कौटिलीय अर्थशास्त्रं १५

विकिस्रोतः तः
  Book |  
    Chapt |      तन्त्रयुक्तयः
  • 15.1.01 मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः
  • 15.1.02 तस्याः पृथिव्या लाभपालन उपायः शास्त्रं अर्थशास्त्रं इति
  • 15.1.03 तद्द्वात्रिंशद् युक्तियुक्तं - अधिकरणं, विधानं, योगः, पदार्थः, हेत्व्ऽर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्यशेषः, अनुमतं, व्याख्यानं, निर्वचनं, निदर्शनं, अपवर्गः, स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्षः, एकान्तः, अनागतावेक्षणं, अतिक्रान्तावेक्षणं, नियोगः, विकल्पः, समुच्चयः ऊह्यं इति
  • 15.1.04 यं अर्थं अधिकृत्य उच्यते तद् अधिकरणम्
  • 15.1.05 पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशः तानि संहृत्य एकं इदं अर्थशास्त्रं कृतम् इति
  • 15.1.06 शास्त्रस्य प्रकरणानुपूर्वी विधानम्
  • 15.1.07 विद्यासमुद्देशः, वृद्धसम्योगः, इन्द्रियजयः, अमात्य उत्पत्तिः इत्येवंऽअदिकं इति
  • 15.1.08 वाक्ययोजना योगः
  • 15.1.09 चतुर्वर्णाश्रमो लोकः इति
  • 15.1.10 पदावधिकः पदार्थः
  • 15.1.11 मूलहर इति पदम्
  • 15.1.12 यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः इत्यर्थः
  • 15.1.13 हेतुरर्थसाधको हेत्व्ऽर्थः
  • 15.1.14 अर्थमूलौ हि धर्मकामौ इति
  • 15.1.15 समासवाक्यं उद्देशः
  • 15.1.16 विद्याविनयहेतुरिन्द्रियजयः इति
  • 15.1.17 व्यासवाक्यं निर्देशः
  • 15.1.18 कर्णत्वग्ऽक्षिजिह्वाघ्राण इन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयःइति
  • 15.1.19 एवं वर्तितव्यं इत्युपदेशः
  • 15.1.20 धर्मार्थविरोधेन कामं सेवेत, न निह्सुखः स्यात् इति
  • 15.1.21 एवं असावाह इत्यपदेशः
  • 15.1.22 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः - षोडश इति बार्हस्पत्याः - विंशतिं इत्यौशनसाः - यथासामर्थ्यं इति कौटिल्यः इति
  • 15.1.23 उक्तेन साधनं अतिदेशः
  • 15.1.24 दत्तस्याप्रदानं ऋणादानेन व्याख्यातम् इति
  • 15.1.25 वक्तव्येन साधनं प्रदेशः
  • 15.1.26 सामदानभेददण्डैर्वा, यथाऽऽपत्सु व्याख्यास्यामः इति
  • 15.1.27 दृष्टेनादृष्टस्य साधनं उपमानम्
  • 15.1.28 निवृत्तपरिहारान् पिता इवानुगृह्णीयात् इति
  • 15.1.29 यद् अनुक्तं अर्थाद् आपद्यते साऽर्थापत्तिः
  • 15.1.30 लोकयात्राविद् राजानं आत्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत
  • 15.1.31 नाप्रियहितद्वारेणाश्रयेत इत्यर्थाद् आपन्नं भवति इति
  • 15.1.32 उभयतोहेतुमान् अर्थः संशयः
  • 15.1.33 क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति
  • 15.1.34 प्रकरणान्तरेण समानोऽर्थः प्रसङ्गः
  • 15.1.35 कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण इति
  • 15.1.36 प्रतिलोमेन साधनं विपर्ययः
  • 15.1.37 विपरीतं अतुष्टस्य इति
  • 15.1.38 येन वाक्यं समाप्यते स वाक्यशेषः
  • 15.1.39 छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च इति
  • 15.1.40 तत्र शकुनेः इति वाक्यशेषः
  • 15.1.41 परवाक्यं अप्रतिषिद्धं अनुमतम्
  • 15.1.42 पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः इति
  • 15.1.43 अतिशयवर्णना व्याख्यानम्
  • 15.1.44 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यात् इति
  • 15.1.45 गुणतः शब्दनिष्पत्तिर्निर्वचनम्
  • 15.1.46 व्यस्यत्येनं श्रेयस इति व्यसनम् इति
  • 15.1.47 दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम्
  • 15.1.48 विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति इति
  • 15.1.49 अभिप्लुतव्यपकर्षणं अपवर्गः
  • 15.1.50 नित्यं आसन्नं अरिबलं वासयेद् अन्यत्राभ्यन्तरकोपशङ्कायाः इति
  • 15.1.51 परैरसमितः शब्दः स्वसंज्ञा
  • 15.1.52 प्रथमा प्रकृतिः, तस्य भूम्य्ऽनन्तरा द्वितीया, भूम्य्.एकान्तरा तृतीया इति
  • 15.1.53 प्रतिषेद्धव्यं वाक्यं पूर्वपक्षः
  • 15.1.54 स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः इति
  • 15.1.55 तस्य निर्णयनवाक्यं उत्तरपक्षः
  • 15.1.56 तद्ऽअयत्तत्वात्, तत्कूटस्थानीयो हि स्वामी इति
  • 15.1.57 सर्वत्रायत्तं एकान्तः
  • 15.1.58 तस्माद् उत्थानं आत्मनः कुर्वीत इति
  • 15.1.59 पश्चाद् एवं विहितं इत्यनागतावेक्षणम्
  • 15.1.60 तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः इति
  • 15.1.61 पुरस्ताद् एवं विहितं इत्यतिक्रान्तावेष्कणम्
  • 15.1.62 अमात्यसम्पद् उक्ता पुरस्तात् इति
  • 15.1.63 एवं नान्यथा इति नियोगः
  • 15.1.64 तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेत्, नाधर्म्यं अनर्थय्ं च इति
  • 15.1.65 अनेन वाऽनेन वा इति विकल्पः
  • 15.1.66 दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति
  • 15.1.67 अनेन चानेन च इति समुच्चयः
  • 15.1.68 स्वयञ्जातः पितुर्बन्धूनां च दायादः इति
  • 15.1.69 अनुक्तकरणं ऊह्यम्
  • 15.1.70 यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति
  • 15.1.71ab एवं शास्त्रं इदं युक्तं एताभिः तन्त्रयुक्तिभिः |
  • 15.1.71chd अवाप्तौ पालने च उक्तं लोकस्यास्य परस्य च
  • 15.1.72ab धर्मं अर्थं च कामं च प्रवर्तयति पाति च |
  • 15.1.72chd अधर्मानर्थविद्वेषान् इदं शास्त्रं निहन्ति च
  • 15.1.73ab येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः |
  • 15.1.73chd अमर्षेण उद्धृतान्याशु तेन शास्त्रं इदं कृतम् ||

( इति) End of the Arthashaastra

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]