कौटिलीय अर्थशास्त्रं १२

विकिस्रोतः तः
Jump to navigation Jump to search
  Book |  
    Chapt |      दूतकर्म
  • 12.1.01 बलीयसाऽभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसधर्मा तिष्ठेत्
  • 12.1.02 इन्द्रस्य हि स प्रणमति यो बलीयसो नमति इति भारद्वाजः
  • 12.1.03 सर्वसन्दोहेन बलानां युध्येत
  • 12.1.04 पराक्रमो हि व्यसनं अपहन्ति
  • 12.1.05 स्वधर्मश्च एष क्षत्रियस्य, युद्धे जयः पराजयो वा इति विशालाक्षः
  • 12.1.06 न इति कौटिल्यः
  • 12.1.07 सर्वत्रानुप्रणतः कुलैडक इव निराशो जीविते वसति
  • 12.1.08 युध्यमानश्चाल्पसैन्यः समुद्रं इवाप्लवोऽवगाहमानः सीदति
  • 12.1.09 तद्विशिष्टं तु राजानं आश्रितो दुर्गं अविषह्यं वा चेष्टेत
  • 12.1.10 त्रयोऽभियोक्तारो धर्मलोभासुरविजयिन इति
  • 12.1.11 तेषां अभ्यवपत्त्या धर्मविजयी तुष्यति
  • 12.1.12 तं अभ्यवपद्येत, परेषां अपि भयात्
  • 12.1.13 भूमिद्रव्यहरणेन लोभविजयी तुष्यति
  • 12.1.14 तं अर्थेनाभ्यवपद्येत
  • 12.1.15 भूमिद्रव्यपुत्रदारप्राणहरणेनासुरविजयी
  • 12.1.16 तं भूमिद्रव्याभ्यां उपगृह्याग्राह्यः प्रतिकुर्वीत
  • 12.1.17 तेषां अन्यतमं उत्तिष्ठमानं सन्धिना मन्त्रयुद्धेन कूटयुद्धेन वा प्रतिव्यूहेत
  • 12.1.18 शत्रुपक्षं अस्य सामदानाभ्यां, स्वपक्षं भेददण्डाभ्याम्
  • 12.1.19 दुर्गं राष्ट्रं स्कन्धावारं वाऽस्य गूढाः शस्त्ररसाग्निभिः साधयेयुः
  • 12.1.20 सर्वतः पार्ष्णिं अस्य ग्राहयेत्
  • 12.1.21 अटवीभिर्वा राज्यं घातयेत्, तत्कुलीनापरुद्धाभ्यां वा हारयेत्
  • 12.1.22 अपकारान्तेषु चास्य दूटं प्रेषयेत्
  • 12.1.23 अनपकृत्य वा सन्धानम्
  • 12.1.24 तथाऽप्यभिप्रयान्तं कोशदण्डयोः पाद उत्तरं अहोरात्र उत्तरं वा सन्धिं याचेत
  • 12.1.25 स चेद् दण्डसन्धिं याचेत, कुण्ठं अस्मै हस्त्य्ऽश्वं दद्याद्, उत्साहितं वा गरयुक्तम्
  • 12.1.26 पुरुषसन्धिं याचेत, दूष्यामित्राटवीबलं अस्मै दद्याद् योगपुरुषाधिष्ठितम्
  • 12.1.27 तथा कुर्याद् यथा उभयविनाशः स्यात्
  • 12.1.28 तीक्ष्णबलं वाऽस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलं अनुरक्तं वा यद् अस्य व्यसनेऽपकुर्यात्
  • 12.1.29 कोशसन्धिं याचेत, सारं अस्मै दद्याद् यस्य क्रेतारं नाधिगच्छेत्, कुप्यं अयुद्धयोग्यं वा
  • 12.1.30 भूमिसन्धिं याचेत, प्रत्यादेयां नित्यामित्रां अनपाश्रयां महाक्षयव्ययनिवेशां वाऽस्मै भूमिं दद्यात्
  • 12.1.31 सर्वस्वेन वा राजधानीवर्जेन सन्धिं याचेत बलीयसः
  • 12.1.32ab यत् प्रसह्य हरेद् अन्यः तत् प्रयच्चेद् उपायतः |
  • 12.1.32chd रक्षेत् स्वदेहं न धनं का ह्यनित्ये धने दया ( इति)


    Chapt |      मन्त्रयुद्ध
  • 12.2.01 स चेत् सन्धौ नावतिष्ठेत, ब्रूयाद् एनं - इमे शत्रुषड्वर्गवशगा राजानो विनष्टाः, तेषां अनात्मवतां नार्हसि मार्गं अनुगन्तुम्
  • 12.2.02 धर्मं अर्थं चावेक्षस्व
  • 12.2.03 मित्रमुखा ह्यमित्राः ते ये त्वा साहसं अधर्मं अर्थातिक्रमं च ग्राहयन्ति
  • 12.2.04 शूरैः त्यक्तात्मभिः सह योद्धुं साहसं, जनक्षयं उभयतः कर्तुं अधर्मः, दृष्टं अर्थं मित्रं अदुष्टं च त्यक्तुं अर्थातिक्रमः
  • 12.2.05 मित्रवांश्च स राजा, भूयश्च एतेनार्थेन मित्राण्युद्योजयिष्यति यानि त्वा सर्वतोऽभियास्यन्ति
  • 12.2.06 न च मध्यम उदासीनयोर्मण्डलस्य वा परित्यक्तः, भवांः तु परित्यक्तः यत्त्वा समुद्युक्तं उपप्रेक्षन्ते भूयः क्षयव्ययाभ्यां युज्यतां, मित्राच्च भिद्यतां, अथ एनं परित्यक्तमूलं सुखेन उच्छेत्स्यामः इति
  • 12.2.07 स भवान्नार्हति मित्रमुखानां अमित्राणां श्रोतुं, मित्राण्युद्वेजयितुं अमित्रांश्च श्रेयसा योक्तुं, प्राणसंशयं अनर्थं च उपगन्तुम् इति यच्छेत्
  • 12.2.08 तथाऽपि प्रतिष्ठमानस्य प्रकृतिकोपं अस्य कारयेद् यथा सङ्घवृत्ते व्याख्यातं योगवामने च
  • 12.2.09 तीक्ष्णरसदप्रयोगं च
  • 12.2.10 यद् उक्तं आत्मरक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश्च प्रयुञ्जीत
  • 12.2.11 बन्धकीपोषकाः परमरूपयौवनाभिः स्त्रीभिः सेनामुख्यान् उन्मादयेयुः
  • 12.2.12 बहूनां एकस्यां द्वयोर्वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः
  • 12.2.13 कलहे पराजितपक्षं परत्रापगमने यात्रासाहाय्यदाने वा भर्तुर्योजयेयुः
  • 12.2.14 कामवशान् वा सिद्धव्यञ्जनाः सांवदनिकीभिरोषधीभिरतिसन्धानाय मुख्येषु रसं दापयेयुः
  • 12.2.15 वैदेहकव्यञ्जने वा राजमहिष्याः सुभगायाः प्रेष्यां आसन्नां कामनिमित्तं अर्थेनाभिवृष्य परित्यजेत्
  • 12.2.16 तस्य एव परिचारकव्यञ्जन उपदिष्टः सिद्धव्यञ्जनः सांवदनिकीं ओषधीं दद्यात् वैदेहकशरीरेऽवघातव्या इति
  • 12.2.17 सिद्धे सुभगाया अप्येनं योगं उपदिशेत् राजशरीरेऽवधातव्या इति
  • 12.2.18 ततो रसेनातिसन्दध्यात्
  • 12.2.19 कार्तान्तिकव्यञ्जनो वा महामात्रं राजलक्षणसम्पन्नम् क्रमाभिनीतं ब्रूयात्
  • 12.2.20 भार्यां अस्य भिक्षुकी राजपत्नी राजप्रसविनी वा भविष्यसि इति
  • 12.2.21 भार्याव्यञ्जना वा महामात्रं ब्रूयात् राजा किल मां अवरोधयिष्यति, तवान्तिकाय पत्त्रलेख्यं आभरणं च इदं परिव्राजिकयाऽऽहृतम् इति
  • 12.2.22 सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनं अर्थं चास्य लोभनीयं अभिनयेत्
  • 12.2.23 तद् अस्य वैदेहकव्यञ्जनः प्रतिसन्दध्यात्, कार्यसिद्धिं च ब्रूयात्
  • 12.2.24 एवं एकेन द्वाभ्यां त्रिभिरित्युपायैरेक एकं अस्य महामात्रं विक्रमायापगमनाय वा योजयेत् - इति
  • 12.2.25 दुर्गेषु चास्य शून्यपालासन्नाः सत्त्रिणः पौरजानपदेषु मैत्रीनिमित्तं आवेदयेयुः - शून्यपालेन उक्ता योधाश्चाधिकरणस्थाश्च कृच्छ्रगतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तं आर्जयध्वं, अमित्रांश्च हत इति
  • 12.2.26 बहुलीभूते तीक्ष्णाः पौरान्निशास्वाहारयेयुः, मुख्यांश्चाभिहन्युः एवं क्रियन्ते ये शून्यपालस्य न शुश्रूषन्ते इति
  • 12.2.27 शून्यपालस्थानेषु च सशोणितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः
  • 12.2.28 ततः सत्त्रिणः शून्यपालो घातयति विलोपयति च इत्यावेदयेयुः
  • 12.2.29 एवं जानपदान् समाहर्तुर्भेदयेयुः
  • 12.2.30 समाहर्तृपुरुषांः तु ग्राममध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः एवं क्रियन्ते ये जनपदं अधर्मेण बाधन्ते इति
  • 12.2.31 समुत्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः
  • 12.2.32 तत्कुलीनं अपरुद्धं वा प्रतिपादयेयुः
  • 12.2.33ab अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् |
  • 12.2.33chd दहेयुः तांश्च हन्युर्वा ब्रूयुरस्यार्तवादिनः ( इति)


    Chapt |      सेनामुख्यवधह्<द्वितीयो भागह्> - मण्डलप्रोत्साहनम्
  • 12.3.01 राज्ञो राजवल्लभानां चासन्नाः सत्त्रिणः पत्त्य्ऽश्वरथद्विपमुख्यानां राजा क्रुद्धः इति सुहृद्विश्वासेन मित्रस्थानीयेषु कथयेयुः
  • 12.3.02 बहुलीभूते तीक्ष्णाः कृतरात्रिचारप्रतीकारा गृहेषु स्वामिवचनेनागम्यताम् इति ब्रूयुः
  • 12.3.03 तान्निर्गच्छत एवाभिहन्युः, स्वामिसन्देशः इति चासन्नान् ब्रूयुः
  • 12.3.04 ये चाप्रवासिताः तान् सत्त्रिणो ब्रूयुः एतत् तद् यद् अस्माभिः कथितं, जीवितुकामेनापक्रान्तव्यम् इति
  • 12.3.05 येभ्यश्च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यं अर्थं असौ चासौ च मा याचते, मया प्रत्याख्याताः शत्रुसंहिताः, तेषां उद्धरणे प्रयतस्व इति
  • 12.3.06 ततः पूर्ववद् आचरेत्
  • 12.3.07 येभ्यश्च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा अयाच्यं अर्थं असौ चासौ च मा याचते, तेभ्यो मया सोऽर्थो विश्वासार्थं दत्तः, शत्रुसंहिताः, तेषां उद्धरणे प्रयतस्व इति
  • 12.3.08 ततः पूर्ववद् आचरेत्
  • 12.3.09 ये च एनं याच्यं अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - उक्तः शून्यपालो राज्ञा याच्यं अर्थं असौ चासौ च मा न याचते, किं अन्यत् स्वदोषशङ्कितत्वात्, तेषां उद्धरणे प्रयतस्व इति
  • 12.3.10 ततः पूर्ववद् आचरेत्
  • 12.3.11 एतेन सर्वः कृत्यपक्षो व्याख्यातः
  • 12.3.12 प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् असौ चासौ च ते महामात्रः शत्रुपुरुषैः सम्भाषते इति
  • 12.3.13 प्रतिपन्ने दूष्यान् अस्य शासनहरान् दर्शयेत् एतत् तत् इति
  • 12.3.14 सेनामुख्यप्रकृतिपुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा
  • 12.3.15 योऽस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणा उपजापयेत् आत्मसम्पन्नतरः त्वं पुत्रः, तथाऽप्यन्तर्हितः, तत्किं उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युवराजो विनाशयति इति
  • 12.3.16 तत्कुलीनं अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् अन्तर्बलं प्रत्यन्तस्कन्धं अन्तं वाऽस्य प्रमृद्नीहि इति
  • 12.3.17 आटविकान् अर्थमानाभ्यां उपगृह्य राज्यं अस्य घातयेत्
  • 12.3.18 पार्ष्णिग्राहं वाऽस्य ब्रूयात् एष खलु राजा मां उच्छिद्य त्वां उच्छेत्स्यति, पार्ष्णिं अस्य गृहाण, त्वयि निवृत्तस्याहं पार्ष्णिं ग्रहीष्यामि इति
  • 12.3.19 मित्राणि वाऽस्य ब्रूयात् अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वाऽस्य यात्रां विहनाम इति
  • 12.3.20 तत्संहतानां असंहतानां च प्रेषयेत् एष खलु राजा मां उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वं, अहं वः श्रेयान् अभ्युपपत्तुम् इति
  • 12.3.21ab मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः |
  • 12.3.21chd यथाऽऽसन्नस्य मोक्षार्थं सर्वस्वेन तद्ऽर्पणम् ( इति)


    Chapt |      शस्त्राग्निरसप्रणिधयः - वीवधासारप्र्रसारवधः
  • 12.4.01 ये चास्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिकव्यञ्जनाः, जनपदसन्धिषु गोरक्षकतापसव्यञ्जनाः, ते सामन्ताटविकतत्कुलीनापरुद्धानां पण्यागारपूर्वं प्रेषयेयुः अयं देशो हार्यः इति
  • 12.4.02 आगतांश्च एषां दुर्गे गूढपुरुषान् अर्थमानाभ्यां अभिसत्कृत्य प्रकृतिच्छिद्राणि प्रदर्शयेयुः
  • 12.4.03 तेषु तैः सह प्रहरेयुः
  • 12.4.04 स्कन्धावारे वाऽस्य शौण्डिकव्यञ्जनः पुत्रं अभित्यक्तं स्थापयित्वाऽवस्कन्दकाले रसेन प्रवासयित्वा नैSएचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेत्
  • 12.4.05 शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकं अहः, उत्तरं रस्सिद्धं प्रयच्छेत्
  • 12.4.06 शुद्धं वा मद्यं दण्डमुख्येभ्यः प्रदाय मदकाले रससिद्धं प्रयच्छेत्
  • 12.4.07 दण्डमुख्यव्यञ्जनो वा पुत्रं अभित्यक्तं इति समानम्
  • 12.4.08 पाक्वमांसिकाउदनिकाउण्डिकापूपिकव्यञ्जना वा पण्यविशेषं अवघोषयित्वा परस्परसङ्घर्षेण कालिकं समर्घतरं इति वा परान् आहूय रसेन स्वपण्यान्यपचारयेयुः
  • 12.4.09 सुराक्षीरदधिसर्पिस्तैलानि वा तद्व्यवहर्तृहस्तेषु गृहीता स्त्रियो बालाश्च रसयुक्तेषु स्वभाजनेषु परिकिरेयुः
  • 12.4.10 अनेनार्घेण, विशिष्टं वा भूयो दीयताम् इति तत्र एवावाकिरेयुः
  • 12.4.11 एतान्येव वैदेहकव्यञ्जनाः, पण्यविरेयेणाहर्तारो वा
  • 12.4.12 हस्त्य्ऽश्वानां विधायवसेषु रसं आसन्ना दद्युः
  • 12.4.13 कर्मकरव्यञ्जना वा रसाक्तं यवसं उदकं वा विक्रीणीरन्
  • 12.4.14 चिरसंसृष्टा वा गोवाणिजका गवां अजावीनां वा यूथान्यवस्कन्दकालेषु परेषां मोहस्थानेषु प्रमुञ्चेयुः, अश्वखर उष्ट्रमहिषादीनां दुष्टांश्च
  • 12.4.15 तद्व्यञ्जना वा चुच्छुन्दरीशोणिताक्ताक्षान्
  • 12.4.16 लुब्धकव्यञ्जना वा व्यालमृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्पग्राहा वा सर्पान् उग्रविषान्, हस्तिजीविनो वा हस्तिनः
  • 12.4.17 अग्निजीविनो वाऽग्निं अवसृजेयुः
  • 12.4.18 गूढपुरुषा वा विमुखान् पत्त्य्ऽश्वरथद्विपमुख्यान् अभिहन्युः, आदीपयेयुर्वा मुख्यावासान्
  • 12.4.19 दूष्यामित्राटविकव्यञ्जनाः प्रणिहिताः पृष्ठाभिघातं अवस्कन्दप्रतिग्रहं वा कुर्युः
  • 12.4.20 वनगूढा वा प्रत्यन्तस्कन्धं उपनिष्कृष्याभिहन्युः, एकायने वीवधासारप्रसारान् वा
  • 12.4.21 ससङ्केतं वा रात्रियुद्धे भूरितूर्यं आहत्य ब्रूयुः अनुप्रविष्टाः स्मो, लब्धं राज्यम् इति
  • 12.4.22 राजावासं अनुप्रविष्टा वा सङ्कुलेषु राजानं हन्युः
  • 12.4.23 सर्वतो वा प्रयातं एन( ? एव? ) म्लेच्छाटविकदण्टचारिणः सत्त्रापाश्रयाः स्तम्भवाटापाश्रया वा हन्युः
  • 12.4.24 लुब्धकव्यञ्जना वाऽवस्कन्दसङ्कुलेषु गूढयुद्धहेतुभिरभिहन्युः
  • 12.4.25 एकायने वा शैलस्तम्भवाटखञ्जनान्तर्.उदके वा स्वभूमिबलेनाभिहन्युः
  • 12.4.26 नदीसरस्तटाकसेतुबन्धभेदवेगेन वा प्लावयेयुः
  • 12.4.27 धान्वनवनदुर्गनिम्नदुर्गस्थं वा योगाग्निधूमाभ्यां नाशयेयुः
  • 12.4.28 सङ्कटगतं अग्निना, धान्वनगतं धूमेन, निधानगतं रसेन, तोयावगाढं दुष्टग्राहैरुदकचरणैर्वा तीक्ष्णाः साधयेयुः, आदीप्तावासान्निष्पतन्तं वा
  • 12.4.29ab योगवामनयोगाभ्यां योगेनान्यतमेन वा |
  • 12.4.29chd अमित्रं अतिसन्दध्यात् सक्तं उक्तासु भूमिषु ( इति)


    Chapt |      योगातिसंधानं - दण्डातिसंधानं - एकविजयः
  • 12.5.01 दैवतेज्यायाम्( देवता इज्यायाम्? ) यात्रायां अमित्रस्य बहूनि पूजाऽऽगमस्थानानि भक्तितः
  • 12.5.02 तत्रास्य योगं उब्जयेत्
  • 12.5.03 देवतागृहप्रविष्टस्य उपरि यन्त्रमोक्षणेन गूढभित्तिं शिलां वा पातयेत्
  • 12.5.04 शिलाशस्त्रवर्षं उत्तमागारात्, कपाटं अवपातितं वा, भित्तिप्रणिहितं एकदेशबद्धं वा परिघं मोक्षयेत्
  • 12.5.05 देवतादेहध्वजप्रहरणानि वाऽस्य उपरिष्टात् पातयेत्
  • 12.5.06 स्थानासनगमनभूमिषु वाऽस्य गोमयप्रदेहेन गन्ध उदकप्रसेकेन वा रसं अतिचारयेत्, पुष्पचूर्ण उपहारेण वा
  • 12.5.07 गन्धप्रतिच्छन्नं वाऽस्य तीक्ष्णं धूमं अतिनयेत्
  • 12.5.08 शूलकूपं अवपातनं वा शयनासनस्याधस्ताद् यन्त्रबद्धतलं एनं कीलमोक्षणेन प्रवेशयेत्
  • 12.5.09 प्रत्यासन्ने वाऽमित्रे जनपदाज् जनं अवरोधक्षमं अतिनयेत्
  • 12.5.10 दुर्गाच्चानवरोधक्षमं अपनयेत्, प्रत्यादेयं अरिविषयं वा प्रेषयेत्
  • 12.5.11 जनपदं च एकस्थं शैलवननदीदुर्गेष्वटवीव्यवहितेषु वा पुत्रभ्रातृपरिगृहीतं स्थापयेत्
  • 12.5.12 उपरोधहेतवो दण्ड उपनतवृत्ते व्याख्याताः
  • 12.5.13 तृणकाष्ठं आयोजनाद् दाहयेत्
  • 12.5.14 उदकानि च दूषयेत्, अवस्रावयेच्च
  • 12.5.15 कूपकूटावपातकण्टकिनीश्च बहिरुब्जयेत्
  • 12.5.16 सुरुङ्गां अमित्रस्थाने बहुमुखीं कृत्वा निचयमुख्यान् अभिहारयेत्, अमित्रं वा
  • 12.5.17 परप्रयुक्तायां वा सुरुङ्गायां परिखां उदकान्तिकीं खानयेत्, कूपशालां अनुसालं वा
  • 12.5.18 तोयकुम्भान् कांस्यभाण्डानि वा शङ्कास्थानेषु स्थापयेत् खाताभिज्ञानार्थम्
  • 12.5.19 ज्ञाते सुरुङ्गापथे प्रतिसुरुङ्गां कारयेत्
  • 12.5.20 मध्ये भित्त्वा धूमं उदकं वा प्रयच्छेत्
  • 12.5.21 प्रतिविहितदुर्गो वा मूले दायाद्<अम्> कृत्वा प्रतिलोमां अस्य दिशं गच्छेत्, यतो वा मित्रैर्बन्धुभिराटविकैर्वा संसृज्येत परस्यामित्रैर्दूष्यैर्वा महद्भिः, यतो वा गतोऽस्य मित्रैर्वियोगं कुर्यात् पार्ष्णिं वा गृह्णीयात् राज्यं वाऽस्य हारयेत् वीवधासारप्रसारान् वा वारयेत्, यतो वा शक्नुयाद् आक्षिकवद् अपक्षेपेणास्य प्रहर्तुं, यतो वा स्वं राज्यं त्रायेत मूलस्य उपचयं वा कुर्यात्
  • 12.5.22 यतः सन्धिं अभिप्रेतं लभेत ततो वा गच्छेत्
  • 12.5.23 सहप्रस्थायिनो वाऽस्य प्रेषयेयुः अयं ते शत्रुरस्माकं हस्तगतः, पण्यं विप्रकारं वाऽपदिश्य हिरण्यं अन्तःसारबलं च प्रेषय यस्य एनं अर्पयेम बद्धं प्रवासितं वा इति
  • 12.5.24 प्रतिपन्ने हिरण्यं सारबलं चाददीत
  • 12.5.25 अन्तपालो वा दुर्गसम्प्रदाने बल एकदेशं अतिनीय विश्वस्तं घातयेत्
  • 12.5.26 जनपदं एकस्थं वा घातयितुं अमित्रानीकं आवाहयेत्
  • 12.5.27 तद् अवरुद्धदेशं अतिनीय विश्वस्तं घातयेत्
  • 12.5.28 मित्रव्यञ्जनो वा बाह्यस्य प्रेषयेत् क्षीणं अस्मिन् दुर्गे धान्यं स्नेहाः क्षारो लवणं वा, तद् अमुष्मिन् देशे काले च प्रवेक्ष्यति, तद् उपगृहाण इति
  • 12.5.29 ततो रसविद्धं धान्यं स्नेहं क्षारं लवणं वा दूष्यामित्राटविकाः प्रवेशयेयुः, अन्ये वाऽभित्यक्ताः
  • 12.5.30 तेन सर्वभाण्डवीवधग्रहणं व्याख्यातम्
  • 12.5.31 सन्धिं वा कृत्वा हिरण्य एकदेशं अस्मै दद्यात्, विलम्बमानः शेषम्
  • 12.5.32 ततो रक्षाविधानान्यवस्रावयेत्
  • 12.5.33 अग्निरसशस्त्रैर्वा प्रहरेत्
  • 12.5.34 हिरण्यप्रतिग्राहिणो वाऽस्य वल्लभान् अनुगृह्णीयात्
  • 12.5.35 परिक्षीणो वाऽस्मै दुर्गं दत्त्वा निर्गच्छेत्
  • 12.5.36 सुरुङ्गया कुक्षिप्रदरेण वा प्राकारभेदेन निर्गच्छेत्
  • 12.5.37 रात्राववस्कन्दं दत्त्वा सिद्धः तिष्ठेत्, असिद्धः पार्श्वेनापगच्छेत्
  • 12.5.38 पाषण्डच्छद्मना मन्दपरिवारो निर्गच्छेत्
  • 12.5.39 प्रेतव्यञ्जनो वा गूढैर्निह्रियेत
  • 12.5.40 स्त्रीवेषधारी वा प्रेतं अनुगच्छेत्
  • 12.5.41 दैवत उपहारश्राद्धप्रहवणेषु वा रसविद्धं अन्नपानं अवसृज्य
  • 12.5.42 कृत उपजापो दूष्यव्यञ्जनैर्निष्पत्य गूढसैन्योऽभिहन्यात्
  • 12.5.43 एवं गृहीतदुर्गो वा प्राश्यप्राशं चैत्यं उपस्थाप्य दैवतप्रतिमाच्छिद्रं प्रविश्यासीत, गूढभित्तिं वा, दैवतप्रतिमायुक्तं वा भूमिगृहम्
  • 12.5.44 विस्मृते सुरुङ्गया रात्रौ राजावासं अनुप्रविश्य सुप्तं अमित्रं हन्यात्
  • 12.5.45 यन्त्रविश्लेषणं वा विश्लेष्याधस्ताद् अवपातयेत्
  • 12.5.46 रसाग्नियोगेनावलिप्तं गृहं जतुगृहं वाऽधिशयानं अमित्रं आदीपयेत्
  • 12.5.47 प्रमदवनविहाराणां अन्यतमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरुङ्गागूढभित्तिप्रविष्टाः तीक्ष्णा हन्युः, गूढप्रणिहिता वा रसेन
  • 12.5.48 स्वपतो वा निरुद्धे देशे गूढाः स्त्रियः सर्परसाग्निधूमान् उपरि मुञ्चेयुः
  • 12.5.49 प्रत्युत्पन्ने वा कारणे यद् यद् उपपद्येत तत् तद् अमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत
  • 12.5.50 ततो गूढं एवापगच्छेत्, स्वजनसंज्ञां च प्ररूपयेत्
  • 12.5.51ab द्वाह्स्थान् वर्षधरांश्चान्यान्निगूढ उपहितान् परे |
  • 12.5.51chd तूर्यसंज्ञाभिराहूय द्विषत्शेषाणि घातयेत् ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]