कौटिलीय अर्थशास्त्रं ४

विकिस्रोतः तः
Jump to navigation Jump to search
   Book |   suppression of criminals
    Chapt |   keeping a watch over artisans
  • 04.1.01 प्रदेष्टारः त्रयः त्रयोऽमात्याः कण्टकशोधनं कुर्युः
  • 04.1.02 अर्थ्यप्रतीकाराः कारुशासितारः संनिक्षेप्तारः स्ववित्तकारवः श्रेणीप्रमाणा निक्षेपं गृह्णीयुः
  • 04.1.03 विपत्तौ श्रेणी निक्षेपं भजेत
  • 04.1.04 निर्दिष्टदेशकालकार्यं च कर्म कुर्युः, अनिर्दिष्टदेशकालं कार्यापदेशम्
  • 04.1.05 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
  • 04.1.06 अन्यत्र भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वाऽभ्यावहेयुः
  • 04.1.07 कार्यस्यान्यथाकरणे वेतननाशः तद्द्विगुणश्च दण्डः
  • 04.1.08 तन्तुवाया दश एकादशिकं सूत्रं वर्धयेयुः
  • 04.1.09 वृद्धिच्छेदे छेदद्विगुणो दण्डः
  • 04.1.10 सूत्रमूल्यं वानवेतनं, क्षौमकौशेयानां अध्यर्धगुणं, पत्त्र ऊर्णाकम्बलदुकूलानां द्विगुणम्
  • 04.1.11 मानहीने हीनावहीनं वेतनं तद्द्विगुणश्च दण्डः, तुलाहीने हीनचतुर्गुणो दण्डः, सूत्रपरिवर्तने मूल्यद्विगुणः
  • 04.1.12 तेन द्विपटवानं व्याख्यातम्
  • 04.1.13 ऊर्णातुलायाः पञ्चपलिको विहननच्छेदो रोमच्छेदश्च
  • 04.1.14 रजकाः काष्ठफलकश्लक्ष्णशिलासु वस्त्राणि नेनिज्युः
  • 04.1.15 अन्यत्र नेनिजतो वस्त्र उपघातं षट्पणं च दण्डं दद्युः
  • 04.1.16 मुद्गराङ्काद् अन्यद् वासः परिदधानाः त्रिपणं दण्डं दद्युः
  • 04.1.17 परवस्त्रविक्रयावक्रयाधानेषु च द्वादशपणो दण्डः, परिवर्तने मूल्यद्विगुणो वस्त्रदानं च
  • 04.1.18 मुकुलावदातं शिलापट्टशुद्धं धौतसूत्रवर्णं प्रमृष्टश्वेतं च एकरात्र उत्तरं दद्युः
  • 04.1.19 पञ्चरात्रिकं तनुरागं, षड्रात्रिकं नीलं, पुष्पलाक्षामञ्जिष्ठारक्तं गुरुपरिकर्म यत्न उपचार्यं जात्यं वासः सप्तरात्रिकम्
  • 04.1.20 ततः परं वेतनहानिं प्राप्नुयुः
  • 04.1.21 श्रद्धेया रागविवादेषु वेतनं कुशलाः कल्पयेयुः
  • 04.1.22 परार्ध्यानां पणो वेतनं, मध्यमानां अर्धपणः, प्रत्यवराणां पादः, स्थूलकानां माषकद्विमाषकं, द्विगुणं रक्तकानाम्
  • 04.1.23 प्रथमनेजने चतुर्भागः क्षयः, द्वितीये पञ्चभागः
  • 04.1.24 तेन उत्तरं व्याख्यातम्
  • 04.1.25 रजकैः तुन्नवाया व्याख्याताः
  • 04.1.26 सुवर्णकाराणां अशुचिहस्ताद् रूप्यं सुवर्णं अनाख्याय सरूपं क्रीणतां द्वादशपणो दण्डः, विरूपं चतुर्विंशतिपणः, चोरहस्ताद् अष्टचत्वारिंशत्पणः
  • 04.1.27 प्रच्छन्नविरूपमूल्यहीनक्रयेषु स्तेयदण्डः, कृतभाण्ड उपधौ च
  • 04.1.28 सुवर्णान् माषकं अपहरतो द्विशतो दण्डः, रूप्यधरणान् माषकं अपहरतो द्वादशपणः
  • 04.1.29 तेन उत्तरं व्याख्यातम्
  • 04.1.30 वर्ण उत्कर्षं अपसारणं योगं वा साधयतः पञ्चशतो दण्डः
  • 04.1.31 तयोरपचरणे रागस्यापहारं विद्यात्
  • 04.1.32 माषको वेतनं रूप्यधरणस्य, सुवर्णस्याष्टभागः
  • 04.1.33 शिक्षाविशेषेण द्विगुणो वेतनवृद्धिः
  • 04.1.34 तेन उत्तरं व्याख्यातम्
  • 04.1.35 ताम्रवृत्तकंसवैकृन्तकारकूटकानां पञ्चकं शतं वेतनम्
  • 04.1.36 ताम्रपिण्डो दशभागक्षयः
  • 04.1.37 पलहीने हीनद्विगुणो दण्डः
  • 04.1.38 तेन उत्तरं व्याख्यातम्
  • 04.1.39 सीसत्रपुपिण्डो विंशतिभागक्षयः
  • 04.1.40 काकणी चास्य पलवेतनम्
  • 04.1.41 कालायसपिण्डः पञ्चभागक्षयः
  • 04.1.42 काकणीद्वयं चास्य पलवेतनम्
  • 04.1.43 तेन उत्तरं व्याख्यातम्
  • 04.1.44 रूपदर्शकस्य स्थितां पणयात्रां अकोप्यां कोपयतः कोप्यां अकोपयतो द्वादशपणो दण्डः
  • 04.1.45 व्याजीपरिशुद्धौ पणयात्रा
  • 04.1.46 पणान् माषकं उपजीवतो द्वादशपणो दण्डः
  • 04.1.47 तेन उत्तरं व्याख्यातम्
  • 04.1.48 कूटरूपं कारयतः प्रतिगृह्णतो निर्यापयतो वा सहस्रं दण्डः, कोशे प्रक्षिपतो वधः
  • 04.1.49 चरकपांसुधावकाः सारत्रिभागं, द्वौ राजा रत्नं च
  • 04.1.50 रत्नापहार उत्तमो दण्डः
  • 04.1.51 खनिरत्ननिधिनिवेदनेषु षष्ठं अंशं निवेत्ता लभेत, द्वादशं अंशं भृतकः
  • 04.1.52 शतसहस्राद् ऊर्ध्वं राजगामी निधिः
  • 04.1.53 ऊने षष्ठं अंशं दद्यात्
  • 04.1.54 पौर्वपौरुषिकं निधिं जानपदः शुचिः स्वकरणेन समग्रं लभेत
  • 04.1.55 स्वकरणाभावे पञ्चशतो दण्डः, प्रच्छन्नादाने सहस्रम्
  • 04.1.56 भिषजः प्राणाबाधिकं अनाख्याय उपक्रममाणस्य विपत्तौ पूर्वः साहसदण्डः, कर्मापराधेन विपत्तौ मध्यमः
  • 04.1.57 मर्मवधवैगुण्यकरणे दण्डपारुष्यं विद्यात्
  • 04.1.58 कुशीलवा वर्षारात्रं एकस्था वसेयुः
  • 04.1.59 कामदानं अतिमात्रं एकस्यातिवादं च वर्जयेयुः
  • 04.1.60 तस्यातिक्रमे द्वादशपणो दण्डः
  • 04.1.61 कामं देशजातिगोत्रचरणमैथुनावहासेन नर्मयेयुः
  • 04.1.62 कुशीलवैश्चारणा भिक्षुकाश्च व्याख्याताः
  • 04.1.63 तेषां अयःशूलेन यावतः पणान् अभिवदेयुः तावन्तः शिफाप्रहारा दण्डाः
  • 04.1.64 शेषाणां कर्मणां निष्पत्तिवेतनं शिल्पिनां कल्पयेत्
  • 04.1.65ab एवं चोरान् अचोराख्यान् वणिक्कारुकुशीलवान् |
  • 04.1.66chd भिक्षुकान् कुहकांश्चान्यान् वारयेद् देशपीडनात् ( इति)


    Chapt |   keeping a watch overtraders
  • 04.2.01 संस्थाऽध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुद्धानां आधानं विक्रयं वा स्थापयेत्
  • 04.2.02 तुलामानभाण्डानि चावेक्षेत पौतवापचारात्
  • 04.2.03 परिमाणीद्रोणयोरर्धपलहीनातिरिक्तं अदोषः
  • 04.2.04 पलहीनातिरिक्ते द्वादशपणो दण्डः
  • 04.2.05 तेन पल उत्तरा दण्डवृद्धिर्व्याख्याता
  • 04.2.06 तुलायाः कर्षहीनातिरिक्तं अदोषः
  • 04.2.07 द्विकर्षहीनातिरिक्ते षट्पणो दण्डः
  • 04.2.08 तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
  • 04.2.09 आढकस्यार्धकर्षहीनातिरिक्तं अदोषः
  • 04.2.10 कर्षहीनातिरिक्ते त्रिपणो दण्डः
  • 04.2.11 तेन कर्ष उत्तरा दण्डवृद्धिर्व्याख्याता
  • 04.2.12 तुलामानविशेषाणां अतोऽन्येषां अनुमानं कुर्यात्
  • 04.2.13 तुलामानाभ्यां अतिरिक्ताभ्यां क्रीत्वा हीनाभ्यां विक्रीणानस्य त एव द्विगुणा दण्डाः
  • 04.2.14 गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतः षण्ँअवतिर्दण्डः
  • 04.2.15 काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यं इत्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः
  • 04.2.16 सारभाण्डं इत्यसारभाण्डं तज्जातं इत्यतज्जातं राधायुक्तं इत्युपधियुक्तं समुद्गपरिवर्तिमं वा विक्रयाधानं नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः, पणमूल्यं द्विगुणो, द्विपणमूल्यं द्विशतः
  • 04.2.17 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
  • 04.2.18 कारुशिल्पिनां कर्मगुणापकर्षं आजीवं विक्रयक्रय उपघातं वा सम्भूय समुत्थापयतां सहस्रं दण्डः
  • 04.2.19 वैदेहकानां वा सम्भूय पण्यं अवरुन्धतां अनर्घेण विक्रीणतां वा सहस्रं दण्डः
  • 04.2.20 तुलामानान्तरं अर्घवर्णान्तरं वा - धरकस्य मायकस्य वा पणमूल्याद् अष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः
  • 04.2.21 तेन द्विशत उत्तरा दण्डवृद्धिर्व्याख्याता
  • 04.2.22 धान्यस्नेहक्षारलवणगन्धभैषज्यद्रव्याणां समवर्ण उपधाने द्वादशपणो दण्डः
  • 04.2.23 यन्निषृष्टं उपजीवेयुः तद् एषां दिवससञ्जातं सङ्ख्याय वणिक् स्थापयेत्
  • 04.2.24 क्रेतृविक्रेत्रोरन्तरपतितं आदायाद् अन्यद् भवति
  • 04.2.25 तेन धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः
  • 04.2.26 अन्यथानिचितं एषां पण्याध्यक्षो गृह्णीयात्
  • 04.2.27 तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम्
  • 04.2.28 अनुज्ञातक्रयाद् उपरि च एषां स्वदेशीयानां पण्यानां पञ्चकं शतं आजीवं स्थापयेत्, परदेशीयानां दशकम्
  • 04.2.29 ततः परं अर्घं वर्धयतां क्रये विक्रये वा भावयतां पणशते पञ्चपणाद् द्विशतो दण्डः
  • 04.2.30 तेनार्घवृद्धौ दण्डवृद्धिर्व्याख्याता
  • 04.2.31 सम्भूयक्रये च एषां अविक्रीते नान्यं सम्भूयक्रयं दद्यात्
  • 04.2.32 पण्य उपघाते च एषां अनुग्रहं कुर्यात्
  • 04.2.33 पण्यबाहुल्यात् पण्याध्यक्षः सर्वपण्यान्येकमुखानि विक्रीणीत
  • 04.2.34 तेष्वविक्रीतेषु नान्ये विक्रीणीरन्
  • 04.2.35 तानि दिवसवेतनेन विक्रीणीरन्न् अनुग्रहेण प्रजानाम्
  • 04.2.36ab देशकालान्तरितानां तु पण्यानां - प्रक्षेपं पण्यनिष्पत्तिं शुल्कं वृद्धिं अवक्रयम् |
  • 04.2.36chd व्ययान् अन्यांश्च सङ्ख्याय स्थापयेद् अर्घं अर्घवित् ( इति)


    Chapt |   Remedial measures during calamities
  • 04.3.01 दैवान्यष्टौ महाभयानि - अग्निरुदकं व्याधिर्दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि इति
  • 04.3.02 तेभ्यो जनपदं रक्षेत्
  • 04.3.03 ग्रीष्मे बहिर्ऽधिश्रयणं ग्रामाः कुर्युः, दशमूलीसङ्ग्रहेणाधिष्ठिता वा
  • 04.3.04 नागरिकप्रणिधावग्निप्रतिषेधो व्याख्यातः, निशान्तप्रणिधौ राजपरिग्रहे च
  • 04.3.05 बलिहोमस्वस्तिवाचनैः पर्वसु चाग्निपूजाः कारयेत्
  • 04.3.06 वर्षारात्रं आनूपग्रामाः पूरवेलां उत्सृज्य वसेयुः
  • 04.3.07 काष्ठवेणुनावश्च उपगृह्णीयुः
  • 04.3.08 उह्यमानं अलाबुदृतिप्लवगण्डिकावेणिकाभिः तारयेयुः
  • 04.3.09 अनभिसरतां द्वादशपणो दण्डः, अन्यत्र प्लवहीनेभ्यः
  • 04.3.10 पर्वसु च नदीपूजाः कारयेत्
  • 04.3.11 मायायोगविदो वेदविदो वा वर्षं अभिचरेयुः
  • 04.3.12 वर्षावग्रहे शचीनाथगङ्गापर्वतमहाकच्छपूजाः कारयेत्
  • 04.3.13 व्याधिभयं औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश्चिकित्सकाः शान्तिप्रायश्चित्तैर्वा सिद्धतापसाः
  • 04.3.14 तेन मरको व्याख्यातः
  • 04.3.15 तीर्थाभिSएचनं महाकच्छवर्धनं गवां श्मशानावदोहनं कबन्धदहनं देवरात्रिं च कारयेत्
  • 04.3.16 पशुव्याधिमरके स्थानार्थनीराजनं स्वदैवतपूजनं च कारयेत्
  • 04.3.17 दुर्भिक्षे राजा बीजभक्त उपग्रहं कृत्वाऽनुग्रहं कुर्यात्, दुर्गसेतुकर्म वा भक्तानुग्रहेण, भक्तसंविभागं वा, देशनिक्षेपं वा
  • 04.3.18 मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात्
  • 04.3.19 निष्पन्नसस्यं अन्यविषयं वा सजनपदो यायात्, समुद्रसरस्तटाकानि वा संश्रयेत
  • 04.3.20 धान्यशाकमूलफलावापान् वा सेतुषु कुर्वीत, मृगपशुपक्षिव्यालमत्स्यारम्भान् वा
  • 04.3.21 मूषिकभये मार्जारनकुल उत्सर्गः
  • 04.3.22 तेषां ग्रहणहिंसायां द्वादशपणो दण्डः, शुनां अनिग्रहे चान्यत्रारण्यचरेभ्यः
  • 04.3.23 स्नुहिक्षीरलिप्तानि धान्यानि विसृजेद्, उपनिषद्योगयुक्तानि वा
  • 04.3.24 मूषिककरं वा प्रयुञ्जीत
  • 04.3.25 शान्तिं वा सिद्धतापसाः कुर्युः
  • 04.3.26 पर्वसु च मूषिकपूजाः कारयेत्
  • 04.3.27 तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः
  • 04.3.28 व्यालभये मदनरसयुक्तानि पशुशवानि प्रसृजेत्, मदनकोद्रवपूर्णान्यौदर्याणि वा
  • 04.3.29 लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः
  • 04.3.30 आवरणिनः शस्त्रपाणयो व्यालान् अभिहन्युः
  • 04.3.31 अनभिसर्तुर्द्वादशपणो दण्डः
  • 04.3.32 स एव लाभो व्यालघातिनः
  • 04.3.33 पर्वसु च पर्वतपूजाः कारयेत्
  • 04.3.34 तेन मृगपशुपक्षिसङ्घग्राहप्रतीकारा व्याख्याताः
  • 04.3.35 सर्पभये मन्त्रैरोषधिभिश्च जाङ्गुलीविदश्चरेयुः
  • 04.3.36 सम्भूय वाऽपि सर्पान् हन्युः
  • 04.3.37 अथर्ववेदविदो वाऽभिचरेयुः
  • 04.3.38 पर्वसु च नागपूजाः कारयेत्
  • 04.3.39 तेन उदकप्राणिभयप्रतीकारा व्याख्याताः
  • 04.3.40 रक्षोभये रक्षोघ्नान्यथर्ववेदविदो मायायोगविदो वा कर्माणि कुर्युः
  • 04.3.41 पर्वसु च वितर्दिच्छत्र उल्लोपिकाहस्तपताकाच्छाग उपहारैश्चैत्यपूजाः कारयेत्
  • 04.3.42 चरुं वश्चरामः इत्येवं सर्वभयेष्वहोरात्रं चरेयुः
  • 04.3.43 सर्वत्र च उपहतान् पिता इवानुगृह्णीयात्
  • 04.3.44ab मायायोगविदः तस्माद् विषये सिद्धतापसाः |
  • 04.3.44chd वसेयुः पूजिता राज्ञा दैवापत्प्रतिकारिणः ( इति)


    Chapt |  Guarding against persons with secret means of income
  • 04.4.01 समाहर्तृप्रणिधौ जनपदरक्षणं उक्तम्
  • 04.4.02 तस्य कण्टकशोधनं वक्ष्यामः
  • 04.4.03 समाहर्ता जनपदे सिद्धतापसप्रव्रजितचक्रचरचारणकुहकप्रच्छन्दककार्तान्तिकनैमित्तिकमौहूर्तिकचिकित्सक उन्मत्तमूकबधिरजडान्धवैदेहककारुशिल्पिकुशीलववेशशौण्डिकापूपिकपाक्वमांसिकाउदनिकव्यञ्जनान् प्रणिदध्यात्
  • 04.4.04 ते ग्रामाणां अध्यक्षाणां च शौचाशौचं विद्युः
  • 04.4.05 यं चात्र गूढाजीविनं शङ्केत तं सत्त्रिणाऽपसर्पयेत्
  • 04.4.06 धर्मस्थं विश्वास उपगतं सत्त्री ब्रूयात् - असौ मे बन्धुरभियुक्तः, तस्यायं अनर्थः प्रतिक्रियतां, अयं चार्थः प्रतिगृह्यताम् इति
  • 04.4.07 स चेत् तथा कुर्याद् उपदाग्राहक इति प्रवास्येत
  • 04.4.08 तेन प्रदेष्टारो व्याख्याताः
  • 04.4.09 ग्रामकूटं अध्यक्षं वा सत्त्री ब्रूयात् - असौ जाल्मः प्रभूतद्रव्यः, तस्यायं अनर्थः, तेन एनं आहारयस्व इति
  • 04.4.10 स चेत् तथा कुर्याद् उत्कोचक इति प्रवास्येत
  • 04.4.11 कृतकाभियुक्तो वा कूटसाक्षिणोऽभिज्ञातानर्थवैपुल्येनारभेत
  • 04.4.12 ते चेत् तथा कुर्युः कूटसाक्षिण इति प्रवास्येरन्
  • 04.4.13 तेन कूटश्रावणकारका व्याख्याताः
  • 04.4.14 यं वा मन्त्रयोगमूलकर्मभिः श्माशानिकैर्वा संवदनकरकं मन्येत तं सत्त्री ब्रूयात् - अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयतां, अयं चार्थः प्रतिगृह्यताम् इति
  • 04.4.15 स चेत् तथा कुर्यात् संवदनकारक इति प्रवास्येत
  • 04.4.16 तेन कृत्याभिचारशीलौ व्याख्यातौ
  • 04.4.17 यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्याहारव्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् - असौ मे शत्रुः, तस्य उपघातः क्रियतां, अयं चार्थः प्रतिगृह्यताम् इति
  • 04.4.18 स चेत् तथा कुर्याद् रसद इति प्रवास्येत
  • 04.4.19 तेन मदनयोगव्यवहारी व्याख्यातः
  • 04.4.20 यं वा नानालोहक्षाराणां अङ्गारभस्मासन्दंशमुष्टिकाधिकरणीबिम्ब.टङ्कमूषाणां अभीक्ष्णक्रेतारं मषीभस्मधूमदिग्धहस्तवस्त्रलिङ्गं कर्मार उपकरणसंसर्गं कूटरूपकारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण चानुप्रविश्य प्रज्ञापयेत्
  • 04.4.21 प्रज्ञातः कूटरूपकारक इति प्रवास्येत
  • 04.4.22 तेन रागस्यापहर्ता कूटसुवर्णव्यवहारी च व्याख्यातः
  • 04.4.23ab आरब्धारः तु हिंसायां गूढाजीवाः त्रयोदश |
  • 04.4.23chd प्रवास्या निष्क्रयार्थं वा दद्युर्दोषविशेषतः ( इति)


    Chapt |   Detection of criminals througH secret agents in the disguise of holymen
  • 04.5.01 सत्त्रिप्रयोगाद् ऊर्ध्वं सिद्धव्यञ्जना माणवान् माणवविद्याभिः प्रलोभयेयुः, प्रस्वापनान्तर्धानद्वारापोहमन्त्रेण प्रतिरोधकान्, संवदनमन्त्रेण पारतल्पिकान्
  • 04.5.02 तेषां कृत उत्साहानां महान्तं सङ्घं आदाय रात्रावन्यं ग्रामं उद्दिश्यान्यं ग्रामं कृतकस्त्रीपुरुषं गत्वा ब्रूयुः - इह एव विद्याप्रभावो दृश्यतां, कृच्छ्रः परग्रामो गन्तुम् इति
  • 04.5.03 ततो द्वारापोहमन्त्रेण द्वाराण्यपोह्य प्रविश्यताम् इति ब्रूयुः
  • 04.5.04 अन्तर्धानमन्त्रेण जाग्रतां आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः
  • 04.5.05 प्रस्वापनमन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर्माणवैः सञ्चारयेयुः
  • 04.5.06 संवदनमन्त्रेण भार्याव्यञ्जनाः परेषां माणवैः सम्मोदयेयुः
  • 04.5.07 उपलब्धविद्याप्रभावाणां पुरश्चरणाऽऽद्यादिशेयुरभिज्ञानार्थम्
  • 04.5.08 कृतलक्षणद्रव्येषु वा वेश्मसु कर्म कारयेयुः
  • 04.5.09 अनुप्रविष्टा वा एकत्र ग्राहयेयुः
  • 04.5.10 कृतलक्षणद्रव्यक्रयविक्रयाधानेषु योगसुरामत्तान् वा ग्राहयेयुः
  • 04.5.11 गृहीतान् पूर्वापदानसहायान् अनुयुञ्जीत
  • 04.5.12 पुराणचोरव्यञ्जना वा चोरान् अनुप्रविष्टाः तथा एव कर्म कारयेयुर्ग्राहयेयुश्च
  • 04.5.13 गृहीतान् समाहर्ता पौरजानपदानां दर्शयेत् - चोरग्रहणीं विद्यां अधीते राजा, तस्य उपदेशाद् इमे चोरा गृहीताः, भूयश्च ग्रहीष्यामि, वारयितव्यो वः स्वजनः पापाचारह् इति
  • 04.5.14 यं चात्रापसर्प उपदेशेन शम्याप्रतोदादीनां अपहर्तारं जानीयात् तं एषां प्रत्यादिशेत् एष राज्ञः प्रभावः इति
  • 04.5.15 पुराणचोरगोपालकव्याधश्वगणिनश्च वनचोराटविकान् अनुप्रविष्टाः प्रभूतकूटहिरण्यकुप्यभाण्डेषु सार्थव्रजग्रामेष्वेनान् अभियोजयेयुः
  • 04.5.16 अभियोगे गूढबलैर्घातयेयुः, मदनरसयुक्तेन वा पथ्य्ऽदनेन
  • 04.5.17 गृहीतलोप्त्रभारान् आयतगतपरिश्रान्तान् प्रस्वपतः प्रहवणेषु योगसुरामत्तान् वा ग्राहयेयुः
  • 04.5.18ab पूर्ववच्च गृहीत्वा एनान् समाहर्ता प्ररूपयेत् |
  • 04.5.18chd सर्वज्ञख्यापनं राज्ञः कारयन् राष्ट्रवासिषु ( इति)


    Chapt |   Arrest on suspicion, with the stolen article and by indication of the act
  • 04.6.01 सिद्धप्रयोगाद् ऊर्ध्वं शङ्कारूपकर्माभिग्रहः
  • 04.6.02a क्षीणदायकुटुम्बं, अल्पनिर्वेशं, विपरीतदेशजातिगोत्रनामकर्मापदेशं, प्रच्छन्नवृत्तिकर्माणं,
  • 04.6.02b मांससुराभक्ष्यभोजनगन्धमाल्यवस्त्रविभूषणेषु प्रसक्तं, अतिव्ययकर्तारं, पुंश्चलीद्यूतशौण्डिकेषु प्रसक्तं,
  • 04.6.02ch अभीक्ष्णप्रवासिनं, अविज्ञातस्थानगमनं, एकान्तारण्यनिष्कुटविकालचारिणं, प्रच्छन्ने सामिषे वा देशे बहुमन्त्रसंनिपातं,
  • 04.6.02d सद्यःक्षतव्रणानां गूढप्रतीकारकारयितारं, अन्तर्गृहनित्यं, अभ्यधिगन्तारं, कान्तापरं,
  • 04.6.02e परपरिग्रहाणां परस्त्रीद्रव्यवेश्मनां अभीक्ष्णप्रष्टारं, कुत्सितकर्मशास्त्र उपकरणसंसर्गं,
  • 04.6.02f विरात्रे छन्नकुड्यच्छायासञ्चारिणं, विरूपद्रव्याणां अदेशकालविक्रेतारं, जातवैरशयं, हीनकर्मजातिं,
  • 04.6.02g विगूहमानरूपं, लिङ्गेनालिङ्गिनं, लिङ्गिनं वा भिन्नाचारं, पूर्वकृतापदानं, स्वकर्मभिरपदिष्टं,
  • 04.6.02h नागरिकमहामात्रदर्शने गुहमानं अपसरन्तं अनुच्छ्वास उपवेशिनं आविग्नं शुष्कभिन्नस्वरमुखवर्णं,
  • 04.6.02i शस्त्रहस्तमनुष्यसम्पातत्रासिनं, हिंस्रस्तेननिधिनिक्षेपापहारपरप्रयोगगूढाजीविनां अन्यतमं शङ्केत इति शङ्काऽभिग्रहः ||
  • 04.6.03 रूपाभिग्रहः तु - नष्टापहृतं अविद्यमानं तज्जातव्यवहारिषु निवेदयेत्
  • 04.6.04 तच्चेन्निवेदितं आसाद्य प्रच्छादयेयुः साचिव्यकरदोषं आप्नुयुः
  • 04.6.05 अजानन्तोऽस्य द्रव्यस्यातिसर्गेण मुच्येरन्
  • 04.6.06 न चानिवेद्य संस्थाऽध्यक्षस्य पुराणभाण्डानां आधानं विक्रयं वा कुर्युः
  • 04.6.07 तच्चेन्निवेदितं आसाद्येत, रूपाभिगृहीतं आगमं पृच्छेत् कुतः ते लब्धम् इति
  • 04.6.08 स चेत् ब्रूयात् दायाद्याद् अवाप्तं, अमुष्माल्लब्धं क्रीतं कारितं आधिप्रच्छन्नं, अयं अस्य देशः कालश्च उपसम्प्राप्तेः, अयं अस्यार्घः प्रमाणं लक्षणं मूल्यं च इति, तस्यागमसमाधौ मुच्येत
  • 04.6.09 नाष्टिकश्चेत् तद् एव प्रतिसन्दध्यात्, यस्या पूर्वो दीर्घश्च परिभोगः शुचिर्वा देशः तस्य द्रव्यं इति विद्यात्
  • 04.6.10 चतुष्पदद्विपदानां अपि हि रूपलिङ्गसामान्यं भवति, किं अङ्ग पुनरेकयोनिद्रव्यकर्तृप्रसूतानां कुप्याभरणभाण्डानां इति
  • 04.6.11 स चेद् ब्रूयात् याचितकं अवक्रीतकं आहितकं निक्षेपं उपनिधिं वैयावृत्यकर्म वाऽमुष्य इति, तस्यापसारप्रतिसन्धानेन मुच्येत
  • 04.6.12 न एवम् इत्यपसारो वा ब्रूयात्, रूपाभिगृहीतः परस्य दानकारणं आत्मनः प्रतिग्रहकारणं उपलिङ्गनं वा दायकदापकनिबन्धकप्रतिग्राहक उपद्रष्टृभिरुपश्रोतृभिर्वा प्रतिसमानयेत्
  • 04.6.13 उज्झितप्रनष्टनिष्पतित उपलब्धस्य देशकाललाभ उपलिङ्गनेन शुद्धिः
  • 04.6.14 अशुद्धः तच्च तावच्च दण्डं दद्यात्
  • 04.6.15 अन्यथा स्तेयदण्डं भजेत इति रूपाभिग्रहः |
  • 04.6.16 कर्माभिग्रहः तु - मुषितवेश्मनः प्रवेशनिष्कसनं अद्वारेण, द्वारस्य सन्धिना बीजेन वा वेधं, उत्तमागारस्य जालवातायननीप्रवेधं, आरोहणावतरणे च कुड्यस्य वेधं, उपखननं वा गूढद्रव्यनिक्षेपणग्रहण उपायं, उपदेश उपलभ्यं अभ्यन्तरच्छेद उत्करपरिमर्द उपकरणं अभ्यन्तरकृतं विद्यात्
  • 04.6.17 विपर्यये बाह्यकृतं, उभयत उभयकृतम्
  • 04.6.18a अभ्यन्तरकृते पुरुषं आसन्नं व्यसनिनं क्रूरसहायं तस्कर उपकरणसंसर्गं, स्त्रियं वा दरिद्रकुलां अन्यप्रसक्तां वा,
  • 04.6.18b परिचारकजनं वा तद्विधाचारं, अतिस्वप्नं, निद्राक्लान्तं, आविग्नं | शुष्कभिन्नस्वरमुखवर्णं, अनवस्थितं,
  • 04.6.18ch अतिप्रलापिनं, उच्चारोहणसंरब्धगात्रं, विलूननिघृष्टभिन्नपाटितशरीरवस्त्रं, जातकिणसंरब्धहस्तपादं,
  • 04.6.18d पांसुपूर्णकेशनखं विलूनभुग्नकेशनखं वा, सम्यक्स्नातानुलिप्तं तैलप्रमृष्टगात्रं सद्योदौतहस्तपादं वा,
  • 04.6.18e पांसुपिच्छिलेषु तुल्यपादपदनिक्षेपं, प्रवेशनिष्कसनयोर्वा तुल्यमाल्यमद्यगन्धवस्त्रच्छेदविलेपनस्वेदं परीक्षेत
  • 04.6.19 चोरं पारदारिकं वा विद्यात्
  • 04.6.20ab सगोपस्थानिको बाह्यं प्रदेष्टा चोरमार्गणम् |
  • 04.6.20chd कुर्यान्नागरिकश्चान्तर्दुर्गे निर्दिष्टहेतुभिः ( इति)


    Chapt |   In quest of sudden deaths
  • 04.7.01 तैलाभ्यक्तं आशुमृतकं परीक्षेत
  • 04.7.02 निष्कीर्णमूत्रपुरीषं वातपूर्णकोष्ठत्वक्कं शूनपादपाणिमान् मीलिताक्षं सव्यञ्जनकण्ठं पीटननिरुद्ध उच्छ्वासहतं विद्यात्
  • 04.7.03 तं एव सङ्कुचितबाहुसक्थिं उद्बन्धहतं विद्यात्
  • 04.7.04 शूनपाणिपाद उदरं अपगताक्षं उद्वृत्तनाभिं अवरोपितं विद्यात्
  • 04.7.05 निस्तब्धगुदाक्षं सन्दष्टजिह्वं आध्मात उदरं उदकहतं विद्यात्
  • 04.7.06 शोणितानुसिक्तं भग्नभिन्नगात्रं काष्ठैरश्मभिर्वा हतं विद्यात्
  • 04.7.07 सम्भग्नस्फुटितगात्रं अवक्षिप्तं विद्यात्
  • 04.7.08 श्यावपाणिपाददन्तनखं शिथिलमांसरोमचर्माणं फेन उपदिग्धमुखं विषहतं विद्यात्
  • 04.7.09 तं एव स-शोणितदंशं सर्पकीटहतं विद्यात् |
  • 04.7.10 विक्षिप्तवस्त्रगात्रं अतिवन्तविरिक्तं मदनयोगहतं विद्यात्
  • 04.7.11 अतोऽन्यतमेन कारणेन हतं हत्वा वा दण्डभयाद् उद्बद्धनिकृत्तकण्ठं विद्यात्
  • 04.7.12 विषहतस्य भोजनशेषं वयोभिः परीक्षेत
  • 04.7.13 हृदयाद् उद्धृत्याग्नौ प्रक्षिप्तं चिटिचिटायद्.इन्द्रधनुर्वर्णं वा विषयुक्तं विद्यात्, दग्धस्य हृदयं अदग्धं दृष्ट्वा वा
  • 04.7.14 तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत, दुःख उपहतं अन्यप्रसक्तं वा स्त्रीजनं, दायवृत्तिस्त्रीजनाभिमन्तारं वा बन्धुम्
  • 04.7.15 तद् एव हत उद्बद्धस्य परीक्षेत
  • 04.7.16 स्वयं उद्बद्धस्य वा विप्रकारं अयुक्तं मार्गेत
  • 04.7.17 सर्वेषां वा स्त्रीदायाद्यदोषः कर्मस्पर्धा प्रतिपक्षद्वेषः पण्यसंस्थासमवायो वा विवादपदानां अन्यतमद् वा रोषस्थानम्
  • 04.7.18 रोषनिमित्तो घातः
  • 04.7.19 स्वयंऽअदिष्टपुरुषैर्वा, चोरैरर्थनिमित्तं, सादृश्याद् अन्यवैरिभिर्वा हतस्य घातं आसन्नेभ्यः परीक्षेत
  • 04.7.20 येनाहूतः सह स्थितः प्रस्थितो हतभूमिं आनीतो वा तं अनुयुञ्जीत
  • 04.7.21 ये चास्य हतभूमावासन्नचराः तान् एक एकशः पृच्छेत् केनायं इहानीतो हतो वा, कः सशस्त्रः सङ्गूहमान उद्विग्नो वा युष्माभिर्दृष्टः इति
  • 04.7.22 ते यथा ब्रूयुः तथाऽनुयुञ्जीत
  • 04.7.23ab अनाथस्य शरीरस्थं उपभोगं परिच्छदम् |
  • 04.7.23chd वस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः
  • 04.7.24ab अनुयुञ्जीत संयोगं निवासं वासकारणम् |
  • 04.7.24chd कर्म च व्यवहारं च ततो मार्गणं आचरेत्
  • 04.7.25ab रज्जुशस्त्रविषैर्वाऽपि कामक्रोधवशेन यः |
  • 04.7.25chd घातयेत् स्वयं आत्मानं स्त्री वा पापेन मोहिता
  • 04.7.26ab रज्जुना राजमार्गे तांश्चण्डालेनापकर्षयेत् |
  • 04.7.26chd न श्मशानविधिः तेषां न सम्बन्धिक्रियाः तथा
  • 04.7.27ab बन्धुः तेषां तु यः कुर्यात् प्रेतकार्यक्रियाविधिम् |
  • 04.7.27chd तद्गतिं स चरेत् पश्चात् स्वजनाद् वा प्रमुच्यते
  • 04.7.28ab संवत्सरेण पतति पतितेन समाचरन् |
  • 04.7.28chd याजनाध्यापनाद् यौनात् तैश्चान्योऽपि समाचरन् ( इति)


    Chapt |   Investigation througH interrogation and througH torture
  • 04.8.01 मुषितसंनिधौ बाह्यानां अभ्यन्तराणां च साक्षिणां अभिशस्तस्य देशजातिगोत्रनामकर्मसारसहायनिवासान् अनुयुञ्जीत
  • 04.8.02 तांश्चापदेशैः प्रतिसमानयेत्
  • 04.8.03 ततः पूर्वस्याह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणाद् इत्यनुयुञ्जीत
  • 04.8.04 तस्यापसारप्रतिसन्धाने शुद्धः स्यात्, अन्यथा कर्मप्राप्तः
  • 04.8.05 त्रिरात्राद् ऊर्ध्वं अग्राह्यः शङ्कितकः पृच्छाऽभावाद् अन्यत्र उपकरणदर्शनात्
  • 04.8.06 अचोरं चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं प्रच्छादयतश्च
  • 04.8.07 चोरेणाभिशस्तो वैरद्वेषाभ्यां अपदिष्टकः शुद्धः स्यात्
  • 04.8.08 शुद्धं परिवासयतः पूर्वः साहसदण्डः
  • 04.8.09 शङ्कानिष्पन्नं उपकरणमन्त्रिसहायरूपवैयावृत्यकरान्निष्पादयेत्
  • 04.8.10 कर्मणश्च प्रदेशद्रव्यादानांशविभागैः प्रतिसमानयेत्
  • 04.8.11 एतेषां कारणानां अनभिसन्धाने विप्रलपन्तं अचोरं विद्यात्
  • 04.8.12 दृश्यते ह्यचोरोऽपि चोरमार्गे यदृच्छया संनिपाते चोरवेषशस्त्रभाण्डसामान्येन गृह्यमाणश्चोरभाण्डस्य उपवासेन वा, यथाऽणिमाण्डव्यः कर्मक्लेशभयाद् अचोरः चोरोऽस्मि इति ब्रुवाणः
  • 04.8.13 तस्मात् समाप्तकरणं नियमयेत्
  • 04.8.14 मन्दापराधं बालं वृद्धं व्याधितं मत्तं उन्मत्तं क्षुत्पिपासाऽध्वक्लान्तं अत्याशितं आमकाशितं दुर्बलं वा न कर्म कारयेत्
  • 04.8.15 तुल्य शीलपुंश्चलीप्रापाविककथाऽवकाशभोजनदातृभिरपसर्पयेत्
  • 04.8.16 एवं अतिसन्दध्यात्, यथा वा निक्षेपापहारे व्याख्यातम्
  • 04.8.17 आप्तदोषं कर्म कारयेत्, न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावरप्रजाताम्
  • 04.8.18 स्त्रियाः त्वर्धकर्म, वाक्यानुयोगो वा
  • 04.8.19 ब्राह्मणस्य सत्त्रिपरिग्रहः श्रुतवतः तपस्विनश्च
  • 04.8.20 तस्यातिक्रम उत्तमो दण्डः कर्तुः कारयितुश्च, कर्मणा व्यापादनेन च
  • 04.8.21 व्यावहारिकं कर्मचतुष्कं - षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च
  • 04.8.22 परं पापकर्मणां नव वेत्रलताः, द्वादश कशाः, द्वावूरुवेष्टौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत्तलाः, द्वौ वृश्चिकबन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागूपीतस्य एकपर्वदहनं अङ्गुल्याः, स्नेहपीतस्य प्रतापनं एकं अहः, शिशिररात्रौ बल्बजाग्रशय्या च
  • 04.8.23 इत्यष्टादशकं कर्म
  • 04.8.24 तस्य उपकरणं प्रमाणं प्रहरणं प्रधरणं अवधारणं च खरपट्टाद् आगमयेत्
  • 04.8.25 दिवसान्तरं एक एकं च कर्म कारयेत्
  • 04.8.26 पूर्वकृतापदानं प्रतिज्ञायापहरन्तं एकदेशदृष्टद्रव्यं कर्मणा रूपेण वा गृहीतं राजकोशं अवस्तृणन्तं कर्मवध्यं वा राजवचनात् समस्तं व्यस्तं अभ्यस्तं वा कर्म कारयेत्
  • 04.8.27 सर्वापराधेष्वपीडनीयो ब्राह्मणः
  • 04.8.28 तस्याभिशस्ताङ्को ललाटे स्याद् व्यवहारपतनाय, स्तेयो श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने मद्यध्वजः
  • 04.8.29ab ब्राह्मणं पापकर्माणं उद्घुष्याङ्ककृतव्रणम् |
  • 04.8.29chd कुर्यान्निर्विषयं राजा वासयेद् आकरेषु वा ( इति)


    Chapt |   keeping a watch over officers of all departments
  • 04.9.01 समाहर्तृप्रदेष्टारः पूर्वं अध्यक्षाणां अध्यक्षपुरुषाणां च नियमनं कुर्युः
  • 04.9.02 खनिसारकर्मान्तेभ्यः सारं रत्नं वाऽपहरतः शुद्धवधः
  • 04.9.03 फल्गुद्रव्यकर्मान्तेभ्यः फल्गु द्रव्यं उपस्करं वा पूर्वः साहसदण्डः
  • 04.9.04 पण्यभूमिभ्यो वा राजपण्यं माषमूल्याद् ऊर्ध्वं आपादमूल्याद् इत्यपहरतो द्वादशपणो दण्डः, आद्विपादमूल्याद् इति चतुर्विंशतिपणः, आत्रिपादमूल्याद् इति षट्त्रिंशत्पणः, आपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आद्विपणमूल्याद् इति पूर्वः साहसदण्डः, आचतुष्पणमूल्याद् इति मध्यमः, आऽष्टपणमूल्याद् इत्युत्तमः, आदशपणमूल्याद् इति वधः
  • 04.9.05 कोष्ठपण्यकुप्यायुधागारेभ्यः कुप्यभाण्ड उपस्करापहारेष्वर्धमूल्येषु एत एव दण्डाः
  • 04.9.06 कोशभाण्डागाराक्षशालाभ्यश्चतुर्भागमूल्येषु एत एव द्विगुणा दण्डाः
  • 04.9.07 चोराणां अभिप्रधर्षणे चित्रो घातः
  • 04.9.08 इति राजपरिग्रहेषु व्याख्यातम्
  • 04.9.09 बाह्येषु तु - प्रच्छन्नं अहनि क्षेत्रखलवेश्मापणेभ्यः कुप्यभाण्डं उपस्करं वा माषमूल्याद् ऊर्ध्वं आपादमूल्याद् इत्यपहरतः त्रिपणो दण्डः, गोमयप्रदेहेन वा प्रलिप्यावघोषणम् आद्विपादमूल्याद् इति षट्पणः, गोमयभस्मना वा प्रलिप्यावघोषणं, आत्रिपादमूल्याद् इति नवपणः, गोमयभस्मना वा प्रलिप्यावघोषणं, शरावमेखलया वाऽअपणमूल्याद् इति द्वादशपणः, मुण्डनं प्रव्राजनं वाऽअद्विपणमूल्याद् इति चतुर्विंशतिपणः, मुण्डस्य इष्टकाशकलेन प्रव्राजनं वाऽअचतुष्पणमूल्याद् इति षट्त्रिंशत्पणः आपञ्चपणमूल्याद् इत्यष्टचत्वारिंशत्पणः, आदशपणमूल्याद् इति पूर्वः साहसदण्डः आविंशतिपणमूल्याद् इत् द्विशतः आत्रिंशत्पणमूल्याद् इति पञ्चशतः आचत्वारिंशत्पणमूल्याद् इति साहस्रः आपञ्चाशत्पणमूल्याद् इति वधः
  • 04.9.10 प्रसह्य दिवा रात्रौ वाऽऽन्तर्यामिकं अपहरतोऽर्धमूल्येषु एत एव दण्डाः
  • 04.9.11 प्रसह्य दिवा रात्रौ वा स-शस्त्रस्यापहरतश्चतुर्भागमूल्येषु एत एव द्विगुणा दण्डाः
  • 04.9.12 कुटुम्बिकाध्यक्षमुख्यस्वामिनां कूटशासनमुद्राकर्मसु पूर्वमध्य उत्तमवधा दण्डाः, यथाऽपराधं वा
  • 04.9.13 धर्मस्थश्चेद् विवदमानं पुरुषं तर्जयति भर्त्सयत्यपसारयत्यभिग्रसते वा पूर्वं अस्मै साहसदण्डं कुर्यात्, वाक्पारुष्ये द्विगुणम्
  • 04.9.14 पृच्छ्यं न पृच्छति, अपृच्छ्यं पृच्छति, पृष्ट्वा वा विसृजति, शिक्षयति, स्मारयति, पूर्वं ददाति वा, इति मध्यमं अस्मै साहसदण्डं कुर्यात्
  • 04.9.15 देयं देशं न पृच्छति, अदेयं देशं पृच्छति, कार्यं अदेशेनातिवाहयति, छलेनातिहरति, कालहरणेन श्रान्तं अपवाहयति, मार्गापन्नं वाक्यं उत्क्रमयति, मतिसाहाय्यं साक्षिभ्यो ददाति, तारितानुशिष्टं कार्यं पुनरपि गृह्णाति, उत्तमं अस्मै साहसदण्डं कुर्यात्
  • 04.9.16 पुनर्ऽपराधे द्विगुणं स्थानाद् व्यवरोपणं च
  • 04.9.17 लेखकश्चेद् उक्तं न लिखति, अनुक्तं लिखति, दुरुक्तं उपलिखति, सूक्तं उल्लिखति, अर्थ उत्पत्तिं वा विकल्पयति, इति पूर्वं अस्मै साहसदण्डं कुर्याद्, यथाऽपराधं वा
  • 04.9.18 धर्मस्थः प्रदेष्टा वा हैरण्यदण्डं अदण्ड्ये क्षिपति क्षेपद्विगुणं अस्मै दण्डं कुर्यात्, हीनातिरिक्ताष्टगुणं वा
  • 04.9.19 शरीरदण्डं क्षिपति शारीरं एव दण्डं भजेत, निष्क्रयद्विगुणं वा
  • 04.9.20 यं वा भूतं अर्थं नाशयति अभूतं अर्थं करोति तद्ऽष्टगुणं दण्डं दद्यात्
  • 04.9.21 धर्मस्थीये चारके बन्धनागारे वा शय्याऽऽसनभोजन उच्चारसञ्चाररोधबन्धनेषु त्रिपण उत्तरा दण्डाः कर्तुः कारयितुश्च
  • 04.9.22 चारकाद् अभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः साहसदण्डः, अभियोगदानं च, बन्धनागारात् सर्वस्वं वधश्च
  • 04.9.23 बन्धनागाराध्यक्षस्य संरुद्धकं अनाख्याय चारयतश्चतुर्विंशतिपणो दण्डः, कर्म कारयतो द्विगुणः, स्थानान्यत्वं गमयतोऽन्नपानं वा रुन्धतः षण्ँअवतिर्दण्डः, परिक्लेशयत उत्कोटयतो वा मध्यमः साहसदण्डः, घ्नतः साहस्रः
  • 04.9.24 परिगृहीतां दासीं आहितिकां वा संरुद्धिकां अधिचरतः पूर्वः साहसदण्डः, चोरड़ामरिकभार्यां मध्यमः, संरुद्धिकां आर्यां उत्तमः
  • 04.9.25 संरुद्धस्य वा तत्र एव घातः
  • 04.9.26 तद् एवाक्षणगृहीतायां आर्यायां विद्यात्, दास्यां पूर्वः साहसदण्डः
  • 04.9.27 चारकं अभित्त्वा निष्पातयतो मध्यमः, भित्त्वा वधः, बन्धनागारात् सर्वस्वं वधश्च
  • 04.9.28ab एवं अर्थचरान् पूर्वं राजा दण्डेन शोधयेत् |
  • 04.9.28chd शोधयेयुश्च शुद्धाः ते पौरजानपदान् दमैः ( इति)


    Chapt |   Redemption from the cutting of individual limbs
  • 04.10.01 तीर्थघातग्रन्थिभेद ऊर्ध्वकराणां प्रथमेऽपराधे सन्देशच्छेदनं चतुष्पञ्चाशत्पणो वा दण्डः, द्वितीये छेदनं पणस्य शत्यो वा दण्डः, तृतीये दक्षिणहस्तवधश्चतुःशतो वा दण्डः, चतुर्थे यथाकामी वधः
  • 04.10.02 पञ्चविंशतिपणावरेषु कुक्कुटनकुलमार्जारश्वसूकरस्तेयेषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः, नासाग्रच्छेदनं वाचण्डालारण्यचराणां अर्धदण्डाः
  • 04.10.03 पाशजालकूटावपातेषु बद्धानां मृगपशुपक्षिव्यालमत्स्यानां आदाने तच्च तावच्च दण्डः
  • 04.10.04 मृगद्रव्यवनान् मृगद्रव्यापहारे शात्यो दण्डः
  • 04.10.05 बिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो दण्डः
  • 04.10.06 कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शत्यो दण्डः, स्थूलकद्रव्यापहारे द्विशतः, कृषिद्रव्यापहारे च
  • 04.10.07 दुर्गं अकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद् वा निक्षेपं गृहीत्वाऽपसरतः काण्डरावधो, द्विशातो वा दण्डः
  • 04.10.08 चक्रयुक्तं नावं क्षुद्रपशुं वाऽपहरत एकपादवधः, त्रिशतो वा दण्डः
  • 04.10.09 कूटकाकण्य्ऽक्षारालाशलाकाहस्तविषमकारिण एकहस्तवधः, चतुःशतो वा दण्डः
  • 04.10.10 स्तेनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः सङ्गृहीतायाश्च कर्णनासाच्छेदनं, पञ्चशतो वा दण्डः, पुंषो द्विगुणः
  • 04.10.11 महापशुं एकं दासं दासीं वाऽपहरतः प्रेतभाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो वा दण्डः
  • 04.10.12 वर्ण उत्तमानां गुरूणां च हस्तपादलङ्घने राजयानवाहनाद्य्ऽअरोहणे च एकहस्तपादवधः, सप्तशतो वा दण्डः
  • 04.10.13 शूद्रस्य ब्राह्मणवादिनो देवद्रव्यं अवस्तृणतो राजद्विष्टं आदिशतो द्विनेत्रभेदिनश्च योगाञ्जनेनान्धत्वं, अष्टशतो वा दण्डः
  • 04.10.14 चोरं पारदारिकं वा मोक्षयतो राजशासनं ऊनं अतिरिक्तं वा लिखतः कन्यां दासीं वा स-हिरण्यं अपरहतः कूटव्यवहारिणो विमांसविक्रयिणश्च वामहस्तद्विपादवधो, नवशतो वा दण्डः
  • 04.10.15 मानुषमांसविक्रये वधः
  • 04.10.16 देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्नसस्यापहारिण उत्तमो दण्डः, शुद्धवधो वा
  • 04.10.17ab पुरुषं चापराधं च कारणं गुरुलाघवम् |
  • 04.10.17chd अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च
  • 04.10.18ab उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि |
  • 04.10.18chd राज्ञश्च प्रकृतीनां च कल्पयेद् अन्तरा स्थितः ( इति)


    Chapt |   Law of capital punishment, simple and with torture
  • 04.11.01 कलहे घ्नतः पुरुषं चित्रो घातः
  • 04.11.02 सप्तरात्रस्यान्तर्मृते शुद्धवधः, पक्षस्यान्तरुत्तमः, मासस्यान्तः पञ्चशतः समुत्थानव्ययश्च
  • 04.11.03 शस्त्रेण प्रहरत उत्तमो दण्डः
  • 04.11.04 मदेन हस्तवधः, मोहेन द्विशतः
  • 04.11.05 वधे वधः
  • 04.11.06 प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहसदण्डः
  • 04.11.07 प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकावस्कन्दक उपवेधकान् पथिवेश्मप्रतिरोधकान् राजहस्त्य्ऽश्वरथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः
  • 04.11.08 यश्च एनान् दहेद् अपनयेद् वा स तं एव दण्डं लभेत, साहसं उत्तमं वा
  • 04.11.09 हिंस्रस्तेनानां भक्तवास उपकरणाग्निमन्त्रदानवैयावृत्यकर्मसु उत्तमो दण्डः, परिभाषणं अविज्ञाते
  • 04.11.10 हिंस्रस्तेनानां पुत्रदारं असमन्त्रं विसृजेत्, समन्त्रं आददीत
  • 04.11.11 राज्यकामुकं अन्तःपुरप्रधर्षकं अटव्य्ऽमित्र उत्साहकं दुर्गराष्ट्रदण्डकोपकं वा शिरोहस्तप्रदीपिकं घातयेत्
  • 04.11.12 ब्राह्मणं तमः प्रवेशयेत्
  • 04.11.13 मातृपितृपुत्रभ्रात्र्ऽअचार्यतपस्विघातकं वाऽत्वक्षिरःप्रादीपिकं घातयेत्
  • 04.11.14 तेषां आक्रोशे जिह्वाच्छेदः, अङ्गाभिरदने तद्ऽङ्गान् मोच्यः
  • 04.11.15 यदृच्छाघाते पुंसः पशुयूथस्तेये च शुद्धवधः
  • 04.11.16 दशावरं च यूथं विद्यात्
  • 04.11.17 उदकधारणं सेतुं भिन्दतः तत्र एवाप्सु निमज्जनं, अनुदकं उत्तमः साहसदण्डः, भग्न उत्सृष्टकं मध्यमः
  • 04.11.18 विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीं अपः प्रवेशयेद् अगर्भिणीं, गर्भिणीं मासावरप्रजाताम्
  • 04.11.19 पतिगुरुप्रजाघातिकां अग्निविषदां सन्धिच्छेदिकां वा गोभिः पाटयेत्
  • 04.11.20 विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकं अग्निना दाहयेत्
  • 04.11.21 राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य ब्राह्मणमहानसावलेहिनश्च जिह्वां उत्पाटयेत्
  • 04.11.22 प्रहरणावरणस्तेनं अनायुधीयं इषुभिर्घातयेत्
  • 04.11.23 आयुधीयस्य उत्तमः
  • 04.11.24 मेढ्रफल उपघातिनः तद् एवच्छेदयेत्
  • 04.11.25 जिह्वानास उपघाते सन्दंशवधः
  • 04.11.26ab एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् |
  • 04.11.26chd अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः ( इति)


    Chapt |   Violation of maidens
  • 04.12.01 सवर्णां अप्राप्तफलां प्रकुर्वतो हस्तवधः, चतुःशतो वा दण्डः
  • 04.12.02 मृतायां वधः
  • 04.12.03 प्राप्तफलां प्रकुर्वतो मध्यमाप्रदेशिनीवधो, द्विशतो वा दण्डः
  • 04.12.04 पितुश्चावहीनं दद्यात्
  • 04.12.05 न च प्राकाम्यं अकामायां लब्भेत
  • 04.12.06 सकामायां चतुष्पञ्चाशत्पणो दण्डः, स्त्रियाः त्वर्धदण्डः
  • 04.12.07 परशुल्कावरुद्धायां हस्तवधः, चतुःशतो वा दण्डः, शुल्कदानं च
  • 04.12.08 सप्तार्तवप्रजातां वरणाद् ऊर्ध्वं अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुरवहीनं दद्यात्
  • 04.12.09 ऋतुप्रतिरोधिभिः स्वाम्याद् अपक्रामति
  • 04.12.10 त्रिवर्षप्रजातार्तवायाः तुल्यो गन्तुं अदोषः, ततः परं अतुल्योऽप्यनलङ्कृतायाः
  • 04.12.11 पितृद्रव्यादाने स्तेयं भजेत
  • 04.12.12 परं उद्दिश्यान्यस्य विन्दतो द्विशतो दण्डः
  • 04.12.13 न च प्राकांयं अकामायां लभेत
  • 04.12.14 कन्यां अन्यां दर्शयित्वाऽन्यां प्रयच्छतः शत्यो दण्डः तुल्यायां, हीनायां द्विगुणः
  • 04.12.15 प्रकर्मण्यकुमार्याश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कव्ययकर्मणी च प्रतिदद्यात्
  • 04.12.16 अवस्थाय तज्जातं पश्चात्कृता द्विगुणं दद्यात्
  • 04.12.17 अन्यशोणित उपधाने द्विशतो दण्डः, मिथ्याऽभिशंसिनश्च पुंसः
  • 04.12.18 शुल्कव्ययकर्मणी च जीयेत
  • 04.12.19 न च प्राकांयं अकामायां लभेत
  • 04.12.20 स्त्रीप्रकृता सकामा समाना द्वादशपणं दण्डं दद्यात्, प्रकर्त्री द्विगुणम्
  • 04.12.21 अकामायाः शत्यो दण्ड आत्मरागार्थं, शुल्कदानं च
  • 04.12.22 स्वयं प्रकृता राजदास्यं गच्छेत्
  • 04.12.23 बहिर्ग्रामस्य प्रकृतायां मिथ्याऽभिशंसने च द्विगुणो दण्डः
  • 04.12.24 प्रसह्य कन्यां अपहरतो द्विशतः, स-सुवर्णां उत्तमः
  • 04.12.25 बहूनां कन्याऽपहारिणां पृथग् यथा उक्ता दण्डाः
  • 04.12.26 गणिकादुहितरं प्रकुर्वतश्चतुष्पञ्चाशत्पणो दण्डः, शुल्कं मातुर्भोगः षोडशगुणः
  • 04.12.27 दासस्य दास्या वा दुहितरं अदासीं प्रकुर्वतश्चतुर्विंशतिपणो दण्डः शुल्काबन्ध्यदानं च
  • 04.12.28 निष्क्रयानुरूपां दासीं प्रकुर्वतो द्वादशपणो दण्डो वस्त्राबन्ध्यदानं च
  • 04.12.29 साचिव्यावकाशदाने कर्तृसमो दण्डः
  • 04.12.30 प्रोषितपतिकां अपचरन्तीं पतिबन्धुः तत्पुरुषो वा सङ्गृह्णीयात्
  • 04.12.31 सङ्गृहीता पतिं आकाङ्क्षेत
  • 04.12.32 पतिश्चेत् क्षमेत विसृज्येत उभयम्
  • 04.12.33 अक्षमायां स्त्रियाः कर्णनासाच्छेदनं, वधं जारश्च प्राप्नुयात्
  • 04.12.34 जारं चोर इत्यभिहरतः पञ्चशतो दण्डः, हिरण्येन मुञ्चतः तद्ऽष्टगुणः
  • 04.12.35 केशाकेशिकं सङ्ग्रहणं, उपलिङ्गनाद् वा शरीर उपभोगानां, तज्जातेभ्यः( तज्ज्ञातेभ्यः? chf.N12.60) , स्त्रीवचनाद् वा
  • 04.12.36 परचक्राटवीहृतां ओघप्रव्यूढां अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेतभाव उत्सृष्टां वा परस्त्रियं निस्तारयित्वा यथासम्भाषितं समुपभुञ्जीत
  • 04.12.37 जातिविशिष्टां अकामां अपत्यवतीं निष्क्रयेण दद्यात्
  • 04.12.38ab चोरहस्तान्नदीवेगाद् दुर्भिक्षाद् देशविभ्रमात् |
  • 04.12.38chd निस्तारयित्वा कान्तारान्नष्टां त्यक्तां मृता इति वा
  • 04.12.39ab भुञ्जीत स्त्रियं अन्येषां यथासम्भाषितं नरः |
  • 04.12.39chd न तु राजप्रतापेन प्रमुक्तां स्वजनेन वा
  • 04.12.40ab न च उत्तमां न चाकामां पूर्वापत्यवतीं न च |
  • 04.12.40chd ईदृशीं त्वनुरूपेण निष्क्रयेणापवाहयेत् ( इति)


    Chapt |   Punishments for transgressions
  • 04.13.01 ब्राह्मणं अपेयं अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहसदण्डः, शूद्रं चतुष्पञ्चाशत्पणो दण्डः
  • 04.13.02 स्वयं ग्रसितारो निर्विषयाः कार्याः
  • 04.13.03 परगृहाभिगमने दिवा पूर्वः साहसदण्डः, रात्रौ मध्यमः
  • 04.13.04 दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः
  • 04.13.05 भिक्षुकवैदेहकौ मत्त उन्मत्तौ बलाद् आपदि चातिसंनिकृष्टाः प्रवृत्तप्रवेशाश्चादण्ड्याः, अन्यत्र प्रतिषेधात्
  • 04.13.06 स्ववेश्मनो विरात्राद् ऊर्ध्वं परिवारं आरोहतः पूर्वः साहसदण्डः, परवेश्मनो मध्यमः, ग्रामारामवाटभेदिनश्च
  • 04.13.07 ग्रामेष्वन्तः सार्थिका ज्ञातसारा वसेयुः
  • 04.13.08 मुषितं प्रवासितं च एषां अनिर्गतं रात्रौ ग्रामस्वामी दद्यात्
  • 04.13.09 ग्रामान्तरेषु वा मुषितं प्रवासितं विवीताध्यक्षो दद्यात्
  • 04.13.10 अविवीतानां चोररज्जुकः
  • 04.13.11 तथाऽप्यगुप्तानां सीमावरोधेन विचयं दद्युः
  • 04.13.12 असीमावरोधे पञ्चग्रामी दशग्रामी वा
  • 04.13.13 दुर्बलं वेश्म शकटं अनुत्तब्धं ऊर्धस्तम्भं शस्त्रं अनपाश्रयं अप्रतिच्छन्नं श्वभ्रं कूपं कूटावपातं वा कृत्वा हिंसायां दण्डपारुष्यं विद्यात्
  • 04.13.14 वृक्षच्छेदने दंयरश्मिहरणे चतुष्पदानां अदान्तसेवने वाहने वा काष्ठलोष्टपाषाणदण्डबाणबाहुविक्षेपणेषु याने हस्तिना च स्मघट्टने अपेहि इति प्रकोशन्न् अदण्ड्यः
  • 04.13.15 हस्तिना रोषितेन हतो द्रोणान्नं मद्यकुम्भं माल्यानुलेपनं दन्तप्रमार्जनं च पटं दद्यात्
  • 04.13.16 अश्वमेधावभृथस्नानेन तुल्यो हस्तिना वध इति पादप्रक्षालनम्
  • 04.13.17 उदासीनवधे यातुरुत्तमो दण्डः
  • 04.13.18 शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानं अमोक्षयतः स्वामिनः पूर्वः साहसदण्डः, प्रतिक्रुष्टस्य द्विगुणः
  • 04.13.19 शृङ्गिदंष्ट्रिभ्यां अन्योन्यं घातयतः तच्च तावच्च दण्डः
  • 04.13.20 देवपशुं ऋषभं उक्षाणं गोकुमारीं वा वाहयतः पञ्चशतो दण्डः, प्रवासयत उत्तमः
  • 04.13.21 लोमदोहवाहनप्रजनन उपकारिणां क्षुद्रपशूनां अदाने तच्च तावच्च दण्डः, प्रवासने च, अन्यत्र देवपितृकार्येभ्यः
  • 04.13.22 छिन्ननस्यं भग्नयुगं तिर्यक्प्रतिमुखागतं प्रत्यासरद् वा चक्रयुक्तं याता पशुमनुष्यसम्बाधे वा हिंसायां अदण्ड्यः
  • 04.13.23 अन्यथा यथा उक्तं मानुषप्राणिहिंसायां दण्डं अभ्यावहेत्
  • 04.13.24 अमानुषप्राणिवधे प्राणिदानं च
  • 04.13.25 बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्तव्यवहारो वा याता
  • 04.13.26 बालाधिष्ठितं अपुरुषं वा यानं राजा हरेत्
  • 04.13.27 कृत्याभिचाराभ्यां यत्परं आपादयेत् तद्ऽअपादयितव्यः
  • 04.13.28 कामं भार्यायां अनिच्छन्त्यां कन्यायां वा दारार्थिनो भर्तरि भार्याया वा संवदनकरणम्
  • 04.13.29 अन्यथाहिंसायां मध्यमः साहसदण्डः
  • 04.13.30 मातापित्रोर्भगिनीं मातुलानीं आचार्याणीं स्नुषां दुहितरं भगिनीं वाऽधिचरतः त्रिलिङ्गच्छेदनं वधश्च
  • 04.13.31 सकामा तद् एव लभेत, दासपरिचारकाहितकभुक्ता च
  • 04.13.32 ब्राह्मण्यां अगुप्तायां क्षत्रियस्य उत्तमः, सर्वस्वं वैश्यस्य, शूद्रः कटाग्निना दह्येत
  • 04.13.33 सर्वत्र राजभार्यागमने कुम्भीपाकः
  • 04.13.34 श्वपाकीगमने कृतकबन्धाङ्कः परविषयं गच्छेत्, श्वपाकत्वं वा शूद्रः
  • 04.13.35 श्वपाकस्यार्यागमने वधः, स्त्रियाः कर्णनासाच्छेदनम्
  • 04.13.36 प्रव्रजितागमने चतुर्विंशतिपणो दण्डः
  • 04.13.37 सकामा तद् एव लभेत
  • 04.13.38 रूपाजीवायाः प्रसह्य उपभोगे द्वादशपणो दण्डः
  • 04.13.39 बहूनां एकां अधिचरतां पृथक् चतुर्विंशतिपणो दण्डः
  • 04.13.40 स्त्रियं अयोनौ गच्छतः पूर्वः साहसदण्डः, पुरुषं अधिमेहतश्च
  • 04.13.41ab मैथुने द्वादशपणः तिर्यग्योनिष्वनात्मनः |
  • 04.13.41chd दैवतप्रतिमानां च गमने द्विगुणः स्मृतः
  • 04.13.42ab अदण्ड्यदण्डने राज्ञो दण्डः त्रिंशद्गुणोऽम्भसि |
  • 04.13.42chd वरुणाय प्रदातव्यो ब्राह्मणेभ्यः ततः परम्
  • 04.13.43ab तेन तत् पूयते पापं राज्ञो दण्डापचारजम् |
  • 04.13.43chd शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]