कौटिलीय अर्थशास्त्रं १

विकिस्रोतः तः

Chapter 1[सम्पाद्यताम्]

  • 01.1.02 तस्यायं प्रकरणाधिकरणसमुद्देशः
  • 01.1.03a विद्यासमुद्देशः, वृद्धसमुद्देशः, इन्द्रियजयः, अमात्य उत्पत्तिः, मन्त्रिपुरोहित उत्पत्तिः, उपधाभिः शौचाशौचज्ञानं अमात्यानां, -
  • 01.1.03b गूढपुरुषप्रणिधिः, स्वविषये कृत्याकृत्यपक्षरक्षणं, परविषये कृत्याकृत्यपक्ष उपग्रहः,
  • 01.1.03ch मन्त्राधिकारः, दूतप्रणिधिः, राजपुत्ररक्षणं, अपरुद्धवृत्तं, अपरुद्धे वृत्तिः, राजप्रणिधिः, निशान्तप्रणिधिः, आत्मरक्षितकं, , इति विनयाधिकारिकं प्रथमं अधिकरणम्
  • 01.1.04a जनपदनिवेशः, भूमिच्छिद्रापिधानं, दुर्गविधानं, दुर्गनिवेशः, सम्निधातृनिचयकर्म, समाहर्तृसमुदयप्रस्थापनं, अक्षपटले गाणनिक्याधिकारः,
  • 01.1.04b समुदयस्य युक्तापहृतस्य प्रत्यानयनं, उपयुक्तपरीक्षा, शासनाधिकारः, कोशप्रवेश्यरत्नपरीक्षा, आकरकर्मान्तप्रवर्तनं, अक्षशालायां सुवर्णाध्यक्षः
  • 01.1.04ch विशिखायां सौवर्णिकप्रचारः, कोष्ठागाराध्यक्षः, पण्याध्यक्षः, कुप्याध्यक्षः, आयुधाध्यक्षः, तुलामानपौतवं,
  • 01.1.04d देशकालमानं, शुल्काध्यक्षः, सूत्राध्यक्षः, सीताध्यक्षः, सुराऽध्यक्षः, सूनाध्यक्षः, गणिकाऽध्यक्षः,
  • 01.1.04e नाव्ऽध्यक्षः, गोऽध्यक्षः, अश्वाध्यक्षः, हस्त्य्ऽध्यक्षः, रथाध्यक्षः, पत्त्य्ऽध्यक्षः, सेनापतिप्रचारः, मुद्राऽध्यक्षः, विवीताध्यक्षः, समाहर्तृप्रचारः,
  • 01.1.04f गृहपतिकवैदेहकतापसव्यञ्जनाः प्रणिधयः, नागरिकप्रणिधिः इत्यध्यक्षप्रचारो द्वितीयं अधिकरणम्
  • 01.1.05a व्यवहारस्थापना, विवादपदनिबन्धः, विवाहसम्युक्तं, दायविभागः, वास्तुकं, समयस्य अनपाकर्म, ऋणादानं, औपनिधिकं, दासकर्मकरकल्पः,
  • 01.1.05b सम्भूय समुत्थानं, विक्रीतक्रीतानुशयः, दत्तस्य अनपाकर्म, अस्वामिविक्रयः, स्वस्वामिसम्बन्धः, साहसं, वाक्पारुष्यं, दण्डपारुष्यं, द्यूतसमाह्वयं, प्रकीर्णकं - इति, धर्मस्थीयं तृतीयं अधिकरणम्
  • 01.1.06a कारुकरक्षणं, वैदेहकरक्षणं, उपनिपातप्रतीकारः, गूढाजीविनां रक्षा, सिद्धव्यञ्जनैर्माणवप्रकाशनं, शङ्कारूपकर्माभिग्रहः,
  • 01.1.06b आशुमृतकपरीक्षा, वाक्यकर्मानुयोगः, सर्वाधिकरणरक्षणं
  • 01.1.06ch एकाङ्गवधनिष्क्रयः, शुद्धश्चित्रश्च दण्ड कल्पः, कन्याप्रकर्म, अतिचारदण्डाः - इति कण्टकशोधनं चतुर्थं अधिकरणम्
  • 01.1.07 दाण्डकर्मिकं, कोशाभिसंहरणं, भृत्यभरणीयं, अनुजीविवृत्तं, समयाचारिकं, राज्यप्रतिसन्धानं, एकाइश्वर्यं - इति योगवृत्तं पञ्चमं अधिकरणम्
  • 01.1.08 प्रकृतिसम्पदः, शमव्यायामिकं - इति मण्डलयोनिः षष्ठं अधिकरणम्
  • 01.1.09a षाड्गुण्यसमुद्देशः, क्षयस्थानवृद्धिनिश्चयः, संश्रयवृत्तिः, समहीनज्यायसां गुणाभिनिवेशः, हीनसन्धयः, विगृह्य आसनं, सन्धाय आसनं, विगृह्य यानं, सन्धाय यानं,
  • 01.1.09b सम्भूय प्रयाणं, यातव्यामित्रयोरभिग्रहचिन्ता, क्षयलोभविरागहेतवः प्रकृतीनां, सामवायिकविपरिमर्शः,
  • 01.1.09ch संहित प्रयाणिकं, परिपणितापरिपणितापसृताः सन्धयः, द्वैधीभाविकाः सन्धिविक्रमाः, यातव्यवृत्तिः, अनुग्राह्यमित्रविशेषाः,
  • 01.1.09d मित्रहिरण्यभूमिकर्मसन्धयः, पार्ष्णिग्राहचिन्ता, हीनशक्तिपूरणं, बलवता विगृह्य उपरोधहेतवः, दण्ड उपनतवृत्तं,
  • 01.1.09e दण्ड उपनायिवृत्तं, सन्धिकर्म, समाधिमोक्षः, मध्यमचरितं, उदासीनचरितं, मण्डलचरितं - इति षाड्गुण्यं सप्तमं अधिकरणम्
  • 01.1.10 प्रकृतिव्यसनवर्गः, राजराज्ययोर्व्यसनचिन्ता, पुरुषव्यसनवर्गः, पीडनवर्गः, स्तम्भवर्गः, कोशसङ्गवर्गः, मित्रव्यसनवर्गः - इति व्यसनाधिकारिकं अष्टमं अधिकरणम्
  • 01.1.11a शक्तिदेशकालबलाबलज्ञानं, यात्राकालाः, बल उपादानकालाः, सम्नाहगुणाः, प्रतिबलकर्म, पश्चात् कोपचिन्ता, बाह्याभ्यन्तरप्रकृतिकोपप्रतीकाराः
  • 01.1.11b क्षयव्ययलाभविपरिमर्शः, बाह्याभ्यन्तराश्चापदः, दुष्यशत्रुसम्युक्ताः, अर्थानर्थसंशययुक्ताः, तासां उपायविकल्पजाः सिद्धयः - इत्यभियास्यत् कर्म नवमं अधिकरणम्
  • 01.1.12 स्कन्धावारनिवेशः, स्कन्धावारप्रयाणं, बलव्यसनावस्कन्दकालरक्षणं, कूटयुद्धविकल्पाः, स्वसैन्य उत्साहनं, स्वबलान्यबलव्यायोगः, युद्धभूमयः, पत्त्य्ऽश्वरथहस्तिकर्माणि, पक्षकक्ष उरस्यानां बलाग्रतो व्यूहविभागः, सारफल्गुबलविभागः, पत्त्य्ऽश्वरथहस्तियुद्धानि, दण्डभोगमण्डलासंहतव्यूहव्यूहनं, तस्य प्रतिव्यूहस्थापनं - इति साङ्ग्रामिकं दशमं अधिकरणम्
  • 01.1.13 भेद उपादानानि, उपांशुदण्डाः - इति सङ्घवृत्तं एकादशं अधिकरणम्
  • 01.1.14 दूतकर्म, मन्त्रयुद्धं, सेनामुख्यवधः, मण्डलप्रोत्साहनं, शस्त्राग्निरसप्रणिधयः, वीवधासारप्रसारवधः, योगातिसन्धानं, दण्डातिसन्धानं, एकविजयः - इत्याबलीयसं द्वादशं अधिकरणम्
  • 01.1.15 उपजापः, योगवामनं, अपसर्पप्रणिधिः, पर्युपासनकर्म, अवमर्दः, लब्धप्रशमनं - इति दुर्गलम्भ उपायः त्रयोदशं अधिकरणम्
  • 01.1.16 परबलघातप्रयोगः, प्रलम्भनं, स्वबल उपघातप्रतीकारः - इत्यौपनिषदिकं चतुर्दशं अधिकरणम्
  • 01.1.17 तन्त्रयुक्तयः - इति तन्त्रयुक्तिः पञ्चदशं अधिकरणम्
  • 01.1.18 शास्त्रसमुद्देशः पञ्चदशाधिकरणानि स-अशीतिप्रकरणशतं स-पञ्चाशद्ऽध्यायशतं षट्श्लोकसहस्राणि इति
  • 01.1.19ab सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् |
  • 01.1.19chd कौटिल्येन कृतं शास्त्रं विमुक्तग्रन्थविस्तरम् ( इति)

Section.1: Enumeration of the sciences[सम्पाद्यताम्]

i) Establishing (the necessity of) philosophय्[सम्पाद्यताम्]

  • 01.2.01 आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च इति विद्याः
  • 01.2.02 त्रयी वार्त्ता दण्ड नीतिश्च इति मानवाः
  • 01.2.03 त्रयी विशेषो ह्यान्वीक्षिकी इति
  • 01.2.04 वार्त्ता दण्डनीतिश्च इति बार्हस्पत्याः
  • 01.2.05 संवरणमात्रं हि त्रयी लोकयात्राविद इति
  • 01.2.06 दण्डनीतिरेका विद्या इत्यौशनसाः
  • 01.2.07 तस्यां हि सर्वविद्याऽऽरम्भाः प्रतिबद्धा इति
  • 01.2.08 चतस्र एव विद्या इति कौटिल्यः
  • 01.2.09 ताभिर्धर्मार्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम्
  • 01.2.10 साङ्ख्यं योगो लोकायतं च इत्यान्वीक्षिकी
  • 01.2.11 धर्माधर्मौ त्रय्यां अर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्यां बलाबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेऽभ्युदये च बुद्धिं अवस्थापयति प्रज्ञावाक्यक्रियावैशारद्यं च करोति
  • 01.2.12ab प्रदीपः सर्वविद्यानां उपायः सर्वकर्मणाम् |
  • 01.2.12chd आश्रयः सर्वधर्माणां शश्वद् आन्वीक्षिकी मता ( इति)

iii) Establishing (the necessity of) Economics[सम्पाद्यताम्]

  • 01.3.01 साम.ऋग्यजुर्वेदाः त्रयः त्रयी
  • 01.3.02 अथर्ववेद इतिहासवेदौ च वेदाः
  • 01.3.03 शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषं इति चाङ्गानि
  • 01.3.04 एष त्रयीधर्मश्चतुर्णां वर्णानां आश्रमाणां च स्वधर्मस्थापनाद् औपकारिकः
  • 01.3.05 स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च
  • 01.3.06 क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं च
  • 01.3.07 वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च
  • 01.3.08 शूद्रस्य द्विजातिशुश्रूषा वार्त्ता कारुकुशीलवकर्म च
  • 01.3.09 गृहस्थस्य स्वधर्माजीवः तुल्यैरसमान.ऋषिभिर्वैवाह्यं ऋतुगामित्वं देवपित्र्ऽतिथिपूजा भृत्येषु त्यागः शेषभोजनं च
  • 01.3.10 ब्रह्मचारिणः स्वाध्यायो अग्निकार्याभिषेकौ भैक्षव्रतित्वं आचार्ये प्राणान्तिकी वृत्तिः तद्ऽभावे गुरुपुत्रे स-ब्रह्मचारिणि वा
  • 01.3.11 वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटाऽजिनधारणं अग्निहोत्राभिषेकौ देवतापित्र्ऽतिथिपूजा वन्यश्चाहारः
  • 01.3.12 परिव्राजकस्य जित इन्द्रियत्वं अनारम्भो निष्किञ्चनत्वं सङ्गत्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्याभ्यन्तरं च शौचम्
  • 01.3.13 सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च
  • 01.3.14 स्वधर्मः स्वर्गायानन्त्याय च
  • 01.3.15 तस्यातिक्रमे लोकः सङ्कराद् उच्छिद्येत
  • 01.3.16ab तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् |
  • 01.3.16chd स्वधर्मं सन्दधानो हि प्रेत्य च इह च नन्दति
  • 01.3.17ab व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः |
  • 01.3.17chd त्रय्याऽभिरक्षितो लोकः प्रसीदति न सीदति ( इति)

(iv) the Science of Politics[सम्पाद्यताम्]

  • 01.4.01 कृषिपाशुपाल्ये वणिज्या च वार्ता, धान्यपशुहिरण्यकुप्यविष्टिप्रदानाद् औपकारिकी
  • 01.4.02 तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्
  • 01.4.03 आन्वीक्षिकी त्रयी वार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्ड नीतिः, अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च
  • 01.4.04 तस्यां आयत्ता लोकयात्रा
  • 01.4.05 तस्माल्लोकयात्राऽर्थी नित्यं उद्यतदण्डः स्यात्
  • 01.4.06 न ह्येवंविधं वश उपनयनं अस्ति भूतानां यथा दण्डः | इत्याचार्याः
  • 01.4.07 न इति कौटिल्यः
  • 01.4.08 तीक्ष्णदण्डो हि भूतानां उद्वेजनीयो भवति
  • 01.4.09 मृदुदण्डः परिभूयते
  • 01.4.10 यथाऽर्हदण्डः पूज्यते
  • 01.4.11 सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति
  • 01.4.12 दुष्प्रणीतः कामक्रोधाभ्यां अवज्ञानाद् वा वानप्रस्थपरिव्राजकान् अपि कोपयति, किंऽङ्ग पुनर्गृहस्थान्
  • 01.4.13 अप्रणीतः तु मात्स्यन्यायं उद्भावयति
  • 01.4.14 बलीयान् अबलं हि ग्रसते दण्डधराभावे
  • 01.4.15 स तेन गुप्तः प्रभवति इति
  • 01.4.16ab चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः |
  • 01.4.16chd स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु ( इति)

Section.2: Association with elders[सम्पाद्यताम्]

  • 01.5.01 तस्माद् दण्डमूलाः तिस्रो विद्याः
  • 01.5.02 विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः
  • 01.5.03 कृतकः स्वाभाविकश्च विनयः
  • 01.5.04 क्रिया हि द्रव्यं विनयति नाद्रव्यम्
  • 01.5.05 शुश्रूषा श्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति न इतरम्
  • 01.5.06 विद्यानां तु यथास्वं आचार्यप्रामाण्याद् विनयो नियमश्च
  • 01.5.07 वृत्तचौलकर्मा लिपिं सङ्ख्यानं च उपयुञ्जीत
  • 01.5.08 वृत्त उपनयनः त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्डनीतिं वक्तृप्रयोक्तृभ्यः
  • 01.5.09 ब्रह्मचर्यं च षोडशाद् वर्षात्
  • 01.5.10 अतो गोदानं दारकर्म चास्य
  • 01.5.11 नित्यश्च विद्यावृद्धसम्योगो विनयवृद्ध्य्ऽर्थं, तन्मूलत्वाद् विनयस्य
  • 01.5.12 पूर्वं अहर्भागं हस्त्य्ऽश्वरथप्रहरणविद्यासु विनयं गच्छेत् |
  • 01.5.13 पश्चिमं इतिहासश्रवणे
  • 01.5.14 पुराणं इतिवृत्तं आख्यायिक उदाहरणं धर्मशास्त्रं अर्थशास्त्रं च इति इतिहासः
  • 01.5.15 शेषं अहोरात्रभागं अपूर्वग्रहणं गृहीतपरिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्यश्रवणं च
  • 01.5.16 श्रुताद्द् हि प्रज्ञा उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता इति विद्यानां सामर्थ्यम्
  • 01.5.17ab विद्याविनीतो राजा हि प्रजानां विनये रतः |
  • 01.5.17chd अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः ( इति)

Section.3: Control over the senses,[सम्पाद्यताम्]

(i) Casting out the group of six enemies[सम्पाद्यताम्]

  • 01.6.01 विद्या विनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षत्यागात् कार्यः
  • 01.6.02 कर्णत्वग्ऽक्षिजिह्वाघ्राण इन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः, शास्त्रानुष्ठानं वा
  • 01.6.03 कृत्स्नं हि शास्त्रं इदं इन्द्रियजयः
  • 01.6.04 तद् विरुद्धवृत्तिरवश्य इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति
  • 01.6.05 यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यां अभिमन्यमानः स-बन्धुराष्ट्रो विननाश, करालश्च वैदेहः
  • 01.6.06 कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु
  • 01.6.07 लोभाद् ऐलश्चातुर्वर्ण्यं अत्याहारयमाणः, सौवीरश्चाजबिन्दुः |
  • 01.6.08 मानाद् रावणः परदारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च
  • 01.6.09 मदाद् दम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः
  • 01.6.10 हर्षाद् वातापिरगस्त्यं अत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनं इति
  • 01.6.11ab एते चान्ये च बहवः शत्रुषड्वर्गं आश्रिताः |
  • 01.6.11chd स-बन्धुराष्ट्रा राजानो विनेशुरजित इन्द्रियाः
  • 01.6.12ab शत्रुषड्वर्गं उत्सृज्य जामदग्न्यो जित इन्द्रियः |
  • 01.6.12chd अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ( इति)

ii) The life of a sage-like king[सम्पाद्यताम्]

  • 01.7.01 तस्माद् अरिषड्वर्गत्यागेन इन्द्रियजयं कुर्वीत, वृद्धसम्योगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्या उपदेशेन, लोकप्रियत्वं अर्थसम्योगेन वृत्तिम्
  • 01.7.02 एवं वश्य इन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत्, स्वप्नं लौल्यं अनृतं उद्धतवेषत्वं अनर्थ्यसम्योगं अधर्मसम्युक्तं अनर्थसम्युक्तं च व्यवहारम्
  • 01.7.03 धर्मार्थाविरोधेन कामं सेवेत, न निह्सुखः स्यात्
  • 01.7.04 समं वा त्रिवर्गं अन्योन्यानुबद्धम्
  • 01.7.05 एको ह्यत्यासेवितो धर्मार्थकामानां आत्मानं इतरौ च पीडयति
  • 01.7.06 अर्थ एव प्रधान इति कौटिल्यः
  • 01.7.07 अर्थमूलौ हि धर्मकामाविति
  • 01.7.08 मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, य एनं अपाय स्थानेभ्यो वारयेयुः, छायानालिकाप्रतोदेन वा रहसि प्रमाद्यन्तं अभितुदेयुः
  • 01.7.09ab सहायसाध्यं राजत्वं चक्रं एकं न वर्तते |
  • 01.7.09chd कुर्वीत सचिवांः तस्मात् तेषां च शृणुयान् मतम् ( इति)

Appointment of ministers[सम्पाद्यताम्]

  • 01.8.01 सहाध्यायिनो अमात्यान् कुर्वीत, दृष्टशौचसामर्थ्यत्वात् इति भारद्वाजः
  • 01.8.02 ते ह्यस्य विश्वास्या भवन्ति इति
  • 01.8.03 न इति विशालाक्षः
  • 01.8.04 सहक्रीडितत्वात् परिभवन्त्येनम्
  • 01.8.05 ये ह्यस्य गुह्यसधर्माणः तान् अमात्यान् कुर्वीत, समानशीलव्यसनत्वात्
  • 01.8.06 ते ह्यस्य मर्मज्ञभयान्नापराध्यन्ति इति
  • 01.8.07 साधारण एष दोषः इति पाराशराः
  • 01.8.08 तेषां अपि मर्मज्ञभयात् कृताकृतान्यनुवर्तेत
  • 01.8.09ab यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुषाधिपः |
  • 01.8.09chd अवशः कर्मणा तेन वश्यो भवति तावताम्
  • 01.8.10 य एनं आपत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुः तान् अमात्यान् कुर्वीत, दृष्टानुरागत्वात् इति
  • 01.8.11 न इति पिशुनः
  • 01.8.12 भक्तिरेषा न बुद्धिगुणः
  • 01.8.13 सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टं अर्थं सविशेषं वा कुर्युः तान् अमात्यान् कुर्वीत, दृष्टगुणत्वात् इति
  • 01.8.14 न इति कौणपदन्तः
  • 01.8.15 अन्यैरमात्यगुणैरयुक्ता ह्येते
  • 01.8.16 पितृपैतामहान् अमात्यान् कुर्वीत, दृष्टावदानत्वात्
  • 01.8.17 ते ह्येनं अपचरन्तं अपि न त्यजन्ति, सगन्धत्वात्
  • 01.8.18 अमानुषेष्वपि च एतद् दृश्यते
  • 01.8.19 गावो ह्यसगन्धं गोगणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति
  • 01.8.20 न इति वातव्याधिः
  • 01.8.21 ते ह्यस्य सर्वं अवगृह्य स्वामिवत् प्रचरन्ति
  • 01.8.22 तस्मान्नीतिविदो नवान् अमात्यान् कुर्वीत
  • 01.8.23 नवाः तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्ति इति
  • 01.8.24 न इति बाहुदन्ती पुत्रः
  • 01.8.25 शास्त्रविद् अदृष्टकर्मा कर्मसु विषादं गच्छेत्
  • 01.8.26 तस्माद् अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तान् अमात्यान् कुर्वीत, गुणप्राधान्यात् इति
  • 01.8.27 सर्वं उपपन्नं इति कौटिल्यः
  • 01.8.28 कार्यसामर्थ्याद्द् हि पुरुषसामर्थ्यं कल्प्यते
  • 01.8.29ab सामर्थ्यश्च विभज्यामात्यविभवं देशकालौ च कर्म च |
  • 01.8.29chd अमात्याः सर्व एव एते कार्याः स्युर्न तु मन्त्रिणः ( इति)

Appointment of counsellors and chaplain[सम्पाद्यताम्]

  • 01.9.01 जानपदो अभिजातः स्ववग्रहः कृतशिल्पश्चक्षुष्मान् प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साहप्रभावयुक्तः क्लेशसहः शुचिर्मैत्रो दृढभक्तिः शीलबलारोग्यसत्त्वयुक्तः स्तम्भचापलहीनः सम्प्रियो वैराणां अकर्ता इत्यमात्यसम्पत्
  • 01.9.02 अतः पादार्घगुणहीनौ मध्यमावरौ
  • 01.9.03 तेषां जनपद्ऽभिजनं अवग्रहं चाप्ततः परीक्षेत, समानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च, कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथायोगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शीलबलारोग्यसत्त्वयोगं अस्तम्भं अचापलं च, प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च
  • 01.9.04 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः
  • 01.9.05 स्वयं द्र्ष्टं प्रत्यक्षम्
  • 01.9.06 पर उपदिष्टं परोक्षम्
  • 01.9.07 कर्मसु कृतेनाकृतावेक्षणं अनुमेयम्
  • 01.9.08 यौगपद्यात् तु कर्मणां अनेकत्वाद् अनेकस्थत्वाच्च देशकालात्ययो मा भूद् इति परोक्षं अमात्यैः कारयेत् इत्यमात्यकर्म |
  • 01.9.09 पुरोहितं उदित उदितकुलशीलं स-अङ्गे वेदे दैवे निमित्ते दण्डनीत्यां चाभिविनीतं आपदां दैवमानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत
  • 01.9.10 तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत
  • 01.9.11ab ब्राह्मणेन एधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् |
  • 01.9.11chd जयत्यजितं अत्यन्तं शास्त्रानुगमशस्त्रितम् ( इति)

Ascertainment of the integrity or the absence of integrity of minister by means of secret tests[सम्पाद्यताम्]

  • 01.10.01 मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु स्थापयित्वाऽमात्यान् उपधाभिः शोधयेत्
  • 01.10.02 पुरोहितं अयाज्ययाजनाध्यापने नियुक्तं अमृष्यमाणं राजाऽवक्षिपेत्
  • 01.10.03 स सत्त्रिभिः शपथपूर्वं एकैकं अमात्यं उपजापयेत् - अधार्मिको अयं राजा, साधु धार्मिकं अन्यं अस्य तत्कुलीनं अपरुद्धं कुल्यं एकप्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः, सर्वेषां एतद् रोचते, कथं वा तव इति
  • 01.10.04 प्रत्याख्याने शुचिः | इति धर्म उपधा
  • 01.10.05 सेनापतिरसत्प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत् लोभनीयेनार्थेन राजविनाशाय, सर्वेषां एतद् रोचते, कथं वा तव इति
  • 01.10.06 प्रत्याख्याने शुचिः | इत्यर्थ उपधा
  • 01.10.07 परिव्राजिका लब्धविश्वासाऽन्तःपुरे कृतसत्कारा महामात्रं एकैकं उपजपेत् - राजमहिषी त्वां कामयते कृतसमागम उपाया, महान् अर्थश्च ते भविष्यति इति
  • 01.10.08 प्रत्याख्याने शुचिः | इति काम उपधा
  • 01.10.09 प्रहवणनिमित्तं एको अमात्यः सर्वान् अमात्यान् आवाहयेत्
  • 01.10.10 तेन उद्वेगेन राजा तान् अवरुन्ध्यात्
  • 01.10.11 कापटिकश्चात्र पूर्वावरुद्धः तेषां अर्थमानावक्षिप्तं एकैकं अमात्यं उपजपेत् - असत् प्रवृत्तो अयं राजा, साध्वेनं हत्वाऽन्यं प्रतिपादयामः, सर्वेषां एतद् रोचते, कथं वा तव इति
  • 01.10.12 प्रत्याख्याने शुचिः | इति भय उपधा
  • 01.10.13 तत्र धर्म उपधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु कर्मसु स्थापयेत्, अर्थ उपधाशुद्धान् समाहर्तृसम्निधातृनिचयकर्मसु, काम उपधा शुद्धान् बाह्याभ्यन्तरविहाररक्षासु, भय उपधाशुद्धान् आसन्नकार्येषु राज्ञः
  • 01.10.14 सर्व उपधाशुद्धान् मन्त्रिणः कुर्यात्
  • 01.10.15 सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषु उपयोजयेत्
  • 01.10.16ab त्रिवर्गभयसंशुद्धान् अमात्यान् स्वेषु कर्मसु |
  • 01.10.16chd अधिकुर्याद् यथा शौचं इत्याचार्या व्यवस्थिताः
  • 01.10.17ab न त्वेव कुर्याद् आत्मानं देवीं वा लक्ष्यं ईश्वरः |
  • 01.10.17chd शौचहेतोरमात्यानां एतत् कौटिल्यदर्शनम्
  • 01.10.18ab न दूषणं अदुष्टस्य विषेण इवाम्भसश्चरेत् |
  • 01.10.18chd कदाचिद्द् हि प्रदुष्टस्य नाधिगम्येत भेषजम्
  • 01.10.19ab कृता च कलुषाबुद्धिरुपधाभिश्चतुर्विधा |
  • 01.10.19chd नागत्वाऽन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ
  • 01.10.20ab तस्माद् बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे |
  • 01.10.20chd शौचाशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः ( इति)

Appointment of persons in secret service[सम्पाद्यताम्]

  • 01.11.01 उपधाभिः शुद्धामात्यवर्गो गूढपुरुषान् उत्पादयेत् कापटिक उदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्त्रितीष्क्णरसदभिक्षुकीश्च
  • 01.11.02 परमर्मज्ञः प्रगल्भश्छात्रः कापटिकः
  • 01.11.03 तं अर्थमानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीं एव प्रत्यादिश इति
  • 01.11.04 प्रव्रज्या प्रत्यवसितः प्रज्ञाशौचयुक्त उदास्थितः
  • 01.11.05 स वार्त्ताकर्मप्रदिष्टायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत्
  • 01.11.06 कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात्
  • 01.11.07 वृत्तिकामांश्च उपजपेत् - एतेन एव वेषेण राजार्थश्चरितव्यो भक्तवेतनकाले च उपस्थातव्यम् इति
  • 01.11.08 सर्वप्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः
  • 01.11.09 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः
  • 01.11.10 स कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण
  • 01.11.11 वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनः
  • 01.11.12 स वणिक्कर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण
  • 01.11.13 मुण्डो जटिलो वा वृत्तिकामः तापसव्यञ्जनः
  • 01.11.14 स नगराभ्याशे प्रभूतमुण्डजटिलान्तेवासी शाकं यवमुष्टिं वा मासद्विमासान्तरं प्रकाशं अश्नीयात्, गूढं इष्टं आहारम्
  • 01.11.15 वैदेहकान्तेवासिनश्च एनं समिद्धयोगैरर्चयेयुः
  • 01.11.16 शिष्याश्चास्यावेदयेयुः - असौ सिद्धः सामेधिकः इति
  • 01.11.17 समेधाशास्तिभिश्चाभिगतानां अङ्गविद्यया शिष्यसंज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् - अल्पलाभं अग्निदाहं चोरभयं दूष्यवधं तुष्टिदानं विदेशप्रवृत्तिज्ञानं, इदं अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति इति
  • 01.11.18 तद् अस्य गूढाः सत्त्रिणश्च सम्पादयेयुः
  • 01.11.19 सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नानां राजभाग्यं अनुव्याहरेत्, मन्त्रिसम्योगं च ब्रूयात्
  • 01.11.20 मन्त्री च एषां वृत्तिकर्मभ्यां वियतेत
  • 01.11.21 ये च कारणाद् अभिक्रुद्धाः तान् अर्थमानाभ्यां शमयेत्, अकारणक्रुद्धांः तूष्णीं दण्डेन, राजद्विष्टकारिणश्च
  • 01.11.22ab पूजिताश्चार्थमानाभ्यां राज्ञा राज उपजीविनाम् |
  • 01.11.22chd जानीयुः शौचं इत्येताः पञ्चसंस्थाः प्रकीर्तिताः ( इति)

Appointment of roving spies Rules for secret servants[सम्पाद्यताम्]

  • 01.12.01 ये चाप्यस्मबन्धिनो अवश्यभर्तव्याः ते लक्षणं अङ्गविद्यां जम्भकविद्यां मायागतं आश्रमधर्मं निमित्तं अन्तरचक्रं इत्यधीयानाः सत्त्रिणः, संसर्गविद्यां च
  • 01.12.02 ये जनपदे शूराः त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुः ते तीक्ष्णाः
  • 01.12.03 ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः
  • 01.12.04 परिव्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृतसत्कारा महामात्रकुलान्यभिगच्छेत्
  • 01.12.05 एतया मुण्डा वृषल्यो व्याख्याताः इति सञ्चाराः |
  • 01.12.06 तान् राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वंशिकप्रशास्तृ

समाहर्तृसम्निधातृप्रदेष्टृनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषद्ऽध्यक्षदण्ड दुर्गान्तपालाटविकेषु श्रद्धेयदेशवेषशिल्पभाषाऽभिजनापदेशान् भक्तितः सामर्थ्ययोगाच्चापसर्पयेत्

  • 01.12.07 तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहन उपग्राहिणः तीक्ष्णा विद्युः
  • 01.12.08 तं सत्त्रिणः संस्थास्वर्पयेयुः
  • 01.12.09 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधक उदकपरिचारका रसदाः

कुब्जवामनकिरातमूकबधिरजडान्धच्छद्मानो नटनर्तकगायनवादकवाग्जीवनकुशीलवाः स्त्रियश्चाभ्यन्तरं चारं विद्युः

  • 01.12.10 तं भिक्ष्क्यः संस्थास्वप्रयेयुः
  • 01.12.11 संस्थानां अन्तेवासिनः संज्ञालिपिभिश्चारसञ्चारं कुर्युः
  • 01.12.12 न चान्योन्यं संस्थाः ते वा विद्युः
  • 01.12.13 भिक्षुकीप्रतिषेधे द्वाह्स्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो

वा गीतपाठ्यवाद्यभाण्डगूढलेख्यसंज्ञाभिर्वा चारं निर्हरेयुः

  • 01.12.14 दीर्घरोग उन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम्
  • 01.12.15 त्रयाणां एकवाक्ये सम्प्रत्ययः
  • 01.12.16 तेषां अभीक्ष्णविनिपाते तूष्णीन्दण्डः प्रतिषेधः
  • 01.12.17 कण्टकशोधन उक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुरसम्पातिनश्चारार्थम्
  • 01.12.18 त उभयवेतनाः
  • 01.12.19ab गृहीतपुत्रदारांश्च कुर्याद् उभयवेतनान् |
  • 01.12.19chd तांश्चारिप्रहितान् विद्यात् तेषां शौचं च तद्विधैः
  • 01.12.20ab एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् |
  • 01.12.20chd उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि
  • 01.12.21ab अन्तर्गृहचराः तेषां कुब्जवामनपण्डकाः |
  • 01.12.21chd शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छजातयः
  • 01.12.22ab दुर्गेषु वणिजः संस्था दुर्गान्ते सिद्धतापसाः |
  • 01.12.22chd कर्षक उदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः
  • 01.12.23ab वने वनचराः कार्याः श्रमणाटविकादयः |
  • 01.12.23chd परप्रवृत्तिज्ञानार्थाः शीघ्राश्चारपरम्पराः
  • 01.12.24ab परस्य च एते बोद्धव्याः तादृशैरेव तादृशाः |
  • 01.12.24chd चारसञ्चारिणः संस्था गूढाश्चागूढसंज्ञिताः
  • 01.12.25ab अकृत्यान् कृत्यपक्षीयैर्दर्शितान् कार्यहेतुभिः |
  • 01.12.25chd परापसर्पज्ञानार्थं मुख्यान् अन्तेषु वासयेत् ( इति)

Keeping a watch over the seducible and non-seducible parties in ones own territorय्[सम्पाद्यताम्]

  • 01.13.01 कृतमहामात्रापसर्पः पौरजानपदान् अपसर्पयेत्
  • 01.13.02 सत्त्रिणो द्वन्द्विनः तीर्थसभापूगजनसमवायेषु विवादं कुर्युः
  • 01.13.03 सर्वगुणसम्पन्नश्चायं राजा श्रूयते, न चास्य कश्चिद् गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयति इति
  • 01.13.04 तत्र येऽनुप्रशंसेयुः तान् इतरः तं च प्रतिषेधयेत्
  • 01.13.05 मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे
  • 01.13.06 धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रकल्पयाम्-आसुः
  • 01.13.07 तेन भृता राजानः प्रजानां योगक्षेमावहाः
  • 01.13.08 तेषां किल्बिषं अदण्डकरा हरन्त्ययोगक्षेमावहाश्च प्रजानाम्
  • 01.13.09 तस्माद् उञ्छषड्भागं आरण्यकाऽपि निर्वपन्ति - तस्य एतद् भागधेयं योऽस्मान् गोपायति इति
  • 01.13.10 इन्द्रयमस्थानं एतद् राजानः प्रत्यक्षहेडप्रसादाः
  • 01.13.11 तान् अवमन्यमानान् दैवोऽपि दण्डः स्पृशति
  • 01.13.12 तस्माद् राजानो नावमन्तव्याः
  • 01.13.13 इत्येवं क्षुद्रकान् प्रतिषेधयेत्
  • 01.13.14 किंवदन्तीं च विद्युः
  • 01.13.15 ये चास्य धान्यपशुहिरण्यान्याजीवन्ति, तैरुपकुर्वन्ति व्यसनेऽभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रं आटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनाः तुष्टातुष्टत्वं विद्युः
  • 01.13.16 तुष्टान् भूयोऽर्थमानाभ्यां पूजयेत्
  • 01.13.17 अतुष्टांः तुष्टिहेतोः त्यागेन साम्ना च प्रसादयेत्
  • 01.13.18 परस्पराद् वा भेदयेद् एनान्, सामन्ताटविकतत्कुलीनापरुद्धेभ्यश्च
  • 01.13.19 तथाऽप्यतुष्यतो दण्डकरसाधनाधिकारेण जनपदविद्वेषं ग्राहयेत्
  • 01.13.20 विविष्टान् उपांशुदण्डेन जनपदकोपेन वा साधयेत्
  • 01.13.21 गुप्तपुत्रदारान् आकरकर्मान्तेषु वा वासयेत् परेषां आस्पदभयात्
  • 01.13.22 क्रुद्धलुब्धभीतमानिनः तु परेषां कृत्याः
  • 01.13.23 तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्पराभिसम्बन्धं अमित्राटविकसम्बन्धं वा विद्युः
  • 01.13.24 तुष्टान् अर्थमानाभ्यां पूजयेत् |
  • 01.13.25 अतुष्टान् सामदानभेददण्डैः साधयेत्
  • 01.13.26ab एवं स्वविषये कृत्यान् अकृत्यांश्च विचक्षणः |
  • 01.13.26chd पर उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि ( इति)

Winning over the seducible and non-seducible parties in the enemy territorय्[सम्पाद्यताम्]

  • 01.14.01 कृत्याकृत्यपक्ष उपग्रहः स्वविषये व्याख्यातः, परविषये वाच्यः
  • 01.14.02 संश्रुत्यार्थान् विप्रलब्धः, तुल्यकारिणोः शिल्पे वा उपकारे वा विमानितः, वल्लभावरुद्धः,

समाहूय पराजितः, प्रवास उपतप्तः, कृत्वा व्ययं अलब्धकार्यः, स्वधर्माद् दायाद्याद् वा उपरुद्धः, मानाधिकाराभ्यां भ्रष्टः, कुल्यैरन्तर्हितः, प्रसभाभिमृष्टस्त्रीकः, काराभिन्यस्तः, पर उक्तदण्डितः, मिथ्याऽऽचारवारितः, सर्वस्वं आहारितः, बन्धनपरिक्लिष्टः, प्रवासितबन्धुः इति क्रुद्धवर्गः

  • 01.14.03 स्वयं उपहतः, विप्रकृतः, पापकर्माभिख्यातः, तुल्यदोषदण्डेन उद्विग्नः, पर्यात्तभूमिः, दण्डेन उपनतः, सर्वाधिकरणस्थः, सहसा उपचितार्थः, तत्कुलीन उपाशंसुः, प्रद्विष्टो राज्ञा, राजद्वेषी च - इति भीतवर्गः
  • 01.14.04 परिक्षीणः, अन्यात्तस्वः, कदर्यः, व्यसनी, अत्याहितव्यवहारश्च - इति लुब्धवर्गः
  • 01.14.05 आत्मसम्भावितः, मानकामः, शत्रुपूजाऽमर्षितः, नीचैरुपहितः, तीक्ष्णः, साहसिकः, भोगेनासन्तुष्टः - इति मानिवर्गः
  • 01.14.06 तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयः तं तेन उपजापयेत्
  • 01.14.07 यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद् यद् आसादयति तत् सर्वं प्रमृद्नाति, एवं अयं अशास्त्रचक्षुरन्धो राजा पौरजानपदवधायाभ्युत्थितः, शक्यं अस्य प्रतिहस्तिप्रोत्साहनेनापकर्तुं, अमर्षः क्रियताम् इति क्रुद्धवर्गं उपजापयेत्
  • 01.14.08 यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषं उत्सृजति, एवं अयं राजा जातदोषाशङ्कः त्वयि पुरा क्रोधविषं उत्सृजति, अन्यत्र गम्यताम् इति भीतवर्गं.उपजापयेत्
  • 01.14.09 यथा श्वगणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवं अयं राजा सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुह्यते नात्मगुणसम्पन्नेभ्यः, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम् इति लुब्धवर्गं.उपजापयेत्
  • 01.14.10 यथा चण्डाल उदपानश्चण्डालानां एव उपभोग्यो नान्येषां, एवं अयं राजा नीचो नीचानां एव उपभोग्यो न त्वद्विधानां आर्याणां, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम् इति मानिवर्गं उपजापयेत्
  • 01.14.11ab तथा इति प्रतिपन्नांः तान् संहितान् पणकर्मणा |
  • 01.14.11chd योजयेत यथाशक्ति स-अपसर्पान् स्वकर्मसु
  • 01.14.12ab लभेत सामदानाभ्यां कृत्यांश्च परभूमिषु |
  • 01.14.12chd अकृत्यान् भेददण्डाभ्यां परदोषांश्च दर्शयन् ( इति)

The topic of counsel[सम्पाद्यताम्]

  • 01.15.01 कृतस्वपक्षपरपक्ष उपग्रहः कार्यारम्भांश्चिन्तयेत्
  • 01.15.02 मन्त्रपूर्वाः सर्वारम्भाः
  • 01.15.03 तद्.उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् |
  • 01.15.04 श्रूयते हि शुकसारिकाभिर्मन्त्रो भिन्नः, श्वभिरप्यन्यैश्च तिर्यग्योनिभिरिति
  • 01.15.05 तस्मान् मन्त्र उद्देशं अनायुक्तो न उपगच्छेत्
  • 01.15.06 उच्छिद्येत मन्त्रभेदी
  • 01.15.07 मन्त्रभेदो हि दूतामात्यस्वामिनां इङ्गिताकाराभ्याम्
  • 01.15.08 इङ्गितं अन्यथावृत्तिः
  • 01.15.09 आकृतिग्रहणं आकारः
  • 01.15.10 तस्य संवरणं आयुक्तपुरुषरक्षणं आकार्यकालाद् इति
  • 01.15.11 तेषां हि प्रमादमदसुप्तप्रलापाः, कामादिरुत्सेकः, प्रच्छन्नोऽवमतो वा मन्त्रं भिनत्ति
  • 01.15.12 तस्माद् आद्रक्षेन् मन्त्रम्
  • 01.15.13 मन्त्रभेदो ह्ययोगक्षेमकरो राज्ञः तद्ऽअयुक्तपुरुषाणां च
  • 01.15.14 तस्माद् गुह्यं एको मन्त्रयेत इति भारद्वाजः
  • 01.15.15 मन्त्रिणां अपि हि मन्त्रिणो भवन्ति, तेषां अप्यन्ये
  • 01.15.16 सा एषा मन्त्रिपरम्परा मन्त्रं भिनत्ति
  • 01.15.17ab तस्मान्नास्य परे विद्युः कर्म किञ्चिच्चिकीर्षितम् |
  • 01.15.17chd आरब्धारः तु जानीयुरारब्धं कृतं एव वा
  • 01.15.18 न एकस्य मन्त्रसिद्धिरस्ति इति विशालाक्षः
  • 01.15.19 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः
  • 01.15.20 अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चितबलाधानं अर्थद्वैधस्य संशयच्छेदनं एकदेशदृष्टस्य शेष उपलब्धिरिति मन्त्रिसाध्यं एतत्
  • 01.15.21 तस्माद् बुद्धिवृद्धैः सार्धं अध्यासीत मन्त्रम्
  • 01.15.22ab न कञ्चिद् अवमन्येत सर्वस्य शृणुयान् मतम् |
  • 01.15.22chd बालस्याप्यर्थवद्वाक्यं उपयुञ्जीत पण्डितः |
  • 01.15.23 एतन् मन्त्रज्ञानं, न एतन् मन्त्ररक्षणम् इति पाराशराः
  • 01.15.24 यद् अस्य कार्यं अभिप्रेतं तत्प्रतिरूपकं मन्त्रिणः पृच्छेत् - कार्यं इदं एवं आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम् इति
  • 01.15.25 ते यथा ब्रूयुः तत् कुर्यात्
  • 01.15.26 एवं मन्त्र उपलब्धिः संवृतिश्च भवति इति
  • 01.15.27 न इति पिशुनः
  • 01.15.28 मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा
  • 01.15.29 स दोषः
  • 01.15.30 तस्मात् कर्मसु ये येष्वभिप्रेताः तैः सह मन्त्रयेत
  • 01.15.31 तैर्मन्त्रयमाणो हि मन्त्रसिद्धिं गुप्तिं च लभते इति
  • 01.15.32 न इति कौटिल्यः
  • 01.15.33 अनवस्था ह्येषा
  • 01.15.34 मन्त्रिभिः त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत
  • 01.15.35 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्चयं नाधिगच्छेत्
  • 01.15.36 एकश्च मन्त्री यथा इष्टं अनवग्रहश्चरति
  • 01.15.37 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते, विगृहीताभ्यां विनाश्यते
  • 01.15.38 तत् त्रिषु चतुषु वा कृच्छ्रेण उपपद्यते
  • 01.15.39 महादोषं उपपन्नं तु भवति
  • 01.15.40 ततः परेषु कृच्छ्रेणार्थनिश्चयो गम्यते, मन्त्रो वा रक्ष्यते
  • 01.15.41 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यां एको वा यथासामर्थ्यं मन्त्रयेत alterNative views approved
  • 01.15.42 कर्मणां आरम्भ उपायः पुरुषद्रव्यसम्पद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः
  • 01.15.43 तान् एकैकशः पृच्छेत् समस्तांश्च
  • 01.15.44 हेतुभिश्च एषां मतिप्रविवेकान् विद्यात्
  • 01.15.45 अवाप्तार्थः कालं नातिक्रामयेत्
  • 01.15.46 न दीर्घकालं मन्त्रयेत, न तेषां पक्षीयैर्येषां अपकुर्यात्
  • 01.15.47 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः
  • 01.15.48 षोडश इति बार्हस्पत्याः
  • 01.15.49 विंशतिम् इत्यौशनसाः
  • 01.15.50 यथासामर्थ्यं इति कौटिल्यः
  • 01.15.51 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः
  • 01.15.52 अकृतारम्भं आरब्धानुष्ठानं अनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः
  • 01.15.53 आसन्नैः सह कर्माणि पश्येत्
  • 01.15.54 अनासन्नैः सह पत्त्रसम्प्रेषणेन मन्त्रयेत
  • 01.15.55 इन्द्रस्य हि मन्त्रिपरिषद्.ऋषीणां सहस्रम्
  • 01.15.56 स तच्चक्षुः
  • 01.15.57 तस्माद् इमं द्व्य्ऽक्षं सहस्राक्षं आहुः
  • 01.15.58 आत्ययिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात्
  • 01.15.59 तत्र यद्भूयिष्ठा ब्रूयुः कार्यसिद्धिकरं वा तत् कुर्यात्
  • 01.15.60 कुर्वतश्च
  • 01.15.60ab नास्य गुह्यं परे विद्युश्छिद्रं विद्यात् परस्य च |
  • 01.15.60chd गूहेत् कूर्म इवाङ्गानि यत् स्याद् विवृतं आत्मनः
  • 01.15.61ab यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति |
  • 01.15.61chd एवं अश्रुतशास्त्रार्थो न मन्त्रं श्रोतुं अर्हति ( इति)

Rules for the envoय्[सम्पाद्यताम्]

  • 01.16.01 उद्वृत्तमन्त्रो दूतप्रणिधिः
  • 01.16.02 अमात्यसम्पदा उपेतो निसृष्टार्थः
  • 01.16.03 पादगुणहीनः परिमितार्थः
  • 01.16.04 अर्धगुणहीनः शासनहरः
  • 01.16.05 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत
  • 01.16.06 शासनं एवं वाच्यः परः, स वक्ष्यत्येवं, तस्य इदं प्रतिवाक्यं, एवं अतिसन्धातव्यं, इत्यधीयानो गच्छेत्
  • 01.16.07 अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेत्
  • 01.16.08 अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत
  • 01.16.09 दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि च उपलभेत
  • 01.16.10 पराधिष्ठानं अनुज्ञातः प्रविशेत्
  • 01.16.11 शासनं च यथा उक्तं ब्रूयात्, प्राणाबाधेऽपि दृष्टे
  • 01.16.12 परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्यपूजनं इष्टपरिप्रश्नं गुणकथासङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वासगमनं च लक्षयेत् तुष्टस्य, विपरीतं अतुष्टस्य
  • 01.16.13 तं ब्रूयात् - दूतमुखा हि राजानः, त्वं चान्ये च
  • 01.16.14 तस्माद् उद्यतेष्वपि शस्त्रेषु यथा उक्तं वक्तारो दूताः
  • 01.16.15 तेषां अन्तावसायिनोऽप्यवध्याः, किं अङ्ग पुनर्ब्राह्मणाः
  • 01.16.16 परस्य एतद् वाक्यम्
  • 01.16.17 एष दूतधर्मः इति
  • 01.16.18 वसेद् अविसृष्टः पूजया न उत्सिक्तः
  • 01.16.19 परेषु बलित्वं न मन्येत
  • 01.16.20 वाक्यं अनिष्टं सहेत
  • 01.16.21 स्त्रियः पानं च वर्जयेत्
  • 01.16.22 एकः शयीत
  • 01.16.23 सुप्तमत्तयोर्हि भावज्ञानं दृष्टम्
  • 01.16.24 कृत्यपक्ष उपजापं अकृत्यपक्षे गूढप्रणिधानं रागापरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यां उपलभेत, तयोरन्तेवासिभिश्चिकित्सकपाषण्डव्यञ्जन उभयवेतनैर्वा
  • 01.16.25 तेषां असम्भाषायां याचकमत्त उन्मत्तसुप्तप्रलापैः पुण्यस्थानदेवगृहचित्रलेख्यसंज्ञाभिर्वा चारं उपलभेत
  • 01.16.26 उपलब्धस्य उपजापं उपेयात्
  • 01.16.27 परेण च उक्तः स्वासां प्रकृतीनां प्रमाणं नाचक्षीत
  • 01.16.28 सर्वं वेद भवान् इति ब्रूयात्, कार्यसिद्धिकरं वा
  • 01.16.29 कार्यस्यासिद्धावुपरुध्यमानः तर्कयेत् - किं भर्तुर्मे व्यसनं आसन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तुकामः, पार्ष्णिग्राहं आसारं अन्तःकोपं आटविकं वा समुत्थापयितुकामः, मित्रं आक्रन्दं वा व्याघातयितुकामः, स्वं वा परतो विग्रहं अन्तःकोपं आटविकं वा प्रतिकर्तुकामः, संसिद्धं वा मे भर्तुर्यात्राकालं अभिहन्तुकामः, सस्यपण्यकुप्यसङ्ग्रहं दुर्गकर्म बलसमुद्दानं वा कर्तुकामः, स्वसैन्यानां वा व्यायामस्य देशकालावाकाङ्क्षमाणः, परिभवप्रमादाभ्यां वा, संसर्गानुबन्धार्थी वा, मां उपरुणद्धि इति
  • 01.16.30 ज्ञात्वा वसेद् अपसरेद् वा
  • 01.16.31 प्रयोजनं इष्टं अवेक्षेत वा
  • 01.16.32 शासनं अनिष्टं उक्त्वा बन्धवधभयाद् अविसृष्टोऽप्यपगच्छेत्, अन्यथा नियम्येत
  • 01.16.33ab प्रेषणं सन्धिपालत्वं प्रतापो मित्रसङ्ग्रहः |
  • 01.16.33chd उपजापः सुहृद्भेदो गूढदण्डातिसारणम्
  • 01.16.34ab बन्धुरत्नापहरणं चारज्ञानं पराक्रमः |
  • 01.16.34chd समाधिमोक्षो दूतस्य कर्म योगस्य चाश्रयः
  • 01.16.35ab स्वदूतैः कारयेद् एतत् परदूतांश्च रक्षयेत् |
  • 01.16.35chd प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः ( इति)

Guarding against princes[सम्पाद्यताम्]

  • 01.17.01 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च
  • 01.17.02 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः
  • 01.17.03 पुत्ररक्षणं तु
  • 01.17.04 जन्मप्रभृति राजपुत्रान् रक्षेत्
  • 01.17.05 कर्कटकसधर्माणो हि जनकभक्षा राजपुत्राः
  • 01.17.06 तेषां अजातस्नेहे पितर्युपांशुदण्डः श्रेयान् इति भारद्वाजः
  • 01.17.07 नृशंसं अदुष्टवधः क्षत्रबीजविनाशश्च इति विशालाक्षः
  • 01.17.08 तस्माद् एकस्थानावरोधः श्रेयान् इति
  • 01.17.09 अहिभयं एतद् इति पाराशराः
  • 01.17.10 कुमारो हि विक्रमभयान् मां पिताऽवरुणद्धि इति ज्ञात्वा तं एवाङ्के कुर्यात्
  • 01.17.11 तस्माद् अन्तपालदुर्गे वासः श्रेयान् इति
  • 01.17.12 औरभ्रं भयं एतद् इति पिशुनः
  • 01.17.13 प्रत्यापत्तेर्हि तद् एव कारणं ज्ञात्वाऽन्तपालसखः स्यात्
  • 01.17.14 तस्मात् स्वविषयाद् अपकृष्टे सामन्तदुर्गे वासः श्रेयान् इति
  • 01.17.15 वत्सस्थानं एतद् इति कौणपदन्तः
  • 01.17.16 वत्सेन इव हि धेनुं पितरं अस्य सामन्तो दुह्यात्
  • 01.17.17 तस्मान् मातृबन्धुषु वासः श्रेयान् इति
  • 01.17.18 ध्वजस्थानं एतद् इति वातव्याधिः
  • 01.17.19 तेन हि ध्वजेनादितिकौशिकवद् अस्य मातृबान्धवा भिक्षेरन्
  • 01.17.20 तस्माद् ग्राम्य सुखेष्वेनं अवसृजेत्
  • 01.17.21 सुख उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति
  • 01.17.22 जीवन्मरणं एतद् इति कौटिल्यः
  • 01.17.23 काष्ठं इव घुणजग्धं राजकुलं अविनीतपुत्रं अभियुक्तमात्रं भज्येत
  • 01.17.24 तस्माद् ऋतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः
  • 01.17.25 आपन्नसत्त्वायाः कौमारभृत्यो गर्भभर्मणि प्रसवे च वियतेत
  • 01.17.26 प्रजातायाः पुत्रसंस्कारं पुरोहितः कुर्यात्
  • 01.17.27 समर्थं तद्विदो विनयेयुः
  • 01.17.28 सत्त्रिणां एकश्च एनं मृगयाद्यूतमद्यस्त्रीभिः प्रलोभयेत् पितरि विक्रम्य राज्यं गृहाण इति
  • 01.17.29 तं अन्यः सत्त्री प्रतिषेधयेत् इत्याम्भीयाः
  • 01.17.30 महादोषं अबुद्धबोधनं इत् कौटिल्यः
  • 01.17.31 नवं हि द्रव्यं येन येनार्थजातेन उपदिह्यते तत् तद् आचूषति
  • 01.17.32 एवं अयं नवबुद्धिर्यद् यद् उच्यते तत् तत्शास्त्र उपदेशं इवाभिजानाति
  • 01.17.33 तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेन्नाधर्म्यं अनर्थ्यं च
  • 01.17.34 सत्त्रिणः त्वेनं तव स्मः इति वदन्तः पालयेयुः
  • 01.17.35 यौवन उत्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्यागारेषु रात्रावुद्वेजयेयुः
  • 01.17.36 मद्यकामं योगपानेन उद्वेजयेयुः
  • 01.17.37 द्यूतकामं कापटिकैरुद्वेजयेयुः
  • 01.17.38 मृगयाकामं प्रतिरोधकव्यञ्जनैः त्रासयेयुः
  • 01.17.39 पितरि विक्रमबुद्धिं तथा इत्यनुप्रविश्य भेदयेयुः - अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरकपातः, सङ्क्रोशः, प्रजाभिरेकलोष्टवधश्च इति
  • 01.17.40 विरागं वेदयेयुः
  • 01.17.41 प्रियं एकपुत्रं बध्नीयात्
  • 01.17.42 बहुपुत्रः प्रत्यन्तं अन्यविषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत्
  • 01.17.43 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत्
  • 01.17.44 बुद्धिमान्ऽअहार्यबुद्धिर्दुर्बुद्धिरिति पुत्रविशेषाः
  • 01.17.45 शिष्यमाणो धर्मार्थावुपलभते चानुतिष्ठति च बुद्धिमान्
  • 01.17.46 उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः
  • 01.17.47 अपायनित्यो धर्मार्थद्वेषी च इति दुर्बुद्धिः
  • 01.17.48 स यद्येकपुत्रः पुत्र उत्पत्तावस्य प्रयतेत
  • 01.17.49 पुत्रिकापुत्रान् उत्पादयेद् वा
  • 01.17.50 वृद्धः तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत्
  • 01.17.51 न च एकपुत्रं अविनीतं राज्ये स्थापयेत्
  • 01.17.52ab बहूनां एकसम्रोधः पिता पुत्रहितो भवेत् |
  • 01.17.52chd अन्यत्रापद ऐश्वर्यं ज्येष्ठभागि तु पूज्यते
  • 01.17.53ab कुलस्य वा भवेद् राज्यं कुलसङ्घो हि दुर्जयः |
  • 01.17.53chd अराजव्यसनाबाधः शश्वद् आवसति क्षितिम् ( इति)

The conduct of a prince in disfavour. Behaviour towards a prince in disfavour[सम्पाद्यताम्]

  • 01.18.01 विनीतो राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत, अन्यत्र प्राणाबाधकप्रकृतिकोपकपातकेभ्यः
  • 01.18.02 पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत्
  • 01.18.03 पुरुषाधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत्
  • 01.18.04 अभिरूपं च कर्मफलं औपायनिकं च लाभं पितुरुपनाययेत्
  • 01.18.05 तथाऽप्यतुष्यन्तं अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तं अरण्यायापृच्छेत
  • 01.18.06 बन्धवधभयाद् वा यः सामन्तो न्यायवृत्तिर्धार्मिकः सत्यवाग्ऽविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत
  • 01.18.07 तत्रस्थः कोशदण्डसम्पन्नः प्रवीरपुरुषकन्यासम्बन्धं अटवीसम्बन्धं कृत्यपक्ष उपग्रहं च कुर्यात्
  • 01.18.08 एकचरः सुवर्णपाकमणिरागहेमरूप्यपण्याकरकर्मान्तान् आजीवेत्
  • 01.18.09 पाषण्डसङ्घद्रव्यं अश्रोत्रिय उपभोग्यं वा देवद्रव्यं आढ्यविधवाद्रव्यं वा गूढं अनुप्रविश्य सार्थयानपात्राणि च मदनरसयोगेनातिसन्धायापहरेत्
  • 01.18.10 पारग्रामिकं वा योगं आतिष्ठेत्
  • 01.18.11 मातुः परिजन उपग्रहेण वा चेष्टेत
  • 01.18.12 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषण्डच्छद्मभिर्

वा नष्टरूपः तद्व्यञ्जनसखश्छिद्रेषु प्रविश्य राज्ञः शस्त्ररसाभ्यां प्रहृत्य ब्रूयात् - अहं असौ कुमारः, सहभोग्यं इदं राज्यं, एको नार्हति भोक्तुं, ये कामयन्ते मां भर्तुं तान् अहं द्विगुणेन भक्तवेतनेन उपस्थास्यामि इति इत्यपरुद्धवृत्तम् |

  • 01.18.13 अपरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः, माता वा प्रतिगृहीता
  • 01.18.14 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः
  • 01.18.15 अत्यक्तं तुल्यशीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यानयेयुः
  • 01.18.16ab उपस्थितं च राज्येन मद्.ऊर्ध्वं इति सान्त्वयेत् |
  • 01.18.16chd एकस्थं अथ सम्रुन्ध्यात् पुत्रवांः तु प्रवासयेत् ( इति)

Rules for the king[सम्पाद्यताम्]

  • 01.19.01 राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः
  • 01.19.02 प्रमाद्यन्तं अनुप्रमाद्यन्ति
  • 01.19.03 कर्माणि चास्य भक्षयन्ति
  • 01.19.04 द्विषद्भिश्चातिसन्धीयते |
  • 01.19.05 तस्माद् उत्थानं आत्मनः कुर्वीत
  • 01.19.06 नालिकाभिरहरष्टधा रात्रिं च विभजेत्, छायाप्रमाणेन वा
  • 01.19.07 त्रिपौरुषी पौरुषी चतुर्ऽङ्गुला नष्टच्छायो मध्याह्न इति चत्वारः पूर्वे दिवसस्याष्टभागाः
  • 01.19.08 तैः पश्चिमा व्याख्याताः
  • 01.19.09 तत्र पूर्वे दिवसस्याष्टभागे रक्षाविधानं आयव्ययौ च शृणुयात्
  • 01.19.10 द्वितीये पौरजानपदानां कार्याणि पश्येत्
  • 01.19.11 तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत
  • 01.19.12 चतुर्थे हिरण्यप्रतिग्रहं अध्यक्षांश्च कुर्वीत
  • 01.19.13 पञ्चमे मन्त्रिपरिषदा पत्त्रसम्प्रेषणेन मन्त्रयेत, चारगुह्यबोधनीयानि च बुध्येत
  • 01.19.14 षष्ठे स्वैरविहारं मन्त्रं वा सेवेत
  • 01.19.15 सप्तमे हस्त्य्ऽश्वरथायुधीयान् पश्येत्
  • 01.19.16 अष्टमे सेनापतिसखो विक्रमं चिन्तयेत्
  • 01.19.17 प्रतिष्ठितेऽहनि सन्ध्यां उपासीत
  • 01.19.18 प्रथमे रात्रिभागे गूढपुरुषान् पश्येत्
  • 01.19.19 द्वितीये स्नानभोजनं कुर्वीत, स्वाध्यायं च
  • 01.19.20 तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत
  • 01.19.21 षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत्
  • 01.19.22 सप्तमे मन्त्रं अध्यासीत, गूढपुरुषांश्च प्रेषयेत्
  • 01.19.23 अष्टमे ऋत्विग्ऽअचार्यपुरोहितस्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत्
  • 01.19.24 सवस्तां धेनुं वृषभं च प्रदक्षिणीकृत्य उपस्थानं गच्छेत्
  • 01.19.25 आत्मबलानुकूल्येन वा निशाऽहर्भागान् प्रविभज्य कार्याणि सेवेत
  • 01.19.26 उपस्थानगतः कार्यार्थिनां अद्वारासङ्गं कारयेत्
  • 01.19.27 दुर्दर्शो हि राजा कार्याकार्यविपर्यासं आसन्नैः कार्यते
  • 01.19.28 तेन प्रकृतिकोपं अरिवशं वा गच्छेत्
  • 01.19.29 तस्माद् देवताऽऽश्रमपाषण्डश्रोत्रियपशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्य्ऽनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्यगौरवाद् आत्ययिकवशेन वा
  • 01.19.30ab सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् .
  • 01.19.30chd कृच्छ्रसाध्यं अतिक्रान्तं असाध्यं वाऽपि जायते
  • 01.19.31ab अग्न्य्ऽगारगतः कार्यं पश्येद् वैद्यतपस्विनाम् .
  • 01.19.31chd पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च
  • 01.19.32ab तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् .
  • 01.19.32chd मायायोगविदां चैव न स्वयं कोपकारणात्
  • 01.19.33ab राज्ञो हि व्रतं उत्थानं यज्ञः कार्यानुशासनम् .
  • 01.19.33chd दक्षिणा वृत्तिसाम्यं तु दीक्षा तस्याभिSएचनम्
  • 01.19.34ab प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् .
  • 01.19.34chd नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्
  • 01.19.35ab तस्मान्नित्य उत्थितो राजा कुर्याद् अर्थानुशासनम् |
  • 01.19.35chd अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः
  • 01.19.36ab अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च .
  • 01.19.36chd प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदम् ( इति)

Regulation for the royal residence[सम्पाद्यताम्]

  • 01.20.01 वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारं अनेककक्ष्यापरिगतं अन्तःपुरं कारयेत्
  • 01.20.02 कोशगृहविधानेन मध्ये वासगृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृहं वाऽऽसन्नचैत्यकाष्ठदेवताऽपिधानद्वारं अनेकसुरुङ्गासञ्चारं तस्य उपरि प्रासादं गूढभित्तिसोपानं सुषिरस्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत्, आपत्प्रतीकारार्थं आपदि वा
  • 01.20.03 अतोऽन्यथा वा विकल्पयेत्, सहाध्यायिभयात्
  • 01.20.04 मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति, न चात्रान्योऽग्निर्ज्वलति, वैद्युतेन भस्मना मृत्सम्युक्तेन करकवारिणाऽवलिप्तं च
  • 01.20.05 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति
  • 01.20.06 मयूरनकुलपृषत उत्सर्गः सर्पान् भक्षयति
  • 01.20.07 शुकः सारिका भृङ्गराजो वा सर्पविषशङ्कायां क्रोशति
  • 01.20.08 क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवञ्जीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते
  • 01.20.09 इत्येवं अग्निविषसर्पेभ्यः प्रतिकुर्वीत
  • 01.20.10 पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिसंस्था वृक्ष उदकस्थानं च
  • 01.20.11 बहिः कन्याकुमारपुरम्
  • 01.20.12 पुरस्ताद् अलङ्कारभूमिर्मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च
  • 01.20.13 कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत्
  • 01.20.14 अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत्
  • 01.20.15 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्याऽन्तर्गतश्च पुत्रः कारूषम्
  • 01.20.16 लाजान् मधुना इति विषेण पर्यस्य देवी काशिराजं, विषदिग्धेन नूप्रेण वैरन्त्यं, मेखलामणिना सौवीरं, जालूथं आदर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान
  • 01.20.17 तस्माद् एतान्यास्पदानि परिहरेत्
  • 01.20.18 मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत्
  • 01.20.19 न च एनाः कुल्याः पश्येयुः, अन्यत्र गर्भव्याधिसंस्थाभ्यः
  • 01.20.20 रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालङ्काराः पश्येयुः
  • 01.20.21 अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा मातापितृव्यञ्जनाः स्थविरवर्षधराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्युः, स्थापयेयुश्च स्वामिहिते,
  • 01.20.22ab स्वभूमौ च वसेत् सर्वः परभूमौ न सञ्चरेत् .
  • 01.20.22chd न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत्
  • 01.20.23ab सर्वं चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् .
  • 01.20.23chd निर्गच्छेद् अभिगच्छेद् वा मुद्रासङ्क्रान्तभूमिकम् ( इति)

Concerning the protection of (the kings) own person[सम्पाद्यताम्]

  • 01.21.01 शयनाद् उत्थितः स्त्रीगणैर्धन्विभिः परिगृह्यते, द्वितीयस्यां कक्ष्यायां कञ्चुक उष्णीषिभिर्वर्षधराभ्यागारिकैः, तृतीयस्यां कुब्जवामनकिरातैः, चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रासपाणिभिः
  • 01.21.02 पितृपैतामहं सम्बन्धानुबद्धं शिक्षितं अनुरक्तं कृतकर्माणं च जनं आसन्नं कुर्वीत, नान्यतोदेशीयं अकृतार्थमानं स्वदेशीयं वाऽप्यपकृत्य उपगृहीतम्
  • 01.21.03 अन्तर्वंशिकसैन्यं राजानं अन्तःपुरं च रक्षेत्
  • 01.21.04 गुप्ते देशे माहानसिकः सर्वं आस्वादबाहुल्येन कर्म कारयेत्
  • 01.21.05 तद् रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा
  • 01.21.06 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य, वयसां विपत्तिश्च
  • 01.21.07a अन्नस्य ऊष्मा मयूरग्रीवाभः शैत्यं आशु क्लिष्टस्य इव वैवर्ण्यं स-उदकत्वं अक्लिन्नत्वं च
  • 01.21.07b व्यञ्जनानां आशु शुष्कत्वं च क्वाथध्यामफेनपटलविच्छिन्नभावो गन्धस्पर्शरसवधश्च
  • 01.21.07ch द्रवेषु हीनातिरिक्तच्छायादर्शनं फेनपटलसीमन्त ऊर्ध्वराजीदर्शनं च
  • 01.21.07d रसस्य मध्ये नीला राजी, पयसः ताम्रा, मद्यतोययोः काली, दध्नः श्यामा, मधुनः श्वेता, द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्वभावः क्वाथनीलश्यावता च
  • 01.21.07e शुष्काणां आशु शातनं वैवर्ण्यं च,
  • 01.21.07f कठिनानां मृदुत्वं मृदूनां च कठिनत्वं, तद्ऽभ्याशे क्षुद्रसत्त्ववधश्च,
  • 01.21.07g आस्तरणप्रवरणानां ध्याममण्डलता तन्तुरोमपक्ष्मशातनं च,
  • 01.21.07h लोहमणिमयानां पङ्कमलोपदेहता स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्च - इति विषयुक्तस्य लिङ्गानि
  • 01.21.08 विषप्रदस्य तु शुष्कश्याववक्त्रता वाक्सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणं आवेगः कर्मणि स्वभूमौ चानवस्थानं इति
  • 01.21.09 तस्माद् अस्य जाङ्गुलीविदो भिषजश्चासन्नाः स्युः
  • 01.21.10 भिषग्भैषज्यागाराद् आस्वादविशुद्धं औषधं गृहीत्वा पाचकपेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत्
  • 01.21.11 पानं पानीयं चाउषधेन व्याख्यातम्
  • 01.21.12 कल्पकप्रसाधकाः स्नानशुद्धवस्त्रहस्ताः समुद्रं उपकरणं अन्तर्वंशिकहस्ताद् आदाय परिचरेयुः
  • 01.21.13 स्नापकसंवाहकास्तरकरजकमालाकारकर्म दास्यः प्रसिद्धशौचाः कुर्युः, ताभिरधिष्ठिता वा शिल्पिनः
  • 01.21.14 आत्मचक्षुषि निवेश्य वस्त्रमाल्यं दद्युः, स्नानानुलेपनप्रघर्षचूर्णवासस्नानीयानि च स्ववक्षोबाहुषु च
  • 01.21.15 एतेन परस्माद् आगतकं व्याख्यातम्
  • 01.21.16 कुशीलवाः शस्त्राग्निरसक्रीडावर्जं नर्मयेयुः
  • 01.21.17 आतोद्यानि च एषां अन्तः तिष्ठेयुः, अश्वरथद्विपालङ्काराश्च
  • 01.21.18 आप्तपुरुषाधिष्ठितं यानवाहनं आरोहेत्, नावं चाप्तनाविकाधिष्ठितम्
  • 01.21.19 अन्यनौप्रतिबद्धां वातवेगवशां च न उपेयात्
  • 01.21.20 उदकान्ते सैन्यं आसीत
  • 01.21.21 मत्स्यग्राहविशुद्धं उदकं अवगाहेत
  • 01.21.22 व्यालग्राहविशुद्धं उद्यानं गच्छेत्
  • 01.21.23 लुब्धकश्वगणिभिरपास्तस्तेनव्यालपराबाधभयं चललक्ष्यपरिचयार्थं मृगारण्यं गच्छेत्
  • 01.21.24 आप्तशस्त्रग्राहाधिष्ठितः सिद्धतापसं पश्येत्, मन्त्रिपरिषदा सह सामन्तदूतम्
  • 01.21.25 सम्नद्धोऽश्वं हस्तिनं वाऽऽरूढः सम्नद्धं अनीकं पश्येत्
  • 01.21.26 निर्याणेऽभियाने च राजमार्गं उभयतः कृतारक्षं शस्त्रिभिर्दण्डिभिश्चापास्तशस्त्रहस्तप्रव्रजितव्यङ्गं गच्छेत्
  • 01.21.27 न पुरुषसम्बाधं अवगाहेत
  • 01.21.28 यात्रासमाज उत्सवप्रहवणानि च दशवर्गिकाधिष्ठितानि गच्छेत्
  • 01.21.29ab यथा च योगपुरुषैरन्यान् राजाऽधितिष्ठति .
  • 01.21.30chd तथाऽयं अन्याबाधेभ्यो रक्षेद् आत्मानं आत्मवान् ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]