्डोलिकायां कृत्वाऽसङ्कीर्ण आदहने निखानयेत्
- 14.3.30 द्वितीयस्यां चतुर्दश्यां उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत्
- 14.3.31 तत एकां गुलिकां अभिमन्त्रयित्वा यत्र एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
- 14.3.32 एतेन एव कल्पेन श्वाविधः शल्यकं त्रिकालं त्रिश्वेतं असङ्कीर्ण आदहने निखानयेत्
- 14.3.33 द्वितीयस्यां चतुर्दश्यां उद्धृत्यादहनभस्मना सह यत्र एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति
- 14.3.34ab सुवर्णपुष्पीं ब्रह्माणीं ब्रह्माणं च कुशध्वजम् |
- 14.3.34chd सर्वाश्च देवता वन्दे वन्दे सर्वांश्च तापसान्
- 14.3.35ab वशं मे ब्राह्मणा यान्तु भूमिपालाश्च क्षत्रियाः |
- 14.3.35chd वशं वैश्याश्च शूद्राश्च वशतां यान्तु मे सदा
- 14.3.36 स्वाहा - अमिले किमिले वयुचारे प्रयोगे फक्के वयुह्वे विहाले दन्तकटके स्वाहा
- 14.3.37ab सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः |
- 14.3.37chd श्वाविधः शल्यकं च एतत् त्रिश्वेतं ब्रह्मनिर्मितम्
- 14.3.38ab प्रसुप्ताः सर्वसिद्धा हि एतत् ते स्वापनं कृतम् |
- 14.3.38chd यावद् ग्रामस्य सीमान्तः सूर्यस्य उद्गमनाद् इति
- 14.3.39 स्वाहा
- 14.3.40 एतस्य प्रयोगः
- 14.3.41 श्वाविधः शल्यकानि त्रिश्वेतानि, सप्तरात्र उपोषितः कृष्णचतुर्दश्यां खादिराभिः समिधामिर्( ? ) अग्निं एतेन मन्त्रेणाष्टशतसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
- 14.3.42 तत एकं एतेन मन्त्रेण ग्रामद्वारि गृहद्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति
- 14.3.43ab बलिं वैरोचनं वन्दे शतमायं च शम्बरम् |
- 14.3.43chd निकुम्भं नरकं कुम्भं तन्तुकच्छं महाऽसुरम्
- 14.3.44ab अर्मालवं प्रमीलं च मण्ड उलूकं घट उबलम् |
- 14.3.44chd कृष्णकंस उपचारं च पौलोमीं च यशस्विनीम्
- 14.3.45ab अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्ऽर्थं शवशारिकाम् |
- 14.3.45chd जयतु जयति च नमः शलकभूतेभ्यः स्वाहा
- 14.3.46ab सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः |
- 14.3.46chd सुखं स्वपन्तु सिद्धार्था यं अर्थं मार्गयामहे |
- 14.3.46ech यावद् अस्तं अयाद् उदयो यावद् अर्थं फलं मम
- 14.3.47 इति स्वाहा
- 14.3.48 एतस्य प्रयोगः
- 14.3.49 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां असङ्कीर्ण आदहने बलिं कृत्वा एतेन मन्त्रेण शवशारिकां गृहीत्वा पौत्रीपोट्टलिकं बध्नीयात्
- 14.3.50 तन्मध्ये श्वाविधः शल्यकेन विद्ध्वा यत्र एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति
- 14.3.51ab उपैमि शरणं चाग्निं दैवतानि दिशो दश |
- 14.3.51chd अपयान्तु च सर्वाणि वशतां यान्तु मे सदा
- 14.3.52 स्वाहा
- 14.3.53 एतस्य प्रयोगः
- 14.3.54 त्रिरात्र उपोस्षितः पुष्येण शर्करा एकविंशतिसम्पातं कृत्वा मधुघृताभ्यां अभिजुहुयात्
- 14.3.55 ततो गन्धमाल्येन पूजयित्वा निखानयेत्
- 14.3.56 द्वितीयेन पुष्येण उद्धृत्य एकां शर्करां अभिमन्त्रयित्वा कपाटं आहन्यात्
- 14.3.57 अभ्यन्तर्ं चतसृणां शर्कराणां द्वारं अपाव्रियते
- 14.3.58 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां भग्नस्य पुरुषस्यास्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच्च एतेन
- 14.3.59 द्विगोयुक्तं गोयानं आहृतं भवति
- 14.3.60 ततः परमाकाशे विरामति
- 14.3.61 रविसगन्धः परिघमति सर्वं पृणाति
- 14.3.62 चण्डालीकुम्भीतुम्बकटुकसारोघः सनारीभगोऽसि - स्वाहा
- 14.3.63 ताल उद्घाटनं प्रस्वापनं च
- 14.3.64 त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां तुवरीरावास्य उदकेन सेचयेत्
- 14.3.65 जातानां पुष्येण एव गृहीत्वा रज्जुकां वर्तयेत्
- 14.3.66 ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच्छेदनं ज्याच्छेदनं करोति
- 14.3.67 उदकाहिभस्त्रां उच्छ्वासमृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिकाबन्धनं मुखग्रहश्च
- 14.3.68 वराहभस्त्रां उच्छ्वासमृत्तिकया पूरयित्वा मर्कटस्नायुनाऽवबध्नीयात्, आनाहकारणम्
- 14.3.69 कृष्णचतुर्दश्यां शस्त्रहताया गोः कपिलायाः पित्तेन राजवृक्षमयीं अमित्रप्रतिमां अञ्ज्यात्, अन्धीकरणम्
- 14.3.70 चतुर्भक्त उपवासी कृष्णचतुर्दश्यां बलिं कृत्वा शूलप्रोतस्य पुरुषस्यास्थ्ना कीलकान् कारयेत्
- 14.3.71 एतेषां एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदेऽस्यासने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्छेदं करोति
- 14.3.72 एतेन एव कल्पेन विद्युद्दग्धस्य वृक्षस्य कीलका व्याख्याताः
- 14.3.73ab पुनर्नवं अवाचीनं निम्बः काममधुश्च यः |
- 14.3.73chd कपिरोम मनुष्यास्थि बद्ध्वा मृतकवाससा
- 14.3.74ab निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् |
- 14.3.74chd सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
- 14.3.75ab पुनर्नवं अवाचीनं निम्बः काममधुश्च यः |
- 14.3.75chd स्वयङ्गुप्ता मनुष्यास्थि पदे यस्य निखन्यते
- 14.3.76ab द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा |
- 14.3.76chd सपुत्रदारः सधनस्त्रीन् पक्षान्नातिवर्तते
- 14.3.77ab अजमर्कटरोमाणि मार्जारनकुलस्य च |
- 14.3.77chd ब्राह्मणानां श्वपाकानां काक उलूकस्य चाहरेत् |
- 14.3.77chd एतेन विष्ठाऽवक्षुण्णा सद्य उत्सादकारिका
- 14.3.78ab प्रेतनिर्मालिका किण्वं रोमाणि नकुलस्य च |
- 14.3.78chd वृश्चिकाल्य्( ? ) अहिकृत्तिश्च पदे यस्य निखन्यते |
- 14.3.78ef भवत्यपुरुषः सद्यो यावत् तन्नापनीयते
- 14.3.79 त्रिरात्र उपोषितः पुष्येण शस्त्रहतस्य शूलप्रोतस्य वा पुंसः शिरःकपाले मृत्तिकायां गुञ्जा आवास्य उदकेन सेचयेत्
- 14.3.80 जातानां अमावास्यायां पौर्णमास्यां वा पुष्ययोगिन्यां गुञ्जवल्लीर्ग्राहयित्वा मण्डलिकानि कारयेत्
- 14.3.81 तेष्वन्नपानभाजनानि न्यस्तानि न क्षीयन्ते
- 14.3.82 रात्रिप्रेक्षायां प्रवृत्तायां प्रदीपाग्निषु मृतधेनोः स्तनान् उत्कृत्य दाहयेत्
- 14.3.83 दग्धान् वृषमूत्रेण पेषयित्वा नवकुम्भं अन्तर्लेपयेत्
- 14.3.84 तं ग्रामं अपसव्यं परिणीय यत् तत्र न्यस्तं नवनीतं एषां तत् सर्वं आगच्छति
- 14.3.85 कृष्णचतुर्दश्यां पुष्ययोगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत्
- 14.3.85 तां स्वयं पतितां गृह्णीयात्
- 14.3.87 तया वृक्षफलान्याकारितान्यागच्छन्ति
- 14.3.88ab मन्त्रभैषज्यसम्युक्ता योगा मायाकृताश्च ये |
- 14.3.88chd उपहन्याद् अमित्रांः तैः स्वजनं चाभिपालयेत् ( इति)
Chapt | स्वबल उपघातप्रतीकारः
- 14.4.01 स्वपक्षे परप्रयुक्तानां दूषीविषगराणां प्रतीकारः
- 14.4.02 श्लेष्मातककपित्थदन्तिदन्तशठगोजिशिरीषपाटलीबलास्योनागपुनर्नवाश्वेतवारणक्वाथयुक्तम्( ? ) चन्दनसालावृकीलोहितयुक्तं नेजन उदकं राज उपभोग्यानां गुह्यप्रक्षालनं स्त्रीणां, सेनायाश्च विषप्रतीकारः
- 14.4.03 पृषतनकुलनीलकण्ठगोधापित्तयुक्तं महीराजीचूर्णं सिन्दुवारितवरणवारुणीतण्डुलीयकशतपर्वाग्रपिण्डीतकयोगो मदनदोषहरः
- 14.4.04 सृगालविन्नामदनसिन्दुवारितवरणवारणवलीमूलकषायाणां अन्यतमस्य समस्तानां वा क्षीरयुक्तं पानं मदनदोषहरम्
- 14.4.05 कैडर्यपूतितिलतैलं उन्मादहरं नस्तःकर्म
- 14.4.06 प्रियङ्गुनक्तमालयोगः कुष्ठहरः
- 14.4.07 कुष्ठलोध्रयोगः पाकशोषघ्नः
- 14.4.08 कटफलद्रवन्तीविलङ्गचूर्णं नस्तःकर्म शिरोरोगहरम्
- 14.4.09 प्रियङ्गुमञ्जिष्ठातगरलाक्षारसमधुकहरिद्राक्षौद्रयोगो रज्जु.उदकविषप्रहारपतननिह्संज्ञानां पुनःप्रत्यानयनाय
- 14.4.10 मनुष्याणां अक्षमात्रं, गवाश्वानां द्विगुणं, चतुर्गुणं हस्त्य्.उष्ट्राणाम्
- 14.4.11 रुक्मगर्भश्च एषां मणिः सर्वविषहरः
- 14.4.12 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकानां अक्षीवे जातस्याश्वत्थस्य मणिः सर्वविषहरः
- 14.4.13ab तूर्याणां तैः प्रलिप्तानां शब्दो विषविनाशनः |
- 14.4.13chd लिप्तध्वजं पताकां वा दृष्ट्वा भवति निर्विषः
- 14.4.14ab एतैः कृत्वा प्रतीकारं स्वसैन्यानां अथात्मनः |
- 14.4.14chd अमित्रेषु प्रयुञ्जीत विषधूमाम्बुदूषणान् ( इति)
संबंधित कड़ियाँ
[सम्पाद्यताम्]- कौटिलीय अर्थशास्त्रं
- कौटिलीय अर्थशास्त्रं १
- कौटिलीय अर्थशास्त्रं २
- कौटिलीय अर्थशास्त्रं ३
- कौटिलीय अर्थशास्त्रं ४
- कौटिलीय अर्थशास्त्रं ५
- कौटिलीय अर्थशास्त्रं ६
- कौटिलीय अर्थशास्त्रं ७
- कौटिलीय अर्थशास्त्रं ८
- कौटिलीय अर्थशास्त्रं ९
- कौटिलीय अर्थशास्त्रं १०
- कौटिलीय अर्थशास्त्रं ११
- कौटिलीय अर्थशास्त्रं १२
- कौटिलीय अर्थशास्त्रं १३
- कौटिलीय अर्थशास्त्रं १४
- कौटिलीय अर्थशास्त्रं १५