कौटिलीय अर्थशास्त्रं १३

विकिस्रोतः तः
Jump to navigation Jump to search
  Book |  
    Chapt |      उपजापः
  • 13.1.01 विजिगीषुः परग्रामं अवाप्तुकामः सर्वज्ञदैवतसम्योगख्यापनाभ्यां स्वपक्षं उद्धर्षयेत्, परपक्षं च उद्वेजयेत्
  • 13.1.02 सर्वज्ञख्यापनं तु - गृहगुह्यप्रवृत्तिज्ञानेन प्रत्यादेशो मुख्यानां, कण्टकशोधनापसर्पावगमेन प्रकाशनं राजद्विष्टकारिणां, विज्ञाप्य उपायनख्यापनं अदृष्टसंसर्गविद्यासंज्ञाऽऽदिभिः, विदेशप्रवृत्तिज्ञानं तद् अहरेव गृहकपोतेन मुद्रासम्युक्तेन
  • 13.1.03 दैवतसम्योगख्यापनं तु - सुरुङ्गामुखेनाग्निचैत्यदैवतप्रतिमाच्छिद्रान् अनुप्रविष्टैरग्निचैत्यदैवतव्यञ्जनैः सम्भाषणं पूजनं च, उदकाद् उत्थितैर्वा नागवरुणव्यञ्जनैः सम्भाषणं पूजनं च, रात्रावन्तर्.उदके समुद्रवालुकाकोशं प्रणिधायाग्निमालादर्शनं, शिलाशिक्यावगृहीते प्लवके स्थानं, उदकबस्तिना जरायुणा वा शिरोऽवगूढनासः पृषतान्त्रकुलीरनक्रशिंशुमार उद्रवसाभिर्वा शतपाक्यं तैलं नस्तः प्रयोगः
  • 13.1.04 तेन रात्रिगणश्चरति
  • 13.1.05 इत्युदकचरणानि
  • 13.1.06 तैर्वरुणनागकन्यावाक्यक्रिया सम्भाषणं च, कोपस्थानेषु मुखाद् अग्निधूम उत्सर्गः
  • 13.1.07 तद् अस्य स्वविषये कार्तान्तिकनैमित्तिकमौहूर्तिकपौराणिक इक्षणिकगूढपुरुषाः साचिव्यकराः तद्दर्शिनश्च प्रकाशयेयुः
  • 13.1.08 परस्य विषये दैवतदर्शनं दिव्यकोशदण्ड उत्पत्तिं चास्य ब्रूयुः
  • 13.1.09 दैवतप्रश्ननिमित्तवायसाङ्गविद्यास्वप्नमृगपक्षिव्याहारेषु चास्य विजयं ब्रूयुः, विपरीतं अमित्रस्य
  • 13.1.10 सदुन्दुभिं उल्कां च परस्य नक्षत्रे दर्शयेयुः
  • 13.1.11 परस्य मुख्यान् मित्रत्वेन उपदिशन्तो दूतव्यञ्जनाः स्वामिसत्कारं ब्रूयुः, स्वपक्षबलाधानं परपक्षप्रतिघातं च
  • 13.1.12 तुल्ययोगक्षेमं अमात्यानां आयुधीयानां च कथयेयुः
  • 13.1.13 तेषु व्यसनाभ्युदयावेक्षणं अपत्यपूजनं च प्रयुञ्जीत
  • 13.1.14 तेन परपक्षं उत्साहयेद् यथा उक्तं पुरस्तात्
  • 13.1.15 भूयश्च वक्ष्यामः
  • 13.1.16 साधारणगर्दभेन दक्षान्, लकुटशाखाहननाभ्यां दण्डचारिणः, कुल एडकेन च उद्विग्नान्, अशनिवर्षेण विमानितान्, विदुलेनावकेशिना वायसपिण्डेन कैतवजमेघेन इति विहताशान् दुर्भगालङ्कारेण द्वेषिणा इति पूजाफलान्, व्याघ्रचर्मणा मृत्युकूटेन च उपहितान्, पीलुविखादनेन करकयोष्ट्रया गर्दभीक्षीराऽभिमन्थनेन इति ध्रुव उपकारिण इति
  • 13.1.17 प्रतिपन्नान् अर्थमानाभ्यां योजयेत्
  • 13.1.18 द्रव्यभक्तच्छिद्रेषु च एनान् द्रव्यभक्तदानैरनुगृह्णीयात्
  • 13.1.19 अप्रतिगृह्णतां स्त्रीकुमारालङ्कारान् अभिहरेयुः
  • 13.1.20 दुर्भिक्षस्तेनाटव्य्.उपघातेषु च पौरजानपदान् उत्साहयन्तः सत्त्रिणो ब्रूयुः राजानं अनुग्रहं याचामहे निरनुग्रहाः परत्र गच्छामः इति
  • 13.1.21ab तथा इति प्रतिपन्नेषु द्रव्यधान्यान्यपरिग्रहैः |
  • 13.1.21chd साचिव्यं कार्यं इत्येतद् उपजापाद् भूतं महत् ( इति)


    Chapt |      योगवामनम्
  • 13.2.01 मुण्डो जटिलो वा पर्वतगुहावासी चतुर्वर्षशतायुर्ब्रुवाणः प्रभूतजटिलान्तेवासी नगराभ्याशे तिष्ठेत्
  • 13.2.02 शिष्याश्चास्य मूलफल उपगमनैरमात्यान् राजानं च भगवद्दर्शनाय योजयेयुः
  • 13.2.03 समागताश्च राज्ञा पूर्वराजदेशाभिज्ञानानि कथयेत्, शते शते च वर्षाणां पूर्णेऽहं अग्निं प्रविश्य पुनर्बालो भवामि, तद् इह भवत् समीपे चतुर्थं अग्निं प्रवेक्ष्यामि, अवश्यं मे भवान् मानयितव्यः, त्रीन् वरान् वृणीष्ण( वृषीष्व) इति
  • 13.2.04 प्रतिपन्नं ब्रूयात् सप्तरात्रं इह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम् इति
  • 13.2.05 वसन्तं अवस्कन्देत
  • 13.2.06 मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी वस्तशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके निदध्याद् उपजिह्विकानुसरणार्थं, स्वर्णनालिकां वा
  • 13.2.07 ततः सत्त्री राज्ञः कथयेत् असौ सिद्धः पुष्पितं निधिं जानाति इति
  • 13.2.08 स राज्ञा पृष्ठः तथा इति ब्रूयात्, तच्चाभिज्ञानं दर्शयेत्, भूयो वा हिरण्यं अन्तर्ऽअधाय
  • 13.2.09 ब्रूयाच्च एनं नागरक्षितोऽयं निधिः प्रणिपातसाध्यः इति
  • 13.2.10 प्रतिपन्नं ब्रूयात् सप्तरात्रम् इति समानम्
  • 13.2.11 स्थानिकव्यञ्जनं वा रात्रौ तेजनाग्नियुक्तं एकान्ते तिष्ठन्तं सत्त्रिणः क्रमाभीनीतं राज्ञः कथयेयुः असौ सिद्धः सामेधिकः इति
  • 13.2.12 तं राजा यं अर्थं याचेत तं अस्य करिष्यमाणः सप्तरात्रम् इति समानम्
  • 13.2.13 सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत्
  • 13.2.14 तं राजा इति समानम्
  • 13.2.15 सिद्धव्यञ्जनो वा देशदेवतां अभ्यर्हितां आश्रित्य प्रहवणैरभीक्ष्णं प्रकृतिमुख्यान् अभिसंवास्य क्रमेण राजानं अतिसन्दध्यात्
  • 13.2.16 जटिलव्यञ्जनं अन्तर्.उदकवासिनं वा सर्वश्वेतं तटसुरुङ्गाभूमिगृहापसरणं वरुणं नागराजं वा सत्त्रिणः क्रमाभिनीतं राज्ञः कथयेयुः
  • 13.2.17 तं राजा इति समानम्
  • 13.2.18 जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय योजयेत्
  • 13.2.19 प्रतिपन्नं बिम्बं कृत्वा शत्रुं आवाहयित्वा निरुद्धे देशे घातयेत्
  • 13.2.20 अश्वपण्य उपयाता वैदेहकव्यञ्जनाः पण्य उपायननिमित्तं आहूय राजानं पण्यपरीक्षायां आसक्तं अश्वव्यतिकीर्णं वा हन्युः, अश्वैश्च प्रहरेयुः
  • 13.2.21 नगराभ्याशे वा चैत्यं आरुह्य रात्रौ तीक्ष्णाः कुम्भेषु नालीन् वा विदुलानि धमन्तः स्वामिनो मुख्यानां वा मांसानि भक्षयिष्यामः, पूजा नो वर्तताम् इत्यव्यक्तं ब्रूयुः
  • 13.2.22 तद् एषां नैमित्तिकमौहूर्तिकव्यञ्जनाः ख्यापयेयुः
  • 13.2.23 मङ्गल्ये वा ह्रदे तटाकमध्ये वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमयानि निष्पेषयन्तः तथैव ब्रूयुः
  • 13.2.24 ऋक्षचर्मकञ्चुकिनो वाऽग्निधूम उत्सर्गयुक्ता रक्षोरूपं वहन्तः त्रिरपसव्यं नगरं कुर्वाणाः श्वसृगालवाशितान्तरेषु तथैव ब्रूयुः
  • 13.2.25 चैत्यदैवतप्रतिमां वा तेजनतैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः
  • 13.2.26 तद् अन्ये ख्यापयेयुः
  • 13.2.27 दैवतप्रतिमानां अभ्यर्हितानां वा शोणितेन प्रस्रावं अतिमात्रं कुर्युः
  • 13.2.28 तद् अन्ये देवरुधिरसंस्रावे सङ्ग्रामे पराजयं ब्रूयुः
  • 13.2.29 सन्धिरात्रिषु श्मशानप्रमुखे वा चैत्यं ऊर्ध्वभक्षितैर्मनुष्यैः प्ररूपयेयुः
  • 13.2.30 ततो रक्षोरूपी मनुष्यकं याचेत
  • 13.2.31 यश्चात्र शूरवादिकोऽन्यतमो वा द्रष्टुं आगच्छेत् तं अन्ये लोहमुसलैर्हन्युः, यथा रक्षोभिर्हत इति ज्ञायेत
  • 13.2.32 तद् अद्भुतं राज्ञः तद्दर्शिनः सत्त्रिणश्च कथयेयुः
  • 13.2.33 ततो नैमितित्कमौहूर्तिकव्यञ्जनाः शान्तिं प्रायश्चित्तं ब्रूयुः अन्यथा महद् अकुशलं राज्ञो देशस्य च इति
  • 13.2.34 प्रतिपन्नं एतेषु सप्तरात्रं एक एकमन्त्रबलिहोमं स्वयं राज्ञा कर्तव्यम् इति ब्रूयुः
  • 13.2.35 ततः समानम्
  • 13.2.36 एतान् वा योगान् आत्मनि दर्शयित्वा प्रतिकुर्वीत परेषां उपदेशार्थम्
  • 13.2.37 ततः प्रयोजयेद् योगान्
  • 13.2.38 योगदर्शनप्रतीकारेण वा कोशाभिसंहरणं कुर्यात्
  • 13.2.39 हस्तिकामं वा नागवनपाला हस्तिना लक्षण्येन प्रलोभयेयुः
  • 13.2.40 प्रतिपन्नं गहनं एकायनं वाऽतिनीय घातयेयुः, बद्ध्वा वाऽपहरेयुः
  • 13.2.41 तेन मृगयाकामो व्याख्यातः
  • 13.2.42 द्रव्यस्त्रीलोलुपं आढ्यविधवाभिर्वा परमरूपयौवनाभिः स्त्रीभिर्दायनिक्षेपार्थं उपनीताभिः सत्त्रिणः प्रलोभयेयुः
  • 13.2.43 प्रतिपन्नं रात्रौ सत्त्रच्छन्नाः समागमे शस्त्ररसाभ्यां घातयेयुः
  • 13.2.44 सिद्धप्रव्रजितचैत्यस्तूपदैवतप्रतिमानां अभीक्ष्णाभिगमनेषु वा भूमिगृहसुरुङ्गारूढभित्तिप्रविष्टाः तीक्ष्णाः परं अभिहन्युः
  • 13.2.45ab येषु देशेषु याः प्रेक्षाः प्रेक्षते पार्थिवः स्वयम् |
  • 13.2.45chd यात्राविहारे रमते यत्र क्रीडति वाऽम्भसि
  • 13.2.46ab धिग्.उक्त्य्ऽअदिषु सर्वेषु यज्ञप्रहवणेषु वा |
  • 13.2.46chd सूतिकाप्रेतरोगेषु प्रीतिशोकभयेषु वा |
  • 13.2.47ab प्रमादं याति यस्मिन् वा विश्वासात् स्वजन उत्सवे
  • 13.2.47chd यत्रास्यारक्षिसञ्चारो दुर्दिने सङ्कुलेषु वा |
  • 13.2.48ab विप्रस्थाने प्रदीप्ते वा प्रविष्टे निर्जनेऽपि वा |
  • 13.2.48chd वस्त्राभरणमाल्यानां फेलाभिः शयनासनैः
  • 13.2.49ab मद्यभोजनफेलाभिः तूर्यैर्वाऽभिगताः सह |
  • 13.2.49chd प्रहरेयुररिं तीक्ष्णाः पूर्वप्रणिहितैः सह ( इति)
  • 13.2.50ab यथैव प्रविशेयुश्च द्विषतः सत्त्रहेतुभिः |
  • 13.2.50chd तथैव चापगच्छेयुरित्युक्तं योगवामनम्


    Chapt |      अपसर्पप्रणिधिः
  • 13.3.01 श्रेणीमुख्यं आप्तं निष्पातयेत्
  • 13.3.02 स परं आश्र्त्य पक्षापदेशेन स्वविषयात् साचिव्यकरसहाय उपादानं कुर्वीत
  • 13.3.03 कृतापसर्प उपचयो वा परं अनुमान्य स्वामिनो दूष्यग्रामं वीतहस्त्य्ऽश्वं दूष्यामात्यं दण्डं आक्रन्दं वा हत्वा परस्य प्रेषयेत्
  • 13.3.04 जनपद एकदेशं श्रेणीं अटवीं वा सहाय उपादानार्थं संश्रयेत
  • 13.3.05 विश्वासं उपगतः स्वामिनः प्रेषयेत्
  • 13.3.06 ततः स्वामी हस्तिबन्धनं अटवीघातं वाऽपदिश्य गूढं एव प्रहरेत्
  • 13.3.07 एतेनामात्याटविका व्याख्याताः
  • 13.3.08 शत्रुणा मैत्रीं कृत्वाऽमात्यान् अवक्षिपेत्
  • 13.3.09 ते तत्शत्रोः प्रेषयेयुः भर्तारं नः प्रसादय इति
  • 13.3.10 स यं दूतं प्रेषयेत्, तं उपालभेत भर्ता ते मां अमात्यैर्भेदयति, न च पुनरिहागन्तव्यम् इति
  • 13.3.11 अथ एकं अमात्यं निष्पातयेत्
  • 13.3.12 स परं आश्रित्य योगापसर्पापरक्तदूष्यान् अशक्तिमतः स्तेनाटविकान् उभय उपघातकान् वा परस्य उपहरेत्
  • 13.3.13 आप्तभाव उपगतः प्रवीरपुरुष उपघातं अस्य उपहरेद् अन्तपालं आटविकं दण्डचारिणं वा दृढं असौ चासौ च ते शत्रुणा सन्धत्ते इति
  • 13.3.14 अथ पश्चाद् अभित्यक्तशासनैरेनान् घातयेत्
  • 13.3.15 दण्डबलव्यवहारेण वा शत्रुं उद्योज्य घातयेत्
  • 13.3.16 कृत्यपक्ष उपग्रहेण वा परस्यामित्रं राजानं आत्मन्यपकारयित्वाऽभियुञ्जीत
  • 13.3.17 ततः परस्य प्रेषयेत् असौ ते वैरी ममापकरोति, तं एहि सम्भूय हनिष्यावः, भूमौ हिरण्ये वा ते परिग्रहः इति
  • 13.3.18 प्रतिपन्नं अभिसत्कृत्यागतं अवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत्
  • 13.3.19 अभिविश्वासनार्थं भूमिदानपुत्राभिषेकरक्षाऽपदेशेन वा ग्राहयेत्
  • 13.3.20 अविषह्यं उपांशुदण्डेन वा घातयेत्
  • 13.3.21 स चेद् दण्डं दद्यान्न स्वयं आगच्छेत् तं अस्य वैरिणा घातयेत्
  • 13.3.22 दण्डेन वा प्रयातुं इच्छेन्न विजिगीषुणा तथाऽप्येनं उभयतःसम्पीडनेन घातयेत्
  • 13.3.23 अविश्वस्तो वा प्रत्येकशो यातुं इच्छेद् राज्य एकदेशं वा यातव्यस्यादातुकामः, तथाऽप्येनं वैरिणा सर्वसन्दोहेन वा घातयेत्
  • 13.3.24 वैरिणा वा सक्तस्य दण्ड उपनयेन मूलं अन्यतो हारयेत्
  • 13.3.25 शत्रुभूम्या वा मित्रं पणेत, मित्रभूम्या वा शत्रुम्
  • 13.3.26 ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यपकारयित्वाऽभियुञ्जीत - इति समानाः पूर्वेण सर्व एव योगाः
  • 13.3.27 शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात्
  • 13.3.28 ततो मित्रगतं अतिसन्दध्यात्
  • 13.3.29 कृतप्रतिविधानो वा व्यसनं आत्मनो दर्शयित्वा मित्रेणामित्रं उत्साहयित्वाऽऽत्मानं अभियोजयेत्
  • 13.3.30 ततः सम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
  • 13.3.31 मित्रेणाश्रितश्चेत्शत्रुरग्राह्ये स्थातुं इच्छेत् सामन्तादिभिर्मूलं अस्य हारयेत्
  • 13.3.32 दण्डेन वा त्रातुं इछेत् तं अस्य घातयेत्
  • 13.3.33 तौ चेन्न भिद्येयातां प्रकाशं एवान्योन्यभूम्या पणेत
  • 13.3.34 ततः परस्परं मित्रव्यञ्जना वा उभयवेतना वा दूतान् प्रेषयेयुः अयं ते राजा भूमिं लिप्सते शत्रुसंहितः इति
  • 13.3.35 तयोरन्यतरो जाताशङ्कारोषः, पूर्ववच्चेष्तेत
  • 13.3.36 दुर्गराष्ट्रदण्डमुख्यान् वा कृत्यपक्षहेतुभिरभिविख्याप्य प्रव्राजयेत्
  • 13.3.37 ते युद्धावस्कन्दावरोधव्यसनेषु शत्रुं अतिसन्दध्युः
  • 13.3.38 भेदं वाऽस्य स्ववर्गेभ्यः कुर्युः
  • 13.3.39 अभित्यक्तशासनैः प्रतिसमानयेयुः
  • 13.3.40 लुब्धकव्यञ्जना वा मांसविक्रयेण द्वाह्स्था दौवारिकापाश्रयाश्चोराभ्यागमं परस्य द्विः त्रिरिति निवेद्य लब्धप्रत्यया भर्तुरनीकं द्विधा निवेश्य ग्रामवधेऽवस्कन्दे च द्विषतो ब्रूयुः आसन्नश्चोरगणः, महांश्चाक्रन्दः, प्रभूतं सैन्यं आगच्छतु इति
  • 13.3.41 तद् अर्पयित्वा ग्रामघातदण्डस्य सैन्यं इतरद् आदाय रात्रौ दुर्गद्वारेषु ब्रूयुः हतश्चोरगणः, सिद्धयात्रं इदं सैन्यं आगतं, द्वारं अपाव्रियताम् इति
  • 13.3.42 पूर्वप्रणिहिता वा द्वाराणि दद्युः
  • 13.3.43 तैः सह प्रहरेयुः
  • 13.3.44 कारुशिल्पिपाषण्डकुशीलववैदेहकव्यञ्जनान् आयुधीयान् व्वा परदुर्गे प्रणिदध्यात्
  • 13.3.45 तेषां गृहपतिकव्यञ्जनाः काष्ठतृणधान्यपण्यशकटैः प्रहरणावरणान्यभिहरेयुः, देवध्वजप्रतिमाभिर्वा
  • 13.3.46 ततः तद्व्यञ्जनाः प्रमत्तवधं अवस्कन्दप्रतिग्रहं अभिप्रहरणं पृष्ठतः शङ्खदुन्दुभिशब्देन वा प्रविष्टम् इत्यावेदयेयुः
  • 13.3.47 प्राकारद्वाराट्टालकदानं अनीकभेदं घातं वा कुर्युः
  • 13.3.48 सार्थगणवासिभिरातिवाहिकैः कन्यावाहिकैरश्वपण्यव्यवहारिभिरुपकरणहारकैर्धान्यक्रेतृविक्रेतृभिर्वा प्रव्रजितलिङ्गिभिर्दूतैश्च दणड्ऽतिनयनं, सन्धिकर्मविश्वासनार्थम्
  • 13.3.49 इति राजापसर्पाः
  • 13.3.50 एत एवाटवीनां अपसर्पाः कण्टकशोधन उक्ताश्च
  • 13.3.51 व्रजं अटव्य्ऽअसन्नं अपसर्पाः सार्थं वा चोरैर्घातयेयुः
  • 13.3.52 कृतसङ्केतं अन्नपानं चात्र मदनरसविद्धं वा कृत्वाऽपगच्छेयुः
  • 13.3.53 गोपालकवैदेहकाश्च ततश्चोरान् गृहीतलोप्त्रभारान् मदनरसविकारकालेऽवस्कन्दयेयुः
  • 13.3.54 सङ्कर्षणदैवतीयो वा मुण्डजटिलव्यञ्जनः प्रहवणकर्मणा मदनरसयोगेनातिसन्दध्यात्
  • 13.3.55 अथावस्कन्दं दद्यात्
  • 13.3.56 शौण्डिकव्यञ्जनो वा दैवतप्रेतकार्य उत्सवसमाजेष्वाटविकान् सुराविक्रय उपायननिमित्तं मदनरसयोगेनातिसन्दध्यात्
  • 13.3.57 अथावस्कन्दं दद्यात्
  • 13.3.58ab ग्रामघातप्रविष्टां वा विक्षिप्य बहुधाऽटवीम् |
  • 13.3.58chd घातयेद् इति चोराणां अपसर्पाः प्रकीर्तिताः ( इति)


    Chapt |      पर्युपासनकर्म - अवमर्दः
  • 13.4.01 कर्शनपूर्वं पर्युपासनकर्म
  • 13.4.02 जनपदं यथानिविष्टं अभये स्थापयेत्
  • 13.4.03 उत्थितं अनुग्रहपरिहाराभ्यां निवेषयेत्, अन्यत्रापसरतः
  • 13.4.04 सङ्ग्रामाद् अन्यस्यां भूमौ निवेशयेत्, एकस्यां वा वासयेत्
  • 13.4.05 न ह्यजनो जनपदो राज्यं अजनपदं वा भवति इति कौटिल्यः
  • 13.4.06 विषमस्थस्य मुष्टिं सस्यं वा हन्याद्, वीवधप्रसारौ च
  • 13.4.07ab प्रसारवीवधच्छेदान् मुष्टिसस्यवधाद् अपि |
  • 13.4.07chd वमनाद् गूढघाताच्च जायते प्रकृतिक्षयः
  • 13.4.08 प्रभूतगुणबद्ध( वद्ध) अन्यकुप्ययन्त्रशस्त्रावरणविष्टिरश्मिसमग्रं मे सैन्यं, ऋतुश्च पुरस्तात्, अपर्तुः परस्य, व्याधिदुर्भिक्षनिचयरक्षाक्षयः क्रीतबलनिर्वेदो मित्रबलनिर्वेदश्च इति पर्युपासीत
  • 13.4.09 कृत्वा स्कन्धावारस्य रक्षां वीवधासारयोः पथश्च, परिक्षिप्य दुर्गं खातसालाभ्यां, दूषयित्वा उदकं, अवस्राव्य परिखाः सम्पूरयित्वा वा, सुरुङ्गाबलकुटिकाभ्यां वप्रप्राकारौ हारयेत्, दारं च गुडेन
  • 13.4.10 निम्नं वा पांसुमालयाऽऽच्छादयेत्
  • 13.4.11 बहुलारक्षं यन्त्रैर्घातयेत्
  • 13.4.12 निष्किराद् उपनिष्कृष्याश्वैश्च प्रहरेयुः
  • 13.4.13 विक्रमान्तरेषु च नियोगविकल्पसमुच्चयैश्च उपायानां सिद्धिं लिप्सेत
  • 13.4.14 दुर्गवासिनः श्येनकाकनप्तृभासशुकसारिक उलूककपोतान् ग्राहयित्वा पुच्छेष्वग्नियोगयुक्तान् परदुर्गे विसृजेत्
  • 13.4.15 अपकृष्टस्कन्धावाराद् उच्छ्रितध्वजधन्वारक्षो वा मानुषेणाग्निना परदुर्गं आदीपयेत्
  • 13.4.16 गूढपुर्षाश्चान्तर्दुर्गपालका नकुलवानरबिडालशुनां पुच्छेष्वग्नियोगं आधाय काण्डनिचयरक्षाविधानवेश्मसु विसृजेयुः
  • 13.4.17 शुष्कमत्स्यानां उदरेष्वग्निं आधाय वल्लूरे वा वायस उपहारेण वयोभिर्हारयेयुः
  • 13.4.18 सरलदेवदारुपूतितृणगुग्गुलुश्रीवेष्टकसर्जरसलाक्षागुलिकाः खर उष्ट्राजावीनां लेण्डं चाग्निधारणम्
  • 13.4.19 प्रियालचूर्णं अवल्गुजमषीमधु.उच्छिष्टं अश्वखर उष्ट्रगोलेण्डं इत्येष क्षेप्योऽग्नियोगः
  • 13.4.20 सर्वलोहचूर्णं अग्निवर्णं वा कुम्भीसीसत्रपुचूर्णं वा पारिभद्रकपलाशपुष्पकेशमषीतैलमधु.उच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगो विश्वासघाती वा
  • 13.4.21 तेनावलिप्तः शणत्रपुसवल्कवेष्टितो बाण इत्यग्नियोगः
  • 13.4.22 न त्वेव विद्यमाने पराक्रमेऽग्निं अवसृजेत्
  • 13.4.23 अविश्वास्यो ह्यग्निर्दैवपीडनं च, अप्रतिसङ्ख्यातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षयकरः
  • 13.4.24 क्षीणनिचयं चावाप्तं अपि राज्यं क्षयाय एव भवति इति पर्युपासनकर्म
  • 13.4.25 सर्वारम्भ उपकरणविष्टिसम्पन्नोऽस्मि, व्याधितः पर उपधाविरुद्धप्रकृतिरकृतदुर्गकर्मनिचयो वा, निरासारः सासारो वा पुरा मित्रैः सन्धत्ते इत्यवमर्दकालः
  • 13.4.26 स्वयं अग्नौ जाते समुत्थापिते वा प्रहवणे प्रेक्षाऽनीकदर्शनसङ्गसौरिककलहेषु नित्ययुद्धश्रान्तबले बहुलयुद्धप्रतिविद्धप्रेतपुरुषे जागरणक्लान्तसुप्तजने दुर्दिने नदीवेगे वा नीहारसम्प्लवे वाऽवमृद्नीयात्
  • 13.4.27 स्कन्धावारं उत्सृज्य वा वनगूढः शत्रुं निष्क्रान्तं घातयेत्
  • 13.4.28 मित्रासारमुख्यव्यञ्जनो वा सम्रुद्धेन मैत्रीं कृत्वा दूतं अभित्यक्तं प्रेषयेत् - इदं ते छिद्रं, इमे दूष्याः सम्रोद्धुर्वा छिद्रं, अयं ते कृत्यपक्षः इति
  • 13.4.29 तं प्रतिदूतं आदाय निर्गच्छन्तं विजिगीषुर्गृहीत्वा दोषं अभिविख्याप्य प्रवास्य अपगच्छेत्
  • 13.4.30 ततो मित्रासारव्यञ्जनो वा सम्रुद्धं ब्रूयात् मां त्रातुं उपनिर्गच्छ, मया वा सह सम्रोद्धारं जहि इति
  • 13.4.31 प्रतिपन्नं उभयतःसम्पीडनेन घातयेत्, जीवग्राहेण वा राज्यविनिमयं कारयेत्
  • 13.4.32 नगरं वाऽस्य प्रमृद्नीयात्
  • 13.4.33 सारबलं वाऽस्य वमयित्वाऽभिहन्यात्
  • 13.4.34 तेन दण्ड उपनताटविका व्याख्याताः
  • 13.4.35 दण्ड उपनताटविकयोरन्यतरो वा सम्रुद्धस्य प्रेषयेत् - अयं सम्रोद्धा व्याधितः, पार्ष्णिग्राहेणाभियुक्तः, छिद्रं अन्यद् उत्थितं, अन्यस्यां भूमावपयातुकामः इति
  • 13.4.36 प्रतिपन्ने सम्रोद्धा स्कन्धावारं आदीप्यापयायात्
  • 13.4.37 ततः पूर्ववद् आचरेत्
  • 13.4.38 पण्यसम्पातं वा कृत्वा पण्येन एनं रसविद्धेनातिसन्दध्यात्
  • 13.4.39 आसारव्यञ्जनो वा सम्रुद्धस्य दूतं प्रेषयेत् - मया बाह्यं अभिहतं उपनिर्गच्छाभिहन्तुम् इति
  • 13.4.40 प्रतिपन्नं पूर्ववद् आचरेत्
  • 13.4.41 मित्रं बन्धुं वाऽपदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य दुर्गं ग्राहयेयुः
  • 13.4.42 आसारव्यञ्ज्ञनो वा सम्रुद्धस्य प्रेषयेत् - अमुष्मिन् देशे काले च स्कन्धावारं अभिहनिष्यामि, युष्माभिरपि योद्धव्यम् इति
  • 13.4.43 प्रतिपन्नं यथा उक्तं अभ्याघातसङ्कुलं दर्शयित्वा रात्रौ दुर्गान्निष्क्रान्तं घातयेत्
  • 13.4.44 यद् वा मित्रं आवाहयेद् आटव्विकं वा, तं उत्साहयेत् विक्रम्य सम्रुद्धे भूमिं अस्य प्रतिपद्यस्व इति
  • 13.4.45 विक्रान्तं प्रकृतिभिर्दूष्यमुख्य उपग्रहेण वा घातयेत्, स्वयं वा रसेन मित्रघातकोऽयम् इत्यवाप्तार्थः
  • 13.4.46 विक्रमितुकामं वा मित्रव्यञ्जनः परस्याभिशंसेत्
  • 13.4.47 आप्तभाव उपगतः प्रवीरपुरुषानस्य उपघातयेत्
  • 13.4.48 सन्धिं वा कृत्वा जनपदं एनं निवेशयेत्
  • 13.4.49 निविष्टं अस्य जनपदं अविज्ञातो हन्यात्
  • 13.4.50 अपकारयित्वा दूष्याटविकेषु वा बल एकदेशं अतिनीय दुर्गं अवस्कन्देन हारयेत्
  • 13.4.51 दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसंज्ञाचिह्नाः परदुर्गं अवस्कन्देयुः
  • 13.4.52 परदुर्गं अवस्कन्द्य स्कन्धावारं वा पतितपरान्मुखाभिपन्नं उक्तकेशशस्त्रभयविरूपेभ्यश्चाभयं अयुध्यमानेभ्यश्च दद्युः
  • 13.4.53 परदुर्गं अवाप्य विशुद्धशत्रुपक्षं कृत उपांशुदण्डप्रतीकारं अन्तर्बहिश्च प्रविशेत्
  • 13.4.54 एवं विजिगीषुरमित्रभूमिं लब्ध्वा मध्यमं लिप्सेत, तत्सिद्धावुदासीनम्
  • 13.4.55 एष प्रथमो मार्गः पृथिवीं जेतुम्
  • 13.4.56 मध्यम उदासीनयोरभावे गुणातिशयेनारिप्रकृतीः साधयेत्, तत उत्तराः प्रकृतीः
  • 13.4.57 एष द्वितीयो मार्गः
  • 13.4.58 मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुं उभयतःसम्पीडनेन साधयेत्
  • 13.4.59 एषतृतीयो मार्गः
  • 13.4.60 शक्यं एकं वा सामन्तं साधयेत्, तेन द्विगुणो द्वितीयं, त्रिगुणः तृतीयम्
  • 13.4.61 एष चतुर्थो मार्गः पृथिवीं जेतुम्
  • 13.4.62 जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत
  • 13.4.63ab उपजापोऽपसर्पश्च वामनं पर्युपासनम् |
  • 13.4.63chd अवमर्दश्च पञ्च एते दुर्गलम्भस्य हेतवः ( इति)


    Chapt |      लब्धप्रशमनम्
  • 13.5.01 द्विविधं विजिगीषोः समुत्थानं - अटव्य्ऽअदिकं एकग्रामादिकं च
  • 13.5.02 त्रिविधश्चास्य लम्भः - नवो, भूतपूर्वः, पित्र्य इति
  • 13.5.03 नवं अवाप्य लाभं परदोषान् स्वगुणैश्छादयेत्, गुणान् गुणद्वैगुण्येन
  • 13.5.04 स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृतिप्रियहितान्यनुवर्तेत
  • 13.5.05 यथासम्भाषितं च कृत्यपक्षं उपग्राहयेत्, भूयश्च कृतप्रयासम्
  • 13.5.06 अविश्वासो हि विसंवादकः स्वेषां परेषां च भवति, प्रकृतिविरुद्धाचारश्च
  • 13.5.07 तस्मात् समानशीलवेषभाषाऽऽचारतां उपगछेत्
  • 13.5.08 देशदैवतस्माज उत्सवविहारेषु च भक्तिं अनुवर्तेत
  • 13.5.09 देशग्रामजातिसङ्घमुख्येषु चाभीक्ष्णं सत्त्रिणः परस्यापचारं दर्शयेयुः, माहाभाग्यं भक्तिं च तेषु स्वामिनः, स्वामिसत्कारं च विद्यमानम्
  • 13.5.10 उचितैश्च एनान् भोगपरिहाररक्षाऽवेक्षणैर्भुञ्जीत
  • 13.5.11 सर्वदेवताऽऽश्रमपूजनं च विद्यावाक्यधर्मशूरपुरुषाणां च भूमिद्रव्यदानपरिहारान् कारयेत्, सर्वबन्धनमोक्षणं अनुग्रहं दीनानाथव्याधितानां च
  • 13.5.12 चातुर्मास्येष्वर्धमासिकं अघातं, पौर्णमासीषु च चातूरात्रिकं राजदेशनक्षत्रेष्वैकरात्रिकम्
  • 13.5.13 योनिबालवधं पुंस्त्व उपघातं च प्रतिषेधयेत्
  • 13.5.14 यच्च कोशदण्ड उपघातकं अधर्मिष्ठं वा चरित्रं मन्येत तद् अपनीय धर्म्यव्यवहारं स्थापयेत्
  • 13.5.15 चोरप्रकृतीनां म्लेच्छजातीनां च स्थानविपर्यासं अनेकस्थं कारयेत्, दुर्गराष्ट्रदण्डमुख्यानां च
  • 13.5.16 परा उपगृहीतानां च मन्त्रिपुरोहितानां परस्य प्रत्यन्तेष्वनेकस्थं वासं कारयेत्
  • 13.5.17 अपकारसमर्थान् अनुक्षियतो वा भर्तृविनाशं उपांशुदण्डेन प्रशमयेत्
  • 13.5.18 स्वदेशीयान् वा परेण वाऽपरुद्धान् अपवाहितस्थानेषु स्थापयेत्
  • 13.5.19 यश्च तत्कुलीनः प्रत्यादेयं आदातुं शक्तः, प्रत्यन्ताटवीस्थो वा प्रबाधितुं अभिजातः, तस्मै विगुणां भूमिं प्रयच्छेत्, गुणवत्याश्चतुर्भागं वा कोशदण्डदानं अवस्थाप्य, यद् उपकुर्वाणः पौरजानपदान् कोपयेत्
  • 13.5.20 कुपितैः तैरेनं घातयेत्
  • 13.5.21 प्रकृतिभिरुपक्रुष्टं अपनयेत्, औपघातिके वा देशे निवेशयेत् - इति
  • 13.5.22 भूतपूर्वे येन दोषेणापवृत्तः तं प्रकृतिदोषं छादयेत्, येन च गुणेन उपावृत्तः तं तीव्रीकुर्यात् - इति
  • 13.5.23 पित्र्ये पितुर्दोषांश्छादयेत्, गुणांश्च प्रकाशयेत् - इति
  • 13.5.24ab चरित्रं अकृतं धर्म्यं कृतं चान्यैः प्रवर्तयेत् |
  • 13.5.24chd प्रवर्तयेन्न चाधर्म्यं कृतं चान्यैर्निवर्तयेत् ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]