कौटिलीय अर्थशास्त्रं ३

विकिस्रोतः तः
   Book |   Determination of (valid and invalid) transactions
    Chapt |   Filing of law-suits
  • 03.1.01 धर्मस्थाः त्रयः त्रयोऽमात्या जनपदसन्धिसङ्ग्रहणद्रोणमुखस्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः
  • 03.1.02 तिरोहितान्तर्ऽगारनक्तारण्य उपध्य्.उपह्वरकृतांश्च व्यवहारान् प्रतिषेधयेयुः
  • 03.1.03 कर्तुः कारयितुः पूर्वः साहसदण्डः
  • 03.1.04 श्रोतॄणां एक एकं प्रत्यर्धदण्डाः
  • 03.1.05 श्रद्धेयानां तु द्रव्यव्यपनयः
  • 03.1.06 परोक्षेणाधिक.ऋणग्रहणं अवक्तव्यकरा वा तिरोहिताः सिध्येयुः
  • 03.1.07 दायनिक्षेप उपनिधिविवाहयुक्ताः स्त्रीणां अनिष्कासिनीनां व्याधितानां चामूढसंज्ञानां अन्तर्ऽगारकृताः सिध्येयुः
  • 03.1.08 साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः
  • 03.1.09 सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणां अरण्यकृताः सिध्येयुः
  • 03.1.10 गूढाजीविषु च उपधिकृताः सिध्येयुः
  • 03.1.11 मिथःसमवाये च उपह्वरकृताः सिध्येयुः
  • 03.1.12 अतोऽन्यथा न सिध्येयुः, अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्यां, अप्राप्तातीतव्यवहाराभ्यां, अभिशस्तप्रव्रजितन्यङ्गव्यसनिभिश्च, अन्यत्र निषृष्टव्यवहारेभ्यः
  • 03.1.13 तत्रापि क्रुद्धेनार्तेन मत्तेन उन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः
  • 03.1.14 कर्तृकारयितृश्रोतॄणां पृथग् यथा उक्ता दण्डाः
  • 03.1.15 स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः सम्पूर्णाचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः
  • 03.1.16 पश्चिमं च एषां करणं आदेशाधिवर्जं श्रद्धेयम् इति व्यवहारस्थापना |
  • 03.1.17 संवत्सरं ऋतुं मासं पक्षं दिवसं करणं अधिकरणं ऋणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देशग्रामजातिगोत्रनामकर्माणि चाभिलिख्य वादिप्रतिवादिप्रश्नान् अर्थानुपूर्व्या निवेशयेत्
  • 03.1.18 निविष्टांश्चावेक्षेत
  • 03.1.19 निबद्धं वादं उत्सृज्यान्यं वादं सङ्क्रामति, पूर्व उक्तं पश्चिमेनार्थेन नाभिसन्धत्ते, परवाक्यं अनभिग्राह्यं अभिग्राह्यावतिष्ठते, प्रतिज्ञाय देशं निर्दिश इत्युक्ते न निर्दिशति, हीनदेशं अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशं उपस्थापयति, उपस्थिते देशेऽर्थवचनं न एवं इत्यपव्ययते, साक्षिभिरवधृतं न इच्छति, असम्भाष्ये देशे साक्षिभिर्मिथः सम्भाषते, इति परा उक्तहेतवः
  • 03.1.20 परा उक्तदण्डः पञ्चबन्धः
  • 03.1.21 स्वयंवादिदण्डो दशबन्धः
  • 03.1.22 पुरुषभृतिरष्टांशः
  • 03.1.23 पथिभक्तं अर्घविशेषतः
  • 03.1.24 तद् उभयं नियम्यो दद्यात्
  • 03.1.25 अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलहसाहससार्थसमवायेभ्यः
  • 03.1.26 न चाभियुक्तेऽभियोगेऽस्ति
  • 03.1.27 अभियोक्ता चेत् प्रत्युक्तः तद्ऽहरेव न प्रतिब्रूयात् परा उक्तः स्यात्
  • 03.1.28 कृतकार्यविनिश्चयो ह्यभियोक्ता नाभियुक्तः
  • 03.1.29 तस्याप्रतिब्रुवतः त्रिरात्रं सप्तरात्रं इति
  • 03.1.30 अत ऊर्ध्वं त्रिपणावरार्ध्यं द्वादशपणपरं दण्डं कुर्यात्
  • 03.1.31 त्रिपक्षाद् ऊर्ध्वं अप्रतिब्रुवतः परा उक्तदण्डं कृत्वा यान्यस्य द्रव्याणि स्युः ततोऽभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्.उपकरणेभ्यः
  • 03.1.32 तद् एव निष्पततोऽभियुक्तस्य कुर्यात्
  • 03.1.33 अभियोक्तुर्निष्पातसमकालः परा उक्तभावः
  • 03.1.34 प्रेतस्य व्यसनिनो वा साक्षिवचनं असारम्
  • 03.1.35 अभियोक्ता दण्डं दत्त्वा कर्म कारयेत्
  • 03.1.36 आधिं वा स कामं प्रवेशयेत्
  • 03.1.37 रक्षोघ्नरक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात्
  • 03.1.38ab चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् |
  • 03.1.38chd नश्यतां सर्वधर्माणां राजा धर्मप्रवर्तकः
  • 03.1.39ab धर्मश्च व्यवहारश्च चरित्रं राजशासनम् |
  • 03.1.39chd विवादार्थश्चतुष्पादः पश्चिमः पूर्वबाधकः
  • 03.1.40ab तत्र सत्ये स्थितो धर्मो व्यवहारः तु साक्षिषु |
  • 03.1.40chd चरित्रं सङ्ग्रहे पुंसां राज्ञां आज्ञा तु शासनम्
  • 03.1.41ab राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः |
  • 03.1.41chd अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डं अतोऽन्यथा
  • 03.1.42ab दण्डो हि केवलो लोकं परं च इमं च रक्षति |
  • 03.1.42chd राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः
  • 03.1.43ab अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया |
  • 03.1.43chd न्यायेन च चतुर्थेन चतुर्ऽन्तां वा महीं जयेत्
  • 03.1.44ab संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् |
  • 03.1.44chd यस्मिन्न् अर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत्
  • 03.1.45ab शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् |
  • 03.1.45chd न्यायः तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति
  • 03.1.46ab दृष्टदोषः स्वयंवादः स्वपक्षपरपक्षयोः |
  • 03.1.46chd अनुयोगार्जवं हेतुः शपथश्चार्थसाधकः
  • 03.1.47ab पूर्व उत्तरार्थव्याघाते साक्षिवक्तव्यकारणे |
  • 03.1.47chd चारहस्ताच्च निष्पाते प्रदेष्टव्यः पराजयः ( इति)


    Chapt |   Concerning marriage
    (i) Law of marriage (ii) Rules concerning women property(iii) Concerning supersession (of a wife) by a second marriage
  • 03.2.01 विवाहपूर्वो व्यवहारः
  • 03.2.02 कन्यादानं कन्यां अलङ्कृत्य ब्राह्मो विवाहः
  • 03.2.03 सहधर्मचर्या प्राजापत्यः
  • 03.2.04 गोमिथुनादानाद् आर्षः
  • 03.2.05 अन्तर्वेद्यां ऋत्विजे दानाद् दैवः
  • 03.2.06 मिथःसमवायाद् गान्धर्वः
  • 03.2.07 शुल्कादानाद् आसुरः
  • 03.2.08 प्रसह्यादानाद् राक्षसः
  • 03.2.09 सुप्तमत्तादानात् पैशाचः
  • 03.2.10 पितृप्रमाणाश्चत्वारः पूर्वे धर्म्याः, मातापितृप्रमाणाः शेषाः
  • 03.2.11 तौ हि शुल्कहरौ दुहितुः, अन्यतराभावेऽन्यतरो वा
  • 03.2.12 द्वितीयं शुल्कं स्त्री हरेत
  • 03.2.13 सर्वेषां प्रीत्य्ऽअरोपणं अप्रतिषिद्धम् इति विवाहधर्मः |
  • 03.2.14 वृत्तिराबन्ध्यं वा स्त्रीधनम्
  • 03.2.15 परद्विसाहस्रा स्थाप्या वृत्तिः, आबन्ध्यानियमः
  • 03.2.16 तद् आत्मपुत्रस्नुषाभर्मणि प्रवासाप्रतिविधाने च भार्याया भोक्तुं अदोषः, प्रतिरोधकव्याधिदुर्भिक्षभयप्रतीकारे धर्मकार्ये च पत्युः, सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः
  • 03.2.17 त्रिवर्ष उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत
  • 03.2.18 गान्धर्वासुर उपभुक्तं स-वृद्धिकं उभयं दाप्येत, राक्षसपैशाच उपभुक्तं स्तेयं दद्यात्
  • 03.2.19 मृते भर्तरि धर्मकामा तदानीं एव स्थाप्याभरणं शुल्कशेषं च लभेत
  • 03.2.20 लब्ध्वा वा विन्दमाना स-वृद्धिकं उभयं दाप्येत
  • 03.2.21 कुटुम्बकामा तु श्वशुरपतिदत्तं निवेशकाले लभेत
  • 03.2.22 निवेशकालं हि दीर्घप्रवासे व्याख्यास्यामः
  • 03.2.23 श्वशुरप्रातिलोम्येन वा निविष्टा श्वशुरपतिदत्तं जीयेत
  • 03.2.24 ज्ञातिहस्ताद्ऽभिमृष्टाया ज्ञातयो यथागृहीतं दद्युः
  • 03.2.25 न्याय उपगतायाः प्रतिपत्ता स्त्रीधनं गोपयेत्
  • 03.2.26 पतिदायं विन्दमाना जीयेत
  • 03.2.27 धर्मकामा भुञ्जीत
  • 03.2.28 पुत्रवती विन्दमाना स्त्रीधनं जीयेत
  • 03.2.29 तत् तु स्त्रीधनं पुत्रा हरेयुः
  • 03.2.30 पुत्रभरणार्थं वा विन्दमाना पुत्रार्थं स्फातीकुर्यात्
  • 03.2.31 बहुपुरुषप्रजानां पुत्राणां यथापितृदत्तं स्त्रीधनं अवस्थापयेत्
  • 03.2.32 कामकरणीयं अपि स्त्रीधनं विन्दमाना पुत्रसंस्थं कुर्यात्
  • 03.2.33 अपुत्रा पतिशयनं पालयन्ती गुरुसमीपे स्त्रीधनं आयुःक्षयाद् भुञ्जीत
  • 03.2.34 आपद्ऽर्थं हि स्त्रीधनम्
  • 03.2.35 ऊर्ध्वं दायादं गच्छेत्
  • 03.2.36 जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्रीधनं विभजेरन्, अपुत्राया दुहितरः, तद्ऽभावे भर्ता
  • 03.2.37 शुल्कं अन्वाधेयं अन्यद् वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्रीधनकल्पः |
  • 03.2.38 वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चाकाङ्क्षेत, दश निन्दुं, द्वादश कन्याप्रसविनीम्
  • 03.2.39 ततः पुत्रार्थी द्वितीयां विन्देत
  • 03.2.40 तस्यातिक्रमे शुल्कं स्त्रीधनं अर्धं चाधिवेदनिकं दद्यात्, चतुर्विंशतिपणपरं च दण्डम्
  • 03.2.41 शुल्कं स्त्रीधनं अशुल्कस्त्रीधनायाः तत्प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत
  • 03.2.42 पुत्रार्था हि स्त्रियः
  • 03.2.43 तीर्थसमवाये चासां यथाविवाहं पूर्व ऊढां जीवत्पुत्रां वा पूर्वं गच्छेत्
  • 03.2.44 तीर्थगूहनागमने षण्ँअवतिर्दण्डः
  • 03.2.45 पुत्रवतीं धर्मकामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात्
  • 03.2.46 न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत्
  • 03.2.47 स्त्री तु पुत्रार्थं एवम्भूतं वा उपगच्छेत्
  • 03.2.48ab नीचत्वं परदेशं वा प्रस्थितो राजकिल्बिषी |
  • 03.2.48chd प्राणाभिहन्ता पतितः त्याज्यः क्लीबोऽपि वा पतिः ( इति)


    Chapt |   iv) Marital duty, (v) Maintenance, (vi) Cruelty, (vii) Disaffection, (viii) Misconduct, (ix) Prohibition of favours and dealings
  • 03.3.01 द्वादशवर्षा स्त्री प्राप्तव्यवहारा भवति, षोडशवर्षः पुमान्
  • 03.3.02 अत ऊर्ध्वं अशुश्रूषायां द्वादशपणः स्त्रिया दण्डः, पुंसो द्विगुणः इति शुश्रूषा |
  • 03.3.03 भर्मण्यायां अनिर्दिष्टकालायां ग्रासाच्छादनं वाऽधिकं यथापुरुषपरिवापं सविशेषं दद्यात्
  • 03.3.04 निर्दिष्टकालायां तद् एव सङ्ख्याय बन्धं च दद्यात्
  • 03.3.05 शुल्कस्त्रीधनाधिवेदनिकानां अनादाने च
  • 03.3.06 श्वशुरकुलप्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म |
  • 03.3.07 नष्टे विनष्टे न्यङ्गे अपितृके अमातृके इत्यनिर्देशेन विनयग्राहणम्
  • 03.3.08 वेणुदलरज्जुहस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः
  • 03.3.09 तस्यातिक्रमे वाग्दण्डपारुष्यदण्डाभ्यां अर्धदण्डाः
  • 03.3.10 तद् एव स्त्रिया भर्तरि प्रसिद्धदोषायाः
  • 03.3.11 ईर्ष्यया बाह्यविहारेषु द्वारेष्वत्ययो यथानिर्दिष्टः इति पारुष्यम् |
  • 03.3.12 भर्तारं द्विषती स्त्री सप्तार्तवान्यमण्डयमाना तदानीं एव स्थाप्याभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत
  • 03.3.13 भिक्षुक्य्ऽन्वाधिज्ञातिकुलानां अन्यतमे वा भर्ता द्विषन् स्त्रियं एकां अनुशयीत
  • 03.3.14 दृष्टलिङ्गे मैथुनापहारे सवर्णापसर्प उपगमे वा मिथ्यावादी द्वादशपणं दद्यात्
  • 03.3.15 अमोक्ष्या भर्तुरकामस्य द्विषती भार्या, भार्यायाश्च भर्ता
  • 03.3.16 परस्परन्द्वेषान् मोक्षः
  • 03.3.17 स्त्रीविप्रकाराद् वा पुरुषश्चेन् मोक्षं इच्छेद् यथागृहीतं अस्यै दद्यात्
  • 03.3.18 पुरुषविप्रकाराद् वा स्त्री चेन् मोक्षं इच्छेन्नास्यै यथागृहीतं दद्यात्
  • 03.3.19 अमोक्षो धर्मविवाहानाम् इति द्वेषः |
  • 03.3.20 प्रतिषिद्धा स्त्री दर्पमद्यक्रीडायां त्रिपणं दण्डं दद्यात्
  • 03.3.21 दिवा स्त्रीप्रेक्षाविहारगमने षट्पणो दण्डः, पुरुषप्रेक्षाविहारगमने द्वादशपणः
  • 03.3.22 रात्रौ द्विगुणः
  • 03.3.23 सुप्तमत्तप्रव्रजने भर्तुरदाने च द्वारस्य द्वादशपणः
  • 03.3.24 रात्रौ निष्कसने द्विगुणः
  • 03.3.25 स्त्रीपुंसयोर्मैथुनार्थेनाङ्गविचेष्टायां रहोऽश्लीलसम्भाषायां वा चतुर्विंशतिपणः स्त्रिया दण्डः, पुंसो द्विगुणः
  • 03.3.26 केशनीविदन्तनखालम्बनेषु पूर्वः साहसदण्डः, पुंसो द्विगुणः
  • 03.3.27 शङ्कितस्थाने सम्भाषायां च पणस्थाने शिफादण्डः
  • 03.3.28 स्त्रीणां ग्राममध्ये चण्डालः पक्षान्तरे पञ्चशिफा दद्यात्
  • 03.3.29 पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः |
  • 03.3.30 प्रतिषिद्धयोः स्त्रीपुंसयोरन्योन्य उपकारे क्षुद्रकद्रव्याणां द्वादशपणो दण्डः, स्थूलकद्रव्याणां चतुर्विंशतिपणः, हिरण्यसुवर्णयोश्चतुष्पञ्चाशत्पणः स्त्रिया दण्डः, पुंसोर्द्विगुणः
  • 03.3.31 त एवागम्ययोरर्धदण्डाः, तथा प्रतिषिद्धपुरुषव्यवहारेषु च इति प्रतिषेधः |
  • 03.3.32ab राजद्विष्टातिचाराभ्यां आत्मापक्रमणेन च |
  • 03.3.32chd स्त्रीधनानीतशुल्कानां अस्वाम्यं जायते स्त्रियाः ( इति)


    Chapt |   Leaving home, goi.g away(with a man), Short absence from home, Long absence from home
  • 03.4.01 पतिकुलान्निष्पतितायाः स्त्रियाः षट्पणो दण्डः, अन्यत्र विप्रकारात्
  • 03.4.02 प्रतिषिद्धायां द्वादशपणः
  • 03.4.03 प्रतिवेशगृहातिगतायाः षट्पणः
  • 03.4.04 प्रातिवेशिकभिक्षुकवैदेहकानां अवकाशभिक्षापण्यदाने द्वादशपणो दण्डः
  • 03.4.05 प्रतिषिद्धानां पूर्वः साहसदण्डः
  • 03.4.06 परगृहातिगतायाश्चतुर्विंशतिपणः
  • 03.4.07 परभार्याऽवकाशदाने शत्यो दण्डः, अन्यत्रापद्भ्यः
  • 03.4.08 वारणाज्ञानयोर्निर्दोषः
  • 03.4.09 पतिविप्रकारात् पतिज्ञातिसुखावस्थग्रामिकान्वाधिभिक्षुकीज्ञातिकुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः
  • 03.4.10 स-पुरुषं वा ज्ञातिकुलम्
  • 03.4.11 कुतो हि साध्वीजनस्यच्छलम्
  • 03.4.12 सुखं एतद् अवबोद्धुं, इति कौटिल्यः
  • 03.4.13 प्रेतव्याधिव्यसनगर्भनिमित्तं अप्रतिषिद्धं एव ज्ञातिकुलगमनम्
  • 03.4.14 तन्निमित्तं वारयतो द्वादशपणो दण्डः
  • 03.4.15 तत्रापि गूहमाना स्त्रीधनं जीयेत, ज्ञातयो वा छादयन्तः शुल्कशेषम् इति निष्पतनं |
  • 03.4.16 पतिकुलान्निष्पत्य ग्रामान्तरगमने द्वादशपणो दण्डः स्थाप्याऽऽभरणलोपश्च
  • 03.4.17 गम्येन वा पुंसा सह प्रस्थाने चतुर्विंशतिपणः सर्वधर्मलोपश्च, अन्यत्र भर्मदानतीर्थगमनाभ्याम्
  • 03.4.18 पुंसः पूर्वः साहसदण्डः तुल्यश्रेयसोः, पापीयसो मध्यमः
  • 03.4.19 बन्धुर्ऽदण्ड्यः
  • 03.4.20 प्रतिषेधेऽर्धदण्डाः
  • 03.4.21 पथि व्यन्तरे गूढदेशाभिगमने मैथुनार्थेन शङ्कितप्रतिषिद्धायां वा पथ्य्ऽनुसरणे सङ्ग्रहणं विद्यात्
  • 03.4.22 तालावचरचारणमत्स्यबन्धकलुब्धकगोपालकशौण्डिकानां अन्येषां च प्रसृष्टस्त्रीकाणां पथ्य्ऽनुसरणं अदोषः
  • 03.4.23 प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्याः त एवार्धदण्डाः इति पथ्य्ऽनुसरणम् |
  • 03.4.24 ह्रस्वप्रवासिनां शूद्रवैश्यक्षत्रियब्राह्मणानां भार्याः संवत्सर उत्तरं कालं आकाङ्क्षेरन् अप्रजाताः, संवत्सराधिकं प्रजाताः
  • 03.4.25 प्रतिविहिता द्विगुणं कालम्
  • 03.4.26 अप्रतिविहिताः सुखावस्था बिभृयुः, परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः
  • 03.4.27 ततो यथादत्तं आदाय प्रमुञ्चेयुः
  • 03.4.28 ब्राह्मणं अधीयानं दशवर्षाण्यप्रजाता, द्वादश प्रजाता, राजपुरुषं आयुःक्षयाद् आकाङ्क्षेत
  • 03.4.29 सवर्णतश्च प्रजाता नापवादं लभेत
  • 03.4.30 कुटुम्ब.ऋद्धिलोपे वा सुखावस्थैर्विमुक्ता यथा इष्टं विन्देत, जीवितार्थं आपद्गता वा
  • 03.4.31 धर्मविवाहात् कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं श्रूयमाणम्
  • 03.4.32 आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत, दश श्रूयमाणम्
  • 03.4.33 एकदेशदत्तशुल्कं त्रीणि तीर्थान्यश्रूयमाणं, श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत
  • 03.4.34 दत्तशुल्कं पञ्च तीर्थान्यश्रूयमाणं, दश श्रूयमाणम्
  • 03.4.35 ततः परं धर्मस्थैर्विसृष्टा यथा इष्टं विन्देत
  • 03.4.36 तीर्थ उपरोधो हि धर्मवध इति कौटिल्यः इति ह्रस्वप्रवासः ||
  • 03.4.37 दीर्घप्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत, संवत्सरं प्रजाता
  • 03.4.38 ततः पतिसोदर्यं गच्छेत्
  • 03.4.39 बहुषु प्रत्यासन्नं धार्मिकं भर्मसमर्थं कनिष्ठं अभार्यं वा
  • 03.4.40 तद्ऽभावेऽप्यसोदर्यं सपिण्डं कुल्यं वाऽऽसन्नम्
  • 03.4.41 एतेषां एष एव क्रमः
  • 03.4.42ab एतान् उत्क्रम्य दायादान् वेदने जारकर्मणि |
  • 03.4.42chd जारस्त्रीदातृवेत्तारः सम्प्राप्ताः सङ्ग्रहात्ययम् ( इति)


    Chapt |   Partition of inheritance
    Orderof inheritance
  • 03.5.01 अनीश्वराः पितृमन्तः स्थितपितृमातृकाः पुत्राः
  • 03.5.02 तेषां ऊर्ध्वं पितृतो दायविभागः पितृद्रव्याणाम्
  • 03.5.03 स्वयंऽअर्जितं अविभाज्यं, अन्यत्र पितृद्रव्याद् उत्थितेभ्यः
  • 03.5.04 पितृद्रव्याद् अविभक्त उपगतानां पुत्राः पौत्रा वा आचतुर्थाद् इत्यंशभाजः
  • 03.5.05 तावद् अविच्छिन्नः पिण्डो भवति
  • 03.5.06 विच्छिन्नपिण्डाः सर्वे समं विभजेरन्
  • 03.5.07 अपितृद्रव्या विभक्तपितृद्रव्या वा सह जीवन्तः पुनर्विभजेरन्
  • 03.5.08 यतश्च उत्तिष्ठेत स द्व्य्ऽंशं लभेत
  • 03.5.09 द्रव्यं अपुत्रस्य सोदर्या भ्रातरः सहजीविनो वा हरेयुः कन्याश्च
  • 03.5.10 रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः
  • 03.5.11 तद्ऽभावे पिता धरमाणः
  • 03.5.12 पित्र्ऽभावे भ्रातरो भ्रातृपुत्राश्च
  • 03.5.13 अपितृका बहवोऽपि च भ्रातरो भ्रातृपुत्राश्च पितुरेकं अंशं हरेयुः
  • 03.5.14 सोदर्याणां अनेकपितृकाणां पितृतो दायविभागः
  • 03.5.15 पितृभ्रातृपुत्राणां पूर्वे विद्यमाने नापरं अवलम्बन्ते, ज्येष्ठे च कनिष्ठं अर्थग्राहिणम्
  • 03.5.16 जीवद्विभागे पिता न एकं विशेषयेत्
  • 03.5.17 न च एकं अकारणान्निर्विभजेत
  • 03.5.18 पितुरसत्यर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्यावृत्तेभ्यः
  • 03.5.19 प्राप्तव्यवहाराणां विभागः
  • 03.5.20 अप्राप्तव्यवहाराणां देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुः आव्यवहारप्रापणात्, प्रोषितस्य वा
  • 03.5.21 सम्निविष्टसमं असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश्च प्रादानिकम्
  • 03.5.22 ऋणरिक्थयोः समो विभागः
  • 03.5.23 उदपात्राण्यपि निष्किञ्चना विभजेरन् इत्याचार्याः
  • 03.5.24 छलं एतद् इति कौटिल्यः
  • 03.5.25 सतोऽर्थस्य विभागो नासतः
  • 03.5.26 एतावान् अर्थः सामान्यः तस्य एतावान् प्रत्य्ऽंश इत्यनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत्
  • 03.5.27 दुर्विभक्तं अन्योन्यापहृतं अन्तर्हितं अविज्ञात उत्पन्नं वा पुनर्विभजेरन्
  • 03.5.28 अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्जं, अन्यत्र श्रोत्रियद्रव्यात्
  • 03.5.29 तत् त्रैवेद्येभ्यः प्रयच्छेत्
  • 03.5.30 पतितः पतिताज् जातः क्लीबश्चानंशाः, जड उन्मत्तान्धकुष्ठिनश्च
  • 03.5.31 सति भार्यार्थे तेषां अपत्यं अतद्विधं भागं हरेत्
  • 03.5.32 ग्रासाच्छादनं इतरे पतितवर्जाः
  • 03.5.33ab तेषां च कृतदाराणां लुप्ते प्रजनने सति |
  • 03.5.33chd सृजेयुर्बान्धवाः पुत्रांः तेषां अंशान् प्रकल्पयेत् ( इति)


    Chapt |   Division into shares
  • 03.6.01 एकस्त्रीपुत्राणां ज्येष्ठांशः - ब्राह्मणानां अजाः, क्षत्रियाणां अश्वाः, वैश्यानां गावः, शूद्राणां अवयः
  • 03.6.02 काणलङ्गाः तेषां मध्यमांशः, भिन्नवर्णाः कनिष्ठांशः
  • 03.6.03 चतुष्पदाभावे रत्नवर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत्
  • 03.6.04 प्रतिमुक्तस्वधापाशो हि भवति
  • 03.6.05 इत्यौशनसो विभागः
  • 03.6.06 पितुः परिवापाद् यानं आभरणं च ज्येष्ठांशः, शयनासनं भुक्तकांस्यं च मध्यमांशः, कृष्णं धान्यायसं गृहपरिवापो गोशकटं च कनिष्ठांशः
  • 03.6.07 शेषद्रव्याणां एकद्रव्यस्य वा समो विभागः
  • 03.6.08 अदायादा भगिन्यः, मातुः परिवापाद् भुक्तकांस्याभरणभागिन्यः
  • 03.6.09 मानुषहीनो ज्येष्ठः तृतीयं अंशं ज्येष्ठांशाल्लभेत, चतुर्थं अन्यायवृत्तिः, निवृत्तधर्मकार्यो वा
  • 03.6.10 कामाचारः सर्वं जीयेत
  • 03.6.11 तेन मध्यमकनिष्ठौ व्याख्यातौ
  • 03.6.12 तयोर्मानुष उपेतो ज्येष्ठांशाद् अर्धं लभेत
  • 03.6.13 नानास्त्रीपुत्राणां तु संस्कृतासंस्कृतयोः कन्याकृतक्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्वजन्मना ज्येष्ठभावः
  • 03.6.14 सूतमागधव्रात्यरथकाराणां ऐश्वर्यतो विभागः
  • 03.6.15 शेषाः तं उपजीवेयुः
  • 03.6.16 अनीश्वराः समविभागाः
  • 03.6.17 चातुर्वर्ण्यपुत्राणां ब्राह्मणीपुत्रश्चतुरोऽंशान् हरेत्, क्षत्रियापुत्रस्त्रीन् अंशान्, वैश्यापुत्रो द्वावंशौ, एकं शूद्रापुत्रः
  • 03.6.18 तेन त्रिवर्णद्विवर्णपुत्रविभागः क्षत्रियवैश्ययोर्व्याख्यातः
  • 03.6.19 ब्राह्मणस्यानन्तरापुत्रः तुल्यांशः
  • 03.6.20 क्षत्रियवैश्ययोरर्धांशः तुल्यांशो वा मानुष उपेतः
  • 03.6.21 तुल्यातुल्ययोरेकपुत्रः सर्वं हरेत्, बन्धूंश्च बिभृयात्
  • 03.6.22 ब्राह्मणानां तु पारशवः तृतीयं अंशं लभेत, द्वावंशौ सपिण्डः कुल्यो वाऽऽसन्नः, स्वधादानहेतोः
  • 03.6.23 तद्ऽभावे पितुराचार्योऽन्तेवासी वा
  • 03.6.24ab क्षेत्रे वा जनयेद् अस्य नियुक्तः क्षेत्रजं सुतम् |
  • 03.6.24chd मातृबन्धुः सगोत्रो वा तस्मै तत् प्रदिशेद् धनम् ( इति)


    Chapt |   Classification of sons
  • 03.7.01 परपरिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः
  • 03.7.02 माता भस्त्रा, यस्य रेतः तस्यापत्यम् इत्यपरे
  • 03.7.03 विद्यमानं उभयं इति कौटिल्यः
  • 03.7.04 स्वयञ्जातः कृतक्रियायां औरसः
  • 03.7.05 तेन तुल्यः पुत्रिकापुत्रः
  • 03.7.06 सगोत्रेणान्यगोत्रेण वा नियुक्तेन क्षेत्रजातः क्षेत्रजः पुत्रः
  • 03.7.07 जनयितुरसत्यन्यस्मिन् पुत्रे स एव द्विपितृको द्विगोत्रो वा द्वयोरपि स्वधारिक्थभाग् भवति
  • 03.7.08 तत्सधर्मा बन्धूनां गृहे गूढजातः तु गूढजः
  • 03.7.09 बन्धुना उत्सृष्टोऽपविद्धः संस्कर्तुः पुत्रः
  • 03.7.10 कन्यागर्भः कानीनः
  • 03.7.11 सगर्भ ऊढायाः सह ऊढः
  • 03.7.12 पुनर्भूतायाः पौनर्भवः
  • 03.7.13 स्वयञ्जातः पितुर्बन्धूनां च दायादः
  • 03.7.14 परजातः संस्कर्तुरेव न बन्धूनाम्
  • 03.7.15 तत्सधर्मा मातापितृभ्यां अद्भिर्मुक्तो दत्तः
  • 03.7.16 स्वयं बन्धुभिर्वा पुत्रभाव उपगत उपगतः
  • 03.7.17 पुत्रत्वेऽधिकृतः कृतकः
  • 03.7.18 परिक्रीतः क्रीतः इति |
  • 03.7.19 औरसे तु उत्पन्ने सवर्णाः तृतीयांशहराः, असवर्णा ग्रासाच्छादनभागिनः
  • 03.7.20 ब्राह्मणक्षत्रिययोरनन्तरापुत्राः सवर्णाः, एकान्तरा असवर्णाः
  • 03.7.21 ब्राह्मणस्य वैश्यायां अम्बष्ठः, शूद्रायां निषादः पारशवो वा
  • 03.7.22 क्षत्रियस्य शूद्रायां उग्रः
  • 03.7.23 शूद्र एव वैश्यस्य
  • 03.7.24 सवर्णासु च एषां अचरितव्रतेभ्यो जाता व्रात्याः
  • 03.7.25 इत्यनुलोमाः
  • 03.7.26 शूद्राद् आयोगवक्षत्तचण्डालाः
  • 03.7.27 वैश्यान् मागधवैदेहकौ
  • 03.7.28 क्षत्रियात् सूतः
  • 03.7.29 पौराणिकः त्वन्यः सूतो मागधश्च, ब्रह्मक्षत्राद् विशेषः
  • 03.7.30 त एते प्रतिलोमाः स्वधर्मातिक्रमाद् राज्ञः सम्भवन्ति
  • 03.7.31 उग्रान्नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः
  • 03.7.32 वैदेहिकायां अम्बष्ठाद् वैणः, विपर्यये कुशीलवः
  • 03.7.33 क्षत्तायां उग्रात्श्वपाकः
  • 03.7.34 इत्येतेऽन्ये चान्तरालाः
  • 03.7.35 कर्मणा वैश्यो रथकारः
  • 03.7.36 तेषां स्वयोनौ विवाहः, पूर्वापरगामित्वं वृत्तानुवृत्तं च
  • 03.7.37 शूद्रसधर्माणो वा, अन्यत्र चण्डालेभ्यः
  • 03.7.38 केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा, नरकं अन्यथा
  • 03.7.39 सर्वेषां अन्तरालानां समो विभागः
  • 03.7.40ab देशस्य जात्याः सङ्घस्य धर्मो ग्रामस्य वाऽपि यः |
  • 03.7.40chd उचितः तस्य तेन एव दायधर्मं प्रकल्पयेत् ( इति)


    Chapt |   Immovable propertय्
    Dwelling-places
  • 03.8.01 सामन्तप्रत्यया वास्तुविवादाः
  • 03.8.02 गृहं क्षेत्रं आरामः सेतुबन्धः तटाकं आधारो वा वास्तुः
  • 03.8.03 कर्णकीलायससम्बन्धोऽनुगृहं सेतुः
  • 03.8.04 यथासेतुभोगं वेश्म कारयेत्
  • 03.8.05 अभूतं वा परकुड्याद् अपक्रम्य द्वावरत्नी त्रिपदीं वा देशबन्धं कारयेत्
  • 03.8.06 अवस्करं भ्रमं उदपानं वा न गृह उचिताद् अन्यत्र, अन्यत्र सूतिकाकूपाद् आनिर्दशाहाद् इति
  • 03.8.07 तस्यातिक्रमे पूर्वः साहसदण्डः
  • 03.8.08 तेन इन्धनावघातनकृतं कल्याणकृत्येष्वाचाम उदकमार्गाश्च व्याख्याताः
  • 03.8.09 त्रिपदीप्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढप्रसृतं उदकमार्गं प्रस्रवणप्रपातं वा कारयेत्
  • 03.8.10 तस्यातिक्रमे चतुष्पञ्चाशत्पणो दण्डः
  • 03.8.11 एकपदीप्रतिक्रान्तं अरत्निं वा चक्रिचतुष्पदस्थानं अग्निष्ठं उदञ्जरस्थानं रोचनीं कुट्टनीं वा कारयेत्
  • 03.8.12 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
  • 03.8.13 सर्ववास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा
  • 03.8.14 तयोश्चतुर्ऽङ्गुलं नीप्रान्तरम् नीव्रान्तरम्? समारूढकं वा
  • 03.8.15 किष्कुमात्रं आणिद्वारं अन्तरिकायां खण्डफुल्लार्थं असम्पातं कारयेत्
  • 03.8.16 प्रकाशार्थं अल्पं ऊर्ध्वं वातायनं कारयेत्
  • 03.8.17 तद्ऽवसिते वेश्मनिच्छादयेत्
  • 03.8.18 सम्भूय वा गृहस्वामिनो यथा इष्टं कारयेयुः, अनिष्टं वारयेयुः
  • 03.8.19 वानलट्याश्च ऊर्ध्वं आवार्यभागं कटप्रच्छन्नं अवमर्शभित्तिं वा कारयेद् वर्षाबाधभयात्
  • 03.8.20 तस्यातिक्रमे पूर्वः साहसदण्डः, प्रतिलोमद्वारवातायनबाधायां च, अन्यत्र राजमार्गरथ्याभ्यः
  • 03.8.21 खातसोपानप्रणालीनिश्रेण्य्ऽवस्करभागैर्बहिर्बाधायां भोगनिग्रहे च
  • 03.8.22 परकुड्यं उदकेन उपघ्नतो द्वादशपणो दण्डः, मूत्रपुरीष उपघाते द्विगुणः
  • 03.8.23 प्रणालीमोक्षो वर्षति, अन्यथा द्वादशपणो दण्डः
  • 03.8.24 प्रतिषिद्धस्य च वसतः, निरस्यतश्चावक्रयिणं अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणमिथ्याभोगेभ्यः
  • 03.8.25 स्वयंऽभिप्रस्थितो वर्षावक्रयशेषं दद्यात्
  • 03.8.26 सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः, सामान्यं उपरुन्धतो भोगं च गृहे द्वादशपणो दण्डः
  • 03.8.27 विनाशयतः तद्द्विगुणः
  • 03.8.28ab कोष्ठकाङ्गणवर्चानां अग्निकुट्टनशालयोः |
  • 03.8.28chd विवृतानां च सर्वेषां सामान्यो भोग इष्यते ( इति)


    Chapt |   sale of immovable property Fixing of boundaries Enchroachment and Damage
  • 03.9.01 ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुं अभ्याभवेयुः
  • 03.9.02 ततोऽन्ये बाह्याः
  • 03.9.03 सामन्तचत्वारिंशत्कुल्येषु गृहप्रतिमुखे वेश्म श्रावयेयुः, सामन्तग्रामवृद्धेषु क्षेत्रं आरामं सेतुबन्धं तटाकं आधारं वा मर्यादासु यथासेतुभोगं अनेनार्घेण कः क्रेता इति
  • 03.9.04 त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत
  • 03.9.05 स्पर्धया वा मूल्यवर्धने मूल्यवृद्धिः स-शुल्का कोशं गच्छेत्
  • 03.9.06 विक्रयप्रतिक्रोष्टा शुल्कं दद्यात्
  • 03.9.07 अस्वामिप्रतिक्रोशे चतुर्विंशतिपणो दण्डः
  • 03.9.08 सप्तरात्राद् ऊर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत
  • 03.9.09 प्रतिक्रुष्टातिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्विंशतिपणो दण्डः इति वास्तुविक्रयः |
  • 03.9.10 सीमविवादं ग्रामयोरुभयोः सामन्ता पञ्चग्रामी दशग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात्
  • 03.9.11 कर्षकगोपालकवृद्धाः पूर्वभुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीमसेतून् विपरीतवेषाः सीमानं नयेयुः
  • 03.9.12 उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः |
  • 03.9.13 तद् एव नीते सीमापहारिणां सेतुच्छिदां च कुर्यात्
  • 03.9.14 प्रनष्टसेतुभोगं वा सीमानं राजा यथा उपकारं विभजेत् इति सीमविवादः |
  • 03.9.15 क्षेत्रविवादं सामन्तग्रामवृद्धाः कुर्युः
  • 03.9.16 तेषां द्वैधीभावे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः
  • 03.9.17 तद्.उभयपरा उक्तं वास्तु राजा हरेत्, प्रनष्टस्वामिकं च
  • 03.9.18 यथा उपकारं वा विभजेत्
  • 03.9.19 प्रसह्यादाने वास्तुनि स्तेयदण्डः
  • 03.9.20 कारणादाने प्रयासं आजीवं च परिसङ्ख्याय बन्धं दद्यात् इति क्षेत्रविवादः |
  • 03.9.21 मर्यादाऽपहरणे पूर्वः साहसदण्डः
  • 03.9.22 मर्यादाभेदे चतुर्विंशतिपणः
  • 03.9.23 तेन तपोवनविवीतमहापथश्मशानदेवकुलयजनपुण्यस्थानविवादा व्याख्याताः इति मर्यादास्थापनम् |
  • 03.9.24 सर्व एव विवादाः सामन्तप्रत्ययाः
  • 03.9.25 विवीतस्थलकेदारषण्डखलवेश्मवाहनकोष्ठानां पूर्वम्पूर्वं आबाधं सहेत
  • 03.9.26 ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जाः स्थलप्रदेशाः
  • 03.9.27 आधारपरिवाहकेदार उपभोगैः परक्षेत्रकृष्टबीजहिंसायां यथा उपघातं मूल्यं दद्युः
  • 03.9.28 केदारारामसेतुबन्धानां परस्परहिंसायां हिंसाद्विगुणो दण्डः
  • 03.9.29 पश्चान्निविष्टं अधरतटाकं न उपरितटाकस्य केदारं उदकेनाप्लावयेत्
  • 03.9.30 उपरिनिविष्टं नाधरतटाकस्य पूरास्रावं वारयेद्, अन्यत्र त्रिवर्ष उपरतकर्मणः
  • 03.9.31 तस्यातिक्रमे पूर्वः साहसदण्डः, तटाकवामनं च
  • 03.9.32 पञ्चवर्ष उपरतकर्मणः सेतुबन्धस्य स्वाम्यं लुप्येत, अन्यत्रापद्भ्यः
  • 03.9.33 तटाकसेतुबन्धानां नवप्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः
  • 03.9.34 स्वात्माधाने विक्रये च
  • 03.9.35 खातप्रावृत्तिं अनदीनिबन्धायतनतटाककेदारारामषण्डवापानां सस्यवर्णभाग उत्तरिकं अन्येभ्यो वा यथा उपकारं दद्युः
  • 03.9.36 प्रक्रयावक्रयाधिभागभोगनिषृष्ट उपभोक्तारश्च एषां प्रतिकुर्युः
  • 03.9.37 अर्पतीकारे हीनद्विगुणो दण्डः
  • 03.9.38ab सेतुभ्यो मुञ्चतः तोयं अवारे षट्पणो दमः |
  • 03.9.38chd वारे वा तोयं अन्येषां प्रमादेन उपरुन्धतः ( इति)


    Chapt |   Damage to pastures, fields and roads
  • 03.10.01 कर्म उदकमार्गं उचितं रुन्धतः कुर्वतोऽनुचितं वा पूर्वः साहसदण्डः, सेतुकूपपुण्यस्थानचैत्यदेवायतनानि च परभूमौ निवेशयतः
  • 03.10.02 पूर्वानुवृत्तं धर्मसेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहसदण्डः, श्रोतॄणां उत्तमः, अन्यत्र भग्न उत्सृष्टात्
  • 03.10.03 स्वाम्यभावे ग्रामाः पुण्यशीला वा प्रतिकुर्युः
  • 03.10.04 पथिप्रमाणं दुर्गनिवेशे व्याख्यातम्
  • 03.10.05 क्षुद्रपशुमनुष्यपथं रुन्धतो द्वादशपणो दण्डः, महापशुपथं चतुर्विंशतिपणः, हस्तिक्षेत्रपथं चतुष्पञ्चाशत्पणः, सेतुवनपथं षट्शतः, श्मशानग्रामपथं द्विशतः, द्रोणमुखपथं पञ्चशतः, स्थानीयराष्ट्रविवीतपथं साहस्रः
  • 03.10.06 अतिकर्षणे च एषां दण्डचतुर्था दण्डाः
  • 03.10.07 कर्षणे पूर्व उक्ताः
  • 03.10.08 क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीजकाले द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
  • 03.10.09 करदाः करदेष्वाधानं विक्रयं वा कुर्युः, ब्रह्मदेयिका ब्रह्मदेयिकेषु
  • 03.10.10 अन्यथा पूर्वः साहसदण्डः
  • 03.10.11 करदस्य वाऽकरदग्रामं प्रविशतः
  • 03.10.12 करदं तु प्रविशतः सर्वद्रव्येषु प्राकाम्यं स्यात्, अन्यत्रागारात्
  • 03.10.13 तद् अप्यस्मै दद्यात्
  • 03.10.14 अनादेयं अकृषतोऽन्यः पञ्चवर्षाण्युपभुज्य प्रयासनिष्क्रयेण दद्यात्
  • 03.10.15 अकरदाः परत्र वसन्तो भोगं उपजीवेयुः
  • 03.10.16 ग्रामार्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः
  • 03.10.17 अननुगच्छन्तः पणार्धपणिकं योजनं दद्युः
  • 03.10.18 ग्रामिकस्य ग्रामाद् अस्तेनपारदारिकं निरस्यतश्चतुर्विंशतिपणो दण्डः, ग्रामस्य उत्तमः
  • 03.10.19 निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः
  • 03.10.20 स्तम्भैः समन्ततो ग्रामाद् धनुःशतापकृष्टं उपसालं कारयेत्
  • 03.10.21 पशुप्रचारार्थं विवीतं आलवनेन उपजीवेयुः
  • 03.10.22 विवीतं भक्षयित्वाऽपसृतानां उष्ट्रमहिषाणां पादिकं रूपं गृह्णीयुः, गवाश्वखराणां चार्धपादिकं, क्षुद्रपशूनां षोडशभागिकम्
  • 03.10.23 भक्षयित्वा निषण्णानां एत एव द्विगुणा दण्डाः, परिवसतां चतुर्गुणाः
  • 03.10.24 ग्रामदेववृषा वाऽनिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्ड्याः
  • 03.10.25 सस्यभक्षणे सस्य उपघातं निष्पत्तितः परिसङ्ख्याय द्विगुणं दापयेत्
  • 03.10.26 स्वामिनश्चानिवेद्य चारयतो द्वादशपणो दण्डः, प्रमुञ्चतश्चतुर्विंशतिपणः
  • 03.10.27 पालिनां अर्धदण्डाः
  • 03.10.28 तद् एव षण्डभक्षणे कुर्यात्
  • 03.10.29 वाटभेदे द्विगुणः वेश्मखलवलयगतानां च धान्यानां भक्षणे
  • 03.10.30 हिंसाप्रतीकारं कुर्यात्
  • 03.10.31 अभयवनमृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाऽवध्याः तथा प्रतिषेद्धव्याः
  • 03.10.32 पशवो रश्मिप्रतोदाभ्यां वारयितव्याः
  • 03.10.33 तेषां अन्यथा हिंसायां दण्डपारुष्यदण्डाः
  • 03.10.34 प्रार्थयमाना दृष्टापराधा वा सर्व उपायैर्नियन्तव्याः इति क्षेत्रपथहिंसा |
  • 03.10.35 कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत्
  • 03.10.36 कर्माकरणे कर्मवेतनद्विगुणं, हिरण्यादाने प्रत्यंशद्विगुणं, भक्ष्यपेयादाने च प्रहवणेषु द्विगुणं अंशं दद्यात्
  • 03.10.37 प्रेक्षायां अनंशदः, स-स्वजनो न प्रेक्षेत
  • 03.10.38 प्रच्छन्नश्रवण ईक्षणे च सर्वहिते च कर्मणि निग्रहेण द्विगुणं अंशं दद्यात्
  • 03.10.39 सर्वहितं एकस्य ब्रुवतः कुर्युराज्ञाम्
  • 03.10.40 अकरणे द्वादशपणो दण्डः
  • 03.10.41 तं चेत् सम्भूय वा हन्युः पृथग् एषां अपराधद्विगुणो दण्डः
  • 03.10.42 उपहन्तृषु विशिष्टः
  • 03.10.43 ब्राह्मणश्च एषां ज्यैष्ठ्यं नियम्येत
  • 03.10.44 प्रहवणेषु च एषां ब्राह्मणा नाकामाः कुर्युः, अंशं च लभेरन्
  • 03.10.45 तेन देशजातिकुलसङ्घानां समयस्यानपाकर्म व्याख्यातम्
  • 03.10.46ab राजा देशहितान् सेतून् कुर्वतां पथि सङ्क्रमान् |
  • 03.10.46chd ग्रामशोभाश्च रक्षाश्च तेषां प्रियहितं चरेत् ( इति)


    Chapt |   Non-payment of debts
  • 03.11.01 सपादपणा धर्म्या मासवृद्धिः पणशतस्य, पञ्चपणा व्यावहारिकी, दशपणा कान्तारगाणां, विंशतिपणा सामुद्राणाम्
  • 03.11.02 ततः परं कर्तुः कारयितुश्च पूर्वः साहसदण्डः, श्रोतॄणां एक एकं प्रत्यर्धदण्डः
  • 03.11.03 राजन्ययोगक्षेमावहे तु धनिकधारणिकयोश्चरित्रं अवेक्षेत
  • 03.11.04 धान्यवृद्धिः सस्यनिष्पत्तावुपार्धा, परं मूल्यकृता वर्धेत
  • 03.11.05 प्रक्षेपवृद्धिरुदयाद् अर्धं सम्निधानसन्ना वार्षिकी देया
  • 03.11.06 चिरप्रवासः स्तम्भप्रविष्टो वा मूल्यद्विगुणं दद्यात्
  • 03.11.07 अकृत्वा वृद्धिं साधयतो वर्धयतो वा, मूल्यं वा वृद्धिं आरोप्य श्रावयतो बन्धचतुर्गुणो दण्डः
  • 03.11.08 तुच्छश्रावणायां अभूतचतुर्गुणः
  • 03.11.09 तस्य त्रिभागं आदाता दद्यात्, शेषं प्रदाता
  • 03.11.10 दीर्घसत्त्रव्याधिगुरुकुल उपरुद्धं बालं असारं वा नऋणं अनुवर्धेत
  • 03.11.11 मुच्यमानं ऋणं अप्रतिगृह्णतो द्वादशपणो दण्डः
  • 03.11.12 कारणापदेशेन निवृत्तवृद्धिकं अन्यत्र तिष्ठेत्
  • 03.11.13 दशवर्ष उपेक्षितं ऋणं अप्रतिग्राह्यं, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः
  • 03.11.14 प्रेतस्य पुत्राः कुसीदं दद्युः, दायादा वा रिक्थहराः, सहग्राहिणः, प्रतिभुवो वा
  • 03.11.15 न प्रातिभाव्यं अन्यत्
  • 03.11.16 असारं बालप्रातिभाव्यम्
  • 03.11.17 असङ्ख्यातदेशकालं तु पुत्राः पौत्रा दायादा वा रिक्थं हरमाणा दद्युः
  • 03.11.18 जीवितविवाहभूमिप्रातिभाव्यं असङ्ख्यातदेशकालं तु पुत्राः पौत्रा वा वहेयुः
  • 03.11.19 नानाऋणसमवाये तु न एकं द्वौ युगपद् अभिवदेयातां, अन्यत्र प्रतिष्ठमानात्
  • 03.11.20 तत्रापि गृहीतानुपूर्व्या राजश्रोत्रियद्रव्यं वा पूर्वं प्रतिपादयेत्
  • 03.11.21 दम्पत्योः पितापुत्रयोः भ्रातॄणां चाविभक्तानां परस्पर.कृतं ऋणं असाध्यम्
  • 03.11.22 अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च
  • 03.11.23 स्त्री चाप्रतिश्राविणी पतिकृतं ऋणं, अन्यत्र गोपालकार्धसीतिकेभ्यः
  • 03.11.24 पतिः तु ग्राह्यः स्त्रीकृतं ऋणं, अप्रतिविधाय प्रोषित इति
  • 03.11.25 सम्प्रतिपत्तावुत्तमः
  • 03.11.26 अस्मप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरार्ध्याः
  • 03.11.27 पक्षानुमतौ वा द्वौ, ऋणं प्रति न त्वेव एकः
  • 03.11.28 प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः, पूर्वे चाव्यवहार्याः
  • 03.11.29 राजश्रोत्रियग्रामभृतककुष्ठिव्रणिनः पतितचण्डालकुत्सितकर्माणोऽन्धबधिरमूकाहंवादिनः स्त्रीराजपुरुषाश्च, अन्यत्र स्ववर्गेभ्यः
  • 03.11.30 पारुष्यस्तेयसङ्ग्रहणेषु तु वैरिस्यालसहायवर्जाः
  • 03.11.31 रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्याद् राजतापसवर्जम्
  • 03.11.32 स्वामिनो भृत्यानां ऋत्विग्ऽअचार्याः शिष्याणां मातापितरौ पुत्राणां चानिग्रहेण साक्ष्यं कुर्युः, तेसां इतरे वा
  • 03.11.33 परस्पराभियोगे च एषां उत्तमाः परा उक्ता दशबन्धं दद्युः, अवराः पञ्चबन्धम् इति साक्ष्य्ऽधिकारः ||
  • 03.11.34 ब्राह्मण उदकुम्भाग्निसकाशे साक्षिणः परिगृह्णीयात्
  • 03.11.35 तत्र ब्राह्मणं ब्रूयात् सत्यं ब्रूहि इति
  • 03.11.36 राजन्यं वैश्यं वा मा तव इष्टापूर्तफलं, कपालहस्तः शत्रुकुलं भिक्षाऽर्थी गच्छेः इति
  • 03.11.37 शूद्रं जन्ममरणान्तरे यद् वः पुण्यफलं तद् राजानं गच्छेद्, राज्ञश्च किल्बिषं युष्मान् अन्यथावादे, दण्डश्चानुबद्धः, पश्चाद् अपि ज्ञायेत यथादृष्टश्रुतं, एकमन्त्राः सत्यं उपहरत इति
  • 03.11.38 अनुपहरतां सप्तरात्राद् ऊर्ध्वं द्वादशपणो दण्डः, त्रिपक्षाद् ऊर्ध्वं अभियोगं दद्युः
  • 03.11.39 साक्षिभेदे यतो बहवः शुचयोऽनुमता वा ततो नियच्छेयुः, मध्यं वा गृह्णीयुः
  • 03.11.40 तद् वा द्रव्यं राजा हरेत्
  • 03.11.41 साक्षिणश्चेद् अभियोगाद् ऊनं ब्रूयुरतिरिक्तस्याभियोक्ता बन्धं दद्यात्
  • 03.11.42 अतिरिक्तं वा ब्रूयुः तद्ऽतिरिक्तं राजा हरेत्
  • 03.11.43 बालिश्याद् अभियोक्तुर्वा दुह्श्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययं एव स्यात्
  • 03.11.44 साक्षिबालिष्येष्वेव पृथग्ऽनुयोगे देशकालकार्याणां पूर्वमध्यम उत्तमा दण्डाः इत्यौशनसाः
  • 03.11.45 कूटसाक्षिणो यं अर्थं अभूतं कुर्युर्भूतं वा नाशयेयुः तद् दशगुणं दण्डं दद्युः इति मानवाः
  • 03.11.46 बालिश्याद् वा विसंवादयतां चित्रो घातः इति बार्हस्पत्याः
  • 03.11.47 न इति कौटिल्यः
  • 03.11.48 ध्रुवं हि साक्षिभिः श्रोतव्यम्
  • 03.11.49 अशृण्वतां चतुर्विंशतिपणो दण्डः, ततोऽर्धं अब्रुवाणानाम्
  • 03.11.50ab देशकालाविदूरस्थान् साक्षिणः प्रतिपादयेत् |
  • 03.11.50chd दूरस्थान् अप्रसारान् वा स्वामिवाक्येन साधयेत् ( इति)


    Chapt |   Deposits
  • 03.12.01 उपनिधिरृणेन व्याख्यातः
  • 03.12.02 परचक्राटविकाभ्यां दुर्गराष्ट्रविलोपे वा, प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे, चक्रयुक्तनाशे वा, ग्राममध्याग्न्य्.उदकाबाधे ज्वालावेग उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयं उपरूढो न उपनिधिं अभ्यावहेत्
  • 03.12.03 उपनिधिभोक्ता देशकालानुरूपं भोगवेतनं दद्यात्, द्वादशपणं च दण्डम्
  • 03.12.04 उपभोगनिमित्तं नष्टं विनष्टं वाऽभ्यावहेत्, चतुर्विंशतिपणश्च दण्डः, अन्यथा वा निष्पतने
  • 03.12.05 प्रेतं व्यसनगतं वा न उपनिधिं अभ्यावहेत्
  • 03.12.06 आधानविक्रयापव्ययनेषु चास्य चतुर्गुणपञ्चबन्धो दण्डः
  • 03.12.07 परिवर्तने निष्पातने वा मूल्यसमः
  • 03.12.08 तेनाधिप्रणाश उपभोगविक्रयाधानापहारा व्याख्याताः
  • 03.12.09 नाधिः स-उपकारः सीदेत्, न चास्य मूल्यं वर्धेत, अन्यत्र निसर्गात्
  • 03.12.10 निरुपकारः सीदेत्, मूल्यं चास्य वर्धेत
  • 03.12.11 उपस्थितस्याधिं अप्रयच्छतो द्वादशण्पणो दण्डः
  • 03.12.12 प्रयोजकासम्निधाने वा ग्रामवृद्धेषु स्थापयित्वा निष्क्रयं आधिं प्रतिपद्येत
  • 03.12.13 निवृत्तवृद्धिको वाऽऽधिः तत्कालकृतमूल्यः तत्र एवावतिष्ठेत, अनाशविनाशकरणाधिष्ठितो वा
  • 03.12.14 धारणिकासम्निधाने वा विनाशभयाद् उद्गतार्घं धर्मस्थानुज्ञातो विक्रीणीत, आधिपालप्रत्ययो वा
  • 03.12.15 स्थावरः तु प्रयासभोग्यः फलभोग्यो वा प्रक्षेपवृद्धिमूल्यशुद्धं आजीवं अमूल्यक्षयेण उपनयेत्
  • 03.12.16 अनिसृष्ट उपभोक्ता मूल्यशुद्धं आजीवं बन्धं च दद्यात्
  • 03.12.17 शेषं उपनिधिना व्याख्यातम्
  • 03.12.18 एतेनादेशोऽन्वाधिश्च व्याख्यातौ
  • 03.12.19 सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिं अप्राप्तश्चोरैर्भग्न उत्सृष्टो वा नान्वाधिं अभ्यावहेत्
  • 03.12.20 अन्तरे वा मृतस्य दायादोऽपि नाभ्यावहेत्
  • 03.12.21 शेषं उपनिधिना व्यकह्यातम्
  • 03.12.22 याचितकं अवक्रीतकं वा यथाविधं गृह्णीयुः तथाविधं एवार्पयेयुः
  • 03.12.23 भ्रेष उपनिपाताभ्यां देशकाल उपरोधि दत्तं नष्टं विनष्टं वा नाभ्यावहेयुः
  • 03.12.24 शेषं उपनिधिना व्याख्यातम्
  • 03.12.25 वैयावृत्यविक्रयः तु - वैयावृत्यकरा यथादेशकालं विक्रीणानाः पण्यं यथाजातं मूल्यं उदयं च दद्युः
  • 03.12.26 देशकालातिपातने वा परिहीणं सम्प्रदानकालिकेनार्घेण मूल्यं उदयं च दद्युः
  • 03.12.27 यथासम्भाषितं वा विक्रीणाना न उदयं अधिगच्छेयुः, मूल्यं एव दद्युः
  • 03.12.28 अर्घपतने वा परिहीणं यथापरिहीणं मूल्यं ऊनं दद्युः
  • 03.12.29 सांव्यवहारिकेषु वा प्रात्ययिकेष्वराजवाच्येषु भ्रेष उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यं अपि न दद्युः
  • 03.12.30 देशकालान्तरितानां तु पण्यानां क्षयव्ययविशुद्धं मूल्यं उदयं च दद्युः, पण्यसमवायानां च प्रत्यंशम्
  • 03.12.31 शेषं उपनिधिना व्याख्यातम्
  • 03.12.32 एतेन वैयावृत्यविक्रयो व्याख्यातः
  • 03.12.33 निक्षेपश्च उपनिधिना
  • 03.12.34 तं अन्येन निक्ष्पितं अन्यस्यार्पयतो हीयेत
  • 03.12.35 निक्षेपापहारे पूर्वापदानं निक्षेप्तारश्च प्रमाणम्
  • 03.12.36 अशुचयो हि कारवः
  • 03.12.37 न एषां करणपूर्वो निक्षेपधर्मः
  • 03.12.38 करणहीनं निक्षेपं अपव्ययमानं गूढभित्तिन्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वनान्ते वा मद्यप्रहवणविश्वासेन
  • 03.12.39 रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्यापगच्छेत्
  • 03.12.40 तस्य प्रतिदेशेन पुत्रो भ्राता वाऽभिगम्य निक्षेपं याचेत
  • 03.12.41 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्
  • 03.12.42 प्रव्रज्याऽभिमुखो वा श्रद्धेयः कश्चित् कृतलक्षणं द्रव्यं अस्य हस्ते निक्षिप्य प्रतिष्ठेत
  • 03.12.43 ततः कालान्तरागतो याचेत
  • 03.12.44 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्
  • 03.12.45 कृतलक्षणेन वा द्रव्येण प्रत्यानयेद् एनम्
  • 03.12.46 बालिशजातीयो वा रात्रौ राजदायिकाक्षणभीतः सारं अस्य हस्ते निक्षिप्यापगच्छेत्
  • 03.12.47 स एनं बन्धनागारगतो याचेत
  • 03.12.48 दाने शुचिः, अन्यथा निक्षेपं स्तेयदण्डं च दद्यात्
  • 03.12.49 अभिज्ञानेन चास्य गृहे जनं उभयं याचेत
  • 03.12.50 अन्यतर्तादाने यथा उक्तं पुरस्तात्
  • 03.12.51 द्रव्यभोगानां आगमं चास्यानुयुञ्जीत, तस्य चार्थस्य व्यवहार उपलिङ्गनं, अभियोक्तुश्चार्थसामर्थ्यम्
  • 03.12.52 एतेन मिथःसमवायो व्याख्यातः
  • 03.12.53ab तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्विभाषितम् |
  • 03.12.53chd स्वे परे वा जने कार्यं देशकालाग्रवर्णतः ( इति)
    Chapt |   Law concerning slaves and labourers
  • 03.13.01 उदरदासवर्जं आर्यप्राणं अप्राप्तव्यवहारं शूद्रं विक्रयाधानं नयतः स्वजनस्य द्वादशपणो दण्डः, वैश्यं द्विगुणः, क्षत्रियं त्रिगुणः, ब्राह्मणं चतुर्गुणः
  • 03.13.02 परजनस्य पूर्वमध्यम उत्तमवधा दण्डाः, क्रेतृश्रोतॄणां च
  • 03.13.03 म्लेच्छानां अदोषः प्रजां विक्रेतुं आधातुं वा
  • 03.13.04 न त्वेवार्यस्य दासभावः
  • 03.13.05 अथवाऽऽर्यं आधाय कुलबन्धन आर्याणां आपदि, निष्क्रयं चाधिगम्य बालं साहाय्यदातारं वा पूर्वं निष्क्रीणीरन्
  • 03.13.06 सकृद्ऽअत्माधाता निष्पतितः सीदेत्, द्विरन्येनाहितकः, सकृद् उभौ परविषयाभिमुखौ
  • 03.13.07 वित्तापहारिणो वा दासस्यार्यभावं अपहरतोऽर्धदण्डः
  • 03.13.08 निष्पतितप्रेतव्यसनिनां आधाता मूल्यं भजेत
  • 03.13.09 प्रेतविण्मूत्र उच्छिष्टग्राहणं आहितस्य नग्नस्नापनं दण्डप्रेषणं अतिक्रमणं च स्त्रीणां मूल्यनाशकरं, धात्रीपरिचारिकार्धसीतिक उपचारिकाणां च मोक्षकरम्
  • 03.13.10 सिद्धं उपचारकस्याभिप्रजातस्यापक्रमणम्
  • 03.13.11 धात्रीं आहितिकां वाऽकामां स्ववशां गच्छतः पूर्वः साहसदण्डः, परवशां मध्यमः
  • 03.13.12 कन्यां आहितिकां वा स्वयं अन्येन वा दुषयतो मूल्यनाशः शुल्कं तद्द्वुगुणश्च दण्डः
  • 03.13.13 आत्मविक्रयिणः प्रजां आर्यां विद्यात्
  • 03.13.14 आत्माधिगतं स्वामिकर्माविरुद्धं लभेत, पित्र्यं च दायम्
  • 03.13.15 मूल्येन चार्यत्वं गच्छेत्
  • 03.13.16 तेन उदरदासाहितकौ व्याख्यातौ
  • 03.13.17 प्रक्षेपानुरूपश्चास्य निष्क्रयः
  • 03.13.18 दण्डप्रणीतः कर्मणा दण्डं उपनयेत्
  • 03.13.19 आर्यप्राणो ध्वजाहृतः कर्मकालानुरूपेण मूल्यार्धेन वा विमुच्येत
  • 03.13.20 गृहेजातदायागतलब्धक्रीतानां अन्यतमं दासं ऊनाष्टवर्षं विबन्धुं अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भां अप्रतिविहितगर्भभर्मण्यां विक्रयाधानं नयतः पूर्वः साहसदण्डः, क्रेतृश्रोतॄणां च
  • 03.13.21 दासं अनुरूपेण निष्क्रयेणार्यं अकुर्वतो द्वादशपणो दण्डः, संरोधश्चाकरणात्
  • 03.13.22 दासद्रव्यस्य ज्ञातयो दायादाः, तेषां अभावे स्वामी
  • 03.13.23 स्वामिनः स्वस्यां दास्यां जातं समातृकं अदासं विद्यात्
  • 03.13.24 गृह्या चेत् कुटुम्बार्थचिन्तनी माता भ्राता भगिनी चास्या अदासाः स्युः
  • 03.13.25 दासं दासीं वा निष्क्रीय पुनर्विक्रयाधानं नयतो द्वादशपणो दण्डः, अन्यत्र स्वयंवादिभ्यः इति दासकल्पः |
  • 03.13.26 कर्मकरस्य कर्मसम्बन्धं आसन्ना विद्युः
  • 03.13.27 यथासम्भाषितं वेतनं लभेत, कर्मकालानुरूपं असम्भाषितवेतनः
  • 03.13.28 कर्षकः सस्यानां गोपालकः सर्पिषां वैदेहकः पण्यानां आत्मना व्यवहृतानां दशभागं असम्भाषितवेतनो लभेत
  • 03.13.29 सम्भाषितवेतनः तु यथासम्भाषितम्
  • 03.13.30 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपरिचारकादिराशाकारिकवर्गः तु यथाऽन्यः तद्विधः कुर्याद् यथा वा कुशलाः कल्पयेयुः तथा वेतनं लभेत
  • 03.13.31 साक्षिप्रत्ययं एव स्यात्
  • 03.13.32 साक्षिणां अभावे यतः कर्म ततोऽनुयुञ्जीत
  • 03.13.33 वेतनादाने दशबन्धो दण्डः, षट्पणो वा
  • 03.13.34 अपव्ययमाने द्वादशपणो दण्डः, पञ्चबन्धो वा
  • 03.13.35 नदीवेगज्वालास्तेनव्याल उपरुद्धः सर्वस्वपुत्रदारात्मदानेनार्तः त्रातारं आहूय निष्तीर्णः कुशलप्रदिष्टं वेतनं दद्यात्
  • 03.13.36 तेन सर्वत्रार्तदानानुशया व्याख्याताः
  • 03.13.37ab लभेत पुंश्चली भोगं सङ्गमस्य उपलिङ्गनात् |
  • 03.13.37chd अतियाच्ना तु जीयेत दौर्मत्याविनयेन वा ( इति)


    Chapt |   Duties of servants
    Undertaking in partnership
  • 03.14.01 गृहीत्वा वेतनं कर्माकुर्वतो भृतकस्य द्वादशपणो दण्डः, संरोधश्चाकरणात्
  • 03.14.02 अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वाऽनुशयं लभेत, परेण वा कारयितुम्
  • 03.14.03 तस्यव्ययकर्मणा लभेत भर्ता वा कारयितुम्
  • 03.14.04 नान्यः त्वया कारयितव्यो, मया वा नान्यस्य कर्तव्यम् इत्यवरोधे भर्तुरकारयतो भृतकस्याकुर्वतो वा द्वादशपणो दण्डः
  • 03.14.05 कर्मनिष्ठापने भर्तुरन्यत्र गृहीतवेतनो नासकामः कुर्यात्
  • 03.14.06 उपस्थितं अकारयतः कृतं एव विद्याद् इत्याचार्याः
  • 03.14.07 न इति कौटिल्यः
  • 03.14.08 कृतस्य वेतनं नाकृतस्यास्ति
  • 03.14.09 स चेद् अल्पं अपि कारयित्वा न कारयेत् कृतं एवास्य विद्यात्
  • 03.14.10 देशकालातिपातनेन कर्मणां अन्यथाकरणे वा नासकामः कृतं अनुमन्येत
  • 03.14.11 सम्भाषिताद् अधिकक्रियायां प्रयासं न मोघं कुर्यात्
  • 03.14.12 तेन सङ्घभृता व्याख्याताः
  • 03.14.13 तेषां आधिः सप्तरात्रं आसीत
  • 03.14.14 ततोऽन्यं उपस्थापयेत्, कर्मनिष्पाकं च
  • 03.14.15 न चानिवेद्य भर्तुः सङ्घः कञ्चित् परिहरेद् उपनयेद् वा
  • 03.14.16 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः
  • 03.14.17 सङ्घेन परिहृतस्यार्धदण्डः इति भृतकाधिकारः ||
  • 03.14.18 सङ्घभृताः सम्भूयसमुत्थातारो वा यथासम्भाषितं वेतनं समं वा विभजेरन्
  • 03.14.19 कर्षणवैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः
  • 03.14.20 पुरुष उपस्थाने समग्रं अंशं दद्युः
  • 03.14.21 संसिद्धे तु उद्धृतपण्ये सन्नस्य तदानीं एव प्रत्यंशं दद्युः
  • 03.14.22 सामान्या हि पथिसिद्धिश्चासिद्धिश्च
  • 03.14.23 प्रक्रान्ते तु कर्मणि स्वस्थस्यापक्रामतो द्वादशपणो दण्डः
  • 03.14.24 न च प्राकाम्यं अपक्रमणे
  • 03.14.25 चोरं त्वभयपूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशं अभयं च
  • 03.14.26 पुनःस्तेये प्रवासनं, अन्यत्रगमने च
  • 03.14.27 महाऽपराधे तु दूष्यवद् आचरेत्
  • 03.14.28 याजकाः स्वाप्रचारद्रव्यवर्जं यथासम्भाषितं वेतनं समं वा विभजेरन्
  • 03.14.29 अग्निष्टोमादिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयं अंशं, मध्यम उपसद ऊर्ध्वं अर्धं अंशं, सुत्ये प्रातःसवनाद् ऊर्ध्वं पाद ऊनं अंशम्
  • 03.14.30 माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रं अंशं लभेत
  • 03.14.31 नीता हि दक्षिणा भवन्ति
  • 03.14.32 बृहस्पतिसववर्जं प्रतिसवनं हि दक्षिणा दीयन्ते
  • 03.14.33 तेनाहर्गणदक्षिणा व्याख्याताः
  • 03.14.34 सनानां आदशाहोरात्रात्शेषभृताः कर्म कुर्युः, अन्ये वा स्वप्रत्ययाः
  • 03.14.35 कर्मण्यसमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः
  • 03.14.36 असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः
  • 03.14.37ab अनाहिताग्निः शतगुरुयज्वा च सहस्रगुः |
  • 03.14.37chd सुरापो वृषलीभर्ता ब्रह्महा गुरुतल्पगः
  • 03.14.38ab असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः |
  • 03.14.38chd अदोषः त्यक्तुं अन्योन्यं कर्मसङ्करनिश्चयात् ( इति)


    Chapt |   Rescission of sale and purchase
  • 03.15.01 विक्रीय पण्यं अप्रयच्छतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
  • 03.15.02 पण्यदोषो दोषः
  • 03.15.03 राजचोराग्न्य्.उदकबाध उपनिपातः
  • 03.15.04 बहुगुणहीनं आर्तकृतं वाऽविषह्यम्
  • 03.15.05 वैदेहकानां एकरात्रं अनुशयः, कर्षकाणां त्रिरात्रं, गोरक्षकाणां पञ्चरात्रम्
  • 03.15.06 व्यामिश्राणां उत्तमानां च वर्णानां वृत्तिविक्रये सप्तरात्रम्
  • 03.15.07 आतिपातिकानां पण्यानां अन्यत्राविक्रेयम् इत्यवरोधेनानुशयो देयः
  • 03.15.08 तस्यातिक्रमे चतुर्विंशतिपणो दण्डः, पण्यदशभागो वा
  • 03.15.09 क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादशपणो दण्डः, अन्यत्र दोष उपनिपाताविषह्येभ्यः
  • 03.15.10 समानश्चानुशयो विक्रेतुरनुशयेन
  • 03.15.11 विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणिग्रहणात् सिद्धं उपावर्तनं, शूद्राणां च प्रकर्मणः
  • 03.15.12 वृत्तपाणिग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनम्
  • 03.15.13 न त्वेवाभिप्रजातयोः
  • 03.15.14 कन्यादोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्ँअवतिर्दण्डः, शुल्कस्त्रीधनप्रतिदानं च
  • 03.15.15 वरयितुर्वा वरदोषं अनाख्याय विन्दतो द्विगुणः, शुल्कस्त्रीधननाशश्च
  • 03.15.16 द्विपदचतुष्पदानां तु कुण्ठव्याधिताशुचीनां उत्साहस्वास्थ्यशुचीनां आख्याने द्वादशपणो दण्डः
  • 03.15.17 आत्रिपक्षाद् इति चतुष्पदानां उपावर्तनं, आसंवत्सराद् इति मनुष्याणाम्
  • 03.15.18 तावता हि कालेन शक्यं शौचाशौचे ज्ञातुम्
  • 03.15.19ab दाता प्रतिग्रहीता च स्यातां न उपहतौ यथा |
  • 03.15.19chd दाने क्रये वाऽनुशयं तथा कुर्युः सभासदः ( इति)


    Chapt |   Non-conveyance of gifts
    sale without ownership
    Relation of ownership
  • 03.16.01 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम्
  • 03.16.02 दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत
  • 03.16.03 सर्वस्वं पुत्रदारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत्
  • 03.16.04 धर्मदानं असाधुषु कर्मसु चाउपघातिकेषु वा, अर्थदानं अनुपकारिष्वपकारिषु वा, कामदानं अनर्हेषु च
  • 03.16.05 यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः
  • 03.16.06 दण्डभयाद् आक्रोशभयाद् अनर्थभयाद् वा भयदानं प्रतिगृह्णतः स्तेयदण्डः, प्रयच्छतश्च
  • 03.16.07 रोषदानं परहिंसायां, राज्ञां उपरि दर्पदानं च
  • 03.16.08 तत्र उत्तमो दण्डः
  • 03.16.09 प्रातिभाव्यं दण्डशुल्कशेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थहरो दद्यात् इति दत्तस्यानपाकर्म |
  • 03.16.10 अस्वामिविक्रयः तु - नष्टापहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत्
  • 03.16.11 देशकालातिपत्तौ वा स्वयं गृहीत्वा उपहरेत्
  • 03.16.12 धर्मस्थश्च स्वामिनं अनुयुञ्जीत कुतः ते लब्धम् इति
  • 03.16.13 स चेद् आचारक्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत
  • 03.16.14 विक्रेता चेद् दृश्येत, मूल्यं स्तेयदण्डं च दद्यात्
  • 03.16.15 स चेद् अपसारं अधिगच्छेद् अपसरेद् आऽपसारक्षयात्
  • 03.16.16 क्षये मूल्यं स्तेयदण्डं च दद्यात्
  • 03.16.17 नाष्टिकश्च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत
  • 03.16.18 स्वकरणाभावे पञ्चबन्धो दण्डः
  • 03.16.19 तच्च द्रव्यं राजधर्म्यं स्यात्
  • 03.16.20 नष्टापहृतं अनिवेद्य उत्कर्षतः स्वामिनः पूर्वः साहसदण्डः
  • 03.16.21 शुल्कस्थाने नष्टापहृत उत्पन्नं तिष्ठेत्
  • 03.16.22 त्रिपक्षाद् ऊर्ध्वं अनभिसारं राजा हरेत्, स्वामी वा स्वकरणेन
  • 03.16.23 पञ्चपणिकं द्विपदरूपस्य निष्क्रयं दद्यात्, चतुष्पणिकं एकखुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्रपशूनाम्
  • 03.16.24 रत्नसारफल्गुकुप्यानां पञ्चकं शतं दद्यात्
  • 03.16.25 परचक्राटवीहृतं तु प्रत्यानीय राजा यथास्वं प्रयच्छेत्
  • 03.16.26 चोरहृतं अविद्यमानं स्वद्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुं अशक्तो वा
  • 03.16.27 स्वयङ्ग्राहेणाहृतं प्रत्यानीय तन्निष्क्रयं वा प्रयच्छेत्
  • 03.16.28 परविषयाद् वा विक्रमेणानीतं यथाप्रदिष्टं राज्ञा भुञ्जीत, अन्यत्रार्यप्राणेभ्यो देवब्राह्मणतपस्विद्रव्येभ्यश्च इत्यस्वामिविक्रयः |
  • 03.16.29 स्वस्वामिसम्बन्धः तु - भोगानुवृत्तिरुच्छिन्नदेशानां यथास्वं द्रव्याणाम्
  • 03.16.30 यत् स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत, हीयेतास्य, अन्यत्र बालवृद्धव्याधितव्यसनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः
  • 03.16.31 विंशतिवर्ष उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत
  • 03.16.32 ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ परवास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राजश्रोत्रियद्रव्याणि च
  • 03.16.33 आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः
  • 03.16.34 अल्पां बाधां सहेरन्
  • 03.16.35 पूर्वागतो वा वासपर्यायं दद्यात्
  • 03.16.36 अप्रदाता निरस्येत
  • 03.16.37 वानप्रस्थयतिब्रह्मचारिणां आचार्यशिष्यधर्मभ्रातृसमानतीर्थ्या रिक्थभाजः क्रमेण
  • 03.16.38 विवादपदेषु च एषां यावन्तः पणा दण्डाः तावती रात्रीः क्षपणाभिषेकाग्निकार्यमहाकच्छवर्धनानि राज्ञश्चरेयुः
  • 03.16.39 अहिरण्यसुवर्णाः पाषढाः साधवः
  • 03.16.40 ते यथास्वं उपवासव्रतैराराधयेयुः, अन्यत्र पारुष्यस्तेयसाहससङ्ग्रहणेभ्यः
  • 03.16.41 तेषु यथा उक्ता दण्डाः कार्याः
  • 03.16.42ab प्रव्रज्यासु वृथाऽऽचारान् राजा दण्डेन वारयेत् |
  • 03.16.42chd धर्मो ह्यधर्म उपहतः शास्तारं हन्त्युपेक्षितः ( इति)


    Chapt |   Forcible seizure
  • 03.17.01 साहसं अन्वयवत् प्रसभकर्म
  • 03.17.02 निरन्वये स्तेयं, अपव्ययने च
  • 03.17.03 रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः इति मानवाः
  • 03.17.04 मूल्यद्विगुणः इत्यौशनसाः
  • 03.17.05 यथाऽपराध इति कौटिल्यः
  • 03.17.06 पुष्पफलशाकमूलकन्दपक्वान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्रकद्रव्याणां द्वाद्शपणावरश्चतुर्विंशतिपणपरो दण्डः
  • 03.17.07 कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुपटादीनां स्थूलकद्रव्याणां चतुर्विंशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः
  • 03.17.08 ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलकद्रव्याणां अष्टचत्वारिंशत्पणावरः षण्ँअवतिपरः पूर्वः साहसदण्डः
  • 03.17.09 महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्रव्याणां द्विशतावरः पञ्चशतपरो मध्यमः साहसदण्डः
  • 03.17.10 स्त्रियं पुरुषं वाऽभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्चशतावरः सहस्रपर उत्तमः साहसदण्डः इत्याचार्याः ||
  • 03.17.11 यः साहसं प्रतिपत्ता इति कारयति स द्विगुणं दद्यात्
  • 03.17.12 यावद्द् हिरण्यं उपयोक्ष्यते तावद् दास्यामि इति स चतुर्गुणं दण्डं दद्यात्
  • 03.17.13 यः एतावद्द् हिरण्यं दास्यामि इति प्रमाणं उद्दिश्य कारयति स यथा उक्तं हिरण्यं दण्डं च दद्यात् इति बार्हस्पत्याः
  • 03.17.14 स चेत् कोपं मदं मोहं वाऽपदिशेद् यथा उक्तवद् दण्डं एनं कुर्याद् इति कौटिल्यः
  • 03.17.15ab दण्डकर्मसु सर्वेषु रूपं अष्टपणं शतम् |
  • 03.17.15chd शतात् परेषु व्याजीं च विद्यात् पञ्चपणं शतम्
  • 03.17.16ab प्रजानां दोषबाहुल्याद् राज्ञां वा भावदोषतः |
  • 03.17.16chd रूपव्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ( इति)


    Chapt |   Verbal iJNjurय्
  • 03.18.01 वाक्पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति
  • 03.18.02 शरीरप्रकृतिश्रुतवृत्तिजनपदानां शरीर उपवादे काणखञ्जादिभिः सत्ये त्रिपणो दण्डः, मिथ्या उपवादे षट्पणो दण्डः
  • 03.18.03 शोभनाक्षिमन्तः इति काणखञ्जादीनां स्तुतिनिन्दायां द्वादशपणो दण्डः
  • 03.18.04 कुष्ठ उन्मादक्लैब्यादिभिः कुत्सायां च सत्यमिथ्यास्तुतिनिन्दासु द्वादशपण उत्तरा दण्डाः तुल्येषु
  • 03.18.05 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
  • 03.18.06 कुष्ठ उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं, क्लीबभावे स्त्रियो मूत्रफेनोऽप्सु विष्ठानिमज्जनं च
  • 03.18.07 प्रकृत्य्.उपवादे ब्राह्मणक्षत्रियवैश्यशूद्रान्तावसायिनां अपरेण पूर्वस्य त्रिपण उत्तरा दण्डाः, पूर्वेणापरस्य द्विपणाधराः, कुब्राह्मणादिभिश्च कुत्सायाम्
  • 03.18.08 तेन श्रुत उपवादो वाग्जीवनानां, कारुकुशीलवानां वृत्त्य्.उपवादः, प्राज्जूणकगान्धारादीनां च जनपद उपवादा व्याख्याताः
  • 03.18.09 यः परं एवं त्वां करिष्यामि इति करणेनाभिभर्त्सयेद्, अकरणे यः तस्य करणे दण्डः ततोऽर्धदण्डं दद्यात्
  • 03.18.10 अशक्तः कोपं मदं मोहं वाऽपदिशेद् द्वादशपणं दण्डं दद्यात्
  • 03.18.11 जातवैराशयः शक्तश्चापकर्तुं यावज्जीविकावस्थं दद्यात्
  • 03.18.12ab स्वदेशग्रामयोः पूर्वं मध्यमं जातिसङ्घयोः |
  • 03.18.12chd आक्रोशाद् देवचैत्यानां उत्तमं दण्डं अर्हति ( इति)


    Chapt |   Physical iJNjurय्
  • 03.19.01 दण्डपारुष्यं स्पर्शनं अवगूर्णं प्रहतं इति
  • 03.19.02 नाभेरधःकायं हस्तपङ्कभस्मपांसुभिरिति स्पृशतः त्रिपणो दण्डः, तैरेवामेध्यैः पादष्ठीविकाभ्यां च षट्पणः, छर्दिमूत्रपुरीषादिभिर्द्वादशपणः
  • 03.19.03 नाभेरुपरि द्विगुणाः, शिरसि चतुर्गुणाः समेषु
  • 03.19.04 विशिष्टेषु द्विगुणाः, हीनेष्वर्धदण्डाः, परस्त्रीषु द्विगुणाः, प्रमादमदमोहादिभिरर्धदण्डाः
  • 03.19.05 पादवस्त्रहस्तकेशावलम्बनेषु षट्पण उत्तरा दण्डाः
  • 03.19.06 पीडनावेष्टनाञ्चनप्रकर्षणाध्यासनेषु पूर्वः साहसदण्डः
  • 03.19.07 पातयित्वाऽपक्रामतोऽर्धदण्डः
  • 03.19.08 शूद्रो येनाङ्गेन ब्राह्मणं अभिहन्यात् तद् अस्यच्छेदयेत्
  • 03.19.09 अवगूर्णे निष्क्रयः, स्पर्शेऽर्धदण्डः
  • 03.19.10 तेन चण्डालाशुचयो व्याख्यातः
  • 03.19.11 हस्तेनावगूर्णे त्रिपणावरो द्वादशपणपरो दण्डः, पादेन द्विगुणः, दुःख उत्पादनेन द्रव्येण पूर्वः साहसदण्डः, प्राणाबाधिकेन मध्यमः
  • 03.19.12 काष्ठलोष्टपाषाणलोहदण्डरज्जुद्रव्याणां अन्यतमेन दुःखं अशोणितं उत्पादयतश्चतुर्विंशतिपणो दण्डः, शोणित उत्पादने द्विगुणः, अन्यत्र दुष्टशोणितात्
  • 03.19.13 मृतकल्पं अशोणितं घ्नतो हस्तपादपारञ्चिकं वा कुर्वतः पूर्वः साहसदण्डः, पाणिपाददन्तभङ्गे कर्णनासाच्छेदने व्रणविदारणे च्च, अन्यत्र दुष्टव्रणेभ्यः
  • 03.19.14 सक्थिग्रीवाभञ्जने नेत्रभेदने वा वाक्यचेष्टाभोजन उपरोधेषु च मध्यमः साहसदण्डः समुत्थानव्ययश्च
  • 03.19.15 विपत्तौ कण्टकशोधनाय नीयेत
  • 03.19.16 महाजनस्य एकं घ्नतः प्रत्येकं द्विगुणो दण्डः
  • 03.19.17 पर्युषितः कलहोऽनुप्रवेशो वा नाभियोज्यः इत्याचार्याः
  • 03.19.18 नास्त्यपकारिणो मोक्ष इति कौटिल्यः
  • 03.19.19 कलहे पूर्वागतो जयति, अक्षममाणो हि प्रधावति इत्याचार्याः
  • 03.19.20 न इति कौटिल्यः
  • 03.19.21 पूर्वं पश्चाद् वाऽभिगतस्य साक्षिणः प्रमाणं, असाक्षिके घातः कलह उपलिङ्गनं वा
  • 03.19.22 घाताभियोगं अप्रतिब्रुवतः तद् अहरेव पश्चात्कारः
  • 03.19.23 कलहे द्रव्यं अपहरतो दशपणो दण्डः, क्षुद्रकद्रव्यहिंसायां तच्च तावच्च दण्डः, स्थूलकद्रव्यहिंसायां तच्च द्विगुणश्च दण्डः, वस्त्राभरणहिरण्यसुवर्णभाण्डहिंसायां तच्च पूर्वश्च साहसदण्डः
  • 03.19.24 परकुड्यं अभिघातेन क्षोभयतः त्रिपणो दण्डः, छेदनभेदने षट्पणः, प्रतीकारश्च
  • 03.19.25 दुःख उत्पादनं द्रव्यं अन्यवेश्मनि प्रक्षिपतो द्वादशपणो दण्डः, प्राणाबाधिकं पूर्वः साहसदण्डः
  • 03.19.26 क्षुद्रपशूनां काष्ठादिभिर्दुःख उत्पादने पणो द्विगुणो वा दण्डः, शोणित उत्पादने द्विगुणः
  • 03.19.27 महापशूनां एतेष्वेव स्थानेष्व्द्विगुणो दण्डः समुत्थानव्ययश्च
  • 03.19.28 पुर उपवनवनस्पतीनां पुष्पफलच्छायावतां प्ररोहच्छेदने षट्पणः, क्षुद्रशाखाच्छेदने द्वादशपणः, पीनशाखाच्च्छेदने चतुर्विंशतिपणः, स्कन्धवधे पूर्वः साहसदण्डः, समुच्छित्तौ मध्यमः
  • 03.19.29 पुष्पफलच्छायावद्गुल्मलतास्वर्धदण्डाः, पुण्यस्थानतपोवनश्मशानद्रुमेषु च
  • 03.19.30ab सीमवृक्षेषु चैत्येषु द्रुमेष्वालक्षितेषु च |
  • 03.19.30chd त एव द्विगुणा दण्डाः कार्या राजवनेषु च ( इति)


    Chapt |  Gambling and betting
    Mischellaneous
  • 03.20.01 द्यूताध्यक्षो द्यूतं एकमुखं कारयेत्
  • 03.20.02 अन्यत्र दीव्यतो द्वादशपणो दण्डो गूढाजीविज्ञापनार्थम्
  • 03.20.03 द्यूताभियोगे जेतुः पूर्वः साहसदण्डः, पराजितस्य मध्यमः
  • 03.20.04 बालिशजातीयो ह्येष जेतुकामः पराजयं न क्षमते इत्याचार्याः
  • 03.20.05 न इत्य्कौटिल्यः
  • 03.20.06 पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानं अभिसरिष्यति
  • 03.20.07 प्रायशो हि कितवाः कूटदेविनः
  • 03.20.08 तेषां अध्यक्षाः शुद्धाः काकणीरक्षांश्च स्थापयेयुः
  • 03.20.09 काकण्य्ऽक्षाणां अन्य उपधाने द्वादशपणो दण्डः, कूटकर्मणि पूर्वः साहसदण्डो जितप्रत्यादानं, उपधौ स्तेयदण्डश्च
  • 03.20.10 जितद्रव्याद् अध्यक्षः पञ्चकं शतं आददीत, काकण्य्ऽक्षारालाशलाकाऽवक्रयं उदकभूमिकर्मक्रयं च
  • 03.20.11 द्रव्याणां आधानं विक्रयं च कुर्यात्
  • 03.20.12 अक्षभूमिहस्तदोषाणां चाप्रतिषेधने द्विगुणो दण्डः
  • 03.20.13 तेन समाह्वयो व्याख्यातः, अन्यत्र विद्याशिल्पसमाह्वयात् | इति
  • 03.20.14 प्रकीर्णकं तु - याचितकावक्रीतकाहितकनिक्षेपकाणां यथादेशकालं अदाने, यामच्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, गुल्मतरदेयं ब्राह्मणं साधयतः, प्रतिवेशानुवेशयोरुपरि निमन्त्रणे च द्वादशपणो दण्डः
  • 03.20.15 सन्दिष्टं अर्थं अप्रयच्छतो, भ्रातृभार्यां हस्तेन लङ्घयतो, रूपाजीवां अन्य उपरुद्धां गच्छतः, परवक्तव्यं पण्यं क्रीणानस्य, समुद्रं गृहं उद्भिन्दतः, सामन्तचत्वारिंशत्कुल्याबाधां आचरतश्चाष्टचत्वारिंशत्पणो दण्डः
  • 03.20.16 कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दवासिनीं प्रसह्याधिचरतः, चण्डालस्यार्यां स्पृशतः, प्रत्यासन्नं आपद्यनभिधावतो, निष्कारणं अभिधावनं कुर्वतः, शाक्याजीवकादीन् वृषलप्रव्रजितान् देवपितृकार्येषु भोजयतः शत्यो दण्डः
  • 03.20.17 शपथवाक्यानुयोगं अनिषृष्टं कुर्वतः, युक्तकर्म चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्व उपघातिनः, दास्या गर्भं औषधेन पातयतश्च पूर्वः साहसदण्डः
  • 03.20.18 पितापुत्रयोर्दम्पत्योर्भ्रातृभगिन्योर्मातुलभगिनेययोः शिष्याचार्ययोर्वा परस्परं अपतितं त्यजतः, सार्थाभिप्रयातं ग्राममध्ये वा त्यजतः पूर्वः साहसदण्डः, कान्तारे मध्यमः, तन्निमित्तं भ्रेषयत उत्तमः, सहप्रस्थायिष्वन्येष्वर्धदण्डाः
  • 03.20.19 पुरुषं अबन्धनीयं बध्नतो बन्धयतो बन्धं वा मोक्षयतो, बालं अप्राप्तव्यवहारं बध्नतो बन्धयतो वा सहस्रं दण्डः
  • 03.20.20 पुरुषापराधविशेषेण दण्डविशेषः कार्यः
  • 03.20.21 तीर्थकरः तपस्वी व्याधितः क्षुत्पिपासाऽध्वक्लान्तः तिरोजनपदो दण्डखेदी निष्किञ्चनश्चानुग्राह्याः
  • 03.20.22 देवब्राह्मणतपस्विस्त्रीबालवृद्धव्याधितानां अनाथानां अनभिसरतां धर्मस्थाः कार्याणि कुर्युः, न च देशकालभोगच्छलेनातिहरेयुः
  • 03.20.23 पूज्या विद्याबुद्धिपौरुषाभिजनकर्मातिशयतश्च पुरुषाः
  • 03.20.24ab एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः |
  • 03.20.24chd समाः सर्वेषु भावेषु विश्वास्या लोकसम्प्रियाः ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]