कौटिलीय अर्थशास्त्रं २

विकिस्रोतः तः
Jump to navigation Jump to search

Book | The activity of the head of departments

    Chapt |   Sec, 19: Settlement of the countryside
  • 02.01.01 भूतपूर्वं अभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्
  • 02.01.02 शूद्रकर्षकप्रायं कुलशतावरं पञ्चकुलशतपरं ग्रामं क्रोशद्विक्रोशसीमानं अन्योन्यारक्षं निवेशयेत्
  • 02.01.03 नलीशैलवनभृष्टिदरीसेतुबन्धशमीशाल्मलीक्षीरवृक्षान् अन्तेषु सीम्नां स्थापयेत्
  • 02.01.04 अष्टशतग्राम्या मध्ये स्थानीयं, चतुह्शतग्राम्या द्रोणमुखं, द्विशतग्राम्याः कार्वटिकं, दशग्रामीसङ्ग्रहेण सङ्ग्रहं स्थापयेत्
  • 02.01.05 अन्तेष्वन्तपालदुर्गाणि जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत्
  • 02.01.06 तेषां अन्तराणि वागुरिकशबरपुलिन्दचण्डालारण्यचरा रक्षेयुः
  • 02.01.07a ऋत्विग्ऽअचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्यभिरूपदायादकानि प्रयच्छेत्
  • 02.01.07b अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानिकानीकस्थचिकित्सकाश्वदमकजङ्घाकारिकेभ्यश्च विक्रयाधानवर्जानि
  • 02.01.08 करदेभ्यः कृतक्षेत्राण्यैकपुरुषिकाणि प्रयच्छेत्
  • 02.01.09 अकृतानि कर्तृभ्यो नादेयानि
  • 02.01.10 अकृषतां आछिद्यान्येभ्यः प्रयच्छेत्
  • 02.01.11 ग्रामभृतकवैदेहका वा कृषेयुः
  • 02.01.12 अकृषन्तो वाऽवहीनं दद्युः
  • 02.01.13 धान्यपशुहिरण्यैश्च एतान् अनुगृह्णीयात्
  • 02.01.14 तान्यनु सुखेन दद्युः
  • 02.01.15 अनुग्रहपरिहारौ च एतेब्भ्यः कोशवृद्धिकरौ दद्यात्, कोश उपघातकौ वर्जयेत्
  • 02.01.16 अल्पकोशो हि राजा पौरजानपदान् एव ग्रसते
  • 02.01.17 निवेशसमकालं यथाऽऽगतकं वा परिहारं दद्यात्
  • 02.01.18 निवृत्तपरिहारान् पिता इवानुगृह्णीयात्
  • 02.01.19 आकरकर्मान्तद्रव्यहस्तिवनव्रजवणिक्पथप्रचारान् वारिस्थलपथपण्यपत्तनानि च निवेशयेत्
  • 02.01.20 सह उदकं आहार्य उदकं वा सेतुं बन्धयेत्
  • 02.01.21 अन्येषां वा बध्नतां भूमिमार्गवृक्ष उपकरणानुग्रहं कुर्यात्, पुण्यस्थानारामाणां च
  • 02.01.22 सम्भूयसेतुबन्धाद् अपक्रामतः कर्मकरबलीवर्दाः कर्म कुर्युः
  • 02.01.23 व्ययकर्मणि च भागी स्यात्, न चांशं लभेत
  • 02.01.24 मत्स्यप्लवहरितपण्यानां सेतुषु राजा स्वाम्यं गच्छेत्
  • 02.01.25 दासाहितकबन्धून् अशृण्वतो राजा विनयं ग्राहयेत्
  • 02.01.26 बालवृद्धव्यसन्य्ऽनाथांश्च राजा बिभृयात्, स्त्रियं अप्रजातां प्रजातायश्च पुत्रान्
  • 02.01.27 बालद्रव्यं ग्रामवृद्धा वर्धयेयुरा व्यवहारप्रापणात्, देवद्रव्यं च
  • 02.01.28 अपत्यदारं मातापितरौ भ्रातॄन् अप्राप्तव्यवहारान् भगिनीः कन्या विधवाश्चाबिभ्रतः शक्तिमतो द्वादशपणो दण्डः, अन्यत्र पतितेभ्यः, अन्यत्र मातुः
  • 02.01.29 पुत्रदारं अप्रतिविधाय प्रव्रजतः पूर्वः साहसदण्डः, स्त्रियं च प्रव्राजयतः
  • 02.01.30 लुप्तव्यायामः प्रव्रजेद् आपृच्छ्य धर्मस्थान्
  • 02.01.31 अन्यथा नियम्येत
  • 02.01.32 वानप्रस्थाद् अन्यः प्रव्रजितभावः, सजाताद् अन्यः सङ्घः, सामुत्थायिकाद् अन्यः समयानुबन्धो वा नास्य जनपदं उपनिविशेत
  • 02.01.33 न च तत्रारामा विहारार्था वा शालाः स्युः
  • 02.01.34 नटनर्तकगायनवादकवाग्जीवनकुशीलवा न कर्मविघ्नं कुर्युः
  • 02.01.35 निराश्रयत्वाद् ग्रामाणां क्षेत्राभिरतत्वाच्च पुरुषाणां कोशविष्टिद्रव्यधान्यरसवृद्धिर्भवति
  • 02.01.36ab परचक्राटवीग्रस्तं व्याधिदुर्भिक्षपीडितम् .
  • 02.01.36chd देशं परिहरेद् राजा व्ययक्रीडाश्च वारयेत्
  • 02.01.37ab दण्डविष्टिकराबाधै रक्षेद् उपहतां कृषिम् .
  • 02.01.37chd स्तेनव्यालविषग्राहैर्व्याधिभिश्च पशुव्रजान्
  • 02.01.38ab वल्लभैः कार्मिकैः स्तेनैरन्तपालैश्च पीडितम् .
  • 02.01.38chd शोधयेत् पशुसङ्घैश्च क्षीयमाणं वणिक्पथम्
  • 02.01.39ab एवं द्रव्यद्विपवनं सेतुबन्धं अथाकरान् .
  • 02.01.39chd रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ( इति)


    Chapt |   Disposal of non-agricultural land
  • 02.2.01 अकृष्यायां भूमौ पशुभ्यो विवीतानि प्रयच्छेत्
  • 02.2.02 प्रदिष्टाभयस्थावरजङ्गमानि च ब्रह्मसोमारण्यानि तपस्विभ्यो गोरुतपराणि प्रयच्छेत्
  • 02.2.03 तावन्मात्रं एकद्वारं खातगुप्तं स्वादुफलगुल्मगुच्छं अकण्टकिद्रुमं उत्तानतोयाशयं दान्तमृगचतुष्पदं भग्ननखदंष्ट्रव्यालं मार्गयुकहस्तिहस्तिनीकलभं मृगवनं विहारार्थं राज्ञः कारयेत्
  • 02.2.04 सर्वातिथिमृगं प्रत्यन्ते चान्यन्मृगवनं भूमिवशेन वा निवेशयेत्
  • 02.2.05 कुप्यप्रदिष्टानां च द्रव्याणां एक एकशो वनानि निवेशयेत्, द्रव्यवनकर्मान्तान् अटवीश्च द्रव्यवनापाश्रयाः
  • 02.2.06 प्रत्यन्ते हस्तिवनं अटव्य्ऽअरक्षं निवेशयेत्
  • 02.2.07 नागवनाध्यक्षः पार्वतं नादेयं सारसमानूपं च नागवनं विदितपर्यन्तप्रवेशनिष्कासं नागवनपालैः पालयेत्
  • 02.2.08 हस्तिघातिनं हन्युः
  • 02.2.09 दन्तयुगं स्वयंमृतस्याहरतः सपादचतुष्पणो लाभः
  • 02.2.10 नागवनपाला हस्तिपकपादपाशिकसैमिकवनचरकपारिकर्मिकसखा हस्तिमूत्रपुरीषच्छन्नगन्धा भल्लातकीशाखाप्रच्छन्नाः पञ्चभिः सप्तभिर्वा हस्तिबन्धकीभिः सह चरन्तः शय्यास्थानपद्यालेण्डकूलघात उद्देशेन हस्तिकुलपर्यग्रं विद्युः
  • 02.2.11 यूथचरं एकचरं निर्यूथं यूथपतिं हस्तिनं व्यालं मत्तं पोतं बन्धमुक्तं च निबन्धेन विद्युः
  • 02.2.12 अनीकस्थप्रमाणैः प्रशस्तव्यञ्जनाचारान् हस्तिनो गृह्णीयुः
  • 02.2.13 हस्तिप्रधानं विजयो राज्ञः
  • 02.2.14 परानीकव्यूहदुर्गस्कन्धावारप्रमर्दना ह्यतिप्रमाणशरीराः प्राणहरकर्माणो हस्तिनः
  • 02.2.15ab कालिङ्गाङ्गरजाः श्रेष्ठाः प्राच्याश्चेदिकरूषजाः .
  • 02.2.15chd दाशार्णाश्चापरान्ताश्च द्विपानां मध्यमा मताः
  • 02.2.16ab सौराष्ट्रिकाः पाञ्चनदाः तेषां प्रत्यवराः स्मृताः .
  • 02.2.16chd सर्वेषां कर्मणा वीर्यं जवः तेजश्च वर्धते ( इति)


    Chapt |   Construction of forts
  • 02.3.01 चतुर्दिशं जनपदान्ते साम्परायिकं दैवकृतं दुर्गं कारयेत्, अन्तर्द्वीपं स्थलं वा निम्नावरुद्धं औदकं, प्रास्तरं गुहां वा पार्वतं, निरुदकस्तम्बं इरिणं वा धान्वनं, खञ्जन उदकं स्तम्बगहनं वा वनदुर्गम्
  • 02.3.02 तेषां नदीपर्वतदुर्गं जनपदारक्षस्थानं, धान्वनवनदुर्गं अटवीस्थानं आपद्यपसारो वा
  • 02.3.03 जनपदमध्ये समुदयस्थानं स्थानीयं निवेशयेत्, वास्तुकप्रशस्ते देशे नदीसङ्गमे ह्रदस्याविशोषस्याङ्के सरसः तटाकस्य वा, वृत्तं दीर्घं चतुर्ऽश्रं वा वास्तुवशेन वा प्रदक्षिण उदकं पण्यपुटभेदनं अंसपथवारिपथाभ्यां उपेतम्
  • 02.3.04 तस्य परिखाः तिस्रो दण्डान्तराः कारयेत् चतुर्दश द्वादश दश इति दण्डान् विस्तीर्णाः, विस्ताराद् अवगाढाः पाद ऊनं अर्धं वा, त्रिभागमूलाः, मूलचतुर्ऽश्रा वा, पाषाण उपहिताः पाषाण इष्टकाबद्धपार्श्वा वा, तोयान्तिकीरागन्तुतोयपूर्णा वा सपरिवाहाः पद्मग्राहवतीश्च
  • 02.3.05 चतुर्दण्डापकृष्टं परिखायाः षड्दण्ड उच्छ्रितं अवरुद्धं तद्द्विगुणविष्कम्भं खाताद् वप्रं कारयेद् ऊर्ध्वचयं मञ्चपृष्ठं कुम्भकुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकिगुल्मविषवल्लीप्रतानवन्तम्
  • 02.3.06 पांसुशेषेण वास्तुच्छिद्रं राजभवनं वा पूरयेत्
  • 02.3.07a वप्रस्य उपरि प्राकारं विष्कम्भद्विगुण उत्सेधं ऐष्टकं द्वादशहस्ताद् ऊर्ध्वं ओजं युग्मं वा आ चतुर्विंशतिहस्ताद् इति कारयेत्
  • 02.3.07b रथचर्यासञ्चारं तालमूलं मुरजकैः कपिशीर्षकैश्चाचिताग्रम्
  • 02.3.08 पृथुशिलासंहतं वा शैलं कारयेत्, न त्वेव काष्टमयम्
  • 02.3.09 अग्निरवहितो हि तस्मिन् वसति
  • 02.3.10 विष्कम्भचतुर्ऽश्रं अट्टालकं उत्सेधसमावक्षेपसोपानं कारयेत् त्रिंशद्दण्डान्तरं च
  • 02.3.11 द्वयोरट्टालकयोर्मध्ये सहर्म्यद्वितलां अध्यर्धायायामां प्रतोलीं कारयेत्
  • 02.3.12 अट्टालकप्रतोलीमध्ये त्रिधानुष्काधिष्ठानं स-अपिधानच्छिद्रफलकसंहतं इन्द्रकोशं कारयेत्
  • 02.3.13 अन्तरेषु द्विहस्तविष्कम्भं पार्श्वे चतुर्गुणायामं देवपथं कारयेत्
  • 02.3.14 दण्डान्तरा द्विदण्डान्तरा वा चर्याः कारयेत्, अग्राह्ये देशे प्रधावनिकां निष्किरद्वारं च
  • 02.3.15 बहिर्जानुभञ्जनीशूलप्रकरकूपकूटावपातकण्टकप्रतिसराहिपृष्ठतालपत्त्रशृङ्गाटकश्वदंष्ट्रार्गल उपस्कन्दनपादुकाम्बरीष उदपानकैः प्रतिच्छन्नं छन्नपथं कारयेत्
  • 02.3.16 प्राकारं उभयतो मेण्ढकं अध्यर्धदण्डं कृत्वा प्रतोलीषट्तुलाऽन्तरं द्वारं निवेशयेत् पञ्चदण्डाद् एक उत्तरं आऽष्टदण्डाद् इति चतुर्ऽश्रं षड्भागं आयामाद्ऽधिकं अष्टभागं वा
  • 02.3.17 पञ्चदशहस्ताद् एक उत्तरं आऽष्टादशहस्ताद् इति तल उत्सेधः
  • 02.3.18 स्तम्भस्य परिक्षेपः षड्ऽअयामो, द्विगुणो निखातः, चूलिकायाश्चतुर्भागः
  • 02.3.19 आदितलस्य पञ्चभागाः शाला वापी सीमागृहं च
  • 02.3.20 दशभागिकौ द्वौ प्रतिमञ्चौ, अन्तरं आणीहर्म्यं च
  • 02.3.21 समुच्छ्रयाद् अर्धतले स्थूणाबन्धश्च
  • 02.3.22 अर्धवास्तुकं उत्तमागारं, त्रिभागान्तरं वा, इष्टकाऽवबद्धपार्श्वं, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानं इतरतः
  • 02.3.23 द्विहस्तं तोरणशिरः
  • 02.3.24 त्रिपञ्चभागिकौ द्वौ कपाटयोगौ
  • 02.3.25 द्वौ परिघौ
  • 02.3.26 अरत्निरिन्द्रकीलः
  • 02.3.27 पञ्चहस्तं आणिद्वारम्
  • 02.3.28 चत्वारो हस्तिपरिघाः
  • 02.3.29 निवेशार्धं हस्तिनखम्
  • 02.3.30 मुखसमः सङ्क्रमः संहार्यो भूमिमयो वा निरुदके
  • 02.3.31 प्राकारसमं मुखं अवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत्
  • 02.3.32 प्राकारमध्ये वापीं कृत्वा पुष्करिणीद्वारं, चतुःशालं अध्यर्धान्तरं साणिकं कुमारीपुरं, मुण्डहर्म्यद्वितलं मुण्डकद्वारं, भूमिद्रव्यवशेन वा निवेशयेत्
  • 02.3.33 त्रिभागाधिकायामा भाण्डवाहिनीः कुल्याः कारयेत्
  • 02.3.34ab तासु पाषाणकुद्दालाः कुठारीकाण्डकल्पनाः .
  • 02.3.34chd मुषुण्ढीमुद्गरा दण्डाश्चक्रयन्त्रशतघ्नयः
  • 02.3.35ab कार्याः कार्मारिकाः शूला वेधनाग्राश्च वेणवः .
  • 02.3.35chd उष्ट्रग्रीव्योऽग्निसम्योगाः कुप्यकल्पे च यो विधिः ( इति)


    Chapt |   Lay-out of the fortified citय्
  • 02.4.01 त्रयः प्राचीना राजमार्गाः त्रय उदीचीना इति वास्तुविभागः
  • 02.4.02 स द्वादशद्वारो युक्त उदकभ्रमच्छन्नपथः
  • 02.4.03 चतुर्दण्डान्तरा रथ्याः
  • 02.4.04 राजमार्गद्रोणमुखस्थानीयराष्ट्रविवीतपथाः सम्यानीयव्यूहश्मशानग्रामपथाश्चाष्टदण्डाः
  • 02.4.05 चतुर्दण्डः सेतुवनपथः, द्विदण्डो हस्तिक्षेत्रपथः, पञ्चारत्नयो रथपथः, चत्वारः पशुपथः, द्वौ क्षुद्रपशुमनुष्यपथः
  • 02.4.06 प्रवीरे वास्तुनि राजनिवेशश्चातुर्वर्ण्यसमाजीवे
  • 02.4.07 वास्तुहृदयाद् उत्तरे नवभागे यथा उक्तविधानं अन्तःपुरं प्रान्मुखं उदन्मुखं वा कारयेत्
  • 02.4.08 तस्य पूर्व उत्तरं भागं आचार्यपुरोहित इज्यातोयस्थानं मन्त्रिणश्चावसेयुः, पूर्वदक्षिणं भाग्ं महानसं हस्तिशाला कोष्ठागारं च
  • 02.4.09 ततः परं गन्धमाल्यरसपण्याः प्रसाधनकारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः
  • 02.4.10 दक्षिणपूर्वं भागं भाण्डागारं अक्षपटलं कर्मनिषद्याश्च, दक्षिणपश्चिमं भागं कुप्यगृहं आयुधागारं च
  • 02.4.11 ततः परं नगरधान्यव्यावहारिककार्मान्तिकबलाध्यक्षाः पक्वान्नसुरामांसपण्या रूपाजीवाः तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः
  • 02.4.12 पश्चिमदक्षिणं भागं खर उष्ट्रगुप्तिस्थानं कर्मगृहं च, पश्चिम उत्तरं भागं यानरथशालाः
  • 02.4.13 ततः परं ऊर्णासूत्रवेणुचर्मवर्मशस्त्रावरणकारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः
  • 02.4.14 उत्तरपश्चिमं भागं पण्यभैषज्यगृहं, उत्तरपूर्वं भागं कोशो गवाश्वं च
  • 02.4.15 ततः परं नगरराजदेवतालोहमणिकारवो ब्राह्मणाश्च उत्तरां दिशं अधिवसेयुः
  • 02.4.16 वास्तुच्छिद्रानुशालेषु श्रेणीप्रपणिनिकाया आवसेयुः
  • 02.4.17 अपराजिताप्रतिहतजयन्तवैजयन्तकोष्ठान् शिववैश्रवणाश्विश्रीमदिरागृहाणि च पुरमध्ये कारयेत्
  • 02.4.18 यथा उद्देशं वास्तुदेवताः स्थापयेत्
  • 02.4.19 ब्राह्माइन्द्रयाम्यसैनापत्यानि द्वाराणि
  • 02.4.20 बहिः परिखाया धनुःशतापकृष्टाश्चैत्यपुण्यस्थानवनसेतुबन्धाः कार्याः, यथादिशं च दिग्देवताः
  • 02.4.21 उत्तरः पूर्वो वा श्मशानभागो वर्ण उत्तमानां, दक्षिणेन श्मशानं वर्णावराणाम्
  • 02.4.22 तस्यातिक्रमे पूर्वः साहसदण्डः
  • 02.4.23 पाषण्डचण्डालानां श्मशानान्ते वासः
  • 02.4.24 कर्मान्तक्षेत्रवशेन कुटुम्बिनां सीमानं स्थापयेत्
  • 02.4.25 तेषु पुष्पफलवाटान् धान्यपण्यनिचयांश्चानुज्ञाताः कुर्युः
  • 02.4.26 दशकुलीवाटं कूपस्थानम्
  • 02.4.27 सर्वस्नेहधान्यक्षारलवणगन्धभैषज्यशुष्कशाकयवसवल्लूरतृणकाष्ठलोहचर्माङ्गारस्नायुविषविषाणवेणुवल्कलसारदारुप्रहरणावरणाश्मनिचयान् अनेकवर्ष उपभोगसहान् कारयेत्
  • 02.4.28 नवेनानवं शोधयेत्
  • 02.4.29 हस्तिऽश्वरथपादातं अनेकमुख्यं अवस्थापयेत्
  • 02.4.30 अनेकमुख्यं हि परस्परभयात् पर उपजापं न उपैति
  • 02.4.31 एतेनान्तपालदुर्गसंस्कारा व्याख्याताः
  • 02.4.32ab न च बाहिरिकान् कुर्यात् पुरे राष्ट्र उपघातकान् .
  • 02.4.32chd क्षिपेज् जनपदे च एतान् सर्वान् वा दापयेत् करान् ( इति)


    Chapt |   The work of store-keeping by the director of stories
  • 02.5.01 सम्निधाता कोशगृहं पण्यगृहं कोष्ठागारं कुप्यगृहं आयुधागारं बन्धनागारं च कारयेत्
  • 02.5.02 चतुर्ऽश्रां वापीं अन्-उदक उपस्नेहां खानयित्वा पृथुशिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सारदारुपञ्जरं भूमिसमं त्रितलं अनेकविधानं कुट्टिमदेशस्थानतलं एकद्वारं यन्त्रयुक्तसोपानं भूमिगृहं कारयेत्
  • 02.5.03 तस्य उपरि उभयतोनिषेधं स-प्रग्रीवं ऐष्टकं भाण्डवाहिनीपरिक्षिप्तं कोशगृहं कारयेत्, प्रासादं वा
  • 02.5.04 जनपदान्ते ध्रुवनिधिं आपद्ऽर्थं अभित्यक्तैः कारयेत्
  • 02.5.05a पक्व इष्टकास्तम्भं चतुःशालं एकद्वारं अनेकस्थानतलं विवृतस्तम्भापसारं उभयतः पण्यगृहं कोष्ठागारं च
  • 02.5.05b दीर्घबहुशालं कक्ष्यावृतकुड्यं अन्तः कुप्यगृहं, तद् एव भूमिगृहयुक्तं आयुधागारं
  • 02.5.05ch पृथग्धर्मस्थीयं महामात्रीयं विभक्तस्त्रीपुरुषस्थानं अपसारतः सुगुप्तकक्ष्यं बन्धनागारं कारयेत्
  • 02.5.06 सर्वेषां शालाः खात उदपानवर्चस्नानगृहाग्निविषत्राणमार्जारनकुलारक्षास्वदैवतपूजनयुक्ताः कारयेत्
  • 02.5.07 कोष्ठागारे वर्षमानं अरत्निमुखं कुण्डं स्थापयेत्
  • 02.5.08 तत्जातकरणाधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात्
  • 02.5.09 तत्र रत्न उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार उपधौ मध्यमः, फल्गुकुप्य उपधौ तत् च तावत् च दण्डः
  • 02.5.10 रूपदर्शकविशुद्धं हिरण्यं प्रतिगृह्णीयात्
  • 02.5.11 अशुद्धं छेदयेत्
  • 02.5.12 आहर्तुः पूर्वः साहसदण्डः
  • 02.5.13 शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात्
  • 02.5.14 विपर्यये मूल्यद्विगुणो दण्डः
  • 02.5.15 तेन पण्यं कुप्यं आयुधं च व्याख्यातम्
  • 02.5.16 सर्वाधिकरणेषु युक्त उपयुक्ततत्पुरुषाणां पणादिचतुष्पणपरमापहारेषु पूर्वमध्यम उत्तमवधा दण्डाः
  • 02.5.17 कोशाधिष्ठितस्य कोशावच्छेदे घातः
  • 02.5.18 तद्वैयावृत्यकराणां अर्धदण्डाः
  • 02.5.19 परिभाषणं अविज्ञाते
  • 02.5.20 चोराणां अभिप्रधर्षणे चित्रो घातः
  • 02.5.21 तस्माद् आप्तपुरुवाधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत्
  • 02.5.22a बाह्यं अभ्यन्तरं चायं विद्याद् वर्षशताद् अपि .
  • 02.5.22b यथा पृष्टो न सज्जेत व्यये शेषे च सञ्चये ( इति)


    Chapt |   section 24 The setting up of revenue by the administration
  • 02.6.01 समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्पथं चावेक्षेत
  • 02.6.02 शुल्कं दण्डः पौतवं नागरिको लक्षणाध्यक्षो मुद्राऽध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्यसंस्था वेश्या द्यूतं वास्तुकं कारुशिल्पिगणो देवताऽध्यक्षो द्वारबहिरिकाऽऽदेयं च दुर्गम्
  • 02.6.03 सीता भागो बलिः करो वणिक् नदीपालः तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोररज्जुश्च राष्ट्रम्
  • 02.6.04 सुवर्णरजतवज्रमणिमुक्ताप्रवालशङ्खलोहलवणभूमिप्रस्तररसधातवः खनिः
  • 02.6.05 पुष्पफलवाटषण्डकेदारमूलवापाः सेतुः
  • 02.6.06 पशुमृगद्रव्यहस्तिवनपरिग्रहो वनम्
  • 02.6.07 गोमहिषं अजाविकं खर उष्त्रं अश्वाश्वतरं च व्रजः
  • 02.6.08 स्थलपथो वारिपथश्च वणिक्पथः
  • 02.6.09 इत्यायशरीरम्
  • 02.6.10 मूल्यं भागो व्याजी परिघः क्ल्प्तम्( क्लृप्तम्) रूपिकं अत्ययश्चायमुखम्
  • 02.6.11 देवपितृपूजादानार्थं, स्वस्तिवाचनं, अन्तःपुरं, महानसं, दूतप्रावर्तिमं, कोष्ठागारं, आयुधागारं, पण्यगृहं, कुप्यगृहं, कर्मान्तो, विष्टिः, पत्तिऽश्वरथद्विपपरिग्रहो, गोमण्डलं, पशुमृगपक्षिव्यालवाटाः, काष्ठतृणवाटाश्च इति व्ययशरीरम्
  • 02.6.12 राजवर्षं मासः पक्षो दिवसश्च व्युष्टं, वर्षाहेमन्तग्रीष्माणां तृतीयसप्तमा दिवस ऊनाः पक्षाः शेषाः पूर्णाः, पृथग्ऽधिमासकः, इति कालः
  • 02.6.13 करणीयं सिद्धं शेषं आयव्ययौ नीवी च
  • 02.6.14 संस्थानं प्रचारः शरीरावस्थापनं आदानं सर्वसमुदयपिण्डः सञ्जातं - एतत् करणीयम्
  • 02.6.15 कोशार्पितं राजहारः पुरव्ययश्च प्रविष्टं परमसंवत्सरानुवृत्तं शासनमुक्तं मुखाज्ञप्तं चापातनीयं - एतत् सिद्धम्
  • 02.6.16 सिद्धिकर्मयोगः दण्डशेषं आहरणीयं बलात्कृतप्रतिष्टब्धं अवमृष्टं च प्रशोध्यं - एतत्शेषं, असारं अल्पसारं च
  • 02.6.17 वर्तमानः पर्युषितोऽन्यजातश्चायः
  • 02.6.18 दिवसानुवृत्तो वर्तमानः
  • 02.6.19 परमसांवत्सरिकः परप्रचारसङ्क्रान्तो वा पर्युषितः
  • 02.6.20 नष्टप्रस्मृतं आयुक्तदण्डः पार्श्वं पारिहीणिकं औपायनिकं डमरगतकस्वं अपुत्रकं निधिश्चान्यजातः
  • 02.6.21 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
  • 02.6.22 विक्रिये पण्यानां अर्घवृद्धिरुपजा, मान उन्मानविशेषो व्याजी, क्रयसङ्घर्षे वार्धवृद्धिः - इत्यायः
  • 02.6.23 नित्यो नित्य उत्पादिको लाभो लाभ उत्पादिक इति व्ययः
  • 02.6.24 दिवसानुवृत्तो नित्यः
  • 02.6.25 पक्षमाससंवत्सरलाभो लाभः
  • 02.6.26 तयोरुत्पन्नो नित्य उत्पादिको लाभ उत्पादिक इति व्ययः
  • 02.6.27 सञ्जाताद् आयव्ययविशुद्धा नीवी, प्राप्ता चानुवृत्ता च
  • 02.6.28ab एवं कुर्यात् समुदयं वृद्धिं चायस्य दर्शयेत् .
  • 02.6.28chd ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययम् ( इति)


    Chapt |   The topic of accounts in the records and audit office
  • 02.7.01 अक्षपटलं अध्यक्षः प्रान्मुखं उदन्मुखं वा विभक्त उपस्थानं निबन्धपुस्तकस्थानं कारयेत्
  • 02.7.02 तत्राधिकरणानां सङ्ख्याप्रचारसञ्जाताग्रं, कर्मान्तानां द्रव्यप्रयोगवृद्धिक्षयव्ययप्रयामव्याजीयोगस्थानवेतनविष्टिप्रमाणं, रत्नसारफल्गुकुप्यानां अर्घप्रतिवर्णकमानप्रतिमान उन्मानावमानभाण्डं, देशग्रामजातिकुलसङ्घानां धर्मव्यवहारचरित्रसंस्थानं, राज उपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभं, राज्ञश्च पत्नीपुत्राणां रत्नभूमिलाभं निर्देश उत्पातिकप्रतीकारलाभं, मित्रामित्राणां च सन्धिविग्रहप्रदानादानं निबन्धपुस्तकस्थं कारयेत्
  • 02.7.03 ततः सर्वाधिकरणानां करणीयं सिद्धं शेषं आयव्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत्
  • 02.7.04 उत्तममध्यमावरेषु च कर्मसु तज्जातिकं अध्यक्षं कुर्यात्, सामुदयिकेष्ववक्लृप्तिकम्( अवकॢप्तिकम्) यं उपहत्य राजा नानुतप्येत
  • 02.7.05 सहग्राहिणः प्रतिभुवः कर्म उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः
  • 02.7.06 त्रिशतं चतुःपञ्चाशत् चाहोरात्राणां कर्मसंवत्सरः
  • 02.7.07 तं आषाढीपर्यवसानं ऊनं पूर्णं वा दद्यात्
  • 02.7.08 करणाधिष्ठितं अधिमासकं कुर्यात्
  • 02.7.09 अपसर्पाधिष्ठितञ्च प्रचारम्
  • 02.7.10 प्रचारचरित्रसंस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति, उत्थानक्लेशासहत्वाद् आलस्येन, शब्दादिष्विन्द्रियार्थेषु प्रसक्तः प्रमादेन, सङ्क्रोशाधर्मानर्थभीरुभायेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः कोपेन, विद्याद्रव्यवल्लभापाश्रयाद् दर्पेण, तुलामानतर्कगणितान्तर उपधानात् लोभेन
  • 02.7.11 तेषां आनुपूर्व्या यावान् अर्थ उपघातः तावान् एक उत्तरो दण्डः इति मानवाः
  • 02.7.12 सर्वत्राष्टगुणः इति पाराशराः
  • 02.7.13 दशगुणः इति बार्हस्पत्याः
  • 02.7.14 विंशतिगुणः इत्यौशनसाः
  • 02.7.15 यथाऽपराधं इति कौटिल्यः
  • 02.7.16 गाणनिक्यानि आषाढीं आगच्छेयुः
  • 02.7.17 आगतानां समुद्रपुस्तकभाण्डनीवीकानां एकत्रासम्भाषाऽवरोधं कारयेत्
  • 02.7.18 आयव्ययनीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत्
  • 02.7.19 यच्चाग्राद् आयस्यान्तरपर्णे नीव्यां वर्धेत व्ययस्य वा यत् परिहापयेत्, तद् अष्टगुणं अध्यक्षं दापयेत्
  • 02.7.20 विपर्यये तं एव प्रति स्यात्
  • 02.7.21 यथाकालं अनागतानां अपुस्तकभाण्डनीवीकानां वा देयदशबन्धो दण्डः
  • 02.7.22 कार्मिके च उपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहसदण्डः
  • 02.7.23 विपर्यये कार्मिकस्य द्विगुणः
  • 02.7.24 प्रचारसमं महामात्राः समग्राः श्रावयेयुरविषममन्त्राः
  • 02.7.25 पृथग्भूतो मिथ्यावादी च एषां उत्तमं दण्डं दद्यात्
  • 02.7.26 अकृताहोरूपहरं मासं आकाङ्क्षेत
  • 02.7.27 मासाद् ऊर्ध्वं मासद्विशत उत्तरं दण्डं दद्यात्
  • 02.7.28 अल्पशेसलेख्यनीवीकं पञ्चरात्रं आकाङ्क्षेत
  • 02.7.29 ततः परं कोशपूर्वं अहोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्तनानुमानचारप्रयोगैरवेक्षेत
  • 02.7.30 दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरैश्च प्रतिसमानयेत्
  • 02.7.31 व्युष्टदेशकालमुख उत्पत्तिऽनुवृत्तिप्रमाणदायकदापकनिबन्धकप्रतिग्राहकैश्चायं समानयेत्
  • 02.7.32 व्युष्टदेशकालमुखलाभकारणदेययोगप्रमाणाज्ञापक उद्धारकविधातृकप्रतिग्राहकैश्च व्ययं समानयेत्
  • 02.7.33 व्युष्टदेशकालमुखानुवर्तनरूपलक्षणप्रमाणनिक्षेपभाजनगोपायकैश्च नीवीं समानयेत्
  • 02.7.34 राजार्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाऽऽज्ञां निबन्धाद् आयव्ययं अन्यथा नीवीं अवलिखतो द्विगुणः
  • 02.7.35 क्रमावहीनं उत्क्रमं अविज्ञातं पुनर्.उक्तं वा वस्तुकं अवलिखतो द्वादशपणो दण्डः
  • 02.7.36 नीवीं अवलिखतो द्विगुणः
  • 02.7.37 भक्षयतोऽष्टगुणः
  • 02.7.38 नाशयतः पञ्चबन्धः प्रतिदानं च
  • 02.7.39 मिथ्यावादे स्तेयदण्डः
  • 02.7.40 पश्चात्प्रतिज्ञाते द्विगुणः, प्रस्मृत उत्पन्ने च
  • 02.7.41ab अपराधं सहेताल्पं तुष्येद् अल्पेऽपि च उदये .
  • 02.7.41chd महा उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ( इति)


    Chapt |   Recovery of revenue misappropriated by state employees
  • 02.8.01 कोशपूर्वाः सर्वारम्भाः
  • 02.8.02 तस्मात् पूर्वं कोशं अवेक्षेत
  • 02.8.03 प्रचारसमृद्धिश्चरित्रानुग्रहश्चोरनिग्रहो युक्तप्रतिषेधः सस्यसम्पत् पण्यबाहुल्यं उपसर्गप्रमोक्षः परिहारक्षयो हिरण्य उपायनं इति कोशवृद्धिः
  • 02.8.04 प्रतिबन्धः प्रयोगो व्यवहारोऽवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्च इति कोशक्षयः
  • 02.8.05 सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः
  • 02.8.06 तत्र दशबन्धो दण्डः
  • 02.8.07 कोशद्रव्याणां वृद्धिप्रयोगाः प्रयोगः
  • 02.8.08 पण्यव्यवहारो व्यवहारः
  • 02.8.09 तत्र फलद्विगुणो दण्डः
  • 02.8.10 सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वा इत्यवस्तारः
  • 02.8.11 तत्र पञ्चबन्धो दण्डः
  • 02.8.12 क्लृप्तम्( कॢप्तम्) आयं परिहापयति व्ययं वा विवर्धयति इति परिहापणम्
  • 02.8.13 तत्र हीनचतुर्गुणो दण्डः
  • 02.8.14 स्वयं अन्यैर्वा राजद्रव्याणां उपभोजनं उपभोगः
  • 02.8.15 तत्र रत्न उपभोगे घातः, सार उपभोगे मध्यमः साहसदण्डः, फल्गुकुप्य उपभोगे तच्च तावत् च दण्डः
  • 02.8.16 राजद्रव्याणां अन्यद्रव्येनादानं परिवर्तनम्
  • 02.8.17 तद् उपभोगेन व्याख्यातम्
  • 02.8.18 सिद्धं आयं न प्रवेशयति, निबद्धं व्ययं न प्रयच्छति, प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः
  • 02.8.19 तत्र द्वादशगुणो दण्डः
  • 02.8.20 तेषां हरण उपायाश्चत्वारिंशत्
  • 02.8.21a पूर्वं सिद्धं पश्चाद् अवतारितं, पश्चात् सिद्धं पूर्वं अवतारितं, साध्यं न सिद्धं, असाध्यं सिद्धं, सिद्धं असिद्धं कृतं, असिद्धं सिद्धं कृतं, अल्पसिद्धं बहु कृतं, बहुसिद्धं अल्पं कृतं, अन्यत् सिद्धं अन्यत् कृतं, अन्यतः सिद्धं अन्यतः कृतं,
  • 02.8.21b देयं न दत्तं, अदेयं दत्तं, काले न दत्तं, अकाले दत्तं, अल्पं दत्तं बहु कृतं, बहु दत्तं अल्पं कृतं, अन्यद् दत्तं अन्यत् कृतं, अन्यतो दत्तं अन्यतः कृतं,
  • 02.8.21ch प्रविष्टं अप्रविष्टं कृतं, अप्रविष्टं प्रविष्टं कृतं, कुप्यं अदत्तमूल्यं प्रविष्टं, दत्तमूल्यं न प्रविष्टं
  • 02.8.21d सङ्क्षेपो विक्षेपः कृतः, विक्षेपः सङ्क्षेपो वा, महाऽर्घं अल्पार्घेण परिवर्तितं, अल्पार्घं महाऽर्घेण वा
  • 02.8.21e समारोपितोऽर्घः, प्रत्यवरोपितो वा, संवत्सरो मासविषमः कृतः, मासो दिवसविषमो वा, समागमविषमः, मुखविषमः, कार्मिकविषमः
  • 02.8.21f निर्वर्तनविषमः, पिण्डविषमः, वर्णविषमः, अर्घविषमः, मानविषमः, मापनविषमः, भाजनविषमः - इति हरण उपायाः
  • 02.8.22 तत्र उपयुक्तनिधायकनिबन्धकप्रतिग्राहकदायकदापकमन्त्रिवैयावृत्यकरान् एक एकशोऽनुयुञ्जीत
  • 02.8.23 मिथ्यावादे च एषां युक्तसमो दण्डः
  • 02.8.24 प्रचारे चावघोषयेत् अमुना प्रकृतेन उपहताः प्रज्ञापयन्तु इति
  • 02.8.25 प्रज्ञापयतो यथा उपघातं दापयेत्
  • 02.8.26 अनेकेषु चाभियोगेष्वपव्ययमानः सकृद् एव पर उक्तः सर्वं भजेत
  • 02.8.27 वैषम्ये सर्वत्रानुयोगं दद्यात्
  • 02.8.28 महत्यर्थापहारे चाल्पेनापि सिद्धः सर्वं भजेत
  • 02.8.29 कृतप्रतिघातावस्थः सूचको निष्पन्नार्थः षष्ठं अंशं लभेत, द्वादशं अंशं भृतकः
  • 02.8.30 प्रभूताभियोगाद् अल्पनिष्पत्तौ निष्पन्नस्यांशं लभेत
  • 02.8.31 अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत, न चानुग्राह्यः
  • 02.8.32ab निष्पत्तौ निक्षिपेद् वादं आत्मानं वाऽपवाहयेत् .
  • 02.8.32chd अभियुक्त उपजापात् तु सूचको वधं आप्नुयात् ( इति)


    Chapt |   Inspection of the Rork of officers
  • 02.9.01 अमात्यसम्पदा उपेताः सर्वाध्यक्षाः शक्तितः कर्मसु नियोज्याः
  • 02.9.02 कर्मसु च एषां नित्यं परीक्षां कारयेत्, चित्तानित्यत्वात् मनुष्यानाम्
  • 02.9.03 अश्वसधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते
  • 02.9.04 तस्मात् कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं च एषु विद्यात्
  • 02.9.05 ते यथासन्देशं असंहता अविगृहीताः कर्माणि कुर्युः
  • 02.9.06 संहता भक्षयेयुः, विगृहीता विनाशयेयुः
  • 02.9.07 न चानिवेद्य भर्तुः कञ्चिद् आरम्भं कुर्युः, अन्यत्रापत्प्रतीकारेभ्यः
  • 02.9.08 प्रमादस्थानेषु च एषां अत्ययं स्थापयेद् दिवसवेतनव्ययद्विगुणम्
  • 02.9.09 यश्च एषां यथाऽऽदिष्टं अर्थं सविशेषं वा करोति स स्थानमानौ लभेत
  • 02.9.10 अल्पायतिश्चेत् महाव्ययो भक्षयति
  • 02.9.11 विपर्यये यथाऽऽयतिव्ययश्च न भक्षयति इत्याचार्याः
  • 02.9.12 अपसर्पेण एव उपलभ्येत इति कौटिल्यः
  • 02.9.13 यः समुदयं परिहापयति स राजार्थं भक्षयति
  • 02.9.14 स चेद् अज्ञानादिभिः परिहापयति तद् एनं यथागुणं दापयेत्
  • 02.9.15 यः समुदयं द्विगुणं उद्भावयति स जनपदं भक्षयति
  • 02.9.16 स चेद् राजार्थं उपनयत्यल्पापराधे वारयितव्यः, महति यथाऽपराधं दण्डयितव्यः
  • 02.9.17 यः समुदयं व्ययं उपनयति स पुरुषकर्माणि भक्षयति
  • 02.9.18 स कर्मदिवसद्रव्यमूल्यपुरुषवेतनापहारेषु यथाऽपराधं दण्डयितव्यः
  • 02.9.19 तस्माद् अस्य यो यस्मिन्न् अधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आयव्ययौ च व्याससमासाभ्यां आचक्षीत
  • 02.9.20 मूलहरतादात्विककदर्यांश्च प्रतिषेधयेत्
  • 02.9.21 यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः
  • 02.9.22 यो यद् यद् उत्पद्यते तत् तद् भक्षयति स तादात्विकः
  • 02.9.23 यो भृत्यात्मपीडाभ्यां उपचिनोत्यर्थं स कदर्यः
  • 02.9.24 स पक्षवांश्चेद् अनादेयः, विपर्यये पर्यादातव्यः
  • 02.9.25 यो महत्यर्थसमुदये स्थितः कदर्यः सम्निधत्तेऽवनिधत्तेऽवस्रावयति वा - सम्निधत्ते स्ववेश्मनि, अवनिधत्ते पौरजानपदेषु, अवस्रावयति परविषये - तस्य सत्त्री मन्त्रिमित्रभृत्यबन्धुपक्षं आगतिं गतिं च द्रव्याणां उपलभेत
  • 02.9.26 यश्चास्य परविषये सञ्चारं कुर्यात् तं अनुप्रविश्य मन्त्रं विद्यात्
  • 02.9.27 सुविदिते शत्रुशासनापदेशेन एनं घातयेत्
  • 02.9.28 तस्माद् अस्याध्यक्षाः सङ्ख्यायकलेखकरूपदर्शकनीवीग्राहक उत्तराध्यक्षसखाः कर्मणि कुर्युः
  • 02.9.29 उत्तराध्यक्षा हस्तिऽश्वरथारोहाः
  • 02.9.30 तेषां अन्तेवासिनः शिल्पशौचयुक्ताः सङ्ख्यायकादीनां अपसर्पाः
  • 02.9.31 बहुमुख्यं अनित्यं चाधिकरणं स्थापयेत्
  • 02.9.32ab यथा ह्यनास्वादयितुं न शक्यं जिह्वातलस्थं मधु७ वा विषं वा .
  • 02.9.32chd अर्थः तथा ह्यर्थचरेण राज्ञः स्वल्पोऽप्यनास्वादयितुं न शक्यः
  • 02.9.33ab मत्स्या यथाऽन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः .
  • 02.9.33chd युक्ताः तथा कार्यविधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः
  • 02.9.34ab अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणाम् .
  • 02.9.34chd न तु प्रच्छन्नभावानां युक्तानां चरतां गतिः
  • 02.9.35ab आस्रावयेच्च उपचितान् विपर्यस्येच्च कर्मसु .
  • 02.9.35chd यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा
  • 02.9.36ab न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च .
  • 02.9.36chd नित्याधिकाराः कार्याः ते राज्ञः प्रियहिते रताः ( इति)


    Chapt |   On edicts
  • 02.10.01 शासने शासनं इत्याचक्षते
  • 02.10.02 शासनप्रधाना हि राजानः, तन्मूलत्वात् सन्धिविग्रहयोः
  • 02.10.03 तस्माद् अमात्यसम्पदा उपेतः सर्वसमयविद् आशुग्रन्थश्चारुऽक्षरो लेखनवाचनसमर्थो लेखकः स्यात्
  • 02.10.04 सोऽव्यग्रमना राज्ञः सन्देशं श्रुत्वा निश्चितार्थं लेखं विदध्यात् देशाइश्वर्यवंशनामधेय उपचारं ईश्वरस्य, देशनामधेय उपचारं अनीश्वरस्य
  • 02.10.05ab जातिं कुलं स्थानवयःश्रुतानि कर्म.ऋद्धिशीलान्यथ देशकालौ .
  • 02.10.05chd यौनानुबन्धं च समीक्ष्य कार्ये लेखं विदध्यात् पुरुषानुरूपम्
  • 02.10.06 अर्थक्रमः सम्बन्धः परिपूर्णता माधुर्यं औदार्यं स्पष्टत्वं इति लेखसम्पत्
  • 02.10.07 तत्र यथावद् अनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वं अभिनिवेश इत्यर्थक्रमः
  • 02.10.08 प्रस्तुतस्यार्थस्यानुपरोधाद् उत्तरस्य विधानं आसमाप्तेरिति सम्बन्धः
  • 02.10.09 अर्थपदाक्षराणां अन्यूनातिरिक्तता हेतु.उदाहरणदृष्टान्तैरर्थ उपवर्णनाऽश्रान्तपदता इति परिपूर्णता
  • 02.10.10 सुख उपनीतचारुऽर्थशब्दाभिधानं माधुर्यम्
  • 02.10.11 अग्राम्यशब्दाभिधानं औदार्यम्
  • 02.10.12 प्रतीतशब्दप्रयोगः स्पष्टत्वं इति
  • 02.10.13 अकारादयो वर्णाः त्रिषष्टिः
  • 02.10.14 वर्णसङ्घातः पदम्
  • 02.10.15 तच्चतुर्विधं नामाख्यात उपसर्गनिपाताश्च इति
  • 02.10.16 तत्र नाम सत्त्वाभिधायि
  • 02.10.17 अविशिष्टलिङ्गं आख्यातं क्रियावाचि
  • 02.10.18 क्रियाविशेषकाः प्रादय उपसर्गाः
  • 02.10.19 अव्ययाश्चादयो निपाताः
  • 02.10.20 पदसमूहो वाक्यं अर्थपरिसमाप्तौ
  • 02.10.21 एकपदावरः त्रिपदपरः परपदार्थानुपरोधेन वर्गः कार्यः
  • 02.10.22 लेखपरिसंहरणार्थ इतिशब्दो वाचिकं अस्य इति च
  • 02.10.23ab निन्दा प्रशंसा पृच्छा च तथाऽऽख्यानं अथार्थना .
  • 02.10.23chd प्रत्याख्यानं उपालम्भः प्रतिषेधोऽथ चोदना
  • 02.10.24ab सान्त्वं अभ्युपपत्तिश्च भर्त्सनानुनयौ तथा .
  • 02.10.24chd एतेष्वर्थाः प्रवर्तन्ते त्रयोदशसु लेखजाः
  • 02.10.25 तत्राभिजनशरीरकर्मणां दोषवचनं निन्दा
  • 02.10.26 गुणवचनं एतेषां एव प्रशंसा
  • 02.10.27 कथं एतद् इति पृच्छा
  • 02.10.28 एवम् इत्याख्यानम्
  • 02.10.29 देहि इत्यर्थना
  • 02.10.30 न प्रयच्छामि इति प्रत्याख्यानम्
  • 02.10.31 अननुरूपं भवतः इत्युपालम्भः
  • 02.10.32 मा कार्षीः इति प्रतिषेधः
  • 02.10.33 इदं क्रियताम् इति चोदना
  • 02.10.34 योऽहं स भवान्, यन् मम द्रव्यं तद् भवतः इत्युपग्रहः सान्त्वम्
  • 02.10.35 व्यसनसाहाय्यं अभ्युपपत्तिः
  • 02.10.36 सदोषं आयतिप्रदर्शनं अभिभर्त्सनम्
  • 02.10.37 अनुनयः त्रिविधोऽर्थकृतावतिक्रमे पुरुषादिव्यसने च इति
  • 02.10.38ab प्रज्ञापनाज्ञापरिदानलेखाः तथा परीहारनिसृष्टिलेखौ .
  • 02.10.38chd प्रावृत्तिकश्च प्रतिलेख एव सर्वत्रगश्च इति हि शासनानि
  • 02.10.39ab अनेन विज्ञापितं एवं आह तद् दीयतां चेद् यदि तत्त्वं अस्ति .
  • 02.10.39chd राज्ञः समीपे वरकारं आह प्रज्ञापना एषा विविधा उपदिष्टा
  • 02.10.40ab भर्तुराज्ञा भवेद् यत्र निग्रहानुग्रहौ प्रति .
  • 02.10.40chd विशेषेण तु भृत्येषु तद्ऽअज्ञालेखलक्षणम्
  • 02.10.41ab यथाऽर्हगुणसम्युक्ता पूजा यत्र उपलक्ष्यते .
  • 02.10.41chd अप्याधौ परिदाने वा भवतः तावुपग्रहौ
  • 02.10.42ab जातेर्विशेषेषु परेषु चैव ग्रामेषु देशेषु च तेषु तेषु .
  • 02.10.42chd अनुग्रहो यो नृप्तेर्निदेशात् तज्ज्ञः परीहार इति व्यवस्येत्
  • 02.10.43ab निसृष्टिस्थाऽऽपना कार्यकरणे वचने तथा .
  • 02.10.43chd एष वाचिकलेखः स्याद् भवेन्नैसृष्टिकोऽपि वा
  • 02.10.44ab विविधां दैवसम्युक्तां तत्त्वजां चैव मानुषीम् .
  • 02.10.44chd द्विविधां तां व्यवस्यन्ति प्रवृत्तिं शासनं प्रति
  • 02.10.45ab दृष्ट्वा लेखं यथातत्त्वं ततः प्रत्यनुभाष्य च .
  • 02.10.45chd प्रतिलेखो भवेत् कार्यो यथा राजवचः तथा
  • 02.10.46ab यत्र ईश्वरांश्चाधिकृतांश्च राजा रक्षा उपकारौ पथिकार्थं आह .
  • 02.10.46chd सर्वत्रगो नाम भवेत् स मार्गे देशे च सर्वत्र च वेदितव्यः
  • 02.10.47 उपायाः साम उपप्रदानभेददण्डाः
  • 02.10.48 तत्र साम पञ्चविधं - गुणसङ्कीर्तनं, सम्बन्ध उपाख्यानं, परस्पर उपकारसन्दर्शनं, आयतिप्रदर्शनं, आत्म उपनिधानं इति
  • 02.10.49 तत्राभिजनशरीरकर्मप्रकृतिश्रुतद्रव्यादीनां गुणग्रहणं प्रशंसा स्तुतिर्गुणसङ्कीर्तनम्
  • 02.10.50 ज्ञातियौनमौखस्रौवकुलहृदयमित्रसङ्कीर्तनं सम्बन्ध उपाख्यानम्
  • 02.10.51 स्वपक्षपरपक्षयोरन्योन्य उपकारसङ्कीर्तनं परस्पर उपकारसन्दर्शनम्
  • 02.10.52 अस्मिन्न् एवं कृत इदं आवयोर्भवति इत्याशाजननं आयतिप्रदर्शनम्
  • 02.10.53 योऽहं स भवान्, यन् मम द्रव्यं तद् भवता स्वकृत्येषु प्रयोज्यताम् इत्यात्म उपनिधानम् | इति
  • 02.10.54 उपप्रदानं अर्थ उपकारः
  • 02.10.55 शङ्काजननं निर्भर्त्सनं च भेदः
  • 02.10.56 वधः परिक्लेशोऽर्थहरणं दण्डः | इति
  • 02.10.57 अकान्तिर्व्याघातः पुनर्.उक्तं अपशब्दः सम्प्लव इति लेखदोषः
  • 02.10.58 तत्र कालपत्त्रकं अचारुविषं अविरागाक्षरत्वं अकान्तिः
  • 02.10.59 पूर्वेण पश्चिमस्यानुपपत्तिर्व्याघातः
  • 02.10.60 उक्तस्याविशेषेण द्वितीयं उच्चारणं पुनर्.उक्तम्
  • 02.10.61 लिङ्गवचनकालकारकाणां अन्यथाप्रयोगोऽपशब्दः
  • 02.10.62 अवर्गे वर्गकरणं चावर्गक्रिया गुणविपर्यासः सम्प्लवः | इति
  • 02.10.63ab सर्वशास्त्राण्यनुक्रम्य प्रयोगं उपलभ्य च .
  • 02.10.63chd कौटिल्येन नर इन्द्रार्थे शासनस्य विधिः कृतः ( इति)


    Chapt |   Examination of the precious articles to be received into the treasurय्
  • 02.11.01 कोशाध्यक्षः कोशप्रवेश्यं रत्नं सारं फल्गुं कुप्यं वा तज्जातकरणाधिष्ठितः प्रतिगृह्णीयात्
  • 02.11.02 ताम्रपर्णिकं पाण्ड्यकवाटकं पाशिक्यं कौलेयं चौर्णेयं माहेन्द्रं कार्दमिकं स्रौतसीयं ह्रादीयं हैमवतं च मौक्तिकम्
  • 02.11.03 शुक्तिः शङ्खः प्रकीर्णकं च योनयः
  • 02.11.04 मसूरकं त्रिपुटकं कूर्मकं अर्धचन्द्रकं कञ्चुकितं यमकं कर्तकं खरकं सिक्तकं कामण्डलुकं श्यावं नीलं दुर्विद्धं चाप्रशस्तम्
  • 02.11.05 स्थूलं वृत्तं निस्तलं भ्राजिष्णु श्वेतं गुरु स्निग्धं देशविद्धं च प्रशस्तम्
  • 02.11.06 शीर्षकं उपशीर्षकं प्रकाण्डकं अवघाटकं तरलप्रतिबद्धं च इति यष्टिप्रभेदाः
  • 02.11.07 यष्टीनां अष्टसहस्रं इन्द्रच्छन्दः
  • 02.11.08 ततोऽर्धं विजयच्छन्दः
  • 02.11.09 चतुष्षष्टिरर्धहारः
  • 02.11.10 चतुष्पञ्चाशद् रश्मिकलापः
  • 02.11.11 द्वात्रिंशद् गुच्छः
  • 02.11.12 सप्तविंशतिर्नक्षत्रमाला
  • 02.11.13 चतुर्विंशतिरर्धगुच्छः
  • 02.11.14 विंशतिर्माणवकः
  • 02.11.15 ततोऽर्धं अर्धमाणवकः
  • 02.11.16 एत एव मणिमध्याः तन्माणवका भवन्ति
  • 02.11.17 एकशीर्षकः शुद्धो हारः
  • 02.11.18 तद्वत्शेषाः
  • 02.11.19 मणिमध्योऽर्धमाणवकः
  • 02.11.20 त्रिफलकः फलकहारः, पञ्चफलको वा
  • 02.11.21 सूत्रं एकावली शुद्धा
  • 02.11.22 सा एव मणिमध्या यष्टिः
  • 02.11.23 हेममणिचित्रा रत्नावली
  • 02.11.24 हेममणिमुक्ताऽन्तरोऽपवर्तकः
  • 02.11.25 सुवर्णसूत्रान्तरं सोपानकम्
  • 02.11.26 मणिमध्यं वा मणिसोपानकम्
  • 02.11.27 तेन शिरोहस्तपादकटीकलापजालकविकल्पा व्याख्याताः
  • 02.11.28 मणिः कौटोमालेयकः पारसमुद्रकश्च
  • 02.11.29 सौगन्धिकः पद्मरागोऽनवद्यरागः पारिजातपुष्पको बालसूर्यकः
  • 02.11.30 वैडूर्यं उत्पलवर्णः शिरीषपुष्पक उदकवर्णो वंशरागः शुकपत्त्रवर्णः पुष्यरागो गोमूत्रको गोमेदकः
  • 02.11.31 इन्द्रनीलो नीलावलीयः कलायपुष्पको महानीलो जम्ब्व्ऽअभो जीमूतप्रभो नन्दकः स्रवन्मध्यः
  • 02.11.32 शुद्धस्फटिको मूलाटवर्णः शीतवृष्टिः सूर्यकान्तश्च | इति मणयः
  • 02.11.33 षड्ऽश्रश्चतुर्ऽश्रो वृत्तो वा तीव्ररागः संस्थानवान् अछः स्निग्धो गुरुरर्चिष्मान् अन्तर्गतप्रभः प्रभाऽनुलेपी च इति मणिगुणाः
  • 02.11.34 मन्दरागप्रभः स-शर्करः पुष्पच्छिद्रः खण्डो दुर्विद्धो लेखाकीर्ण इति दोषाः
  • 02.11.35 विमलकः सस्यकोऽञ्जनमूलकः पित्तकः सुलभको लोहिताक्षो मृगाश्मको ज्योतीरसको मालेयकोऽहिच्छत्रकः कूर्पः प्रतिकूर्पः सुगन्धिकूर्पः क्षीरवकः श्शुक्तिचूर्णकः शिलाप्रवालकः पुलकः शुक्लपुलक इत्यन्तरजातयः
  • 02.11.36 शेषाः काचमणयः
  • 02.11.37 सभाराष्ट्रकं तज्जमाराष्ट्रकं कास्तीरराष्ट्रकं श्रीकटनकं मणिमन्तकं इन्द्रवानकं च वज्रम्
  • 02.11.38 खनिः स्रोतः प्रकीर्णकं च योनयः
  • 02.11.39 मार्जाराक्षकं शिरीषपुष्पकं गोमूत्रकं गोमेदकं शुद्धस्फटिकं मूलाटीवर्णं मणिवर्णानां अन्यतमवर्णं इति वज्रवर्णाः
  • 02.11.40 स्थूलं गुरु प्रहारसहं समकोटिकं भाजनलेखि तर्कुभ्रामि भ्राजिष्णु च प्रशस्तम्
  • 02.11.41 नष्टकोणं निराश्रि पार्श्वापवृत्तं चाप्रशस्तम्
  • 02.11.42 प्रवालकं आलकन्दकं वैवर्णिकं च, रक्तं पद्मरागं च करटगर्भिणिकावर्जं इति
  • 02.11.43 चन्दनं सातनं रक्तं भूमिगन्धि
  • 02.11.44 गोशीर्षकं कालताम्रं मत्स्यगन्धि
  • 02.11.45 हरिचन्दनं शुकपत्त्रवर्णं आम्रगन्धि, तार्णसं च
  • 02.11.46 ग्रामेरुकं रक्तं रक्तकालं वा बस्तमूत्रगन्धि
  • 02.11.47 दैवसभेयं रक्तं पद्मगन्धि, जापकं च
  • 02.11.48 जोङ्गकं रक्तं रक्तकालं वा स्निग्धं, तौरूपं च
  • 02.11.49 मालेयकं पाण्डुरक्तम्
  • 02.11.50 कुचन्दनं रूक्षं अगुरुकालं रक्तं रक्तकालं वा
  • 02.11.51 कालपर्वतकं रक्तकालं अनवद्यवर्णं वा
  • 02.11.52 कोशागारपर्वतकं कालं कालचित्रं वा
  • 02.11.53 शीत उदकीयं पद्माभं कालस्निग्धं वा
  • 02.11.54 नागपर्वतकं रूक्षं शैवलवर्णं वा
  • 02.11.55 शाकलं कपिलम् | इति
  • 02.11.56 लघु स्निग्धं अश्यानं सर्पिःस्नेहलेपि गन्धसुखं त्वग्ऽनुसार्यनुल्बणं अविराग्युष्णसहं दाहग्राहि सुखस्पर्शनं इति चन्दनगुणाः
  • 02.11.57 अगुरु जोङ्गकं कालं कालचित्रं मण्डलचित्रं वा
  • 02.11.58 श्यामं दोङ्गकम्
  • 02.11.59 पारसमुद्रकं चित्ररूपं उशीरगन्धि नवमालिकागन्धि वा | इति
  • 02.11.60 गुरु स्निग्धं पेशलगन्धि निर्हार्यग्निसहं असम्प्लुतधूमं विमर्दसहं इत्यगुरुगुणाः
  • 02.11.61 तैलपर्णिकं अशोकग्रामिकं मांसवर्णं पद्मगन्धि
  • 02.11.62 जोङ्गकं रक्तपीतकं उत्पलगन्धि गोमूत्रगन्धि वा
  • 02.11.63 ग्रामेरुकं स्निग्धं गोमूत्रगन्धि
  • 02.11.64 सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि
  • 02.11.65 पूर्णकद्वीपकं पद्मगन्धि नवनीतगन्धि वा
  • 02.11.66 भद्रश्रियं पारलौहित्यकं जातीवर्णम्
  • 02.11.67 आन्तरवत्यं उशीरवर्णम्
  • 02.11.68 उभयं कुष्ठगन्धि च | इति
  • 02.11.69 कालेयकः स्वर्णभूमिजः स्निग्धपीतकः
  • 02.11.70 औत्तरपर्वतको रक्तपीतकः इति साराः |
  • 02.11.71 पिण्डक्वाथधूमसहं अविरागि योगानुविधायि च
  • 02.11.72 चन्दनागुरुवच्च तेषां गुणाः
  • 02.11.73 कान्तनावकं प्रैयकं च उत्तरपर्वतकं चर्म
  • 02.11.74 कान्तनावकं मयूरग्रीवाभम्
  • 02.11.75 प्रैयकं नीलपीतश्वेतलेखाबिन्दुचित्रम्
  • 02.11.76 तद्.उभयं अष्टाङ्गुलायामम्
  • 02.11.77 बिसी महाबिसी च द्वादशग्रामीये
  • 02.11.78 अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी
  • 02.11.79 परुषा श्वेतप्राया महाबिसी
  • 02.11.80 द्वादशाङ्गुलायामं उभयम्
  • 02.11.81 श्यामिका कालिका कदली चन्द्र उत्तरा शाकुला चारोहजाः
  • 02.11.82 कपिला बिन्दुचित्रा वा श्यामिका
  • 02.11.83 कालिका कपिला कपोतवर्णा वा
  • 02.11.84 तद् उभयं अष्टाङ्गुलायामम्
  • 02.11.85 परुषा कदली हस्तायता
  • 02.11.86 सा एव चन्द्रचित्रा चन्द्र उत्तरा
  • 02.11.87 कदलीत्रिभागा शाकुला कोठमण्डलचित्रा कृतकर्णिकाऽजिनचित्रा वा | इति
  • 02.11.88 सामूरं चीनसी सामूली च बाह्लवेयाः
  • 02.11.89 षट्त्रिंशद्ऽङ्गुलं अञ्जनवर्णं सामूरम्
  • 02.11.90 चीनसी रक्तकाली पाण्डुकाली वा
  • 02.11.91 सामूली गोधूमवर्णा | इति
  • 02.11.92 सान्तिना नलतूला वृत्तपृच्छा चौद्राः
  • 02.11.93 सातिना कृष्णा
  • 02.11.94 नलतूला नलतूलवर्णा
  • 02.11.95 कपिला वृत्तपुच्छा च इति चर्मजातयः |
  • 02.11.96 चर्मणां मृदु स्निग्धं बहुलरोम च श्रेष्ठम्
  • 02.11.97 शुद्धं शुद्धरक्तं पक्षरक्तं चाविकं, खचितं वानचित्रं खण्डसङ्घात्यं तन्तुविच्छिन्नं च
  • 02.11.98 कम्बलः कौचपकः कुलमितिका सौमितिका तुरगास्तरणं वर्णकं तलिच्छकं वारवाणः परिस्तोमः समन्तभद्रकं चाविकम्
  • 02.11.99 पिच्छिलं आर्द्रं इव च सूक्ष्मं मृदु च श्रेष्ठम्
  • 02.11.100 अष्टप्रोतिसङ्घात्या कृष्णा भिङ्गिसी वर्षवारणं अपसारक इति नैपालकम्
  • 02.11.101 सम्पुटिका चतुर्ऽश्रिका लम्बरा कटवानकं प्रावरकः सत्तलिका इति मृगरोम
  • 02.11.102 वाङ्गकं श्वेतं स्निग्धं दुकूलम्
  • 02.11.103 पौण्ड्रकं श्यामं मणिस्निग्धम्
  • 02.11.104 सौवर्णकुड्यकं सूर्यवर्णं मणिस्निग्ध उदकवानं चतुर्ऽश्रवानं व्यामिश्रवानं च
  • 02.11.105 एतेषां एकांशुकं अध्यर्धद्वित्रिचतुर्ऽंशुकं इति
  • 02.11.106 तेन काशिकं पौण्ड्रकं च क्षौमं व्याख्यातम्
  • 02.11.107 मागधिका पौण्ड्रिका सौवर्णकुड्यका च पत्त्र ऊर्णा
  • 02.11.108 नागवृक्षो लिकुचो बकुलो वटश्च योनयः
  • 02.11.109 पीतिका नागवृक्षिका
  • 02.11.110 गोधूमवर्णा लैकुची
  • 02.11.111 श्वेता बाकुली
  • 02.11.112 शेषा नवनीतवर्णा
  • 02.11.113 तासां सौवर्णकुड्यका श्रेष्ठा
  • 02.11.114 तया कौशेयं चीनपट्टाश्च चीनभूमिजा व्याख्याताः
  • 02.11.115 माधुरं आपरान्तकं कालिङ्गं काशिकं वाङ्गकं वात्सकं माहिषकं च कार्पासिकं श्रेष्ठम् | इति
  • 02.11.116 अतः परेषां रत्नानां प्रमाणं मूल्यलक्षणम् |
  • 02.11.117 जातिं रूपं च जानीयान्निधानं नवकर्म च
  • 02.11.118 पुराणप्रतिसंस्कारं कर्म गुह्यं उपस्करान् |
  • 02.11.119 देशकालपरीभोगं हिंस्राणां च प्रतिक्रियाम् ( इति)


    Chapt |   Starting ore mines and factories
  • 02.12.01 आकराध्यक्षः शुल्बधातुशास्त्ररसपाकमणिरागज्ञः तज्ज्ञसखो वा तज्जातकर्मकर उपकरणसम्पन्नः किट्टमूषाङ्गारभस्मलिङ्गं वाऽऽकरं भूतपूर्वं अभुतपूर्वं वा भूमिप्रस्तररसधातुं अत्यर्थवर्णगौरवं उग्रगन्धरसं परीक्षेत
  • 02.12.02 पर्वतानां अभिज्ञात उद्देशानां बिलगुह उपत्यकालयनगूढखातेष्वन्तः प्रस्यन्दिनो जम्बूचूततालफलपक्वहरिद्राभेदगुड( गूड? ) हरितालमनःशिलाक्षौद्रहिङ्गुलुकपुण्डरीकशुकमयूरपत्त्रवर्णाः सवर्ण उदकोषधिपर्यन्ताश्चिक्कणा विशदा भारिकाश्च रसाः काञ्चनिकाः
  • 02.12.03 अप्सु निष्ठ्यूताः तैलवद्विसर्पिणः षङ्कमलग्राहिणश्च ताम्ररूप्ययोः शताद् उपरि वेद्धारः
  • 02.12.04 तत्प्रतिरूपकं उग्रगन्धरसं शिलाजतु विद्यात्
  • 02.12.05 पीतकास्ताम्रकाः ताम्रपीतका वा भूमिप्रस्तरधातवो भिन्ना नीलराजीवन्तो मुद्गमाषकृसरवर्णा वा दधिबिन्दुपिण्डचित्रा हरिद्राहरीतकीपद्मपत्त्रशैवलयकृत्प्लीहानवद्यवर्णा भिन्नाश्चुञ्चुवालुकालेखाबिन्दुस्वस्तिकवन्तः सुगुलिका अर्चिष्मन्तः ताप्यमाना न भिद्यन्ते बहुफेनधूमाश्च सुवर्णधातवः प्रतीवापार्थाः ताम्ररूप्यवेधनाः
  • 02.12.06 शङ्खकर्पूरस्फटिकनवनीतकपोतपारावतविमलकमयूरग्रीवावर्णाः सस्यकगोमेदकगुडमत्स्यण्डिकावर्णाः कोविदारपद्मपाटलीकलायक्षौमातसीपुष्पवर्णाः स-सीसाः साञ्जना विस्रा भिन्नाः श्वेताभाः कृष्णाः कृष्णाभाः श्वेताः सर्वे वा लेखाबिन्दुचित्रा मृदवो ध्मायमाना न स्फुटन्ति बहुफेनधूमाश्च रूप्यधातवः
  • 02.12.07 सर्वधातूनां गौरववृद्धौ सत्त्ववृद्धिः
  • 02.12.08 तेषां अशुद्धा मूढगर्भा वा तीक्ष्णमूत्रक्षरभाविता राजवृक्षवटपीलुगोपित्तरोचनामहिषखरकरभमूत्रलेण्डपिण्डबद्धाः तत्प्रतीवापाः तद्ऽवलेपा वा विशुद्धाः स्रवन्ति
  • 02.12.09 यवमाषतिलपलाशपीलुक्षारैर्गोक्षीराजक्षीरैर्वा कदलीवज्रकन्दप्रतीवपो मार्दवकरः
  • 02.12.10ab मधुमधुकं अजापयः स-तैलं घृतगुडकिण्वयुतं स-कन्दलीकम् |
  • 02.12.10chd यद् अपि शतसहस्रधा विभिन्नं भवति मृदु त्रिभिरेव तन्निषेकैः
  • 02.12.11 गोदन्तशृङ्गप्रतीवापो मृदुस्तम्भनः
  • 02.12.12 भारिकः स्निग्धो मृदुश्च प्रस्तरधातुर्भूमिभागो वा पिङ्गलो हरितः पाटलो लोहितो वा ताम्रधातुः
  • 02.12.13 काकमोचकः कपोतरोचनावर्णः श्वेतराजिनद्धो वा विस्रः सीसधातुः
  • 02.12.14 ऊषरकर्बुरः पक्वलोष्ठवर्णो वा त्रपुधातुः
  • 02.12.15 खरुम्बः पाण्डुरोहितः सिन्दुवारपुष्पवर्णो वा तीक्ष्णधातुः
  • 02.12.16 काकाण्डभुजपत्त्रवर्णो वा वैकृन्तकधातुः
  • 02.12.17 अच्छः स्निग्धः स-प्रभो घोषवान् शीतः तीव्रः तनुरागश्च मणिधातुः
  • 02.12.18 धातुसमुत्थं तज्जातकर्मान्तेषु प्रयोजयेत्
  • 02.12.19 कृतभाण्डव्यवहारं एकमुखं, अत्ययं चान्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
  • 02.12.20 आकरिकं अपहरन्तं अष्टगुणं दापयेद् अन्यत्र रत्नेभ्यः
  • 02.12.21 स्तेनं अनिसृष्ट उपजीविनं च बद्धं कर्म कारयेत्, दण्ड उपकारिणं च
  • 02.12.22 व्ययक्रियाभारिकं आकरं भागेन प्रक्रयेण वा दद्यात्, लाघविकं आत्मना कारयेत्
  • 02.12.23 लोहाध्यक्षः ताम्रसीसत्रपुवैकृन्तकारकूटवृत्तकंसताललोहकर्मान्तान् कारयेत्, लोहभाण्डव्यवहारं च
  • 02.12.24 लक्षणाध्यक्षश्चतुर्भागताम्रं रूप्यरूपं तीक्ष्णत्रपुसीसाञ्जनानां अन्यतममाषबीजयुक्तं कारयेत् - पणं अर्धपणं पादं, अष्टभागं इति, पादाजीवं ताम्ररूपं - माषकं अर्धमाषकं काकणीं अर्धकाकणीं इति
  • 02.12.25 रूपदर्शकः पणयात्रां व्यावहारिकीं कोशप्रवेश्यां च स्थापयेत्
  • 02.12.26 रूपिकं अष्टकं शतं, पञ्चकं शतं व्याजीं, पारीक्षिकं अष्टभागिकं, शतं, पञ्चविंशतिपणं अत्ययं च अन्यत्रकर्तृक्रेतृविक्रेतृपरीक्षितृभ्यः
  • 02.12.27 खन्य्ऽध्यक्षः शङ्खवज्रमणिमुक्ताप्रवालक्षारकर्मान्तान् कारयेत्, पणनव्यवहारं च
  • 02.12.28 लवणाध्यक्षः पाकमुक्तं लवणभागं प्रक्रयं च यथाकालं सङ्गृह्णीयाद्, विक्रयाच्च मूल्यं रूपं व्याजीं च
  • 02.12.29 आगन्तुलवणं षड्भागं दद्यात्
  • 02.12.30 दत्तभागविभागस्य विक्रयः, पञ्चकं शतं व्याजीं रूपं रूपिकं च
  • 02.12.31 क्रेता शुल्कं राजपण्यच्छेदानुरूपं च वैधरणं दद्यात्, अन्यत्र क्रेता षट्छतं अत्ययं च
  • 02.12.32 विलवणं उत्तमं दण्डं दद्याद्, अनिषृष्ट उपजीवी चान्यत्र वानप्रस्थेभ्यः
  • 02.12.33 श्रोत्रियाः तपस्विनो विष्टयश्च भक्तलवणं हरेयुः
  • 02.12.34 अतोऽन्यो लवणक्षारवर्गः शुल्कं दद्यात्
  • 02.12.35ab एवं मूल्यं च भागं च व्याजीं परिघं अत्ययम् |
  • 02.12.35chd शुल्कं वैधरणं दण्डं रूपं रूपिकं एव च
  • 02.12.36ab खनिभ्यो द्वादशविधं धातुं पण्यं च संहरेत् |
  • 02.12.36chd एवं सर्वेषु पण्येषु स्थापयेन् मुखसङ्ग्रहम्
  • 02.12.37ab आकरप्रभः कोशः कोशाद् दण्डः प्रजायते |
  • 02.12.37chd पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ( इति)


    Chapt |   Superintendent of gold in the Rorkshop
  • 02.13.01 सुवर्णाध्यक्षः सुवर्णरजतकर्मान्तानां असम्बन्धावेशनचतुःशालां एकद्वारां अक्षशालां कारयेत्
  • 02.13.02 विशिखामध्ये सौवर्णिकं शिल्पवन्तं अभिजातं प्रात्ययिकं च स्थापयेत्
  • 02.13.03 जाम्बूनदं शातकुम्भं हाटकं वैणवं शृङ्गशुक्तिजं जातरूपं रसविद्धं आकर उद्गतं च सुवर्णम्
  • 02.13.04 किञ्जल्कवर्णं मृदु स्निग्धं अनादि भ्राजिष्णु च श्रेष्ठं, रक्तपीतकं मध्यमं, रक्तं अवरम्
  • 02.13.05 श्रेष्ठानां पाण्डु श्वेतं चाप्राप्तकम्
  • 02.13.06 तद् येनाप्राप्तकं तच्चतुर्गुणेन सीसेन शोधयेत्
  • 02.13.07 सीसान्वयेन भिद्यमानं शुष्कपटलैर्ध्मापयेत्
  • 02.13.08 रूक्षत्वाद् भिद्यमानं तैलगोमये निSएचयेत्
  • 02.13.09 आकर उद्गतं सीसान्वयेन भिद्यमानं पाकपत्त्राणि कृत्वा गण्डिकासु कुट्टयेत्, कदलीवज्रकन्दकल्के वा निSएचयेत्
  • 02.13.10 तुत्थ उद्गतं गौडिकं काम्बुकं चाक्रवालिकं च रूप्यम्
  • 02.13.11 श्वेतं स्निग्धं मृदु च श्रेष्ठम्
  • 02.13.12 विपर्यये स्फोटनं च दुष्टम्
  • 02.13.13 तत्सीसचतुर्भागेन शोधयेत्
  • 02.13.14 उद्गतचूलिकं अच्छं भ्राजिष्णु दधिवर्णं च शुद्धम्
  • 02.13.15 शुद्धस्य एको हारिद्रस्य सुवर्णो वर्णकः
  • 02.13.16 ततः शुल्बकाकण्य्.उत्तरापसारिता आचतुःसीमान्ताद् इति षोडश वर्णकाः
  • 02.13.17 सुवर्णं पूर्वं निकष्य पश्चाद् वर्णिकां निकषयेत्
  • 02.13.18 समरागलेखं अनिम्न उन्नते देशे निकषितं, परिमृदितं परिलीढं नखान्तराद् वा गैरिकेणावचूर्णितं उपधिं विद्यात्
  • 02.13.19 जातिहिङ्गुलुकेन पुष्पकासीसेन वा गोमूत्रभावितेन दिग्धेनाग्रहस्तेन संस्पृष्टं सुवर्णं श्वेतीभवति
  • 02.13.20 स-केसरः स्निग्धो मृदुर्भाजिष्णुश्च निकषरागः श्रेष्ठः
  • 02.13.21 कालिङ्गकः तापीपाषाणो वा मुद्गवर्णो निकषः श्रेष्ठः
  • 02.13.22 समरागी विक्रयक्रयहितः
  • 02.13.23 हस्तिच्छविकः सहरितः प्रतिरागी विक्रयहितः
  • 02.13.24 स्थिरः परुषो विषमवर्णश्चाप्रतिरागी क्रयहितः
  • 02.13.25 छेदश्चिक्कणः समवर्णः श्लक्ष्णो मृदुर्भाजिष्णुश्च श्रेष्ठः
  • 02.13.26 तापो बहिर्ऽन्तश्च समः किञ्जल्कवर्णः कुरण्डकपुष्पवर्णो वा श्रेष्ठः
  • 02.13.27 श्यावो नीलश्चाप्राप्तकः
  • 02.13.28 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः
  • 02.13.29 तेन उपदेशेन रूप्यसुवर्णं दद्याद् आददीत च
  • 02.13.30 अक्षशालां अनायुक्तो न उपगच्छेत्
  • 02.13.31 अभिगच्छन्न् उच्छेद्यः
  • 02.13.32 आयुक्तो वा सरूप्यसुवर्णः तेन एव जीयेत
  • 02.13.33 विचितवस्त्रहस्तगुह्याः काञ्चनपृषतत्वष्टृतपनीयकारवो ध्मायकचरकपांसुधावकाः प्रविशेयुर्निष्कसेयुश्च
  • 02.13.34 सर्वं च एषां उपकरणं अनिष्ठिताश्च प्रयोगाः तत्र एवावतिष्ठेरन्
  • 02.13.35 गृहीतं सुवर्णं धृतं च प्रयोगं करणमध्ये दद्यात्
  • 02.13.36 सायं प्रातश्च लक्षितं कर्तृकारयितृमुद्राभ्यां निदध्यात्
  • 02.13.37 क्षेपणो गुणः क्षुद्रकं इति कर्माणि
  • 02.13.38 क्षेपणः काचार्पणादीनि
  • 02.13.39 गुणः सूत्रवानादीनि
  • 02.13.40 घनं सुषिरं पृषतादियुक्तं क्षुद्रकं इति
  • 02.13.41 अर्पयेत् काचकर्मणः पञ्चभागं काञ्चनं दशभागं कटुमानम्
  • 02.13.42 ताम्रपादयुक्तं रूप्यं रूप्यपादयुक्तं वा सुवर्णं संस्कृतकं, तस्माद् रक्षेत्
  • 02.13.43 पृषतकाचकर्मणः त्रयो हि भागाः परिभाण्डं द्वौ वास्तुकं, चत्वारो वा वास्तुकं त्रयः परिभाण्डम्
  • 02.13.44 त्वष्टृकर्मणः शुल्बभाण्डं समसुवर्णेन सम्यूहयेत्
  • 02.13.45 रूप्यभाण्डं घनं सुषिरं वा सुवर्णार्धेनावलेपयेत्
  • 02.13.46 चतुर्भागसुवर्णं वा वालुकाहिङ्गुलुकस्य रसेन चूर्णेन वा वासयेत् |
  • 02.13.47 तपनीयं ज्येष्ठं सुवर्णं सुरागं समसीसातिक्रान्तं पाकपत्त्रपक्वं सैन्धविकया उज्ज्वालितं नीलपीतश्वेतहरितशुकपत्त्रवर्णानां प्रकृतिर्भवति
  • 02.13.48 तीक्ष्णं चास्य मयूरग्रीवाभं श्वेतभङ्गं चिमिचिमायितं पीतचूर्णितं काकणिकः सुवर्णरागः
  • 02.13.49 तारं उपशुद्धं वा - अस्थितुत्थे चतुः समसीसे चतुः शुष्कतुत्थे चतुः कपाले त्रिर्गोमये द्विरेवं सप्तदशतुत्थातिक्रान्तं सैन्धविकया उज्ज्वालितम्
  • 02.13.50 एतस्मात् काकण्य्.उत्तरमाद् विमाषाद् इति सुवर्णे देयं, पश्चाद् रागयोगः, श्वेततारं भवति |
  • 02.13.51 त्रयोऽंशाः तपनीयस्य द्वात्रिंशद्भागश्वेततारं ऊर्च्छिताः तत् श्वेतलोहितकं भवति
  • 02.13.52 ताम्रं पीतकं करोति
  • 02.13.53 तपनीयं उज्ज्वाल्य रागत्रिभागं दद्यात्, पीतरागं भवति
  • 02.13.54 श्वेततारभागौ द्वावेकः तपनीयस्य मुद्गवर्णं करोति
  • 02.13.55 कालायसस्यार्धभागाभ्यक्तं कृष्णं भवति
  • 02.13.56 प्रतिलेपिना रसेन द्विगुणाभ्यक्तं तपनीयं शुकपत्त्रवर्णं भवति
  • 02.13.57 तस्यारम्भे रागविशेषेषु प्रतिवर्णिकां गृह्णीयात्
  • 02.13.58 तीक्ष्णताम्रसंस्कारं च बुध्येत
  • 02.13.59 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां अपनेयिमानं च रूप्यसुवर्णभाण्डबन्धप्रमाणानि च
  • 02.13.60ab समरागं समद्वन्द्वं असक्तपृषतं स्थिरम् |
  • 02.13.60chd सुप्रमृष्टं असम्पीतं विभक्तं धारणे सुखम्
  • 02.13.61ab अभिनीतं प्रभायुक्तं संस्थानं अधुरं समम् |
  • 02.13.61chd मनोनेत्राभिरामं च तपनीयगुणाः स्मृताः ( इति)


    Chapt |   Activity of the goldsmitH in the market-highRaय्
  • 02.14.01 सौवर्णिकः पौरजानपदानां रूप्यसुवर्णं आवेशनिभिः कारयेत्
  • 02.14.02 निर्दिष्टकालकार्यं च कर्म कुर्युः, अनिर्दिष्टकालं कार्यापदेशम्
  • 02.14.03 कार्यस्यान्यथाकरणे वेतननाशः, तद्द्विगुणश्च दण्डः
  • 02.14.04 कालातिपातने पादहीनं वेतनं तद्द्विगुणश्च दण्डः
  • 02.14.05 यथावर्णप्रमाणं निक्षेपं गृह्णीयुः तथाविधं एवार्पयेयुः
  • 02.14.06 कालान्तराद् अपि च तथाविधं एव प्रतिगृह्णीयुः, अन्यत्र क्षीणपरिशीर्णाभ्याम्
  • 02.14.07 आवेशनिभिः सुवर्णपुद्गललक्षणप्रयोगेषु तत्तज् जानीयात्
  • 02.14.08 तप्तकलधौतकयोः काकणिकः सुवर्णे क्षयो देयः
  • 02.14.09 तीक्ष्णकाकणी - रूप्यद्विगुणः - रागप्रक्षेपः, तस्य षड्भागः क्षयः
  • 02.14.10 वर्णहीने माषावरे पूर्वः साहसदण्डः, प्रमाणहीने मध्यमः, तुलाप्रतिमान उपधावुत्तमः, कृतभाण्ड उपधौ च
  • 02.14.11 सौवर्णिकेनादृष्टं अन्यत्र वा प्रयोगं कारयतो द्वादशपणो दण्डः
  • 02.14.12 कर्तुर्द्विगुणः स-अपसारश्चेत्
  • 02.14.13 अनपसारः कण्टकशोधनाय नीयेत
  • 02.14.14 कर्तुश्च द्विशतो दण्डः पणच्छेदनं वा
  • 02.14.15 तुलाप्रतिमानभाण्डं पौतवहस्तात् क्रीणीयुः
  • 02.14.16 अन्यथा द्वादशपणो दण्डः
  • 02.14.17 घनं सुषिरं सम्यूह्यं अवलेप्यं सङ्घात्यं वासितकं च कारुकर्म
  • 02.14.18 तुलाविषमं अपसारणं विस्रावणं पेटकः पिङ्कश्च इति हरण उपायाः
  • 02.14.19 सम्नामिन्युत्कीर्णिका भिन्नमस्तक उपकण्ठी कुशिक्या सकटुकक्ष्या परिवेल्याऽयस्कान्ता च दुष्टतुलाः
  • 02.14.20 रूप्यस्य द्वौ भागावेकः शुल्बस्य त्रिपुटकम्
  • 02.14.21 तेनाकरोद् गतं अपसार्यते तत्त्रिपुटकापसारितम्
  • 02.14.22 शुल्बेन शुल्बापसारितं, वेल्लकेन वेल्लकापसारितं, शुल्बार्धसारेण हेम्ना हेमापसारितम्
  • 02.14.23 मूकमूषा पूतिकिट्टः करटुकमुखं नाली सन्दंशो जोङ्गनी सुवर्चिकालवणं तद् एव सुवर्णं इत्यपसारणमार्गाः
  • 02.14.24 पूर्वप्रणिहिता वा पिण्डवालुका मूषाभेदाद् अग्निष्ठाद् उद्ध्रियन्ते
  • 02.14.25 पश्चाद् बन्धने आचितकपत्त्रपरीक्षायां वा रूप्यरूपेण परिवर्तनं विस्रावणं, पिण्डवालुकानां लोहपिण्डवालुकाभिर्वा
  • 02.14.26 गाढश्चाभ्युद्धार्यश्च पेटकः सम्यूह्यावलेप्यसङ्घात्येषु क्रियते
  • 02.14.27 सीसरूपं सुवर्णपत्त्रेणावलिप्तं अभ्यन्तरं अष्टकेन बद्धं गाढपेटकः
  • 02.14.28 स एव पटलसम्पुटेष्वभ्युद्धार्यः
  • 02.14.29 पत्त्रं आश्लिष्टं यमकपत्त्रं वाऽवलेप्येषु क्रियते
  • 02.14.30 शुल्बं तारं वा गर्भः पत्त्राणां सङ्घात्येषु क्रियते
  • 02.14.31 शुल्बरूपं सुवर्णपत्त्रसंहतं प्रमृष्टं सुपार्श्वं, तद् एव यमकपत्त्रसंहतं प्रमृष्टं ताम्रताररुपं च उत्तरवर्णकः
  • 02.14.32 तद् उभयं तापनिकषाभ्यां निह्शब्द उल्लेखनाभ्यां वा विद्यात्
  • 02.14.33 अभ्युद्धार्यं बदराम्ले लवण उदके वा सादयन्ति इति पेटकः
  • 02.14.34 घने सुषिरे वा रूपे सुवर्णमृन्मालुकाहिङ्गुलुककल्पो वा तप्तोऽवतिष्ठते
  • 02.14.35 दृढवास्तुके वा रूपे वालुकामिश्रं जतु गान्धारपङ्को वा तप्तोऽवतिष्ठते
  • 02.14.36 तयोः तापनं अवध्वंसनं वा शुद्धिः
  • 02.14.37 स-परिभाण्डे वा रूपे लवणं उल्कया कटुशर्करया तप्तं अवतिष्ठते
  • 02.14.38 तस्य क्वाथनं शुद्धिः
  • 02.14.39 अभ्रपटलं अष्टकेन द्विगुणवास्तुके वा रूपे बध्यते
  • 02.14.40 तस्यापिहितकाचकस्य उदके निमज्जत एकदेशः सीदति, पटलान्तरेषु वा सूच्या भिद्यते
  • 02.14.41 मणयो रूप्यं सुवर्णं वा घनसुषिराणां पिङ्कः
  • 02.14.42 तस्य तापनं अवध्वंसनं वा शुद्धिः | इति पिङ्कः
  • 02.14.43 तस्माद् वज्रमणिमुक्ताप्रवालरूपाणां जातिरूपवर्णप्रमाणपुद्गललक्षणान्युपलभेत
  • 02.14.44 कृतभाण्डपरीक्षायां पुराणभाण्डप्रतिसंस्कारे वा चत्वारो हरण उपायाः - परिकुट्टनं अवच्छेदनं उल्लेखनं परिमर्दनं वा
  • 02.14.45 पेटकापदेशेन पृषतं गुणं पिटकां वा यत् परिशातयन्ति तत्परिकुट्टनम्
  • 02.14.46 यद्द्विगुणवास्तुकानां वा रूपे सीसरूपं प्रक्षिप्याभ्यन्तरं अवच्छिन्दन्ति तद् अवच्छेदनम्
  • 02.14.47 यद् घनानां तीक्ष्णेन उल्लिखन्ति तद् उल्लेखनम्
  • 02.14.48 हरितालमनःशिलाहिङ्गुलुकचूर्णानां अन्यतमेन कुरुविन्दचूर्णेन वा वस्त्रं सम्यूह्य यत् परिमृद्नन्ति तत् परिमर्दनम्
  • 02.14.49 तेन सौवर्णराजतानि भाण्डानि क्षीयन्ते, न च एषां किञ्चिद् अवरुग्णं भवति
  • 02.14.50 भग्नखण्डघृष्टानां सम्यूह्यानां सदृशेनानुमानं कुर्यात्
  • 02.14.51 अवलेप्यानां यावद् उत्पाटितं तावद् उत्पाट्यानुमानं कुर्यात्
  • 02.14.52 विरूपाणां वा तापनं उदकपेषणं च बहुशः कुर्यात्
  • 02.14.53 अवक्षेपः प्रतिमानं अग्निर्गण्डिका भण्डिकाधिकरणी पिञ्छः सूत्रं चेल्लं बोल्लनं शिर उत्सङ्गो मक्षिका स्वकाय ईक्षा दृतिरुदकशरावं अग्निष्ठं इति काचं विद्यात्
  • 02.14.54 राजतानां विस्रं मलग्राहि परुषं प्रस्तीनं विवर्णं वा दुष्टं इति विद्यात्
  • 02.14.55ab एवं नवं च जीर्णं च विरूपं चापि भाण्डकम् |
  • 02.14.55chd परीक्षेतात्ययं च एषां यथा उद्दिष्टं प्रकल्पयेत् ( इति)


    Chapt |   Superintendent of the magashin
  • 02.15.01 कोष्ठागाराध्यक्षः सीताराष्ट्रक्रयिमपरिवर्तकप्रामित्यकापमित्यकसंहनिकान्यजातव्ययप्रत्याय उपस्थानान्युपलभेत्
  • 02.15.02 सीताऽध्यक्ष उपनीतः सस्यवर्णकः सीता
  • 02.15.03 पिण्डकरः षड्भागः सेनाभक्तं बलिः कर उत्सङ्गः पार्श्वं पारिहीणिकं औपायनिकं कौष्ठेयकं च राष्ट्रम्
  • 02.15.04 धान्यमूल्यं कोशनिर्हारः प्रयोगप्रत्यादानं च क्रयिमम्
  • 02.15.05 सस्यवर्णानां अर्घान्तरेण विनिमयः परिवर्तकः
  • 02.15.06 सस्ययाचनं अन्यतः प्रामित्यकम्
  • 02.15.07 तद् एव प्रतिदानार्थं आपमित्यकम्
  • 02.15.08 कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तैलपीडनमौद्रचाक्रिकेष्विक्षूणां च क्षारकर्म संहनिका
  • 02.15.09 नष्टप्रस्मृतादिरन्यजातः
  • 02.15.10 विक्षेपव्याधितान्तरारम्भशेषं च व्ययप्रत्यायः
  • 02.15.11 तुलामानान्तरं हस्तपूरणं उत्करो व्याजी पर्युषितं प्रार्जितं च उपस्थानम् | इति
  • 02.15.12 धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताऽध्यक्षे वक्ष्यामः
  • 02.15.13 सर्पिस्तैलवसामज्जानः स्नेहाः
  • 02.15.14 फाणितगुडमत्स्यण्डिकाखण्डशर्कराः क्षारवर्गः
  • 02.15.15 सैन्धवसामुद्रबिडयवक्षारसौवर्चल उद्भेदजा लवणवर्गः
  • 02.15.16 क्षौद्रं मार्द्वीकं च मधु
  • 02.15.17 इक्षुरसगुडमधुफाणितजाम्बवपनसानां अन्यतमो मेषशृङ्गीपिप्पलीक्वाथाभिषुतो मासिकः षाण्मासिकः सांवत्सरिको वा चिद्भिटोर्वारुक इक्षुकाण्डाम्रफलामलकावसुतः शुद्धो वा शुक्तवर्गः
  • 02.15.18 वृक्षाम्लकरमर्दाम्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरूषकादिः फलाम्लवर्गः
  • 02.15.19 दधिधान्याम्लादिर्द्रवाम्लवर्गः
  • 02.15.20 पिप्पलीमरिचशृङ्गिबेराऽजाजीकिराततिक्तगौरसर्षपकुस्तुम्बुरुचोरकदमनकमरुवकशिग्रुकाण्डादिः कटुकवर्गः
  • 02.15.21 शुष्कमत्स्यमांसकन्दमूलफलशाकादि च शाकवर्गः
  • 02.15.22 ततोऽर्धं आपद्ऽर्थं जानपदानां स्थापयेद्, अर्धं उपयुञ्जीत
  • 02.15.23 नवेन चानवं शोधयेत्
  • 02.15.24 क्षुण्णघृष्टपिष्टभृष्टानां आर्द्रशुष्कसिद्धानां च धान्यानां वृद्धिक्षयप्रमाणानि प्रत्यक्षीकुर्वीत
  • 02.15.25 कोद्रवव्रीहीणां अर्धं सारः, शालीनां अर्धभाग ऊनः, त्रिभाग ऊनो वरकाणाम्
  • 02.15.26 प्रियङ्गूणां अर्धं सारो नवभागवृद्धिश्च
  • 02.15.27 उदारकः तुल्यः, यवा गोधूमाश्च क्षुण्णाः, तिला यवा मुद्गमाषाश्च घृष्टाः
  • 02.15.28 पञ्चभागवृद्धिर्गोधूमः, सक्तवश्च
  • 02.15.29 पाद ऊना कलायचमसी
  • 02.15.30 मुद्गमाषाणां अर्धपाद ऊना
  • 02.15.31 शौम्ब्यानां अर्धं सारः, त्रिभाग ऊनो मसूराणाम्
  • 02.15.32 पिष्टं आमं कुल्माषाश्चाध्यर्धगुणाः
  • 02.15.33 द्विगुणो यावकः, पुलाकः, पिष्टं च सिद्धम्
  • 02.15.34 कोद्रववरक उदारकप्रियङ्गूणां त्रिगुणं अन्नं, चतुर्गुणं व्रीहीणां, पञ्चगुणं शालीनाम्
  • 02.15.35 तिमितं अपरान्नं द्विगुणं, अर्धाधिकं विरूढानाम्
  • 02.15.36 पञ्चभागवृद्धिर्भृष्टानाम्
  • 02.15.37 कलायो द्विगुणः, लाजा भरुजाश्च
  • 02.15.38 षट्कं तैलं अतसीनाम्
  • 02.15.39 निम्बकुशाम्रकपित्थादीनां पञ्चभागः
  • 02.15.40 चतुर्भागिकाः तिलकुसुम्भमधूक इङ्गुदीस्नेहाः
  • 02.15.41 कार्पासक्षौमाणां पञ्चपले पलं सूत्रम्
  • 02.15.42 पञ्चद्रोणे शालीनां द्वादशाढकं तण्डुलानां कलभभोजनं, एकादशकं व्यालानां, दशकं औपवाह्यानां नवकं साम्नाह्यानां, अष्टकं पत्तीनां, सप्तकं मुख्यानां, षट्कं देवीकुमाराणां, पञ्चकं राज्ञां, अखण्डपरिशुद्धानां वा तुअण्डुलानां प्रस्थः
  • 02.15.43 तण्डुलानां प्रस्थः चतुर्भागः सूपः सूपषोडशो लवणस्यांशः चतुर्भागः सर्पिषः तैलस्य वा एकं आर्यभक्तं पुंसः
  • 02.15.44 षड्भागः सूपः अर्धस्नेहं अवराणाम्
  • 02.15.45 पाद ऊनं स्त्रीणाम्
  • 02.15.46 अर्धं बालानाम्
  • 02.15.47 मांसपलविंशत्या स्नेहार्धकुडुबः पलिको लवणस्यांशः क्षारपलयोगो द्विधरणिकः कटुकयोगो दध्नुश्चार्धप्रस्थः
  • 02.15.48 तेन उत्तरं व्याख्यातम्
  • 02.15.49 शाकानां अध्यर्धगुणः, शुष्काणां द्विगुणः, स चैव योगः
  • 02.15.50 हस्त्य्ऽश्वयोः तद्ऽध्यक्षे विधाप्रमाणं वक्ष्यामः
  • 02.15.51 बलीवर्दानां माषद्रोणं यवानां वा पुलाकः, शेषं अश्वविधानम्
  • 02.15.52 विशेषो घाणपिण्याकतुला, कणकुण्डकं दशाढकं वा
  • 02.15.53 द्विगुणं महिष उष्ट्राणाम्
  • 02.15.54 अर्धद्रोणं खरपृषतरोहितानाम्
  • 02.15.55 आढकं एणकुरङ्गाणाम्
  • 02.15.56 अर्धाढकं अज एडकवराहाणां, द्विगुणं वा कणकुण्डकम्
  • 02.15.57 प्रस्थोदनः शुनाम्
  • 02.15.58 हंसक्रौञ्चमयूराणां अर्धप्रस्थः
  • 02.15.59 शेषाणां अतो मृगपशुपक्षिव्यालानां एकभक्ताद् अनुमानं ग्राहयेत्
  • 02.15.60 अङ्गारांः तुषान् लोहकर्मान्तभित्तिलेप्यानां हारयेत्
  • 02.15.61 कणिका दासकर्मकरसूपकाराणां, अतोऽन्यद् औदनिकापूपिकेभ्यः प्रयच्छेत्
  • 02.15.62 तुलामानभाण्डं रोचनीदृषन्मुसल उलूखलकुट्टकरोचकयन्त्रपत्त्रकशूर्पचालनिकाकण्डोलीपिटकसम्मार्जन्यश्च उपकरणानि
  • 02.15.63 मार्जकरक्षकधरकमायकमापकदायकदापकशलाकाप्रतिग्राहकदासकर्मकरवर्गश्च विष्टिः
  • 02.15.64ab उच्चैर्धान्यस्य निक्षेपो मूताः क्षारस्य संहताः |
  • 02.15.64chd मृत्काष्ठकोष्ठाः स्नेहस्य पृथिवी लवणस्य च ( इति)


    Chapt |   Director of trade
  • 02.16.01 पण्याध्यक्षः स्थलजलजानां नानाविधानां पण्यानां स्थलपथवारिपथ उपयातानां सारफल्ग्व्ऽर्घान्तरं प्रियाप्रियतां च विद्यात्, तथा विक्षेपसङ्क्षेपक्रयविक्रयप्रयोगकालान्
  • 02.16.02 यच्च पण्यं प्रचुरं स्यात् तद् एकीकृत्यार्घं आरोपयेत्
  • 02.16.03 प्राप्तेऽर्घे वाऽर्घान्तरं कारयेत्
  • 02.16.04 स्वभूमिजानां राजपण्यानां एकमुखं व्यवहारं स्थापयेत्, परभूमिजानां अनेकमुखम्
  • 02.16.05 उभयं च प्रजानां अनुग्रहेण विक्रापयेत्
  • 02.16.06 स्थूलं अपि च लाभं प्रजानां औपघातिकं वारयेत्
  • 02.16.07 अजस्रपण्यानां काल उपरोधं सङ्कुलदोषं वा न उत्पादयेत्
  • 02.16.08 बहुमुखं वा राजपण्यं वैदेहकाः कृतार्घं विक्रीणीरन्
  • 02.16.09 छेदानुरूपं च वैधरणं दद्युः
  • 02.16.10 षोडशभागो मानव्याजी, विंशतिभागः तुलामानं, गण्यपण्यानां एकादशभागः
  • 02.16.11 परभूमिजं पण्यं अनुग्रहेणावाहयेत्
  • 02.16.12 नाविकसार्थवाहेभ्यश्च परिहारं आयतिक्षमं दद्यात्
  • 02.16.13 अनभियोगश्चार्थेष्वागन्तूनां, अन्यत्र सभ्या उपकारिभ्यः
  • 02.16.14 पण्याधिष्ठातारः पण्यमूल्यं एकमुखं काष्ठद्रोण्यां एकच्छिद्रापिधानायां निदध्युः
  • 02.16.15 अह्नश्चाष्टमे भागे पण्याध्यक्षस्यार्पयेयुः - इदं विक्रीतं, इदं शेषम् इति
  • 02.16.16 तुलामानभाण्डं चार्पयेयुः
  • 02.16.17 इति स्वविषये व्याख्यातम्
  • 02.16.18 परविषये तु - पण्यप्रतिपण्ययोरर्घं मूल्यं चागमय्य शुल्कवर्तन्याऽऽतिवाहिकगुल्मतरदेयभक्तभागव्ययशुद्धं उदयं पश्येत्
  • 02.16.19 असत्युदये भाण्डनिर्वहणेन पण्यप्रतिपण्यानयनेन वा लाभं पश्येत्
  • 02.16.20 ततः सारपादेन स्थलव्यवहारं अध्वना क्षेमेण प्रयोजयेत्
  • 02.16.21 अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेद् अनुग्रहार्थम्
  • 02.16.22 आपदि सारं आत्मानं वा मोक्षयेत्
  • 02.16.23 आत्मनो वा भूमिं प्राप्तः सर्वदेयविशुद्धं व्यवहरेत
  • 02.16.24 वारिपथे वा यानभागकपथ्य्ऽदनपण्यप्रतिपण्यार्घप्रमाणयात्राकालभयप्रतीकारपण्यपत्तनचारित्राण्युपलभेत
  • 02.16.25ab नदीपथे च विज्ञाय व्यवहारं चरित्रतः |
  • 02.16.25chd यतो लाभः ततो गच्छेद् अलाभं परिवर्जयेत् ( इति)


    Chapt |   Director of forest produce
  • 02.17.01 कुप्याध्यक्षो द्रव्यवनपालैः कुप्यं आनाययेत्
  • 02.17.02 द्रव्यवनकर्मान्तांश्च प्रयोजयेत्
  • 02.17.03 द्रव्यवनच्छिद्रां च देयं अत्ययं च स्थापयेद् अन्यत्रापद्भ्यः
  • 02.17.04 कुप्यवर्गः - शाकतिनिशधन्वनार्जुनमधूकतिलकसालशिंशपाऽरिमेदराजादनशिरीषखदिरसरलतालसर्जाश्वकर्णसोमवल्ककुशाम्रप्रियकधवादिः सारदारुवर्गः
  • 02.17.05 उटजचिमियचापवेणुवंशसातिनकण्टकभाल्लूकादिर्वेणुवर्गः
  • 02.17.06 वेत्रशीकवल्लीवाशीश्यामलतानागलताऽऽदिर्वल्लीवर्गः
  • 02.17.07 मालतीमूर्वाऽर्कशणगवेधुकाऽतस्य्ऽअदिर्वल्कवर्गः
  • 02.17.08 मुञ्जबल्बजादि रज्जुभाण्डम्
  • 02.17.09 तालीतालभूर्जानां पत्त्रम्
  • 02.17.10 किंशुककुसुम्भकुङ्कुमानां पुष्पम्
  • 02.17.11 कन्दमूलफलादिरौषधवर्गः
  • 02.17.12 कालकूटवत्सनाभहालाहलमेषशृङ्गमुस्ताकुष्ठमहाविषवेल्लितकगौरार्द्रबालकमार्कटहैमवतकालिङ्गकदारदकाङ्कोलसारक उष्ट्रकादीनि विषाणि, सर्पाः कीटाश्च त एव कुम्भगताः विषवर्गः
  • 02.17.13 गोधासेरकद्वीप्य्.ऋक्षशिंशुमारसिंहव्याघ्रहस्तिमहिषचमरसृमरखड्गगोमृगगवयानां चर्मास्थिपित्तस्नाय्व्ऽक्षिदन्तशृङ्गखुरपुच्छानि, अन्येषां वाऽपि मृगपशुपक्षिव्यालानाम्
  • 02.17.14 कालायसताम्रवृत्तकंससीसत्रपुवैकृन्तकारकूटानि लोहानि
  • 02.17.15 विदलमृत्तिकामयं भाण्डम्
  • 02.17.16 अङ्गारतुषभस्मानि, मृगपशुपक्षिव्यालवाटाः काष्ठतृणवाटाश्च | इति
  • 02.17.17ab बहिरन्तश्च कर्मान्ता विभक्ताः सार्वभाण्डिकाः |
  • 02.17.17chd आजीवपुररक्षाऽर्थाः कार्याः कुप्य उपजीविना ( इति)


    Chapt |   Superintendent of the armourय्
  • 02.18.01 आयुधागाराध्यक्षः साङ्ग्रामिकं दौर्गकर्मिकं परपुराभिघातिकं च यन्त्रं आयुधं आवरणं उपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारयेत्, स्वभूमिषु च स्थापयेत्
  • 02.18.02 स्थानपरिवर्तनं आतपप्रवातप्रदानं च बहुशः कुर्यात्
  • 02.18.03 ऊष्म उपस्नेहक्रिमिभिरुपहन्यमानं अन्यथा स्थापयेत्
  • 02.18.04 जातिरूपलक्षणप्रमाणागममूल्यनिक्षेपैश्च उपलभेत
  • 02.18.05 सर्वतोभद्रजामदग्न्यबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्यकबाहु.ऊर्ध्वबाह्व्ऽर्धबाहूनि स्थितयन्त्राणि
  • 02.18.06 पाञ्चालिकदेवदण्डसूकरिकामुसलयष्टिहस्तिवारकतालवृन्तमुद्गरगदास्पृक्तलाकुद्दालास्फाटिम उत्पाटिम उद्घाटिमशतघ्नित्रिशूलचक्राणि चलयन्त्राणि
  • 02.18.07 शक्तिप्रासकुन्तहाटकभिण्डिपालशूलतोमरवराहकर्णकणयकर्पणत्रासिकादीनि च हुलमुखानि
  • 02.18.08 तालचापदारवशार्ङ्गाणि कार्मुककोदण्डद्रूणा धनूंषि
  • 02.18.09 मूर्वाऽर्कशनगवेधुवेणुस्नायूनि ज्याः
  • 02.18.10 वेणुशरशलाकादण्डासननाराचाश्च इषवः
  • 02.18.11 तेषां मुखानि छेदनभेदनताडनान्यायसास्थिदारवाणि
  • 02.18.12 निस्त्रिंशमण्डलाग्रासियष्टयः खड्गाः
  • 02.18.13 खड्गमहिषवारणविषाणदारुवेणुमूलानि त्सरवः
  • 02.18.14 परशुकुठारपट्टसखनित्रकुद्दालक्रकचकाण्डच्छेदनाः क्षुरकल्पाः
  • 02.18.15 यन्त्रगोष्पणमुष्टिपाषाणरोचनीदृषदश्चाश्मायुधानि
  • 02.18.16 लोहजालिकापट्टकवचसूत्रकङ्कटशिंशुमारकखड्गिधेनुकहस्तिगोचर्मखुरशृङ्गसङ्घातं वर्माणि
  • 02.18.17 शिरस्त्राणकण्ठत्राणकूर्पासकञ्चुकवारवाणपट्टनाग उदरिकाः पेटीचर्महस्तिकर्णतालमूलधमनिकाकपाटकिटिकाऽप्रतिहतबलाहकान्ताश्चावरणाणि
  • 02.18.18 हस्तिरथवाजिनां योग्याभाण्डं आलङ्कारिकं सम्नाहकल्पनाश्च उपकरणानि
  • 02.18.19 ऐन्द्रजालिकं औपनिषदिकं च कर्म
  • 02.18.20ab कर्मान्तानां च - इच्छां आरम्भनिष्पत्तिं प्रयोगं व्याजं उद्दयम् |
  • 02.18.20chd क्षयव्ययौ च जानीयात् कुप्यानां आयुध ईश्वरः ( इति)


    Chapt |   Standardization of Rights and measures
  • 02.19.01 पौतवाध्यक्षः पौतवकर्मान्तान् कारयेत्
  • 02.19.02 धान्यमाषा दश सुवर्णमाषकः, पञ्च वा गुञ्जाः
  • 02.19.03 ते षोडश सुवर्णः कर्षो वा
  • 02.19.04 चतुष्कर्षं पलम्
  • 02.19.05 अष्टाशीतिर्गौरसर्षपा रूप्यमाषकः
  • 02.19.06 ते षोडश धरणं, शौम्ब्यानि वा विंशतिः
  • 02.19.07 विंशतितण्डुलं वज्रधरणम्
  • 02.19.08 अर्धमाषकः माषकः द्वौ चत्वारः अष्टौ माषकाः सुवर्णो द्वौ चत्वारः, अष्टौ सुवर्णाः दश विंशतिः त्रिंशत् चत्वारिंशत् शतं इति
  • 02.19.09 तेन धरणानि व्याख्यातानि
  • 02.19.10 प्रतिमानान्ययोमयानि मागधमेकलशैलमयानि यानि वा न उदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा ह्रासम्
  • 02.19.11 षडङ्गुलाद् ऊर्ध्वं अष्टाङ्गुल उत्तरा दश तुलाः कारयेत् लोहपलाद् ऊर्ध्वं एकपल उत्तराः, यन्त्रं उभयतःशिक्यं वा
  • 02.19.12 पञ्चत्रिंशत्पललोहां द्विसप्तत्य्ऽङ्गुलायामां समवृत्तां कारयेत्
  • 02.19.13 तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत्
  • 02.19.14 ततः कर्ष उत्तरं पलं पल उत्तरं दशपलं द्वादश पञ्चदश विंशतिरिति पदानि कारयेत्
  • 02.19.15 तत आशताद् दश उत्तरं कारयेत्
  • 02.19.16 अक्षेषु नान्दीपिनद्धं कारयेत्
  • 02.19.17 द्विगुणलोहां तुलां अतः षण्णवत्य्ऽङ्गुलायामां परिमाणीं कारयेत्
  • 02.19.18 तस्याः शतपदाद् ऊर्ध्वं विंशतिः पञ्चाशत् शतं इति पदानि कारयेत्
  • 02.19.19 विंशतितौलिको भारः
  • 02.19.20 दशधारणिकं पलम्
  • 02.19.21 तत्पलशतं आयमानी
  • 02.19.22 पञ्चपलावरा व्यावहारिकी भाजन्यन्तःपुरभाजनी च
  • 02.19.23 तासां अर्धधरणावरं पलं, द्विपलावरं उत्तरलोहं, षड्ऽङ्गुलावराश्चायामाः
  • 02.19.24 पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम्
  • 02.19.25 काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठिता
  • 02.19.26 काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम्
  • 02.19.27 एष प्रदेशो बह्व्ऽल्पयोः
  • 02.19.28 इति तुलाप्रतिमानं व्याख्यातम्
  • 02.19.29 अथ धान्यमाषद्विपलशतं द्रोणं आयमानं, सप्ताशीतिपलशतं अर्धपलं च व्यावहारिकं, पञ्चसप्ततिपलशतं भाजनीयं, द्विषष्टिपलशतं अर्धपलं चान्तःपुरभाजनीयम्
  • 02.19.30 तेषां आढकप्रस्थकुडुबाश्चतुर्भागावराः
  • 02.19.31 षोडशद्रोणा खारी
  • 02.19.32 विंशतिद्रोणिकः कुम्भः
  • 02.19.33 कुम्भैर्दशभिर्वहः
  • 02.19.34 शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत्, अन्तःशिखं वा
  • 02.19.35 रसस्य तु सुरायाः पुष्पफलयोः तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुण उत्तरा वृद्धिः
  • 02.19.36 स-पादपणो द्रोणमूल्यं आढकस्य पाद ऊनः, षण्माषकाः प्रस्थस्य, माषकः कुडुबस्य
  • 02.19.37 द्विगुणं रसादीनां मानमूल्यम्
  • 02.19.38 विंशतिपणाः प्रतिमानस्य
  • 02.19.39 तुलामूल्यं त्रिभागः
  • 02.19.40 चतुर्मासिकं प्रातिवेधनिकं कारयेत्
  • 02.19.41 अप्रतिविद्धस्यात्ययः स-पादः सप्तविंशतिपणः
  • 02.19.42 प्रातिवेधनिकं काकणीकं अहरहः पौतवाध्यक्षाय दद्युः
  • 02.19.43 द्वात्रिंशद्भागः तप्तव्याजी सर्पिषः, चतुःषष्टिभागः तैलस्य
  • 02.19.44 पञ्चाशद् भागो मानस्रावो द्रवाणाम्
  • 02.19.45 कुडुबार्धचतुर्ऽष्टभागानि मानानि कारयेत्
  • 02.19.46 कुडुबाश्चतुर्ऽशीतिर्वारकः सर्पिषो मतः
  • 02.19.47 चतुःषष्टिः तु तैलस्य पादश्च घटिकाऽनयोः


    Chapt |   Measures of space and time
  • 02.20.01 मानाध्यक्ष्यो देशकालमानं विद्यात्
  • 02.20.02 अष्टौ परमाणवो रथचक्रविप्रुट्
  • 02.20.03 ता अष्टौ लिक्षा
  • 02.20.04 ता अष्तौ यूका
  • 02.20.05 ता अष्टौ यवमध्यः
  • 02.20.06 अष्टौ यवमध्या अङ्गुलम्
  • 02.20.07 मध्यमस्य पुरुषस्य मध्यमाया अनुगुल्या मध्यप्रकर्षो वाऽङ्गुलम्
  • 02.20.08 चतुर्ऽङ्गुलो धनुर्ग्रहः
  • 02.20.09 अष्टाङ्गुला धनुर्मुष्टिः
  • 02.20.10 द्वादशाङ्गुला वितस्तिः, छायापौरुषं च
  • 02.20.11 चतुर्दशाङ्गुलं शमः शलः परीरयः पदं च
  • 02.20.12 द्विवितस्तिररत्निः प्राजापत्यो हस्तः
  • 02.20.13 स-धनुर्ग्रहः पौतवविवीतमानम्
  • 02.20.14 स-धनुर्मुष्टिः कुष्कुः कंसो वा
  • 02.20.15 द्विचत्वारिंशद्ऽङ्गुलः तक्ष्णः क्राकचनिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम्
  • 02.20.16 चतुष्पञ्चाशद्ऽङ्गुलः कूप्यवनहस्तः
  • 02.20.17 चतुर्ऽशीत्य्ऽङ्गुलो व्यामो रज्जुमानं खातपौरुषं च
  • 02.20.18 चतुर्ऽरत्निर्दण्डो धनुर्नालिका पौरुषं च गार्हपत्यम्
  • 02.20.19 अष्टशताङ्गुलं धनुः पथिप्राकारमानं पौरुषं चाग्निचित्यानाम्
  • 02.20.20 षट्कंसो दण्डो ब्रह्मदेयातिथ्यमानम्
  • 02.20.21 दशदण्डो रज्जुः
  • 02.20.22 द्विरज्जुकः परिदेशः
  • 02.20.23 त्रिरज्जुकं निवर्तनं एकतः
  • 02.20.24 द्विदण्डाधिको बाहुः
  • 02.20.25 द्विधनुःसहस्रं गोरुतम्
  • 02.20.26 चतुर्गोरुतं योजनम्
  • 02.20.27 इति देशमानम्
  • 02.20.28 कालमानं अत ऊर्ध्वम्
  • 02.20.29 तुटो लवो निमेषः काष्ठा कल्ला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगं इति कालाः
  • 02.20.30 द्वौ तुटौ लवः
  • 02.20.31 द्वौ लवौ निमेषः
  • 02.20.32 पञ्चनिमेषाः काष्ठाः
  • 02.20.33 त्रिंशत्काष्ठाः कलाः
  • 02.20.34 चत्वारिंशत्कलाः नालिका
  • 02.20.35 सुवर्णमाषकाश्चत्वारश्चतुर्ऽङ्गुलायामाः कुम्भच्छिद्रं आढकं अम्भसो वा नालिका
  • 02.20.36 द्विनालिको मुहूर्तः
  • 02.20.37 पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे चाश्वयुजे च मासि भवतः
  • 02.20.38 ततः परं त्रिभिर्मुहूर्तैरन्यतरः षण्मासं वर्धते ह्रसते च इति
  • 02.20.39 छायायां अष्टपौरुष्यां अष्टादशभागश्छेदः, षट्पौरुष्यां चतुर्दशभागः, त्रिपौरुष्यां अष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागः, अष्टाङ्गुलायां त्रयो दशभागाः, चतुर्ऽङ्गुलायां त्रयोऽष्टभागाः, अच्छायो मध्याह्न इति
  • 02.20.40 परावृत्ते दिवसे शेषं एवं विद्यात्
  • 02.20.41 आषाढे मासि नष्टच्छायो मध्याह्नो भवति
  • 02.20.42 अतः परं श्रावणादीनां षण्मासानां द्व्य्ऽङ्गुल उत्तरा माघादीनां द्व्य्ऽङ्गुलावरा छाया इति
  • 02.20.43 पञ्चदशाहोरात्राः पक्षः
  • 02.20.44 सोमाप्यायनः शुक्लः
  • 02.20.45 सोमावच्छेदनो बहुलः
  • 02.20.46 द्विपक्षो मासः
  • 02.20.47 त्रिंशद्ऽहोरात्रः कर्ममासः
  • 02.20.48 स-अर्धः सौरः
  • 02.20.49 अर्धन्यूनश्चान्द्रमासः
  • 02.20.50 सप्तविंशतिर्नाक्षत्रमासः
  • 02.20.51 द्वात्रिंशद् बलमासः
  • 02.20.52 पञ्चत्रिंशद् अश्ववाहायाः
  • 02.20.53 चत्वारिंशद्धस्तिवाहायाः
  • 02.20.54 द्वौ मासावृतुः
  • 02.20.55 श्रावणः प्रौष्ठपदश्च वर्षाः
  • 02.20.56 आश्वयुजः कार्त्तिकश्च शरत्
  • 02.20.57 मार्गशीर्षः पौषश्च हेमन्तः
  • 02.20.58 माघः फाल्गुनश्च शिशिरः
  • 02.20.59 चैत्रो वैशाखश्च वसन्तः
  • 02.20.60 ज्येष्ठामूलीय आषाढश्च ग्रीष्मः
  • 02.20.61 शिशिराद्युत्तरायणम्
  • 02.20.62 वर्षादि दक्षिणायनम्
  • 02.20.63 द्व्य्ऽयनः संवत्सरः
  • 02.20.64 पञ्चसंवत्सरो युगम् | इति
  • 02.20.65ab दिवसस्य हरत्यर्कः षष्टिभागं ऋतौ ततः |
  • 02.20.65chd करोत्येकं अहश्छेदं तथा एव एकं च चन्द्रमाः
  • 02.20.66ab एवं अर्धतृतीयानां अब्दानां अधिमासकम् |
  • 02.20.66chd ग्रीष्मे जनयतः पूर्वं पञ्चाब्दान्ते च पश्चिमम् ( इति)


    Chapt |   Collector of chostums and tolls
  • 02.21.01 शुल्काध्यक्षः शुल्कशालां ध्वजं च प्रान्मुखं उदन्मुखं वा महाद्वाराभ्याशे निवेशयेत्
  • 02.21.02 शुल्कादायिनश्चत्वारः पञ्च वा सार्थ उपयातान् वणिजो लिखेयुः - के कुतस्त्याः कियत्पण्याः क्व चाभिज्ञानं मुद्रा वा कृता इति
  • 02.21.03 अमुद्राणां अत्ययो देयद्विगुणः
  • 02.21.04 कूटमुद्राणां शुल्काष्टगुणो दण्डः
  • 02.21.05 भिन्नमुद्राणां अत्ययो घटिकास्थाने स्थानम्
  • 02.21.06 राजमुद्रापरिवर्तने नामकृते वा स-पादपणिकं वहनं दापयेत्
  • 02.21.07 ध्वजमूल उपस्थितस्य प्रमाणं अर्घं च वैदेहिकाः पण्यस्य ब्रूयुः एतत्प्रमाणेनार्घेण पण्यं इदं कः क्रेता इति
  • 02.21.08 त्रिरुद्ध उषितं अर्थिभ्यो दद्यात्
  • 02.21.09 क्रेतृसङ्घर्षे मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्
  • 02.21.10 शुल्कभयात् पण्यप्रमाण मूल्यं वा हीनं ब्रुवतः तद् अतिरिक्तं राजा हरेत्
  • 02.21.11 शुल्कं अष्टगुणं वा दद्यात्
  • 02.21.12 तद् एव निविष्टपण्यस्य भाण्डस्य हीनप्रतिवर्णकेनार्घापकर्षणे सारभाण्डस्य फल्गुभाण्डेन प्रतिच्छादने च कुर्यात्
  • 02.21.13 प्रतिक्रेतृभयाद् वा पण्यमूल्याद् उपरि मूल्यं वर्धयतो मूल्यवृद्धिं राजा हरेत्, द्विगुणं वा शुल्कं कुर्यात्
  • 02.21.14 तद् एवाष्टगुणं अध्यक्षस्यच् | छादयतः
  • 02.21.15 तस्माद् विक्रयः पण्यानां धृतो मितो गणितो वा कार्यः, तर्कः फल्गुभाण्डानां आनुग्राहिकाणां च
  • 02.21.16 ध्वजमूलं अतिक्रान्तानां चाकृतशुल्कानां शुल्काद् अष्टगुणो दण्डः
  • 02.21.17 पथिक उत्पथिकाः तद् विद्युः
  • 02.21.18 वैवाहिकं अन्वायनं औपायिकं यज्ञकृत्यप्रसवनैमित्तिकं देव इज्याचौल उपनयनगोदानव्रतदीक्षाऽऽदिषु क्रियाविशेषेषु भाण्डं उच्छुल्कं गच्छेत्
  • 02.21.19 अन्यथावादिनः स्तेयदण्डः
  • 02.21.20 कृतशुल्केनाकृतशुल्कं निर्वाहयतो द्वितीयं एकमुद्रया भित्त्वा पण्यपुटं अपहरतो वैदेहकस्य तच्च तावच्च दण्डः
  • 02.21.21 शुल्कस्थानाद् गोमयपलालं प्रमाणं कृत्वाऽपहरत उत्तमः साहसदण्डः
  • 02.21.22 शस्त्रवर्मकवचलोहरथरत्नधान्यपशूनां अन्यतमं अनिर्वाह्यं निर्वाहयतो यथाऽवघुषितो दण्डः पण्यनाशश्च
  • 02.21.23 तेषां अन्यतमस्यानयने बहिरेव उच्छुल्को विक्रयः
  • 02.21.24 अन्तपालः स-पादपणिकां वर्तनीं गृह्णीयात् पण्यवहनस्य, पणिकां एकखुरस्य, पशूनां अर्धपणिकां क्षुद्रपशूनां पादिकां, अंसभारस्य माषिकाम्
  • 02.21.25 नष्टापहृतं च प्रतिविदध्यात्
  • 02.21.26 वैदेश्यं सार्थं कृतसारफल्गुभाण्डविचयनं अभिज्ञानं मुद्रां च दत्त्वा प्रेषयेद् अध्यक्षस्य
  • 02.21.27 वैदेहकव्यञ्जनो वा सार्थप्रमाणं राज्ञः प्रेषयेत्
  • 02.21.28 तेन प्रदेशेन राजा शुल्काध्यक्षस्य सार्थप्रमाणं उपदिशेत् सर्वज्ञख्यापनार्थम्
  • 02.21.29 ततः सार्थं अध्यक्षोऽभिगम्य ब्रूयात् इदं अमुष्यां उष्य च सारभाण्डं फल्गुभाण्डं च, न निहूहितव्यं, एष राज्ञः प्रभावः इति
  • 02.21.30 निहूहतः फल्गुभाण्डं शुल्काष्टगुणो दण्डः, सारभाण्डं सर्वापहारः
  • 02.21.31ab राष्ट्रपीडाकरं भाण्डं उच्छिन्द्याद् अफलं च यत् |
  • 02.21.31chd महा उपकारं उच्छुल्कं कुर्याद् बीजं च दुर्लभम् ( इति)


    Chapt |   Tariff of duties and tolls
  • 02.22.01 बाह्यं आभ्यन्तरं चातिथ्यम्
  • 02.22.02 निष्क्राम्यं प्रवेश्यं च शुल्कम्
  • 02.22.03 प्रवेश्यानां मूल्यपञ्चभागः
  • 02.22.04 पुष्पफलशाकमूलकन्दवाल्लिक्यबीजशुष्कमत्स्यमांसानां षड्भागं गृह्णीयात्
  • 02.22.05 शङ्खवज्रमणिमुक्ताप्रवालहाराणां तज्जातपुरुषैः कारयेत् कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः
  • 02.22.06 क्षौमदुकूलक्रिमितानकङ्कटहरितालमनःशिलाऽञ्जनहिङ्गुलुकलोहवर्णधातूनां चन्दनागुरुकटुककिण्वावराणां चर्मदन्तास्तरणप्रावरणक्रिमिजातानां आज एडकस्य च दशभागः पञ्चदशभागो वा
  • 02.22.07 वस्त्रचतुष्पदद्विपदसूत्रकार्पासगन्धभैषज्यकाष्ठवेणुवल्कलचर्ममृद्भाण्डानां धान्यस्नेहक्षारलवणमद्यपक्वान्नादीनां च विंशतिभागः पञ्चविंशतिभागो वा
  • 02.22.08 द्वारादेयं शुल्कं पञ्चभागः आनुग्राहिकं वा यथादेश उपकारं स्थापय्तेत्
  • 02.22.09 जातिभूमिषु च पण्यानां विक्रयः
  • 02.22.10 खनिभ्यो धातुपण्यादाने षट्छतं अत्ययः
  • 02.22.11 पुष्पफलवाटेभ्यः पुष्पफलादाने चतुष्पञ्चाशत्पणो दण्डः
  • 02.22.12 षण्डेभ्यः शाकमूलकन्दादाने पाद ऊनं द्विपञ्चाशत्पणो दण्डः
  • 02.22.13 क्षेत्रेभ्यः सर्वसस्यादाने त्रिपञ्चाशत्पणः
  • 02.22.14 पणोऽध्यर्धपणश्च सीताऽत्ययः
  • 02.22.15ab अतो नवपुराणां देशजातिचरित्रतः |
  • 02.22.15chd पण्यानां स्थापयेच्शुक्लं अत्ययं चापकारतः ( इति)


    Chapt |   Superintendent of yarns (and textiles) 
  • 02.23.01 सूत्राध्यक्षः सूत्रवर्मवस्त्ररज्जुव्यवहारं तज्जातपुरुषैः कारयेत्
  • 02.23.02 ऊर्णावल्ककार्पासतूलशणक्षौमाणि च विधवान्यङ्गाकन्याप्रव्रजितादण्डप्रतिकारिणीभी रूपाजीवामातृकाभिर्वृद्धराजदासीभिर्व्युपरत उपस्थानदेवदासीभिश्च कर्तयेत्
  • 02.23.03 श्लक्ष्णस्थूलमध्यतां च सूत्रस्य विदित्वा वेतनं कल्पयेत्, बह्व्ऽल्पतां च
  • 02.23.04 सूत्रप्रमाण ज्ञात्वा तैलामलक उद्वर्तनैरेता अनुगृह्णीयात्
  • 02.23.05 तिथिषु प्रतिमानदानैश्च कर्म कारयितव्याः
  • 02.23.06 सूत्रह्रासे वेतनह्रासो द्रव्यसारात्
  • 02.23.07 कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभिः कारुभिश्च कर्म कारयेत्, प्रतिसंसर्गं च गच्छेत्
  • 02.23.08 क्षौमदुकूलक्रिमितानराङ्कवकार्पाससूत्रवानकर्मान्तांश्च प्रयुञ्जानो गन्धमाल्यदानैरन्यैश्चाउपग्राहिकैराराधयेत्
  • 02.23.09 वस्त्रास्तरणप्रावरणविकल्पान् उत्थापयेत्
  • 02.23.10 कङ्कटकर्मान्तांश्च तज्जातकारुशिल्पिभिः कारयेत्
  • 02.23.11 याश्चानिष्कासिन्यः प्रोषिता विधवा न्यङ्गाः कन्यका वाऽऽत्मानं बिभृयुः ताः स्वदासीभिरनुसार्य स-उपग्रहं कर्म कारयितव्याः
  • 02.23.12 स्वयं आगच्छन्तीनां वा सूत्रशालां प्रत्युषसि भाण्डवेतनविनिमयं कारयेत्
  • 02.23.13 सूत्रपरीक्षाऽर्थमात्रः प्रदीपः
  • 02.23.14 स्त्रिया मुखसन्दर्शनेऽन्यकार्यसम्भाषायां वा पूर्वः साहसदण्डः, वेतनकालातिपातने मध्यमः, अकृतकर्मवेतनप्रदाने च
  • 02.23.15 गृहीत्वा वेतनं कर्माकुर्वत्या अङ्गुष्ठसन्दंशं दापयेत्, भक्षितापहृतावस्कन्दितानां च
  • 02.23.16 वेतनेषु च कर्मकराणां अपराधतो दण्डः
  • 02.23.17 रज्जुवर्तकैर्वर्मकारैश्च स्वयं संसृज्येत
  • 02.23.18 भाण्डानि च वरत्रादीनि वर्तयेत्
  • 02.23.19ab सूत्रवल्कमयी रज्जुर्वरत्रा वैत्रवैणवीः |
  • 02.23.19chd साम्नाह्या बन्धनीयाश्च यानयुग्यस्य करयेत् ( इति)


    Chapt |   Director of agriculture
  • 02.24.01 सीताऽध्यक्षः कृषितन्त्रशुल्बवृक्षायुर्वेदज्ञः तज्ज्ञसखो वा सर्वधान्यपुष्पफलशाककन्दमूलवाल्लिक्यक्षौमकार्पासबीजानि यथाकालं गृह्णीयात्
  • 02.24.02 बहुहलपरिकृष्टायां स्वभूमौ दासकर्मकरदण्डप्रतिकर्तृभिर्वापयेत्
  • 02.24.03 कर्षणयन्त्र उपकरणबलीवर्दैश्च एषां असङ्गं कारयेत्, कारुभिश्च कर्मारकुट्टाकमेदकरज्जुवर्तकसर्पग्राहादिभिश्च
  • 02.24.04 तेषां कर्मफलविनिपाते तत्फलहानं दण्डः
  • 02.24.05 षोडशद्रोणं जाङ्गलानां वर्षप्रमाणं, अध्यर्धं आनूपानां देशवापानां, अर्धत्रयोदशाश्मकानां, त्रयोविंशतिरवन्तीनां, अमितं अपरान्तानां हैमन्यानां च, कुल्याऽऽवापानां च कालतः
  • 02.24.06 वर्षत्रिभागः पूर्वपश्चिममासयोः, द्वौ त्रिभागौ मध्यमयोः - सुषमारूपम्
  • 02.24.07 तस्य उपलधिर्बृहस्पतेः स्थानगमनगर्भाधानेभ्यः शुक्र उदयास्तमयचारेभ्यः सूर्यस्य प्रकृतिवैकृताच्च
  • 02.24.08 सूर्याद् बीजसिद्धिः, बृहस्पतेः सस्यानां स्तम्बकारिता, शुक्राद् वृष्टिः | इति
  • 02.24.09ab त्रयः सप्ताहिका मेघा अशीतिः कणशीकराः |
  • 02.24.09chd षष्टिरातपमेघानां एषा वृष्टिः समा हिता
  • 02.24.10ab वातं आतपयोगं च विभजन् यत्र वर्षति |
  • 02.24.10chd त्रीन् करीषांश्च जनयंः तत्र सस्यागमो ध्रुवः
  • 02.24.11 ततः प्रभूत उदकं अल्प उदकं वा सस्यं वापयेत्
  • 02.24.12 शालिव्रीहिकोद्रवतिलप्रियङ्गु.उदारकवरकाः पूर्ववापाः
  • 02.24.13 मुद्गमाषशैम्ब्या मध्यवापाः
  • 02.24.14 कुसुम्भमसूरकुलत्थयवगोधूमकलायातसीसर्षपाः पश्चाद्वापाः
  • 02.24.15 यथा.ऋतुवशेन वा बीजवापाः
  • 02.24.16 वापातिरिक्तं अर्धसीतिकाः कुर्युः, स्ववीर्य उपजीविनो वा चतुर्थपञ्चभागिकाः

U2.24.17 यथा इष्टं अनवसितभागं दद्युः, अन्यत्र कृच्छ्रेभ्यः U2.24.18 स्वसेतुभ्यो हस्तप्रावर्तिमं उदकभागं पञ्चमं दद्युः, स्कन्धप्रावर्तिमं चतुर्थं, स्रोतोयन्त्रप्रावर्तिमं च तृतीयं, चतुर्थं नदीसरस्तटाककूप उद्धाटम् U2.24.19 कर्म उदकप्रमाणेन कैदारं हैमनं ग्रैष्मिकं वा सस्यं स्थापयेत् U2.24.20 शाल्य्ऽअदि ज्येष्ठं, षण्डो मध्यमः, इक्षुः प्रत्यवरः

  • 02.24.21 इक्षवो हि बह्व्ऽअबाधा व्ययग्राहिणश्च
  • 02.24.22 फेनाघातो वल्लीफलानां, परीवाहान्ताः पिप्पलीमृद्वीक इक्षूणां, कूपपर्यन्ताः शाकमूलानां, हरणीपर्यन्ता हरितकानां, पाल्यो लवानां गन्धभैषज्य उशीरह्रीबेरपिण्डालुकादीनाम्
  • 02.24.23 यथास्वं भूमिषु च स्थाल्याश्चानूप्याश्चोषधीः स्थापयेत्
  • 02.24.24 तुषारपायनमुष्णशोषणं चासप्तरात्राद् इति धान्यबीजानां, त्रिरात्रं वा पञ्चरात्रं वा कोशीधान्यानां, मधुघृतसूकरवसाभिः शकृद्युक्ताभिः काण्डबीजानां छेदलेपो, मधुघृतेन कन्दानां, अस्थिबीजानां शकृद्ऽअलेपः, शाखिनां गर्तदाहो गोऽस्थिशकृद्भिः काले दौह्र्दं च
  • 02.24.25 प्ररूढांश्चाशुष्ककटुमत्स्यांश्च स्नुहिक्षीरेण पाययेत्
  • 02.24.26ab कार्पाससारं निर्मोकं सर्पस्य च समाहरेत् |
  • 02.24.26chd न सर्पाः तत्र तिष्ठन्ति धूमो यत्र एष तिष्ठति
  • 02.24.27 सर्वजीजानां तु प्रथमवापे सुवर्ण उदकसम्प्लुतां पूर्वमुष्टिं वापयेद्, अमुं च मन्त्रं ब्रूयात् - प्रजापतये काश्यपाय देवाय च नमः सदा | सीता मे ऋध्यतां देवी बीजेषु च धनेषु च
  • 02.24.28 षण्डवाटगोपालकदासकर्मकरेभ्यो यथापुरुषपरिवापं भक्तं कुर्यात्, स-पादपणिकं च मासं दद्यात्
  • 02.24.29 कर्मानुरूपं कारुभ्यो भक्तवेतनम्
  • 02.24.30 प्रशीर्णं च पुष्पफलं देवकार्यार्थं व्रीहियवं आग्रयणार्थं श्रोत्रियाः तपस्विनश्चाहरेयुः, राशिमूलं उञ्छवृत्तयः
  • 02.24.31ab यथाकालं च सस्यादि जातं जातं प्रवेशयेत् |
  • 02.24.31chd न क्षेत्रे स्थापयेत् किञ्चित् पलालं अपि पण्डितः
  • 02.24.32ab प्राकाराणां समुच्छ्रयान् वलभीर्वा तथाविधाः |
  • 02.24.32chd न संहतानि कुर्वीत न तुच्छानि शिरांसि च
  • 02.24.33ab खलस्य प्रकरान् कुर्यान् मण्डलान्ते समाश्रितान् |
  • 02.24.33chd अनग्निकाः स-उदकाश्च खले स्युः परिकर्मिणः ( इति)


    Chapt |   Controller of spiritual liquors
  • 02.25.01 सुराऽध्यक्षः सुराकिण्वव्यवहारान् दुर्गे जनपदे स्कन्धावारे वा तज्जातसुराकिण्वव्यवहारिभिः कारयेद्, एकमुखं अनेकमुखं वा विक्रयक्रयवशेन वा
  • 02.25.02 षट्शतं अत्ययं अन्यत्र कर्तृक्रेतृविक्रेतॄणां स्थापयेत्
  • 02.25.03 ग्रामाद् अनिर्णयणं असम्पातं च सुरायाः, प्रमादभयात् कर्मसु ञ्जिर्दिष्टानां, मर्यादातिक्रमभयाद् आर्याणां, उत्साहभयाच्च तीष्क्णानाम्
  • 02.25.04 लक्षितं अल्पं वा चतुर्भागं अर्धकुडुबं कुडुबं अर्धप्रस्थं प्रस्थं वा इति ज्ञातशौचा निर्हरेयुः
  • 02.25.05 पानागारेषु वा पिबेयुरसञ्चारिणः
  • 02.25.06 निक्षेप उपनिधिप्रयोगापहृतानां अनिष्ट उपगतानां च द्रव्याणां ज्ञानार्थं अस्वामिकं कुप्यं हिरण्यं च उपलभ्य निष्केप्तारं अन्यत्र व्यपदेशेन ग्राहयेद्, अतिव्ययकर्तारं अनायतिव्ययं च
  • 02.25.07 न चानर्घेण कालिकां वा सुरां दद्याद्, अन्यत्र दुष्टसुरायाः
  • 02.25.08 तां अन्यत्र विक्रापयेत्
  • 02.25.09 दासकर्मकरेभ्यो वा वेतनं दद्यात्
  • 02.25.10 वाहनप्रतिपानं सूकरपोषणं वा दद्यात्
  • 02.25.11 पानागाराण्य्ऽनेककक्ष्याणि विभक्तशयनासनवन्ति पान उद्देशानि गन्धमाल्य उदकवन्ति ऋतुसुखानि कारयेत्
  • 02.25.12 तत्रस्थाः प्रकृत्य्ऽउत्पत्तिकौ व्ययौ गूढा विद्युः, आगन्तूंश्च
  • 02.25.13 क्रेतॄणां मत्तसुप्तानां अलङ्कारात्छादनहिरण्यानि च विद्युः
  • 02.25.14 तन्नाशे वणिजः तच्च तावच्च दण्डं दद्युः
  • 02.25.15 वणिजशः तु संवृतेषु कक्ष्याविभागेषु स्वदासीभिः पेशलरूपाभिरागन्तूनां वास्तव्यानां चार्यरूपाणां मत्तसुप्तानां भावं विद्युः
  • 02.25.16 मेदकप्रसन्नासवारिष्टमैरेयमधूनाम्
  • 02.25.17 उदकद्रोणं तण्डुलानां अर्धाढकं त्रयः प्रस्थाः किण्वस्य इति मेदकयोगः
  • 02.25.18 द्वादशाढकं पिष्टस्य पञ्च प्रस्थाः किण्वस्य क्रमुकत्वक्फलयुक्तो वा जातिसम्भारः प्रसन्नायोगः
  • 02.25.19 कपित्थतुला फाणितं पञ्चतौलिकं प्रस्थो मधुन इत्यासवयोगः

U2.25.20 पाद्ऽधिको ज्येष्ठः पादहीनः कनिष्ठः U2.25.21 चिकित्सकप्रमाणाः प्रत्येकशो विकाराणां अरिष्टाः U2.25.22 मेषशृङ्गीत्वक्क्वाथाभिषुतो गुडप्रतीवापः पिप्पलीमरिचसम्भारः त्रिफलायुक्तो वा मैरेयः U2.25.23 गुडयुक्तानां वा सर्वेषां त्रिफलासम्भारः U2.25.24 मृद्वीकारसो मधु u2.25.25 तस्य स्वदेशो व्याख्यानं कापिशायनं हारहूरकं इति U2.25.26 माषकलनीद्रोणमामं सिद्धं वा त्रिभागाधिकतण्डुलं मोरटादीनां कार्षिकभागयुक्तं किण्वबन्धः

  • 02.25.27 पाठालोघ्रतेजोवत्य्.एलावालुकमधुकमधुरसाप्रियङ्गुदारुहरिद्रामरिचपिप्पलीनां च पञ्चकार्षिकः सम्भारयोगो मेदकस्य प्रसन्नायाश्च
  • 02.25.28 मधुकनिर्यूहयुक्ता कटशर्करा वर्णप्रसादनी च
  • 02.25.29 चोचचित्रकविलङ्गगजपिप्पलीनां च कार्षिकः क्रमुकमधुकमुस्तालोध्राणां द्विकार्षिकश्चासवसम्भारः
  • 02.25.30 दशभागश्च एषां बीजबन्धः
  • 02.25.31 प्रसन्नायोगः श्वेतसुरायाः
  • 02.25.32 सहकारसुरा रस उत्तरा बीज उत्तरा वा महासुरा सम्भारिकी वा
  • 02.25.33 तासां मोरटापलाशपत्तूरमेषशृङ्गीकरञ्जक्षीरवृक्षकषायभावितं दग्धकटशर्कराचूर्णं लोघ्रचित्रकविलङ्गपाठामुस्ताकलिङ्गयवदारुहरिद्र इन्दीवरशतपुष्पापामार्गसप्तपर्णनिम्बास्फोतकल्कार्धयुक्तं अन्तर्नखो मुष्टिः कुम्भीं राजपेयां प्रसादयति
  • 02.25.34 फाणितः पञ्चपलिकश्चात्र रसवृद्धिर्देयः
  • 02.25.35 कुटुम्बिनः कृत्येषु श्वेतसुरां, औषधार्थं वारिष्टं, अन्यद् वा कर्तुं लभेरन्
  • 02.25.36 उत्सवसमाजयात्रासु चतुर्ऽहः सौरिको देयः
  • 02.25.37 तेष्वननुज्ञातानां प्रहवनान्तं दैवसिकं अत्ययं गृह्णीयात्
  • 02.25.38 सुराकिण्वविचयं स्त्रियो बालाश्च कुर्युः
  • 02.25.39 अराजपण्याः पञ्चकं शतं शुल्कं दद्युः, सुरकामेदकारिष्टमधुफलाम्लाम्लशीधूनां च
  • 02.25.40ab अह्नश्च विक्रयं ज्ञात्वा व्याजीं मानहिरण्ययोः |
  • 02.25.40chd तथा वैधरणं कुर्याद् उचितं चानुवर्तयेत् ( इति)


    Chapt |   Supervisor of (animal-)slaughter
  • 02.26.01 सूनाऽध्यक्षः प्रदिष्टाभयानां अभयवनवासिनां च मृगपशुपक्षिमत्स्यानां बन्धवधहिंसायां उत्तमं दण्डं कारयेत्, कुटुम्बिनां अभयवनपरिग्रहेषु मध्यमम्
  • 02.26.02 अप्रवृत्तवधानां मत्स्यपक्षिणां बन्धवधहिंसायां पाद ऊनसप्तविंशतिपणं अत्ययं कुर्यात्, मृगपशूनां द्विगुणम्
  • 02.26.03 प्रवृत्तहिंसानां अपरिगृहीतानां षड्भागं गृह्णीयात्, मत्स्यपक्षिणां दशभागं वाऽधिकं, मृगपशूनां शुल्कं वाऽधिकम्
  • 02.26.04 पक्षिमृगाणां जीवत् षड्भागं अभयवनेषु प्रमुञ्चेत्
  • 02.26.05 सामुद्रहस्त्य्ऽश्वपुरुषवृषगर्दभाकृतयो मत्स्याः सारसा नादेयाः तटाककुल्या उद्भवा वा क्रौञ्च उत्क्रोशकदात्यूहहंसचक्रवाकजीवञ्जीवकभृङ्गराजचकोरमत्तकोकिलमयूरशुकमदनशारिका विहारपक्षिणो मङ्गल्याश्चान्येऽपि प्राणिनः पक्षिमृगा हिंसाबाधेभ्यो रक्ष्याः
  • 02.26.06 रक्षाऽतिक्रमे पूर्वः साहसदण्डः
  • 02.26.07 मृगपशूनां अनस्थिमांसं सद्योहतं विक्रीणीरन्
  • 02.26.08 अस्थिमतः प्रतिपातं दद्युः
  • 02.26.09 तुलाहीने हीनाष्टगुणम्
  • 02.26.10 वत्सो वृषो धेनुश्च एषां अवध्याः
  • 02.26.11 घ्नतः पञ्चाशत्को दण्डः, क्लिष्टघातं घातयतश्च
  • 02.26.12 परिशूनं अशिरःपादास्थि विगन्धं स्वयंमृतं च न विक्रीणीरन्
  • 02.26.13 अन्यथा द्वादशपणो दण्डः
  • 02.26.14ab दुष्टाः पशुमृगव्याला मत्स्यश्चाभयचारिणः |
  • 02.26.14chd अन्यत्र गुप्तिस्थानेभ्यो वधबन्धं अवाप्नुयुः ( इति)


    Chapt |   Superintendent of courtesans
  • 02.27.01 गणिकाऽध्यक्षो गणिकाऽन्वयां अगणिकाऽन्वयां वा रूपयौवनशिल्पसम्पन्नां सहस्रेण गणिकां कारयेत्, कुटुम्बार्धेन प्रतिगणिकाम्
  • 02.27.02 निष्पतिताप्रेतयोर्दुहिता भगिनी वा कुटुम्बं भरेत, माता वा प्रतिगणिकां स्थापयेत्
  • 02.27.03 तासां अभावे राजा हरेत्
  • 02.27.04 सौभाग्यालङ्कारवृद्ध्या सहस्रेण वारं कनिष्ठं मध्यमं उत्तमं वाऽऽरोपयेत् छत्रभृङ्गारव्यजनशिबिकापीठिकारथेषु च विशेषार्थम्
  • 02.27.05 सौभाग्यभङ्गे मातृकां कुर्यात्
  • 02.27.06 निष्क्रयश्चतुर्विंशतिसाहस्रो गणिकायाः, द्वादशसाहस्रो गणिकापुत्रस्य
  • 02.27.07 अष्टवर्षात् प्रभृति राज्ञः कुशीलवकर्म कुर्यात्
  • 02.27.08 गणिकादासी भग्नभोगा कोष्ठागारे महानसे वा कर्म कुर्यात्
  • 02.27.09 अविशन्ती सपादपणं अवरुद्धा मासवेतनं दद्यात्
  • 02.27.10 भोगं दायमायं व्ययं आयतिं च गणिकाया निबन्धयेत्, अतिव्ययकर्म च वारयेत्
  • 02.27.11 मातृहस्ताद् अन्यत्र अभरणन्यासे सपादचतुष्पणो दण्डः
  • 02.27.12 स्वापतेयं विक्रयं आधानं वा नयन्त्याः सपादपञ्चाशत्पणः पणोऽर्धपणच्छेदने
  • 02.27.13 अकामायाः कुमार्या वा साहसे उत्तमो दण्डः, सकामायाः पूर्वः साहसदण्डः
  • 02.27.14 गणिकां अकामां रुन्धतो निष्पातयतो वा व्रणविदारणेन वा रूपं.उपघ्नतः सहस्रं दण्डः
  • 02.27.15 स्थान्विशेषेण वा दण्डवृद्धिः आनिष्क्रयद्विगुणात्
  • 02.27.16 प्राप्ताधिकारं गणिकां घतयतो निष्क्रयत्रिगुणो दण्डः
  • 02.27.17 मातृकादुहितृकारूपदासीनां घाते उत्तमः साहसदण्डः
  • 02.27.18 सर्वत्र प्रथमेऽपराधे प्रथमः, द्वितीये द्विगुणः, तृतीये त्रिगुणः, चतुर्थे यथाकामी स्यात्
  • 02.27.19 राजाज्ञया पुरुषं अनभिगच्छन्ती गणिका शिफासहस्रं लभीत, पञ्चसहस्रं वा दण्डः
  • 02.27.20 भोगं गृहीत्वा द्विषत्या भोगद्विगुणो दण्डः
  • 02.27.21 वसतिभोगापहारे भोगं अष्टगुणं दद्याद् अन्यत्र व्याधिपुरुषदोषेभ्यः
  • 02.27.22 पुरुषं घ्नत्याश्चिताप्रतापेऽप्सु प्रवेशनं वा
  • 02.27.23 गणिकाभरणं अर्थं भोगं वाऽपहरतोऽष्टगुणो दण्डः
  • 02.27.24 गणिका भोगं आयतिं पुरुषं च निवेदयेत्
  • 02.27.25 एतेन नटनर्तकगायनवादकवाग्जीवनकुशीलवप्लवकसौभिकचारणानां स्त्रीव्यवहारिणां स्त्रियो गूढाजीवाश्च व्याख्याताः
  • 02.27.26 तेषां तूर्यं आगन्तुकं पञ्चपणं प्रेक्षावेतनं दद्यात्
  • 02.27.27 रूपाजीवा भोगद्वयगुणं मासं दद्युः
  • 02.27.28 गीतवाद्यपाठ्यनृत्यनाट्याक्षरचित्रवीणावेणुमृदङ्गपरचित्तज्ञानगन्धमाल्यसम्यूहनसंवादनसंवाहनवैशिककलाज्ञानानि गणिका दासी रङ्ग उपजीविनीश्च ग्राहयतो राजमण्डलाद् आजीवं कुर्यात्
  • 02.27.29 गणिकापुत्रान् रङ्ग उपजीविनां च मुख्यान्निष्पादयेयुः, सर्वतालावचराणां च
  • 02.27.30ab संज्ञाभाषाऽन्तरज्ञाश्च स्त्रियः तेषां अनात्मसु |
  • 02.27.30chd चारघातप्रमादार्थं प्रयोज्या बन्धुवाहनाः ( इति)


    Chapt |   Controller of shipping
  • 02.28.01 नाव्ऽध्यक्षः समुद्रसम्याननदीमुखतरप्रचारान् देवसरोविसरोनदीतरांश्च स्थानीयादिष्ववेक्षेत
  • 02.28.02 तद्वेलाकूलग्रामाः क्लृप्तं दद्युः
  • 02.28.03 मत्स्यबन्धका नौकाभाटकं षड्भागं दद्युः
  • 02.28.04 पत्तनानुवृत्तं शुल्कभागं वणिजो दद्युः, यात्रावेतनं राजनौभिः सम्पतन्तः
  • 02.28.05 शङ्खमुक्ताग्राहिणो नौभाटकं दद्युः, स्वनौभिर्वा तरेयुः
  • 02.28.06 अध्यक्षश्च एषां खन्य्ऽध्यक्षेण व्याख्यातः
  • 02.28.07 पत्तनाध्यक्षनिबद्धं पण्यपत्तनचारित्रं नाव्ऽध्यक्षः पालयेत्
  • 02.28.08 मूढवाताहता नावः पिता इवानुगृह्णीयात्
  • 02.28.09 उदकप्राप्तं पण्यं अशुल्कं अर्धशुल्कं वा कुर्यात्
  • 02.28.10 यथानिर्दिष्टाश्च एताः पण्यपत्तनयात्राकालेषु प्रेषयेत्
  • 02.28.11 सम्यातीर्नावः क्षेत्रानुगताः शुल्कं याचेत्
  • 02.28.12 हिंस्रिका निर्घातयेत्, अमित्रविषयातिगाः पण्यपत्तनचारित्र उपघातिकाश्च
  • 02.28.13 शासकनिर्यामकदात्रर्अश्मिग्राहक उत्सेचकाधिष्ठिताश्च महानावो हेमन्तग्रीष्मतार्यासु महानदीषु प्रयोजयेत्, क्षुद्रिकाः क्षुद्रिकासु वर्षास्राविणीषु
  • 02.28.14 बाधतीर्थाश्च एताः कार्या राजद्विष्टकारिणां तरणभयात्
  • 02.28.15 अकालेऽतीर्थे च तरतः पूर्वः साहसदण्डः
  • 02.28.16 काले तीर्थे चानिषृष्टतारिणः पाद ऊनसप्तविंशतिपणः तरात्ययः
  • 02.28.17 कैवर्तकाष्टतृणभारपुष्पफलवाटषण्डगोपालकानां अनत्ययः, सम्भाव्यदूतानुपातिनां च सेनाभाण्डप्रयोगाणां च स्वतरणैः तरतां, बीजभक्तद्रव्य उपस्करांश्चानूपग्रामाणां तारयताम्
  • 02.28.18 ब्राह्मणप्रव्रजितबालवृद्धव्याधितशासनहरगर्भिण्यो नाव्ऽध्यक्षमुद्राभिः तरेयुः
  • 02.28.19 कृतप्रवेशाः पारविषयिकाः सार्थप्रमाणा वा प्रविशेयुः
  • 02.28.20 परस्य भार्यां कन्यां वित्तं वाऽपहरन्तं शवित्तं वाऽपहरन्तं शङ्कितं आविग्नं उद्भाण्डीकृतं महाभाण्डेन मूर्ध्नि भारेणावच्छादयन्तं सद्योगृहीतलिङ्गिनं अलिङ्गिनं वा प्रव्रजितं अलक्ष्यव्याधितं भयविकारिणं गूढसारभाण्डशासनशस्त्राग्नियोगं विषहस्तं दीर्घपथिकं अमुद्रं च उपग्राहयेत्
  • 02.28.21 क्षुद्रपशुर्मनुष्यश्च सभारो माषकं दद्यात्, शिरोभारः कायभारो गवाश्वं च द्वौ, उष्ट्रमहिषं चतुरः, पञ्च लभुयानं, षड् गोलिङ्गं, सप्त शकटं, पन्यभारः पादम्
  • 02.28.22 तेन भाण्डभारो व्याख्यातः
  • 02.28.23 द्विगुणो महानदीषु तरः
  • 02.28.24 क्लृप्तं आनूपग्रामा भक्तवेतनं दद्युः
  • 02.28.25 प्रत्यन्तेषु तराः शुल्कं आतिवाहिकं वर्तनीं च गृह्णीयुः, निर्गच्छतश्चामुद्रद्रव्यस्य भाण्डं हरेयुः, अतिभारेणावेलायां अतिर्थे तरतश्च
  • 02.28.26 पुरुष उपकरणहीनायां असंस्कृतायां वा नावि विपन्नायां नाव्ऽध्ह्यक्षो नष्टं विनष्टं वाऽभ्यावहेत्
  • 02.28.27ab सप्ताहवृत्तां आषाढीं कार्त्तिकीं चान्तरा तरः |
  • 02.28.27chd कार्मिकः प्रत्ययं दद्यान्नित्यं चाह्निकं आवहेत् ( इति)


    Chapt |   Superintendent of cattle
  • 02.29.01 गोऽध्यक्षो वेतन उपग्राहिकं करप्रतिकरं भग्न उत्सृष्टकं भागानुप्रविष्टकं व्रजपर्यग्रं नष्टं विनष्टं क्षीरघृतसञ्जातं च उपलभेत
  • 02.29.02 गोपालकपिण्डारकदोहकमन्थकलुब्धकाः शतं शतं धेनूनां हिरण्यभृताः पालयेयुः
  • 02.29.03 क्षीरघृतभृता हि वत्सान् उपहन्युः | इति वेतन उपग्राहिकम्
  • 02.29.04 जरद्गुधेनुगर्भिणीपष्ठौहीवत्सतरीणां समविभागं रूपशतं एकः पालयेत्
  • 02.29.05 घृतस्याष्टौ वारकान् पणिकं पुच्छं अङ्कचर्म च वार्षिकं दद्यात् | इति करप्रतिकरः
  • 02.29.06 व्याधितान्यङ्गाऽनन्यदोहीदुर्दोहापुत्रघ्नीनां च समविभागं रूपशतं पालयन्तः तज्जातिकं भागं दद्युः | इति भग्न उत्षृष्टकम्
  • 02.29.07 परचक्राटवीभयाद् अनुप्रविष्टानां पशूनां पालनधर्मेण दशभगं दद्युः | इति भागानुप्रविष्टकम्
  • 02.29.08 वत्सा वत्सतरा दम्या वहिनो वृषा उक्षाणश्च पुङ्गवाः, युगवाहनशकटवहा वृषभाः सूनामहिषाः पृष्टस्कन्धवाहिनश्च महिषाः, वत्सिका वत्सतरी पष्टहुही गर्भिणी धेनुश्चाप्रजाता वन्ध्याश्च गावो महिष्यश्च, मासद्विमासजाताः तासां उपजा वत्सा वत्सिकाश्च
  • 02.29.09 मासद्विमासजातान् अङ्कयेत्
  • 02.29.10 मासद्विमासपर्युषितं अङ्कयेत्
  • 02.29.11 अङ्कं चिह्नं वर्णं शृङ्गान्तरं च लक्षणं एवं उपजा निबन्धयेत् | इति व्रजपर्यग्रम्
  • 02.29.12 चोरहृतं अन्ययूथप्रविष्टं अवलीनं वा नष्टम्
  • 02.29.13 पङ्कविषमव्याधिजरातोयाहारावसन्नं वृक्षतटकाष्ठशिलाऽभिहतं ईशानव्यालसर्पग्राहदावाग्निविपन्नं विनष्टम्
  • 02.29.14 प्रमादाद् अभ्यावहेयुः
  • 02.29.15 एवं रूपाग्रं विद्यात्
  • 02.29.16 स्वयं हन्ता घातयिता हर्ता हारयिता च वध्यः
  • 02.29.17 परपशूनां राजाङ्केन परिवर्तयिता रूपस्य पूर्वं साहसदण्डं दद्यात्
  • 02.29.18 स्वदेशीयानां चोरहृतं प्रत्यानीय पणितं रूपं हरेत्
  • 02.29.19 परदेशीयानां मोक्षयिताऽर्धं हरेत्
  • 02.29.20 बालवृद्धव्याधितानां गोपालकाः प्रतिकुर्युः
  • 02.29.21 लुब्धकश्वगणिभिरपास्तः तेनाव्यालपराबाधभयं ऋतुविभक्तं अरण्यं चारयेयुः
  • 02.29.22 सर्पव्यालत्रासनार्थं गोचरानुपातज्ञानार्थं च त्रस्नूनां घण्टातूर्यं च बध्नीयुः
  • 02.29.23 समव्यूढतीर्थं अकर्दमग्राहं उदकं अवतारयेयुः पालयेयुश्च
  • 02.29.24 स्तेनव्यालसर्पग्राहगृहीतं व्याधिजराऽवसन्नं चावेदयेयुः, अन्यथा रूपमूल्यं भजेरन्
  • 02.29.25 कारणमृतस्याङ्कचर्म गोमहिषस्य, कर्णलक्षणं अजाविकानां, पुच्छं अङ्कचर्म चाश्वखर उष्ट्राणां, बालचर्मबस्तिपित्तस्नायुदन्तखुरशृङ्गास्थीनि चाहरेयुः
  • 02.29.26 मांसं आर्द्रं शुष्कं वा विक्रीणीयुः
  • 02.29.27 उदश्वित्श्ववराहेभ्यो दद्युः
  • 02.29.28 कूर्चिकां सेनाभक्तार्थं आहरेयुः
  • 02.29.29 किलाटो घाणपिण्याकक्लेदार्थः
  • 02.29.30 पशुविक्रेता पादिकं रूपं दद्यात्
  • 02.29.31 वर्षाशरद्धेमन्तान् उभयतःकालं दुह्युः, शिशिरवसन्तग्रीष्मान् एककालम्
  • 02.29.32 द्वितीयकालदोग्धुरङ्गुष्ठच्छेदो दण्डः
  • 02.29.33 दोहनकालं अतिक्रामतः तत्फलहानं दण्डः
  • 02.29.34 एतेन नस्यदम्ययुगपिङ्गनवर्तनकाला व्याख्याताः
  • 02.29.35 क्षीरद्रोणे गवां घृतप्रस्थः, पञ्चभागाधिको महिषीणां, द्विभागाधिकोऽजावीनाम्
  • 02.29.36 मन्थो वा सर्वेषां प्रमाणम्
  • 02.29.37 भूमितृण उदकविशेषाद्द् हि क्षीरघृतवृद्धिर्भवति
  • 02.29.38 यूथवृषं वृषेणावपातयतः पूर्वः साहसदण्डः, घातयत उत्तमः
  • 02.29.39 वर्णावरोधेन दशती रक्षा
  • 02.29.40 उपनिवेशदिग्विभागो गोप्रचाराद् बलान्वयतो वा गवां रक्षासामर्थ्याच्च
  • 02.29.41 अजावीनां षण्मासिकीमूर्णां ग्राहयेत्
  • 02.29.42 तेनाश्वखर उष्ट्रवराहव्रजा व्याख्याताः
  • 02.29.43 बलीवर्दानां नस्याश्वभद्रगतिवाहिनां यवसस्यार्धभारः तृणस्य द्विगुणं, तुला घाणपिण्याकस्य, दशाढकं कणकुण्डकस्य, पञ्चपलिकं मुखलवनां, तैलकुडुबो नस्यं प्रस्थः पानं, मांसतुला, दध्नश्चाढकं, यवद्रोणं माषाणां वा पुलाकः, क्षीरद्रोणं अर्धाढकं वा सुरायाः स्नेहप्रस्थः क्षारदशपलं शृङ्गिबेरपलं च प्रतिपानम्
  • 02.29.44 पाद ऊनं अश्वतरगोखराणां, द्विगुणं महिष उष्ट्राणाम्
  • 02.29.45 कर्मकरबलीवर्दानां पायनार्थानां च धेनूनां कर्मकालतः फलतश्च विधादानम्
  • 02.29.46 सर्वेषां तृण उदकप्राकाम्यम्
  • 02.29.47 इति गोमण्डलं व्याख्यातम्
  • 02.29.48ab पञ्च.ऋषभं खराश्वानां अजावीनां दश.ऋषभम् |
  • 02.29.48chd शत्यं गोमहिष उष्ट्राणां यूथं कुर्याच्चतुर्वृषम् ( इति)


    Chapt |   Superintendent of horses
  • 02.30.01 अश्वाध्यक्षः पण्यागारिकं क्रय उपागतं आहवलब्धं आजातं साहाय्यागतकं पणस्थितं यावत्कालिकं वाऽश्वपर्यग्रं कुलवयोवर्णचिह्नवर्गागमैर्लेखयेत्
  • 02.30.02 अप्रशस्तन्यङ्गव्याधितांश्चावेदयेत्
  • 02.30.03 कोशकोष्ठागाराभ्यां च गृहीत्वा मासलाभं अश्ववाहश्चिन्तयेत्
  • 02.30.04 अश्वविभवेनायतां अश्वायां अद्विगुणविस्तारां चतुर्द्वार उपावर्तनमध्यां स-प्रग्रीवां प्रद्वारासनफलकयुक्तानां वानरमयूरपृषतनकुलचकोरशुकसारिकाकीर्णां शालां निवेशयेत्
  • 02.30.05 अश्वायां अचतुर्ऽश्रश्लक्ष्णफलकास्तारं स-खादनकोष्ठकं स-मूत्रपुरीष उत्सर्गं एक एकशः प्रान्मुखं उदन्मुखं वा स्थानं निवेशयेत्
  • 02.30.06 शालावशेन वा दिग्विभागं कल्पयेत्
  • 02.30.07 वडवावृषकिशोराणां एकान्तेषु
  • 02.30.08 वडवायाः प्रजतायाः त्रिरात्रं घृतप्रस्थः पानम्
  • 02.30.09 अत ऊर्ध्वं सक्तुप्रस्थः स्नेहभैषज्यप्रतिपानं दशरात्रम्
  • 02.30.10 ततः पुलाको यवसं आर्तवश्चाहारः
  • 02.30.11 दशरात्राद् ऊर्ध्वं किशोरस्य घृतचतुर्भागः सक्तुकुडुबः क्षीरप्रस्थश्चाहार आषण्मासात्
  • 02.30.12 ततः परं मास उत्तरं अर्धवृद्धिर्यवप्रस्थ आत्रिवर्षात्, द्रोण आचतुर्वर्षात्
  • 02.30.13 अत ऊर्ध्वं चतुर्वर्षः पञ्चवर्षो वा कर्मण्यः पूर्णप्रमाणः
  • 02.30.14 द्वात्रिंशद्ऽङ्गुलं मुखं उत्तमाश्वस्य, पञ्चमुखान्यायामो, विंशत्य्ऽङ्गुला जङ्घा, चतुर्जङ्घ उत्सेधः
  • 02.30.15 त्र्य्ऽङ्गुलावरं मध्यमावरयोः
  • 02.30.16 शताङ्गुलः परिणाहः
  • 02.30.17 पञ्चभागावरो मध्यमावरयोः
  • 02.30.18 उत्तमाश्वस्य द्विद्रोणं शालिव्रीहियवप्रियङ्गूणां अर्धशुष्कं अर्धसिद्धं वा मुद्गमाषाणां वा पुलाकः स्नेहप्रस्थश्च, पञ्चपलं लवणस्य, मांसं पञ्चाशत्पलिकं रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारपञ्चपलिकः सुरायाः प्रस्थः पयसो वा द्विगुणः प्रतिपानम्
  • 02.30.19 दीर्घपथभारक्लान्तानां च खादनार्थं स्नेहप्रस्थोऽनुवासनं कुडुबो नस्यकर्मणः, यवसस्यार्धभारः तृणस्य द्विगुणः षड्ऽरत्निपरिक्षेपः पुञ्जीलग्रहो वा
  • 02.30.20 पादावरं एतन् मध्यमावरयोः
  • 02.30.21 उत्तमसमो रथ्यो वृषश्च मध्यमः
  • 02.30.22 मध्यमसमश्चावरः
  • 02.30.23 पादहीनं वडवानां पारशमानां च
  • 02.30.24 अतोऽर्धं किशोराणां च
  • 02.30.25 इति विधायोगः
  • 02.30.26 विधापाचकसूत्रग्राहकचिकित्सकाः प्रतिस्वादभाजः
  • 02.30.27 युद्धव्याधिजराकर्मक्षीणाः पिण्डगोचरिकाः स्युः
  • 02.30.28 असमरप्रयोग्याः पौरजानपदानां अर्थेन वृषा वडवास्वायोज्याः
  • 02.30.29 प्रयोग्यानां उत्तमाः काम्बोजसैन्धवारट्टवनायुजाः, मध्यमा बाह्लीकपापेयकसौवीरकतैतलाः, शेषाः प्रत्यवराः
  • 02.30.30 तेषां तीष्क्णभद्रमन्दवशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत्
  • 02.30.31 चतुर्ऽश्रं कर्माश्वस्य साम्नाह्यम्
  • 02.30.32 वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः
  • 02.30.33 तत्राउपवेणुको वर्धमानको यमक आलीढप्लुतः पृथुग्ऽस्त्रिकचाली च वल्गनः
  • 02.30.34 स एव शिरःकर्णविशुद्धो नीचैर्गतः, षोडशमार्गो वा
  • 02.30.35 प्रकीर्णकः प्रकीर्ण उत्तरो निषण्णः पार्श्वानुवृत्त ऊर्मिमार्गः शरभक्रीडितः शरभप्लुतः त्रितालो बाह्यानुवृत्तः पञ्चपाणिः सिंहायतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्पाभिकीर्णश्च इति नीचैर्गतमार्गः
  • 02.30.36 कपिप्लुतो भेकप्लुतेणप्लुत एकपादप्लुतः कोकिलसञ्चार्य्.उरस्यो बकचारी च लङ्घनः
  • 02.30.37 काङ्को वारिकाङ्को मायूरोऽर्धमायूरो नाकुलोर्धनाकुलो वाराहोऽर्धवाराहश्च इति धोरणः
  • 02.30.38 संज्ञाप्रतिकारो नार उष्ट्र इति
  • 02.30.39 षण्णव द्वादश इति योजनान्य्ध्वा रथ्यानां, पञ्च योजनान्यर्धाष्टमानि दश इति पृष्ठवाहिनां अश्वानां अध्वा
  • 02.30.40 विक्रमो भद्राश्वासो भारवाह्य इति मार्गाः
  • 02.30.41 विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः
  • 02.30.42 तेषां बन्धन उपकरणं योग्याचार्याः प्रतिदिशेयुः, साङ्ग्रामिकं रथाश्वालङ्कारं च सूताः
  • 02.30.43 अश्वानां चिकित्सकाः शरीरह्रासवृद्धिप्रतीकारं ऋतुविभक्तं चाहारम्
  • 02.30.44 सूत्रग्राहकाश्वबन्धकयावसिकविधापाचकस्थानपालकेशकारजाङ्गुलीविदश्च स्वकर्मभिरश्वान् आराधयेयुः
  • 02.30.45 कर्मातिक्रमे च एषां दिवसवेतनच्छेदनं कुर्यात्
  • 02.30.46 नीराजन उपरुद्धं वाहयतश्चिकित्सक उपरुद्धं वा द्वादशपणो दण्डः
  • 02.30.47 क्रियाभैषज्यसङ्गेन व्याधिवृद्धौ प्रतीकारद्विगुणो दण्डः
  • 02.30.48 तद्ऽपराधेन वैलोम्ये पत्त्रमूल्यं दण्डः
  • 02.30.49 तेन गोमण्डलं खर उष्ट्रमहिषं अजाविकं च व्याख्यातम्
  • 02.30.50ab द्विरह्नः स्नानं अश्वानां गन्धमाल्यं च दापयेत् |
  • 02.30.50chd कृष्णसन्धिषु भूत इज्याः शुक्लेषु स्वस्तिवाचनम्
  • 02.30.51ab नीराजनां आश्वयुजे कारयेन्नवमेऽहनि |
  • 02.30.51chd यात्राऽऽदाववसाने वा व्याधौ वा शान्तिके रतः ( इति)


    Chapt |   Superintendent of elephants
  • 02.31.01 हस्त्य्ऽध्यक्षो हस्तिवनरक्षां दम्यकर्मक्षान्तानां हस्तिहस्तिनीकलभानां शालास्थानशय्याकर्मविधायवसप्रमाणं कर्मस्वायोगं बन्धन उपकरणं साङ्ग्रामिकं अलङ्कारं चिकित्सकानीकस्थाउपस्थायिकवर्गं चानुतिष्ठेत्
  • 02.31.02 हस्त्य्ऽअयामद्विगुण उत्सेधविष्कम्भायामां हस्तिनीस्थानाधिकां सप्रग्रीवां कुमारीसङ्ग्रहां प्रान्मुखीं उदन्मुखीं वा शालां निवेशयेत्
  • 02.31.03 हस्त्य्ऽअयामचतुर्ऽश्रश्लक्ष्णालानस्तम्भफलकास्तरकं स-मूत्रपुरीष उत्सर्गं स्थानं निवेशयेत्
  • 02.31.04 स्थानसमां शय्यां अर्धापाश्रयां दुर्गे साम्नाह्याउपवाह्यानां बहिर्दम्यव्यालानाम्
  • 02.31.05 प्रथमसप्तम अष्टमभागावह्नः स्नानकालौ, तद्ऽनन्तरं विधायाः
  • 02.31.06 पूर्वाह्ने व्यायामकालः, पश्चाह्नः प्रतिपानकालः
  • 02.31.07 रात्रिभागौ द्वौ स्वप्नकाला, त्रिभागः संवेशन उत्थानिकः
  • 02.31.08 ग्रीष्मे ग्रहणकालः
  • 02.31.09 विंशतिवर्षो ग्राह्यः
  • 02.31.10 विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः
  • 02.31.11 सप्तारत्नि उत्सेधो नवायामो दश परिणाहः प्रमाणतश्चत्वारिंशद्वर्षो भवत्युत्तमः, त्रिंशद्वर्षो मध्यमः, पञ्चविंशतिवर्षोऽवरः
  • 02.31.12 तयोः पादावरो विधाविधिः
  • 02.31.13 अरत्नौ तणुलद्रोणः, अर्धाढकं तैलस्य, सर्पिषः त्रयः प्रस्थाः, दशपलं लवणस्य, मांसं पञ्चाशत्पलिकं, रसस्याढकं द्विगुणं वा दध्नः पिण्डक्लेदनार्थं, क्षारदशपलिकं मद्यस्याढकं द्विगुणं वा पयसः प्रतिपानं, गात्रावसेकः तैलप्रस्थः, शिरसोऽष्टभागः प्रादीपिकश्च, यवसस्य द्वौ भारौ स-पादौ, शष्पस्य शुष्कस्यार्धतृतीयो भारः, कडङ्करस्यानियमः
  • 02.31.14 सप्तारत्निना तुल्यभोजनोऽष्टारत्निरत्यरालः
  • 02.31.15 यथाहस्तं अवशेषः षड्ऽरत्निः पञ्चारत्निश्च
  • 02.31.16 क्षीरयावसिको विक्कः क्रीडाऽर्थं ग्राह्यः
  • 02.31.17 सञ्जातलोहिता प्रतिच्छन्ना सम्लिप्तपक्षा समकक्ष्या व्यतिकीर्णमांसा समतल्पतला जातद्रोणिका इति शोभाः
  • 02.31.18ab शोभावशेन व्यायामं भद्र्म मन्दं च कारयेत् |
  • 02.31.18chd मृगं सङ्कीर्णलिङ्गं च कर्मस्वृतुवशेन वा


    Chapt |   Activity of elephants
  • 02.32.01 कर्मस्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च
  • 02.32.02 तत्र दम्यः पञ्चविधः स्कन्धगतः स्तम्भगतो वारिगतोऽवपातगतो यूथगतश्च इति
  • 02.32.03 तस्य उपविचारो विक्ककर्म
  • 02.32.04 साम्नाह्यः सप्तक्रियापथ उपस्थानं संवर्तनं सम्यानं वधावधो हस्तियुद्धं नागरायणं साङ्ग्रामिकं च
  • 02.32.05 तस्य उपविचारः कक्ष्याकर्म ग्रैवेयकर्म यूथकर्म च
  • 02.32.06 औपवाह्योऽष्टविध आचरणः कुञ्जराउपवाह्यो धोरण आधानगतिको यष्ट्य्.उपवाह्यः तोत्र उपवाह्यः शुद्ध उपवाह्यो मार्गयुकश्च इति
  • 02.32.07 तस्य उपविचारः शारदकर्म हीनकर्म नार उष्ट्रकर्म च
  • 02.32.08 व्याल एकक्रियापथः शङ्कितोऽवरुद्धो विषमः प्रभिन्नः प्रभिन्नविनिश्चयो मदहेतुविनिश्चयश्च
  • 02.32.09 तस्य-उपविचार आयम्य एकरक्षाकर्म
  • 02.32.10 क्रियाविपन्नो व्यालः शुद्धः सुव्रतो विषमः सर्वदोषप्रदुष्टश्च
  • 02.32.11 तेषां बन्धन उपकरणं अनीकस्थप्रमाणम्
  • 02.32.12 आलानग्रैवेयकक्ष्यापारायणपरिक्षेप उत्तरादिकं बन्धनम्
  • 02.32.13 अङ्कुशवेणुयन्त्रादिकं उपकरणम्
  • 02.32.14 वैजयन्तीक्षुरप्रमालास्तरणकुथाऽऽदिकं भूषणम्
  • 02.32.15 वर्मतोमरशरावापयन्त्रादिकः साङ्ग्रामिकालङ्कारः
  • 02.32.16 चिकित्सकानीकस्थारोहकाधोरणहस्तिपकौपचारिकविधापाचकयावसिकपादपाशिककुटीर्रक्षकाउपशयैकादिरौपस्थायिकवर्गः
  • 02.32.17 चिकित्सककुटीरक्षविधापाचकाः प्रस्थोदनं स्नेहप्रसृतिं क्षारलवणयोश्च द्विपलिकं हरेयुः, दशपलं मांसस्य, अन्यत्र चिकित्सकेभ्यः
  • 02.32.18 पथिव्याधिकर्ममदजराऽभितप्तानां चिकित्सकाः प्रतिकुर्युः
  • 02.32.19 स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः परारोहणं अकाले यानं अभूमावतीर्थेऽवतारणं तरुषण्ड इत्यत्ययस्थानानि
  • 02.32.20 तं एषां भक्तवेतनाद् आददीत
  • 02.32.21ab तिस्रो नीराजनाः कार्याश्चातुर्मास्य.ऋतुसन्धिषु |
  • 02.32.21chd भूतानां कृष्णसन्धी इज्याः सेनान्यः शुक्लसन्धुषु
  • 02.32.22ab दन्तमूलपरीणाहद्विगुणं प्रोज्झ्य कल्पयेत् |
  • 02.32.22chd अब्दे द्व्य्ऽर्धे नदीजानां पञ्चाब्दे पर्वतोकसाम् ( इति)


    Chapt |   Superintendent of chariots
    Superintendent of foot-soldiers
    Activity of the commandant of the armय्
  • 02.33.01 अश्वाध्यक्षेण रथाध्यक्षो व्याख्यातः
  • 02.33.02 स रथकर्मान्तान् कारयेत्
  • 02.33.03 दशपुरुषो द्वादशान्तरो रथः
  • 02.33.04 तस्माद् एकान्तरावरा आषड्ऽन्तराद् इति सप्त रथाः
  • 02.33.05 देवरथपुष्यरथसाङ्ग्रामिकपारियाणिकपरपुराभियानिकवैनयिकांश्च रथान् कारयेत्
  • 02.33.06 इष्व्ऽस्त्रप्रहरणावरण उपकरणकल्पनाः सारथिरथिकरथ्यानां च कर्मस्वायोगं विद्यात्, आकर्मभ्यश्च भक्तवेतनं भृतानां अभृतानां च योग्यारक्षाऽनुष्ठानं अर्थमानकर्म च
  • 02.33.07 एतेन पत्त्य्ऽध्यक्षो व्याख्यातः
  • 02.33.08 स मौलभृतश्रेणिमित्रामित्राटवीबलानां सारफल्गुतां विद्यात्, निम्नस्थलप्रकाशकूटखनकाकाशदिवारात्रियुद्धव्यायामं च, आयोगं अयोगं च कर्मसु
  • 02.33.09 तेद् एव सेनापतिः सर्वयुद्धप्रहरणविद्याविनीतो हस्त्य्ऽश्वरथचर्यासङ्घुष्टश्चतुर्ऽङ्गस्य बलस्यानुष्ठानाधिष्ठानं विद्यात्
  • 02.33.10 स्वभूमिं युद्धकालं प्रत्यनीकं अभिन्नभेदनं भिन्नसन्धानं संहतभेदनं भिन्नवधं दुर्गवधं यात्राकालं च पश्येत्
  • 02.33.11ab तूर्यध्वजपताकाभिर्व्यूहसंज्ञाः प्रकल्पयेत् |
  • 02.33.11chd स्थाने याने प्रहरणे सैन्यानां विनये रतः ( इति)


    Chapt |   Superintendent of passports
    Superintendent of pasture lands
  • 02.34.01 मुद्राऽध्यक्षो मुद्रां माषकेण दद्यात्
  • 02.34.02 स-मुद्रो जनपदं प्रवेष्टुं निष्क्रमितुं वा लभेत
  • 02.34.03 द्वादशपणं अमुद्रो जानपदो दद्यात्
  • 02.34.04 कूटमुद्रायां पूर्वः साहसदण्डः तिरोजनपदस्य उत्तमः
  • 02.34.05 विवीताध्यक्षो मुद्रां पश्येत्
  • 02.34.06 ग्रामान्तरेषु च विवीतं स्थापयेत्
  • 02.34.07 चोरव्यालभयान्निम्नारण्यानि शोधयेत्
  • 02.34.08 अनुदके कूपसेतुबन्ध उत्सान् स्थापयेत्, पुष्पफलवाटांश्च
  • 02.34.09 लुब्धकश्वगणिनः परिव्रजेयुररण्यानि
  • 02.34.10 तस्करामित्राभ्यागमे शङ्खदुन्दुभिशब्दं अग्राह्याः कुर्युः शैलवृक्षाधिरूढा वा शीघ्रवाहना वा
  • 02.34.11 अमित्राटवीसञ्चारं च राज्ञो गृहकपोतैर्मुद्रायुक्तैर्हारयेत्, धूमाग्निपरम्परया वा
  • 02.34.12ab द्रव्यहस्तिवनाजीवं वर्तनीं चोररक्षणम् |
  • 02.34.12chd सार्थातिवाह्यं गोरक्ष्यं व्यवहारं च कारयेत् ( इति)


    Chapt |   Activity of the administrator
    Secret agents in the disguise of householders, traders, and ascetics
  • 02.35.01 समाहर्ता चतुर्धा जनाप्दं विभज्य ज्येष्ठमध्यमकनिष्ठविभागेन ग्रामाग्रं परिहारकं आयुधीयं धान्यपशुहिरण्यकुप्यविष्टिप्रतिकरं इदं एतावद् इति निबन्धयेत्
  • 02.35.02 तत्प्रदिष्टः पञ्चग्रामीं दशग्रामीं वा गोपश्चिन्तयेत्
  • 02.35.03 सीमावरोधेन ग्रामाग्रं, कृष्टाकृष्टस्थलकेदारारामषण्डवाटवनवास्तुचैत्यदेवगृहसेतुबन्धश्मशानसत्त्रप्रपापुण्यस्थानविवीतपथिसङ्ख्यानेन क्षेत्राग्रं, तेन सीम्नां क्षेत्राणां च करदाकरदसङ्ख्यानेन
  • 02.35.04 तेषु च एतावच्चातुर्वार्ण्यं, एतावन्तः कर्षकगोरक्षकवैदेहककारुकर्मकरदासाश्च, एतावच्च द्विपदचतुष्पदं, इदं च एषु हिरण्यल्विष्टिशुल्कदण्डं समुत्तिष्ठति इति
  • 02.35.05 कुलानां च स्त्रीपुरुषाणां बालवृद्धकर्मचरित्राजीवव्ययपरिमाणं विद्यात्
  • 02.35.06 एवं च जनपदचतुर्भागं स्थानिकश्चिन्तयेत्
  • 02.35.07 गोपस्थानिकस्थानेषु प्रदेष्टारः कार्यकरणं बलिप्रग्रहं च कुर्युः
  • 02.35.08 समाहर्तृप्रदिष्टाश्च गृहपतिकव्यञ्जना येषु ग्रामेषु प्रणिहिताः तेषां ग्रामाणां क्षेत्रगृहकुलाग्रं विद्युः, मानसञ्जाताभ्यां क्षेत्राणि भोगपरिहाराभ्यां गृहाणि वर्णकर्मभ्यां कुलानि च
  • 02.35.09 तेषां जङ्घाग्रं आयव्ययौ च विद्युः
  • 02.35.10 प्रस्थितागतानां च प्रवासावासकारणं, अनर्थ्यानां च स्त्रीपुरुषाणां चारप्रचारं च विद्युः
  • 02.35.11 एवं वैदेहकव्यञ्जनाः स्वभूमिजानां राजपण्यानां खनिसेतुवनकर्मान्तक्षेत्रजानां प्रमाणं अर्घं च विद्युः
  • 02.35.12 परभूमिजातानां वारिस्थलपथ उपयातानां सारफल्गुपुण्यानां कर्मसु च शुल्कवर्तन्य्ऽअतिवाहिकगुल्मतरदेयभागभक्तपण्यागारप्रमाणं विद्युः
  • 02.35.13 एवं समाहर्तृप्रदिष्टाः तापसव्यञ्जनाः कर्षकगोरक्षकवैदेहकानां अध्यक्षाणां च शौचाशौचं विद्युः
  • 02.35.14 पुराण चोरव्यञ्जनाश्चान्तेवासिनश्चैत्यचतुष्पथशून्यपद उदपाननदीनिपानतीर्थायतनाश्रमारण्यशैलवनगहनेषु स्तेनामित्रप्रवीरपुरुषाणां च प्रवेशनस्थानगमनप्रयोजनान्युपलभेरन्
  • 02.35.15ab समाहर्ता जनपदं चिन्तयेद् एवं उत्थितः |
  • 02.35.15chd चिन्तयेयुश्च संस्थाः ताः संस्थाश्चान्याः स्वयोनयः ( इति)


    Chapt |   Rules for the city-superintendent
  • 02.36.01 समाहर्तृवन्नागरिको नगरं चिन्तयेत्
  • 02.36.02 दशकुलीं गोपो विंशतिकुलीं चत्वारिंशत्कुलीं वा
  • 02.36.03 स तस्यां स्त्रीपुरुषाणां जातिगोत्रनामकर्मभिः जङ्घाग्रं आयव्ययौ च विद्यात्
  • 02.36.04 एवं दुर्गचतुर्भागं स्थानिकश्चिन्तयेत्
  • 02.36.05 धर्मावसथिनः पाषण्डिपथिकान् आवेद्य वासयेयुः, स्वप्रत्ययाश्च तपस्विनः श्रोत्रियांश्च
  • 02.36.06 कारुशिल्पिनः स्वकर्मस्थानेषु स्वजनं वासयेयुः, वैदेहकाश्चान्योन्यं स्वकर्मस्थानेषु
  • 02.36.07 पण्यानां अदेशकालविक्रेतारं अस्वकरणं च निवेदयेयुः
  • 02.36.08 शौण्डिकपाक्वमांसिकाउदनिकरूपाजीवाः परिज्ञातं आवासयेयुः
  • 02.36.09 अतिव्ययकर्तारं अत्याहितकर्माणं च निवेदयेयुः
  • 02.36.10 चिकित्सकः प्रच्छन्नव्रणप्रतीकारकारयितारं अपथ्यकारिणं च गृहस्वामी च निवेद्य गोपस्थानिकयोर्मुच्येत, अन्यथा तुल्यदोषः स्यात्
  • 02.36.11 प्रस्थितागतौ च निवेदयेत्, अन्यथा रात्रिदोषं भजेत
  • 02.36.12 क्षेमरात्रिषु त्रिपणं दद्यात्
  • 02.36.13 पथिक उत्पथिकाश्च बहिर्ऽन्तश्च नगरस्य देवगृहपुण्यस्थानवनश्मशानेषु स-व्रणं अनिष्ट उपकरणं उद्भाण्डीकृतं आविग्नं अतिस्वप्नं अध्वक्लान्तं अपूर्वं वा गृह्णीयुः
  • 02.36.14 एवं अभ्यन्तरे शून्यनिवेशावेशनशौण्डिकाउदनिकपाक्वमांसिकद्यूतपाषण्डावासेषु विचयं कुर्युः
  • 02.36.15 अग्निप्रतीकारं च ग्रीष्मे
  • 02.36.16 मध्यमयोरह्नश्चतुर्भागयोरष्टभागोऽग्निदण्डः
  • 02.36.17 बहिर्ऽधिश्रयणं वा कुर्युः
  • 02.36.18 पादः पञ्चघटीनां कुम्भद्रोणिनिह्श्रेणीपरशुशूर्पाङ्कुशकचग्रहणीदृतीनां चाकरणे
  • 02.36.19 तृणकटच्छन्नान्यपनयेत्
  • 02.36.20 अग्निजीविन एकस्थान् वासयेत्
  • 02.36.21 स्वगृहप्रद्वारेषु गृहस्वामिनो वसेयुः असम्पातिनो रात्रौ
  • 02.36.22 रथ्यासु कुटव्रजाः सहस्रं तिष्ठेयुः, चतुष्पथद्वारराजपरिग्रहेषु च
  • 02.36.23 प्रदीप्तं अनभिधावतो गृहस्वामिनो द्वादशपणो दण्डः, षट्पणोऽवक्रयिणः
  • 02.36.24 प्रमादाद् दीप्तेषु चतुष्पञ्चाशत्पणो दण्डः
  • 02.36.25 प्रदीपिकोऽग्निना वध्यः
  • 02.36.26 पांसुन्यासे रथ्यायां अष्टभागो दण्डः, पङ्क उदकसम्निरोधे पादः
  • 02.36.27 राजमार्गे द्विगुणः
  • 02.36.28 पण्यस्थान उदकस्थानदेवगृहराजपरिग्रहेषु पण उत्तरा विष्टादण्डाः, मूत्रेष्वर्धदण्डाः
  • 02.36.29 भैषज्यव्याधिभयनिमित्तं अदण्ड्याः
  • 02.36.30 मार्जारश्वनकुलसर्पप्रेतानां नगरस्यान्तर्.उत्सर्गे त्रिपणो दण्डः, खर उष्ट्राश्वतराश्वप्रेतानां षट्पणः, मनुष्यप्रेतानां पञ्चाशत्पणः
  • 02.36.31 मार्गविपर्यासे शवद्वाराद् अन्यतश्च शवनिर्णयने पूर्वः साहसदण्डः
  • 02.36.32 द्वाःस्थानां द्विशतम्
  • 02.36.33 श्मशानाद् अन्यत्र न्यासे दहने च द्वादशपणो दण्डः
  • 02.36.34 विषण्णालिकं उभयतोरात्रं यामतूर्यम्
  • 02.36.35 तूर्यशब्दे राज्ञो गृहाभ्याशे सपादपणंऽक्षणताडनं प्रथमपश्चिमयामिकं, मध्यमयामिकं द्विगुणं, अन्तश्चतुर्गुणम्
  • 02.36.36 शङ्कनीये देशे लिङ्गे पूर्वापदाने च गृहीतं अनुयुञ्जीत
  • 02.36.37 राजपरिग्रह उपगमने नगररक्षाऽऽरोहणे च मध्यमः साहसदण्डः
  • 02.36.38 सूतिकाचिकित्सकप्रेतप्रदीपयाननागरिकतूर्यप्रेक्षाऽग्निनिमित्तं मुद्राभिश्चाग्राह्याः
  • 02.36.39 चाररात्रिषु प्रच्छन्नविपरीतवेषाः प्रव्रजिता दण्डशस्त्रहस्ताश्च मनुष्या दोषतो दण्ड्याः
  • 02.36.40 रक्षिणां अवार्यं वारयतां वार्यं चावारयतां क्षणद्विगुणो दण्डः
  • 02.36.41 स्त्रियं दासीं अधिमेहयतां पूर्वः साहसदण्डः, अदासीं मध्यमः, कृतावरोधां उत्तमः, कुलस्त्रियं वधः
  • 02.36.42 चेतनाचेतनिकं रात्रिदोषं अशंसतो नागरिकस्य दोषानुरूपो दण्डः, प्रमादस्थाने च
  • 02.36.43 नित्यं उदकस्थानमार्गभ्रमच्छन्नपथवप्रप्राकाररक्षाऽवेक्षणं नष्टप्रस्मृतापसृतानां च रक्षणम्
  • 02.36.44 बन्धनागारे च बालवृद्धव्याधितानाथानां जातनक्षत्रपौर्णमासीषु विसर्गः
  • 02.36.45 पण्यशीलाः समयानुबद्धा वा दोषनिष्क्रयं दद्युः
  • 02.36.46ab दिवसे पञ्चरात्रे वा बन्धनस्थान् विशोधयेत् |
  • 02.36.46chd कर्मणा कायदण्डेन हिरण्यानुग्रहेण वा
  • 02.36.47ab अपूर्वदेशाधिगमे युवराजाभिSएचने |
  • 02.36.47chd पुत्रजन्मनि वा मोक्षो बन्धनस्य विधीयते ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]