कौटिलीय अर्थशास्त्रं ९
दिखावट
Book | Chapt | शक्तिदेशकालबलाबलज्ञानं - यात्राकालाः
- 09.1.01 विजिगीषुरात्मनः परस्य च बलाबलं शक्तिदेशकालयात्राकालबलसमुद्दानकालपश्चात्कोपक्षयव्ययलाभापदां ज्ञात्वा विशिष्टबलो यायात्, अन्यथाऽऽसीत
- 09.1.02 उत्साहप्रभावयोरुत्साहः श्रेयान्
- 09.1.03 स्वयं हि राजा शूरो बलवान् अरोगः कृतास्त्रो दण्डद्वितीयोऽपि शक्तः प्रभाववन्तं राजानं जेतुम्
- 09.1.04 अल्पोऽपि चास्य दण्डः तेजसा कृत्यकरो भवति
- 09.1.05 निरुत्साहः तु प्रभाववान् राजा विक्रमाभिपन्नो नश्यति इत्याचार्याः
- 09.1.06 न इति कौटिल्यः
- 09.1.07 प्रभाववान् उत्साहवन्तं राजानं प्रभावेनातिसन्धत्ते तद्विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीरपुरुषान्
- 09.1.08 प्रभूतप्रभावहयहस्तिरथ उपकरणसम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति
- 09.1.09 उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोऽन्धाश्च पृथिवीं जिग्युरिति
- 09.1.10 प्रभावमन्त्रयोः प्रभावः श्रेयान्
- 09.1.11 मन्त्रशक्तिसम्पन्नो हि वन्ध्यबुद्धिरप्रभावो भवति
- 09.1.12 मन्त्रकर्म चास्य निश्चितं अप्रभावो गर्भधान्यं अवृष्टिरिव उपहन्ति इत्याचार्याः
- 09.1.13 न इति कौटिल्यः
- 09.1.14 मन्त्रशक्तिः श्रेयसी
- 09.1.15 प्रज्ञाशास्त्रचक्षुर्हि राजाऽल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परान् उत्साहप्रभाववतश्च सामादिभिर्योग उपनिषद्भ्यां चातिसन्धातुम्
- 09.1.16 एवं उत्साहप्रभावमन्त्रशक्तीनां उत्तर उत्तराधिकोऽतिसन्धत्ते
- 09.1.17 देशः पृथिवी
- 09.1.18 तस्यां हिमवत्समुद्रान्तरं उदीचीनं योजनसहस्रपरिमाणं तिर्यक् चक्रवर्तिक्षेत्रम्
- 09.1.19 तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः
- 09.1.20 तेषु यथास्वबलवृद्धिकरं कर्म प्रयुञ्जीत
- 09.1.21 यत्रात्मनः सैन्यव्यायामानां भूमिः, अभूमिः परस्य, स उत्तमो देशः, विपरीतोऽधमः, साधारणो मध्यमः
- 09.1.22 कालः शीत उष्णवर्षात्मा
- 09.1.23 तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः
- 09.1.24 तेषु यथास्वबलवृद्धिकरं कर्मप्रयुञ्जीत
- 09.1.25 यत्रात्मनः सैन्यव्यायामानां ऋतुः अनृतुः परस्य, स उत्तमः कालः, विपरीतोऽधमः, साधारणो मध्यमः
- 09.1.26 शक्तिदेशकालानां तु शक्तिः श्रेयसी इत्याचार्याः
- 09.1.27 शक्तिमान् हि निम्नस्थलवतो देशस्य शीत उष्णवर्षवतश्च कालस्य शक्तः प्रतीकारे भवति
- 09.1.28 देशः श्रेयान् इत्येके
- 09.1.29 स्थलगतो हि श्वा नक्रं विकर्षति, निम्नगतो नक्रः श्वानम् इति
- 09.1.30 कालः श्रेयान् इत्येके
- 09.1.31 दिवा काकः कौशिकं हन्ति, रात्रौ कौशिकः काकम् इति
- 09.1.32 न इति कौटिल्यः
- 09.1.33 परस्परसाधका हि शक्तिदेशकालाः
- 09.1.34 तैरभ्युच्चितः तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्ताटवीषु च रक्षा विधाय कार्यसाधनसहं कोशदण्डं चादाय क्षीणपुराणभक्तं अगृहीतनवभक्तं असंस्कृतदुर्गममित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात्
- 09.1.35 हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात्
- 09.1.36 क्षीणकृणकाष्ठ उदकं असंस्कृतदुर्गममित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात्
- 09.1.37 अत्युष्णं अल्पयवस इन्धन उदकं वा देशं हेमन्ते यायात्
- 09.1.38 तुषारदुर्दिनं अगाधनिम्नप्रायं गहनतृणवृक्षं वा देशं ग्रीष्मे यायात्
- 09.1.39 स्वसैन्यव्यायामयोग्यं परस्यायोग्यं वर्षति यायात्
- 09.1.40 मार्गशीर्षीं तैषीं चान्तरेण दीर्घकालां यात्रां यायात्, चैत्रीं वैशाखीं चान्तरेण मध्यमकालां, ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्वकालां, उपोषिष्यन् व्यसने चतुर्थीम्
- 09.1.41 व्यसनाभियानं विगृह्ययाने व्याख्यातम्
- 09.1.42 प्रायशश्चाचार्याः परव्यसने यातव्यम् इत्युपदिशन्ति
- 09.1.43 शक्त्य्.उदये यातव्यं अनैकान्न्तिकत्वाद् व्यसनानां इति कौटिल्यः
- 09.1.44 यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयाद् अमित्रं तदा यायात्
- 09.1.45 अत्युष्ण उपक्षीणे काले हस्तिबलप्रायो यायात्
- 09.1.46 हस्तिनो ह्यन्तःस्वेदाः कुष्ठिनो भवन्ति
- 09.1.47 अनवगाहमानाः तोयं अपिबन्तश्चान्तर्ऽवक्षाराच्चान्धीभवन्ति
- 09.1.48 तस्मात् प्रभूत उदके देशे वर्षति च हस्तिबलप्रायो यायात्
- 09.1.49 विपर्यये खर उष्ट्राश्वबलप्रायो देशं अल्पवर्षपङ्कम्
- 09.1.50 वर्षति मरुप्रायं चतुर्ऽङ्गबलो यायात्
- 09.1.51 समविषमनिम्नस्थलह्रस्वदीर्घवशेन वाऽध्वनो यात्रां विभजेत्
- 09.1.52ab सर्वा वा ह्रस्वकालाः स्युर्यातव्याः कार्यलाघवात् |
- 09.1.52chd दीर्घाः कार्यगुरुत्वाद् वा वर्षावासः परत्र च ( इति)
Chapt | बल उपादानकालाः -सम्नाहगुणाः -प्रतिबलकर्म
- 09.2.01 मौलभृतकश्रेणीमित्रामित्राटवीबलानां समुद्दानकालाः
- 09.2.02 मूलरक्षणाद् अतिरिक्तं मौलबलं, अत्यावापयुक्ता वा मौला मूले विकुर्वीरन्, बहुलानुरक्तमौलबलः सारबलो वा प्रतियोद्धा, व्यायामेन योद्धव्यं, प्रकृष्टेऽध्वनि काले वा क्षयव्ययसहत्वान् मौलानां, बहुलानुरक्तसम्पाते च यातव्यस्य उपजापभयाद् अन्यसैन्यानां भृतादीनां अविश्वासे, बलक्षये वा सर्वसैन्यानां - इति मौलबलकालः
- 09.2.03 प्रभूतं मे भृतबलं अल्पं च मौलबलम्ण् परस्याल्पं विरक्तं वा मौलबलं, फल्गुप्रायं असारं वा भृतसैन्यम्ण् मन्त्रेण योद्धव्यं अल्पव्यायामेनण् ह्रस्वो देशः कालो वा तनुक्षयव्ययह्ण् अल्पावापं शान्त उपजापं विश्वस्तं वा मे सैन्यम्ण् परस्याल्पः प्रसारो हन्तव्यह्ण् - इति भृतबलकालः
- 09.2.04 प्रभूतं मे श्रेणीबलं, शक्यं मूले यात्रायां चाधातुम्ण् ह्रस्वः प्रवासः, श्रेणीबलप्रायः प्रतियोद्धा मन्त्रव्यायामाभ्यां प्रतियोद्धुकामः, दण्डबलव्यवहारः - इति श्रेणीबलकालः
- 09.2.05 प्रभूतं मे मित्रबलं शक्यं मूले यात्रायां चाधातुम्ण् अल्पः प्रवासो मन्त्रयुद्धाच्च भूयो व्यायामयुद्धम्ण् मित्रबलेन वा पूर्वं अटवीं नगरस्थानं आसारं वा योधयित्वा पश्चात् स्वबलेन योद्धयिष्यामिण् मित्रसाधारणं वा मे कार्यम्ण् मित्रायत्ता वा मे कार्यसिद्धिह्ण् आसन्नं अनुग्राह्यं वा मे मित्रम्ण् अत्यावापं वाऽस्य सादयिष्यामि - इति मित्रबलकालः
- 09.2.06 प्रभूतं मे शत्रुबलं, शत्रुबलेन योधयिष्यामि नगरस्थानं अटवीं वा, तत्र मे श्ववराहयोः कलहे चण्डालस्य इवान्यतरसिद्धिर्भविष्यतिण् आसाराणां अटवीनां वा कण्टकमर्दनं एतत् करिष्यामिण् - अत्युपचितं वा कोपभयान्नित्यं आसन्नं अरिबलं वासयेद्, अन्यत्राभ्यन्तरकोपशङ्कायाः - शत्रुयुद्धावरयुद्धकालश्च - इत्यमित्रबलकालः
- 09.2.07 तेनाटवीबलकालो व्याख्यातः
- 09.2.08 मार्गादेशिकं, परभूमियोग्यं, अरियुद्धप्रतिलोमं, अटवीबलप्रायः शत्रुर्वा, बिल्वं बिल्वेन हन्यताम्ण् अल्पः प्रसारो हन्तव्यः - इत्यटवीबलकालः
- 09.2.09 सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोपार्थं यद् उत्तिष्ठति तद् औत्साहिकं - अभक्तवेतनं विलोपविष्टिप्रतापकरं भेद्यं परेषां, अभेद्यं तुल्यदेशजातिशिल्पप्रायं संहतं महत् इति बल उपादानकालाह्
- 09.2.10 तेषां कुप्यभृतं अमित्राटवीबलं विलोपभृतं वा कुर्यात्
- 09.2.11 अमित्रस्य वा बलकाले प्रत्युत्पन्ने शत्रुबलं अवगृह्णीयात्, अन्यत्र वा प्रेषयेत्, अफलं वा कुर्यात्, विक्षिप्तं वा वासयेत्, काले वाऽतिक्रान्ते विसृजेत्
- 09.2.12 परस्य च एतद् बलसमुद्दानं विघातयेत्, आत्मनः सम्पादयेत्
- 09.2.13 पूर्वं पूर्वं च एषां श्रेयः सम्नाहयितुम्
- 09.2.14 तद्भावभावित्वान्नित्यसत्कारानुगमाच्च मौलबलं भृतबलात्श्रेयः
- 09.2.15 नित्यानन्तरं क्षिप्र उत्थायि वश्यं व भृतबलं श्रेणीबलात्श्रेयः
- 09.2.16 जानपदं एकार्थ उपगतं तुल्यसङ्घर्षामर्षसिद्धिलाभं च श्रेणीबलं मित्रबलात्श्रेयः
- 09.2.17 अपरिमितदेशकालं एकार्थ उपगमाच्च मित्रबलं अमित्रबलात्श्रेयः
- 09.2.18 आर्याधिष्ठितं अमित्रबलं अटवीबलात्श्रेयः
- 09.2.19 तद् उभयं विलोपार्थम्
- 09.2.20 अविलोपे व्यसने च ताभ्यां अहिभयं स्यात्
- 09.2.21 ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात् पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः
- 09.2.22 न इति कौटिल्यः
- 09.2.23 प्रणिपातेन ब्राह्मणबलं परोऽभिहारयेत्
- 09.2.24 प्रहरणविद्याविनीतं तु क्षत्रियबलं श्रेयः, बहुलसारं वा वैश्यशूद्रबलं इति
- 09.2.25 तस्माद् एवम्बलः परः, तस्य एतत् प्रतिबलं इति बलसमुद्दानं कुर्यात्
- 09.2.26 हस्तियन्त्रशकटगर्भकुन्तप्रासहाटकवेणुशल्यवद् हस्तिबलस्य प्रतिबलम्
- 09.2.27 तद् एव पाषाणलगुडावरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रतिबलम्
- 09.2.28 तद् एवाश्वानां प्रतिबलं, वर्मिणो वा हस्तिनोऽश्वा वा वर्मिणः
- 09.2.29 कवचिनो रथा आवरणिनः पत्तयश्च चतुर्ऽङ्गबलस्य प्रतिबलम्
- 09.2.30ab एवं बलसमुद्दानं परसैन्यनिवारणम् |
- 09.2.30chd विभवेन स्वसैन्यानां कुर्याद् अङ्गविकल्पशः ( इति)
Chapt | पश्चात्कोपचिन्ता - बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारः
- 09.3.01 अल्पः पश्चात्कोपो महान् पुरस्ताल्लाभ इति अल्पः पश्चात्कोपो गरीयान्
- 09.3.02 अल्पं पश्चात्कोपं प्रयातस्स्य दूष्यामित्राटविका हि सर्वतः समेधयन्ति, प्रकृतिकोपो वा
- 09.3.03 लब्धं अपि च महान्तं पुरस्ताल्लाहं एवम्भूते भृत्यमित्रक्षयव्यया ग्रसन्ते
- 09.3.04 तस्मात् सहस्र एकीयः पुरस्ताल्लाभस्यायोगः शत एकीयो वा पश्चात्कोप इति न यायात्
- 09.3.05 सूचीमुखा ह्यनर्था इति लोकप्रवादः
- 09.3.06 पश्चात्कोपे सामदानभेददण्डान् प्रयुञ्जीत
- 09.3.07 पुरस्ताल्लाभे सेनापतिं कुमारं वा दण्डचारिणं कुर्वीत
- 09.3.08 बलवान् वा राजा पश्चात्कोपावग्रहसमर्थः पुरस्ताल्लाभं आदातुं यायात्
- 09.3.09 अभ्यन्तरकोपशङ्कायां शङ्कितान् आदाय यायात्, बाह्यकोपशङ्कायां वा पुत्रदारं एषाम्
- 09.3.10 अभ्यन्तरावग्रहं कृत्वा शून्यपालं अनेकबलवर्गं अनेकमुख्यं च स्थापयित्वा यायात्, न वा यायात्
- 09.3.11 अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्तात्
- 09.3.12 मन्त्रपुरोहितसेनापतियुवराजानां अन्यतमकोपोऽभ्यन्तरकोपः
- 09.3.13 तं आत्मदोषत्यागेन परशक्त्य्ऽपराधवशेन वा साधयेत्
- 09.3.14 महाऽपराधेऽपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः, युवराजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन् सति पुत्रे
- 09.3.15 पुत्रं भ्रातरं अन्यं वा कुल्यं राजग्राहिणं उत्साहेन साधयेत्, उत्साहाब्भावे गृहीतानुवर्तनसन्धिकर्मभ्यां अरिसन्धानभयात्
- 09.3.16 अन्येभ्यः तद्विधेभ्यो वा भूमिदानैर्विश्वासयेद् एनम्
- 09.3.17 तद्विशिष्टं स्वयङ्ग्राहं दण्डं वा प्रेषयेत्, सामन्ताटविकान् वा, तैर्विगृहीतं अतिसन्दध्यात्
- 09.3.18 अपरुद्धादानं पारग्रामिकं वा योगं आतिष्ठेत्
- 09.3.19 एतेन मन्त्रसेनापती व्याख्यातौ
- 09.3.20 मन्त्र्य्ऽअदिवर्जानां अन्तर्ऽमात्यानां अन्यतमकोपोऽन्तर्ऽमात्यकोपः
- 09.3.21 तत्रापि यथाऽर्हं उपायान् प्रयुञ्जीत
- 09.3.22 राष्ट्रमुख्यान्तपालाटविकदण्ड उपनतानां अन्यतमकोपो बाह्यकोपः
- 09.3.23 तं अन्योन्येनावग्राहयेत्
- 09.3.24 अतिदुर्गप्रतिष्टब्धं वा सामन्ताटविकतत्कुलीनापरुद्धानां अन्यतमेनावग्राहयेत्
- 09.3.25 मित्रेण उपग्राहयेद् वा यथा नामित्रं गच्छेत्
- 09.3.26 अमित्राद् वा सत्त्री भेदयेद् एनं - अयं त्वा योगपुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति, अवाप्तार्थो दण्डचारिणं अमित्राटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति, विपुत्रदारं अन्ते वा वासयिष्यति
- 09.3.27 प्रतिहतविक्रमं त्वां भर्तर्य्पण्यं करिष्यति, त्वया वा सन्धिं कृत्वा भर्तारं एव प्रसादयिष्यति
- 09.3.28 मित्रं उपकृष्टं वाऽस्य गच्छ इति
- 09.3.29 प्रतिपन्नं इष्टाभिप्रायैः पूजयेत्
- 09.3.30 अप्रतिपन्नस्य संश्रयं भेदयेद् असौ ते योगपुरुषः प्रणिहितः इति
- 09.3.31 सत्त्री च एनं अभित्यक्तशासनैर्घातयेत्, गूढपुरुषैर्वा
- 09.3.32 सहप्रस्थायिनो वाऽस्य प्रवीरपुरुषान् यथाऽभिप्रायकरणेनावाहयेत्
- 09.3.33 तेन प्रणिहितान् सत्त्री ब्रूयात्
- 09.3.34 इति सिद्धिः
- 09.3.35 परस्य च एनान् कोपान् उत्थापयेत्, आत्मनश्च शमयेत्
- 09.3.36 यः कोपं कर्तुं शमयितुं वा शक्तः तत्र उपजापः कार्यः
- 09.3.37 यः सत्यसन्धः शक्तः कर्मणि फलावाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश्च कल्याणबुद्धिरुताहो शठ इति
- 09.3.38 शठो हि बाह्योऽभ्यन्तरं एवं उपजपति - भर्तारं चेद्द् हत्वा मां प्रतिपादयिष्यति शत्रुवधो भूमिलाभश्च मे द्विविधो लाभो भविष्यति, अथ वा शत्रुरेनं आहनिष्यति इति हतबन्धुपक्षः तुल्यदोषदण्डेन उद्विग्नश्च मे भूयान् अकृत्यपक्षो भविष्यति, तद्विधे वाऽन्यस्मिन्न् अपि शङ्कितो भविष्यति, अन्यं अन्यं चास्य मुख्यं अभित्यक्तशासनेन घातयिष्यामि इति
- 09.3.39 अभ्यन्तरो वा शठो बाह्यं एवं उपजपति - कोशं अस्य हरिष्यामि, दण्डं वाऽस्य हनिष्यामि, दुष्टं वा भर्तारं अनेन घातयिष्यामि, प्रतिपन्नं बाह्यं अमित्राटविकेषु विक्रमयिष्यामि चक्रं अस्य सज्यतां, वैरं अस्य प्रसज्यतां, ततः स्वाधीनो मे भविष्यति, ततो भर्तारं एव प्रसादयिष्यामि, स्वयं वा राज्यं ग्रहीष्यामिण् बद्ध्वा वा बाह्यभूमिं भर्तृभूमिं च उभयं अवाप्स्यामि, विरुद्धं वाऽऽवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि, शून्यं वाऽस्य मूलं हरिष्यामि इति
- 09.3.40 कल्याणबुद्धिः तु सहजीव्यर्थं उपजपति
- 09.3.41 कल्याणबुद्धिना सन्दधीत, शठं तथा इति प्रतिगृह्यातिसन्दध्यात् - इति
- 09.3.42ab एवं उपलभ्य - परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे |
- 09.3.42chd रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ( इति)
Chapt | क्षयव्ययलाभविपरिमर्शः
- 09.4.01 युग्यपुरुषापचयः क्षयः
- 09.4.02 हिरण्यधान्यापचयो व्ययः
- 09.4.03 ताभ्यां बहुगुणविशिष्टे लाभे यायात्
- 09.4.04 आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्वकालः तनुक्षयोऽल्पव्ययो महान् वृद्ध्य्.उदयः कल्यो धर्म्यः पुरोगश्च इति लाभसम्पत्
- 09.4.05 सुप्राप्यानुपाल्यः परेषां अप्रत्यादेय इत्यादेयः
- 09.4.06 विपर्यये प्रत्यादेयः
- 09.4.07 तं आददानः तत्रस्थो वा विनाशं प्राप्नोति
- 09.4.08 यदि वा पश्येत् प्रत्यादेयं आदाय कोशदण्डनिचयरक्षाविधानान्यवस्रावयिष्यामि, खनिद्रव्यहस्तिवनसेतुबन्धवणिक्पथान् उद्धृतसारान् करिष्यामि, प्रकृतीरस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेनाराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वाऽस्य पण्यं एनं करिष्यामि, मित्रं अपरुद्धं वाऽस्य प्रतिपादयिष्यामि, मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थः तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि, मित्रं आश्रयं वाऽस्य वैगुण्यं ग्राहयिष्यामि, तद् अमित्रविरक्तं तत्कुलीनं प्रतिपत्स्यते, सत्कृत्य वाऽस्मै भूमिं दास्यामि इति संहितसमुत्थितं मित्रं मे चिराय भविष्यति इति प्रत्यादेयं अपि लाभं आददीत
- 09.4.09 इत्यादेयप्रत्यादेयौ व्याख्यातौ
- 09.4.10 अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति
- 09.4.11 विपरीतः प्रकोपक इति
- 09.4.12 मन्त्रिणां उपदेशाल्लाभोऽलभ्यमानः कोपको भवति अयं अस्माभिः क्षयव्ययौ ग्राहितः इति
- 09.4.13 दूष्यमन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति सिद्धार्थोऽयं अस्मान् विनाशयिष्यति इति
- 09.4.14 विपरीतः प्रसादकः
- 09.4.15 इति प्रसादककोपकौ व्याख्यातौ
- 09.4.16 गमनमात्रसाध्यत्वाद् ह्रस्वकालः
- 09.4.17 मन्त्रसाध्यत्वात् तनुक्षयः
- 09.4.18 भक्तमात्रव्ययत्वाद् अल्पव्ययः
- 09.4.19 तदात्ववैपुल्यान् महान्
- 09.4.20 अर्थानुबन्धकत्वाद् वृद्ध्य्.उदयः
- 09.4.21 निराबाधकत्वात् कल्यः
- 09.4.22 प्रशस्त उपादानाद् धर्म्यः
- 09.4.23 सामवायिकानां अनिर्बन्धगामित्वात् पुरोगः - इति
- 09.4.24 तुल्ये लाभे देशकालौ शक्त्य्.उपायौ प्रियाप्रियौ जवाजवौ सामीप्यविप्रकर्षौ तदात्वानुबन्धौ सारत्वसातत्ये बाहुल्यबाहुगुण्ये च विमृश्य बहुगुणयुक्तं लाभं आददीत
- 09.4.25 लाभविघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीरनार्यभावो मानः सानुक्रोशता परलोकापेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्तगतावमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत उष्णवर्षाणां आक्षम्यं मङ्गलतिथिनक्षत्र इष्टित्वं इति
- 09.4.26ab नक्षत्रं अति पृच्छन्तं बालं अर्थोऽतिवर्तते |
- 09.4.26chd अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः
- 09.4.27ab नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्नशतैरपि |
- 09.4.27chd अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ( इति)
Chapt | बाह्याभ्यन्तराश्चापदः
- 09.5.01 सन्ध्य्ऽअदीनां अयथा उद्देशावस्थापनं अपनयः
- 09.5.02 तस्माद् आपदः सम्भवन्ति
- 09.5.03 बाह्य उत्पत्तिरभ्यन्तरप्रतिजापा, अभ्यन्तर उत्पत्तिर्बाह्यप्रतिजापा, बाह्य उत्पत्तिर्बाह्यप्रतिजापा, अभ्यन्तर उत्पत्तिरभ्यन्तरप्रतिजापा - इत्यापदः
- 09.5.04 यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र उभययोगे प्रतिजपतः सिद्धिर्विशेषवती
- 09.5.05 सुव्याजा हि प्रतिजपितारो भवन्ति, न उपजपितारः
- 09.5.06 तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः
- 09.5.07 कृच्छ्र उपजापा हि बाह्यानां अभ्यन्तराः तेषां इतरे वा
- 09.5.08 महतश्च प्रयत्नस्य वधः परेषां, अर्थानुबन्धश्चात्मन इति
- 09.5.09 अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत
- 09.5.10 स्थानमानकर्म सान्त्वम्
- 09.5.11 अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम्
- 09.5.12 बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत
- 09.5.13 सत्त्रिणो मित्रव्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः अयं वो राजा दूष्यव्यञ्जनैरतिसन्धातुकामः, बुध्यध्वम् इति
- 09.5.14 दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः, बाह्यान् वा दूष्यैः
- 09.5.15 दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्ररसाभ्यां हन्युः
- 09.5.16 आहूय वा बाह्यान् घातयेयुः
- 09.5.17 यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र एकान्तयोग उपजपितुः सिद्धिर्विशेषवती
- 09.5.18 दोषशुद्धौ हि दूष्या न विद्यन्ते
- 09.5.19 दूष्यशुद्धौ हि दोषः पुनरन्यान् दूषयति
- 09.5.20 तस्माद् बाह्येषु उपजपत्सु भेददण्डौ प्रयुञ्जीत
- 09.5.21 सत्त्रिणो मित्रव्यञ्जना वा ब्रूयुः अयं वो राजा स्वयं आदातुकामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम् इति
- 09.5.22 प्रतिजपितुर्वा दूतदण्डान् अनुप्रविष्टाः तीक्ष्णाः शस्त्ररसादिभिरेषां छिद्रेषु प्रहरेयुः
- 09.5.23 ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः
- 09.5.24 अभ्यन्तरान् अभ्यन्तरेषु उपजपत्सु यथाऽर्हं उपायं प्रयुञ्जीत
- 09.5.25 तुष्टलिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत
- 09.5.26 शौचसामर्थ्यापदेशेन व्यसनाभ्युदयावेक्षणेन वा प्रतिपूजनं इति दानम्
- 09.5.27 मित्रव्यञ्जनो वा ब्रूयाद् एतान् चित्तज्ञानार्थं उपधास्यति वो राजा, तद् अस्याख्यातव्यं इति
- 09.5.28 परस्पराद् वा भेदयेद् एनान् असौ चासौ च वो राजन्येवं उपजपति - इति भेदः
- 09.5.29 दाण्डकर्मिकवच्च दण्डः
- 09.5.30 एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत्
- 09.5.31 अहिभयाद् अभ्यन्तरकोपो बाह्यकोपात् पापीयान् इत्युक्तं पुरस्ताद्
- 09.5.32ab पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदाम् |
- 09.5.32chd उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ( इति)
Chapt | दूष्यशत्रुसम्युक्ताः <आपदह्>
- 09.6.01 दूष्येभ्यः शत्रुभ्यश्च द्विविधा शुद्धा
- 09.6.02 दूष्यशुद्धायां पौरेषु जानपदेषु वा दण्डवर्जान् उपायान् प्रयुञ्जीत
- 09.6.03 दण्डो हि महाजने क्षेप्तुं अशक्यः
- 09.6.04 क्षिप्तो वा तं चार्थं न कुर्यात्, अन्यं चानर्थं उत्पादयेत्
- 09.6.05 मुख्येषु त्वेषां दाण्डकर्मिकवच्चेष्टेत
- 09.6.06 शत्रुशुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः सामादिभिः सिद्धिं लिप्सेत
- 09.6.07 स्वामिन्यायत्ता प्रधानसिद्धिः, मन्त्रिष्वायत्ताऽऽयत्तसिद्धिः, उभयायत्ता प्रधानायत्तसिद्धिः
- 09.6.08 दूष्यादूष्याणां आमिश्रितत्वाद् आमिश्रा
- 09.6.09 आमिश्रायां अदूष्यतः सिद्धिः
- 09.6.10 आलम्बनाभावे ह्यालम्बिता न विद्यन्ते
- 09.6.11 मित्रामित्राणां एकीभावात् परमिश्रा
- 09.6.12 परमिश्रायां मित्रतः सिद्धिः
- 09.6.13 सुकरो हि मित्रेण सन्धिः, नामित्रेण इति
- 09.6.14 मित्रं चेन्न सन्धिं इच्छेद् अभीक्ष्णं उपजपेत्
- 09.6.15 ततः सत्त्रिभिरमित्राद् भेदयित्वा मित्रं लभेत
- 09.6.16 मित्रसङ्घस्य वा योऽन्तस्थायी तं लभेत
- 09.6.17 अन्तस्थायिनि लब्धे मध्यस्थायिनो भिद्यन्ते
- 09.6.18 मध्यस्थायिनं वा लभेत
- 09.6.19 मध्यस्थायिनि लब्धे नान्तस्थायिनः संहन्यन्ते
- 09.6.20 यथा च एषां आश्रयभेदः तान् उपायान् प्रयुञ्जीत
- 09.6.21 धार्मिकं जातिकुलश्रुतवृत्तस्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य उपकारान् अपकाराभ्यां वा सान्त्वयेत्
- 09.6.22 निवृत्त उत्साहं विग्रहश्रान्तं प्रतिहत उपायं क्षयव्ययाभ्यां प्रवासेन च उपतप्तं शौचेनान्यं लिप्समानं अन्यस्माद् वा शङ्कमानं मैत्रीप्रधानं वा कल्याणबुद्धिं साम्ना साधयेत्
- 09.6.23 लुब्धं क्षीणं वा तपस्विमुख्यावस्थापनापूर्वं दानेन साधयेत्
- 09.6.24 तत् पञ्चविधं - देयविसर्गो गृहीतानुवर्तनं आत्तप्रतिदानं स्वद्रव्यदानं अपूर्वं परस्वेषु स्वयङ्ग्राहदानं च
- 09.6.25 इति दानकर्म
- 09.6.26 परस्परद्वेषवैरभूमिहरणशङ्कितं अतोऽन्यतमेन भेदयेत्
- 09.6.27 भीरुं वा प्रतिघातेन कृतसन्धिरेष त्वयि कर्मकरिष्यति, मित्रं अस्य निसृष्टं, सन्धौ वा नाभ्यन्तरः इति
- 09.6.28 यस्य वा स्वदेशाद् अन्यदेशाद् वा पण्यानि पण्यागारतयाऽऽगच्छेयुः तानि अस्य यातव्याल्लब्धानि इति सत्त्रिणश्चारयेयुः
- 09.6.29 बहुलीभूते शासनं अभित्यक्तेन प्रेषयेत् एतत् ते पण्यं पण्यागारं वा मया ते प्रेषितं, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पणशेषं अवाप्स्यसि इति
- 09.6.30 ततः सत्त्रिणः परेषु ग्राहयेयुः एतद् अरिप्रदत्तम् इति
- 09.6.31 शत्रुप्रख्यातं वा पण्यं अविज्ञातं विजिगीषुं गच्छेत्
- 09.6.32 तद् अस्य वैदेहकव्यञ्जनाः शत्रुमुख्येषु विक्रीणीरन्
- 09.6.33 ततः सत्त्रिणः परेषु ग्राहयेयुः एतत् पण्यं अरिप्रदत्तम् इति
- 09.6.34 महाऽपराधान् अर्थमानाभ्यां उपगृह्य वा शस्त्ररसाग्निभिरमित्रे प्रणिदध्यात्
- 09.6.35 अथ एकं अमात्यं निष्पातयेत्
- 09.6.36 तस्य पुत्रदारं उपगृह्य रात्रौ हतं इति ख्यापयेत्
- 09.6.37 अथामात्यः शत्रोः तान् एक एकशः प्ररूपयेत्
- 09.6.38 ते चेद् यथा उक्तं कुर्युर्न च एनान् ग्राहयेत्
- 09.6.39 अशक्तिमतो वा ग्राहयेत्
- 09.6.40 आप्तभाव उपगतो मुख्याद् अस्यात्मानं रक्षणीयं कथयेत्
- 09.6.41 अथामित्रशासनं मुख्य उपघाताय प्रेषितं उभयवेतनो ग्राहयेत्
- 09.6.42 उत्साहशक्तिमतो वा प्रेषयेत् अमुष्य राज्यं गृहाण, यथाऽस्थितो नः सन्धिः इति
- 09.6.43 ततः सत्त्रिणः परेषु ग्राहयेयुः
- 09.6.44 एकस्य स्कन्धावारं वीवधं आसारं वा घातयेयुः
- 09.6.45 इतरेषु मैत्रीं ब्रुवाणाः त्वं एतेषां घातयितव्यः इत्युपजपेयुः
- 09.6.46 यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत गूढपुरुषैर्हन्येत ह्रियेत वा सत्त्रिणः परस्पर उपहतं ब्रूयुः
- 09.6.47 ततः शासनं अभिशस्तस्य प्रेषयेत् भूयः कुरु ततः पणशीषं अवाप्स्यसि इति
- 09.6.48 तद् उभयवेतना ग्राहयेयुः
- 09.6.49 भिन्नेष्वन्यतमं लभेत
- 09.6.50 तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः
- 09.6.51 सान्धिकं च भेदं प्रयुञ्जीत
- 09.6.52 इति भेदकर्म
- 09.6.53 तीक्ष्णं उत्साहिनं व्यसनिनं स्थितशत्रुं वा गूढपुरुषाः शस्त्राग्निरसादिभिः साधयेयुः, सौकर्यतो वा तेषां अन्यतमः
- 09.6.54 तीक्ष्णो ह्येकः शस्त्ररसाग्निभिः साधयेत्
- 09.6.55 अयं सर्वसन्दोहकर्म विशिष्टं वा करोति
- 09.6.56 इत्युपायचतुर्वर्गः
- 09.6.57 पूर्वः पूर्वश्चास्य लघिष्ठः
- 09.6.58 सान्त्वं एकगुणम्
- 09.6.59 दानं द्विगुणं सान्त्वपूर्वम्
- 09.6.60 भेदः त्रिगुणः सान्त्वदानपूर्वः
- 09.6.61 दण्डश्चतुर्गुणः सान्त्वदानभेदपूर्वः
- 09.6.62 इत्यभियुञ्जानेषु उक्तम्
- 09.6.63 स्वभूमिष्ठेषु तु त एव उपायाः
- 09.6.64 विशेषः तु
- 09.6.65 स्वभूमिष्ठानां अन्यतमस्य पण्यागारैरभिज्ञातान् दूतमुख्यान् अभीक्ष्णं प्रेषयेत्
- 09.6.66 त एनं सन्धौ परहिंसायां वा योजयेयुः
- 09.6.67 अप्रतिपद्यमानं कृतो नः सन्धिः इत्यावेदयेयुः
- 09.6.68 तं इतरेषां उभयवेतनाः सङ्क्रामयेयुः अयं वो राजा दुष्टः इति
- 09.6.69 यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः अयं ते शत्रुणा सन्धत्ते, पुरा त्वां अतिसन्धत्ते, क्षिप्रतरं सन्धीयस्व, निग्रहे चास्य प्रयतस्व इति
- 09.6.70 आवाहविवाहाभ्यां वा कृत्वा सम्योगं असम्युक्तान् भेदयेत्
- 09.6.71 सामन्ताटविकतत्कुलीनापरुद्धैश्च एषां राज्यानि घातयेत्, सार्थव्रजाटवीर्वा, दण्डं वाऽभिसृतम्
- 09.6.72 परस्परापाश्रयाश्च एषां जातिसङ्घाश्छिद्रेषु प्रहरेयुः, गूढाश्चाग्निरसशस्त्रेण
- 09.6.73ab वीतंसगिलवच्चारीन् योगैराचरितैः शठः |
- 09.6.73chd घातयेत् परमिश्रायां विश्वासेनामिषेण च ( इति)
Chapt | अर्थानर्थसंशययुक्ताः <आपदह्> - तासां उपायविकल्पजाः सिद्धयः
- 09.7.01 कामादिरुत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः
- 09.7.02 तद् उभयं आसुरी वृत्तिः
- 09.7.03 स्वजनविकारः कोपः
- 09.7.04 परवृद्धिहेतुषु आपद्ऽर्थोऽनर्थः संशय इति
- 09.7.05 योऽर्थः शत्रुवृद्धिं अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षयव्यय उदयो भवति, स भवत्यापद्ऽर्थः
- 09.7.06 यथा सामन्तानां आमिषभूतः सामन्तव्यसनजो लाभः, शत्रुप्रार्थितो वा स्वभावाधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णिग्राहेण वा विगृहीतः पुरस्ताल्लाभः, मित्र उच्छेदेन सन्धिव्यतिक्रमेण वा मण्डलविरुद्धो लाभः इत्यापद्ऽर्थः
- 09.7.07 स्वतः परतो वा भय उत्पत्तिरित्यनर्थः
- 09.7.08 तयोः अर्थो न वा इति, अनर्थो न वा इति, अर्थोऽनर्थ इति, अनर्थोऽर्थ इति संशयः
- 09.7.09 शत्रुमित्रं उत्साहयितुं अर्थो न वा इति संशयः
- 09.7.10 शत्रुबलं अर्थमानाभ्यां आवाहयितुं अनर्थो न वा इति संशयः
- 09.7.11 बलवत्सामन्तां भूमिं आदातुं अर्थोऽनर्थ इति संशयः
- 09.7.12 जायसा सम्भूययानं अनर्थोऽर्थ इति संशयः
- 09.7.13 तेषां अर्थसंशयं उपगच्छेत्
- 09.7.14 अर्थोऽर्थानुबन्धः, अर्थो निरनुबन्धः, अर्थोऽनर्थानुबन्धः, अनर्थोऽर्थानुबन्धः, अनर्थो निरनुबन्धः, अनर्थोऽनर्थानुबन्धः इत्यनुबन्धषड्वर्गः
- 09.7.15 शत्रुं उत्पाट्य पार्ष्णिग्राहादानं अर्थोऽनर्थानुबन्धः
- 09.7.16 उदासीनस्य दण्डानुग्रहः फलेन अर्थो निरनुबन्धः
- 09.7.17 परस्यान्तर्.उच्छेदनं अर्थोऽनर्थानुबन्धः
- 09.7.18 शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यां अनर्थोऽनर्थानुबन्धः
- 09.7.19 हीनशक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः
- 09.7.20 ज्यायांसं उत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः
- 09.7.21 तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्
- 09.7.22 इति कार्यावस्थापनम्
- 09.7.23 समन्ततो युगपद्ऽर्थ उत्पत्तिः समन्ततोऽर्थापद् भवति
- 09.7.24 सा एव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद् भवति
- 09.7.25 तयोर्मित्राक्रन्द उपग्रहात् सिद्धिः
- 09.7.26 समन्ततः शत्रुभ्यो भय उत्पत्तिः समन्त्तोऽनर्थापद् भवति
- 09.7.27 सा एव मित्रविगृहीता समन्ततोऽनर्थसंशयापद् भवति
- 09.7.28 तयोश्चलामित्राक्रन्द उपग्रहात् सिद्धिः, परमिश्राप्रतीकारो वा
- 09.7.29 इतो लाभ इतरतो लाभ इत्युभयतोऽर्थापद् भवति
- 09.7.30 तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तं अर्थं आदातुं यायात्
- 09.7.31 तुल्ये लाभगुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत् तं आदातुं यायात्
- 09.7.32 इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत्
- 09.7.33 तस्यां समन्ततोऽनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत
- 09.7.34 मित्राभावे प्रकृतीनां लघीयस्य एकतोऽनर्थां साधयेत्, उभयतोऽनर्थां ज्यायस्या, समन्ततोऽनर्थां मूलेन प्रतिकुर्यात्
- 09.7.35 अशक्ये सर्वं उत्सृज्यापगच्छेत्
- 09.7.36 दृष्टा हि जीवतः पुनर्ऽअवृत्तिर्यथा सुयात्रा उदयनाभ्याम्
- 09.7.37 इतो लाभ इतरतो राज्याभिमर्श इत्युभयतोऽर्थानर्थापद् भवति
- 09.7.38 तस्यां अनर्थसाधको योऽर्थः तं आदातुं यायात्
- 09.7.39 अन्यथा हि राज्याभिमर्शं वारयेत्
- 09.7.40 एतया समन्ततोऽर्थानर्थापद् व्याख्याता
- 09.7.41 इतोऽनर्थ इतरतोऽर्थसंशय इत्युभयतोऽनर्थार्थसंशया
- 09.7.42 तस्यां पूर्वं अनर्थं साधयेत्, तत्सिद्धावर्थसंशयम्
- 09.7.43 एतया समन्ततोऽनर्थार्थसंशया व्याख्याता
- 09.7.44 इतोऽर्थ इतरतोऽनर्थसंशय इत्युभयतोऽर्थानर्थसंशयापद्
- 09.7.45 एतया समन्ततोऽर्थानर्थसंशया व्याख्याता
- 09.7.46 तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थसंशयान् मोक्षयितुं यतेत
- 09.7.47 श्रेयो हि मित्रं अनर्थसंशये तिष्ठन्न दण्डः, दण्डो वा न कोश इति
- 09.7.48 समग्रमोक्षणाभावे प्रकृतीनां अवयवान् मोक्षयितुं यतेत
- 09.7.49 तत्र पुरुषप्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्णलुब्धवर्जं, द्रव्यप्रकृतीनां सारं महा उपकारं वा
- 09.7.50 सन्धिनाऽऽसनेन द्वैधीभावेन वा लघूनि, विपर्ययैर्गुरूणि
- 09.7.51 क्षयस्थानवृद्धीनां च उत्तर उत्तरं लिप्सेत
- 09.7.52 प्रातिलोम्येन वा क्षयादीनां आयत्यां विशेषं पश्येत्
- 09.7.53 इति देशावस्थापनम्
- 09.7.54 एतेन यात्राऽऽदिमध्यान्तेष्वर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता
- 09.7.55 निरन्तरयोगित्वाच्चार्थानर्थसंशयानां यात्राऽऽदावर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णिग्राहासारप्रतिघाते क्षयव्ययप्रवासप्रत्यादेये मूलरक्षणेषु च भवति
- 09.7.56 तथाऽनर्थः संशयो वा स्वभूमिष्ठस्य विषह्यो भवति
- 09.7.57 एतेन यात्रामध्येऽर्थानर्थसंशयानां उपसम्प्राप्तिर्व्याख्याता
- 09.7.58 यात्राऽन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वा उच्छिद्य वाऽर्थः श्रेयान् उपसम्प्राप्तुं नानर्थः संशयो वा पराबाधभयात्
- 09.7.59 सामवायिकानां अपुरोगस्य तु यात्रामध्यान्तगोऽनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुं अनिर्बन्धगामित्वात्
- 09.7.60 अर्थो धर्मः काम इत्यर्थत्रिवर्गः
- 09.7.61 तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम्
- 09.7.62 अनर्थोऽधर्मः शोक इत्यनर्थत्रिवर्गः
- 09.7.63 तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम्
- 09.7.64 अर्थोऽनर्थ इति, धर्मोऽधर्म इति, कामः शोक इति संशयत्रिवर्गः
- 09.7.65 तस्य उत्तरपक्षसिद्धौ पूर्वपक्षः श्रेयान् उपसम्प्राप्तुम्
- 09.7.66 इति कालावस्थापनम्
- 09.7.67 इत्यापदः - तासां सिद्धिः
- 09.7.68 पुत्रभ्रातृबन्धुषु सामदानाभ्यां सिद्धिरनुरूपा, पौरजानपददण्डमुख्येषु दानभेदाभ्यां, सामन्ताटविकेषु भेददण्डाभ्याम्
- 09.7.69 एषाऽनुलोमा, विपर्यये प्रतिलोमा
- 09.7.70 मित्रामित्रेषु व्यामिश्रा सिद्धिः
- 09.7.71 परस्परसाधका ह्युपायाः
- 09.7.72 शत्रोः शङ्कितामात्येषु सान्त्वं प्रयुक्तं शेषप्रयोगं निवर्तयति, दूष्यामात्येषु दानं, सङ्घातेषु भेदः, शक्तिमत्सु दण्ड इति
- 09.7.73 गुरुलाघवयोगाच्चापदां नियोगविकल्पसमुच्चया भवन्ति
- 09.7.74 अनेन एव उपायेन नान्येन इति नियोगः
- 09.7.75 अनेन वाऽन्येन वा इति विकल्पः
- 09.7.76 अनेनान्येन च इति समुच्चयः
- 09.7.77 तेषां एकयोगाश्चत्वारः त्रियोगाश्च, द्वियोगाः षट्, एकश्चतुर्योगः
- 09.7.78 इति पञ्चदश उपायाः
- 09.7.79 तावन्तः प्रतिलोमाः
- 09.7.80 तेषां एकेन उपायेन सिद्धिरेकसिद्धिः, द्वाभ्यां द्विसिद्धिः, त्रिभिः त्रिसिद्धिः, चतुर्भिश्चतुःसिद्धिरिति
- 09.7.81 धर्ममूलत्वात् कामफलत्वाच्चार्थस्य धर्मार्थकामानुबन्धा याऽर्थस्य सिद्धिः सा सर्वार्थसिद्धिः <इति सिद्धयह्>
- 09.7.82 दैवाद् अग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः
- 09.7.83 तासां दैवतब्राह्मणर्पणिपाततः सिद्धिः
- 09.7.84ab अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याऽऽसुरी भवेत् |
- 09.7.84chd तस्यां आथर्वणं कर्म सिद्धारम्भाश्च सिद्धयः ( इति)
संबंधित कड़ियाँ
[सम्पाद्यताम्]- कौटिलीय अर्थशास्त्रं
- कौटिलीय अर्थशास्त्रं १
- कौटिलीय अर्थशास्त्रं २
- कौटिलीय अर्थशास्त्रं ३
- कौटिलीय अर्थशास्त्रं ४
- कौटिलीय अर्थशास्त्रं ५
- कौटिलीय अर्थशास्त्रं ६
- कौटिलीय अर्थशास्त्रं ७
- कौटिलीय अर्थशास्त्रं ८
- कौटिलीय अर्थशास्त्रं ९
- कौटिलीय अर्थशास्त्रं १०
- कौटिलीय अर्थशास्त्रं ११
- कौटिलीय अर्थशास्त्रं १२
- कौटिलीय अर्थशास्त्रं १३
- कौटिलीय अर्थशास्त्रं १४
- कौटिलीय अर्थशास्त्रं १५