कौटिलीय अर्थशास्त्रं ८

विकिस्रोतः तः
Jump to navigation Jump to search
  Book |  
    Chapt |      प्रकृतिव्यसनवर्गः
  • 08.1.01 व्यसनयौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा इति व्यसनचिन्ता
  • 08.1.02 दैवं मानुषं वा प्रकृतिव्यसनं अनयापनयाभ्यां सम्भवति
  • 08.1.03 गुणप्रातिलोम्यं अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम्
  • 08.1.04 व्यस्यत्येनं श्रेयस इति व्यसनम्
  • 08.1.05 स्वाम्य्ऽमात्यजनपददुर्गकोशदण्डमित्रव्यसनानां पूर्वं पूर्वं गरीयः इत्याचार्याः
  • 08.1.06 न इति भरद्वाजः
  • 08.1.07 स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः
  • 08.1.08 मन्त्रो मन्त्रफलावाप्तिः कर्मानुष्ठानं आयव्ययकर्म दण्डप्रणयनं अमित्राटवीप्रतिषेधो राज्यरक्षणं व्यसनप्रतीकारः कुमाररक्षणं अभिषेकश्च कुमाराणां आयत्तं अमात्येषु
  • 08.1.09 तेषां अभावे तद्ऽभावः, छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च
  • 08.1.10 व्यसनेषु चासन्नः पर उपजापः
  • 08.1.11 वैगुण्ये च प्राणाबाधः प्राणान्तिकचरत्वाद् राज्ञः इति
  • 08.1.12 न इति कौटिल्यः
  • 08.1.13 मन्त्रिपुरोहितादिभृत्यवर्गं अध्यक्षप्रचारं पुरुषद्रव्यप्रकृतिव्यसनप्रतीकारं एधनं च राजा एव करोति
  • 08.1.14 व्यसनिषु वाऽमात्येष्वन्यान् अव्यसनिनः करोति
  • 08.1.15 पूज्यपूजने दूष्यावग्रहे च नित्ययुक्तः तिष्ठति
  • 08.1.16 स्वामी च सम्पन्नः स्वसम्पद्भिः प्रकृतीः सम्पादयति
  • 08.1.17 स यत्शीलः तत्शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्ऽअयत्तत्वात्
  • 08.1.18 तत्कूटस्थानीयो हि स्वामी इति
  • 08.1.19 अमात्यजनपदव्यसनयोर्जनपदव्यसनं गरीयः इति विशालाक्षः
  • 08.1.20 कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदाद् उत्तिष्ठन्ते
  • 08.1.21 तेषां अभावो जनपदाभावे, स्वाम्य्ऽमात्ययोश्चानन्तरः इति
  • 08.1.22 न इति कौटिल्यः
  • 08.1.23 अमात्यमूलाः सर्वारम्भाः - जनपदस्य कर्मसिद्धयः स्वतः परतश्च योगक्षेमसाधनं व्यसनप्रतीकारः शून्यनिवेश उपचयौ दण्डकरानुग्रहश्च इति
  • 08.1.24 जनपददुर्गव्यसनयोर्दुर्गव्यसनम् इति पाराशराः
  • 08.1.25 दुर्गे हि कोशदण्ड उत्पत्तिरापदि स्थानं च जनपदस्य
  • 08.1.26 शक्तिमत्तराश्च पौरा जानपदेभ्यो नित्याश्चापदि सहाया राज्ञः
  • 08.1.27 जानपदाः त्वमित्रसाधारणाः इति
  • 08.1.28 न इति कौटिल्यः
  • 08.1.29 जनपदमूला दुर्गकोशदण्डसेतुवार्त्ताऽऽरम्भाः
  • 08.1.30 शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु
  • 08.1.31 पर्वतान्तर्द्वीपाश्च दुर्गा नाध्युष्यन्ते जनपदाभावात्
  • 08.1.32 कर्षकप्राये तु दुर्गव्यसनं, आयुधीयप्राये तु जनपदे जनपदव्यसनं इति
  • 08.1.33 दुर्गकोशव्यसनयोः कोशव्यसनम् इति पिशुनः
  • 08.1.34 कोशमूलो हि दुर्गसंस्कारो दुर्गरक्षणं जनपदमित्रामित्रनिग्रहो देशान्तरितानां उत्साहनं दण्डबलव्यवहारश्च
  • 08.1.35 दुर्गः कोशाद् उपजाप्यः परेषाम्
  • 08.1.36 कोशं आदाय च व्यसने शक्यं अपयातुं, न दुर्गम् इति
  • 08.1.37 न इति कौटिल्यः
  • 08.1.38 दुर्गार्पणः कोशो दण्डः तूष्णींयुद्धं स्वपक्षनिग्रहो दण्डबलव्यवहार आसारप्रतिग्रहः परचक्राटवीप्रतिषेधश्च
  • 08.1.39 दुर्गाभावे च कोशः परेषाम्
  • 08.1.40 दृश्यते हि दुर्गवतां अनुच्छित्तिरिति
  • 08.1.41 कोशदण्डव्यसनयोर्दण्डव्यसनम् इति कौणपदन्तः
  • 08.1.42 दण्डमूलो हि मित्रामित्रनिग्रहः परदण्ड उत्साहनं स्वदण्डप्रतिग्रहश्च
  • 08.1.43 दण्डाभावे च ध्रुवः कोशविनाशः
  • 08.1.44 कोशाभावे च शक्यः कुप्येन भूम्या परभूमिस्वयङ्ग्राहेण वा दण्डः पिण्डयितुं, दण्डवता च कोशः
  • 08.1.45 स्वामिनश्चासन्नवृत्तित्वाद् अमात्यसधर्मा दण्डः इति
  • 08.1.46 न इति कौटिल्यः
  • 08.1.47 कोशमूलो हि दण्डः
  • 08.1.48 कोशाभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति
  • 08.1.49 सर्वाभियोगकरश्च कोशो धर्मकामहेतुः
  • 08.1.50 देशकालकार्यवशेन तु कोशदण्डयोरन्यतरः प्रमाणीभवति
  • 08.1.51 लम्भपालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति
  • 08.1.52 सर्वद्रव्यप्रयोजकत्वात् कोशव्यसनं गरीय इति
  • 08.1.53 दण्डमित्रव्यसनयोर्मित्रव्यसनम् इति वातव्याधिः
  • 08.1.54 मित्रं अभृतं व्यवहितं च कर्म करोति, पार्ष्णिग्राहं आसारं अमित्रं आटविकं च प्रतिकरोति, कोशदण्डभूमिभिश्च उपकरोति व्यसनावस्थायोगम् इति
  • 08.1.55 न इति कौटिल्यः
  • 08.1.56 दण्डवतो मित्रं मित्रभावे तिष्ठति, अमित्रो वा मित्रभावे
  • 08.1.57 दण्डमित्रयोः तु साधारणे कार्ये सारतः स्वयुद्धदेशकाललाभाद् विशेषः
  • 08.1.58 शीघ्राभियाने त्वमित्राटविकानभ्यन्तरकोपे च न मित्रं विद्यते
  • 08.1.59 व्यसनयौगपद्ये परवृद्धौ च मित्रं अर्थयुक्तौ तिष्ठति
  • 08.1.60 इति प्रकृतिव्यसनसम्प्रधारणं उक्तम्
  • 08.1.61ab प्रकृत्य्ऽवयवानां तु व्यसनस्य विशेषतः |
  • 08.1.61chd बहुभावोऽनुरागो वा सारो वा कार्यसाधकः
  • 08.1.62ab द्वयोः तु व्यसने तुल्ये विशेषो गुणतः क्षयात् |
  • 08.1.62chd शेषप्रकृतिसाद्गुण्यं यदि स्यान्नाविधेयकम्
  • 08.1.63ab शेषप्रकृतिनाशः तु यत्र एकव्यसनाद् भवेत् |
  • 08.1.63chd व्यसनं तद् गरीयः स्यात् प्रधानस्य इतरस्य वा ( इति)


    Chapt |      राजराज्ययोर्व्यसनचिन्ता
  • 08.2.01 राजा राज्यं इति प्रकृतिसङ्क्षेपः
  • 08.2.02 राज्ञोऽभ्यन्तरो बाह्यो वा कोप इति
  • 08.2.03 अहिभयाद् अभ्यन्तरः कोपो बाह्यकोपात् पापीयान्, अन्तर्ऽमात्यकोपश्चान्तःकोपात्
  • 08.2.04 तस्मात् कोशदण्डशक्तिं आत्मसंस्थां कुर्वीत
  • 08.2.05 द्वैराज्यवैराज्ययोर्द्वैराज्यं अन्योन्यपक्षद्वेषानुरागाभ्यां परस्परसङ्घर्षेण वा विनश्यति, वैराज्यं तु प्रकृतिचित्तग्रहणापेक्षि यथास्थितं अन्यैर्भुज्यते इत्याचार्याः
  • 08.2.06 न इति कौटिल्यः
  • 08.2.07 पितापुत्रयोर्भ्रात्रोर्वा द्वैराज्यं तुल्ययोगक्षेमं अमात्यावग्रहं वर्तयति
  • 08.2.08 वैराज्यं तु जीवतः परस्याच्छिद्य न एतन् मम इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्यापगच्छति इति
  • 08.2.09 अन्धश्चलितशास्त्रो वा राजा इति अशास्त्रचक्षुरन्धो यत्किञ्चनकारी दृढाभिनिवेशी परप्रणेयो वा राज्यं अन्यायेन उपहन्ति, चलितशास्त्रः तु यत्र शास्त्राच्चलितमतिर्भवति शक्यानुनयो भवति इत्याचार्याः
  • 08.2.10 न इति कौटिल्यः
  • 08.2.11 अन्धो राजा शक्यते सहायसम्पदा यत्र तत्र वा पर्यवस्थापयितुम्
  • 08.2.12 चलितशास्त्रः तु शास्त्राद् अन्यथाऽभिनिविष्टबुद्धिरन्यायेन राज्यं आत्मानं च उपहन्ति इति
  • 08.2.13 व्याधितो नवो वा राजा इति व्याधितो राजा राज्य उपघातं अमात्यमूलं प्राणाबाधं वा राज्यमूलं अवाप्नोति, नवः तु राजा स्वधर्मानुग्रहपरिहारदानमानकर्मभिः प्रकृतिरञ्जन उपकारैश्चरति इत्याचार्याः
  • 08.2.14 न इति कौटिल्यः
  • 08.2.15 व्याधितो राजा यथाप्रवृत्तं राजप्रणिधिं अनुवर्तयति
  • 08.2.16 नवः तु राजा बलावर्जितं मम इदं राज्यम् इति यथा इष्टं अनवग्रहश्चरति
  • 08.2.17 सामुत्थायिकैरवगृहीतो वा राज्य उपघातं मर्षयति
  • 08.2.18 प्रकृतिष्वरूढः सुखं उच्छेत्तुं भवति इति
  • 08.2.19 व्याधिते विशेषः पापरोग्यपापरोगी च
  • 08.2.20 नवेऽप्यभिजातोऽनभिजात इति
  • 08.2.21 दुर्बलोऽभिजातो बलवान् अनभिजातो राजा इति दुर्बलस्याभिजातस्य उपजापं दौर्बल्यापेक्षाः प्रकृतयः कृच्छ्रेण उपगच्छन्ति, बलवतश्चानभिजातस्य बलापेक्षाः सुखेन इत्याचार्याः
  • 08.2.22 न इति कौटिल्यः
  • 08.2.23 दुर्बलं अभिजातं प्रकृतयः स्वयं उपनमन्ति, जात्यं ऐश्वर्यप्रकृतिरनुवर्तत इति
  • 08.2.24 बलवतश्चानभिजातस्य उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यं इति
  • 08.2.25 प्रयासवधात् सस्यवधो मुष्टिवधात् पापीयान्, निराजीवत्वाद् अवृष्टिरतिवृष्टितः
  • 08.2.26ab द्वयोर्द्वयोर्व्यसनयोः प्रकृतीनां बलाबलम् |
  • 08.2.26chd पारम्पर्यक्रमेण उक्तं याने स्थाने च कारणम् ( इति)


    Chapt |      पुरुषव्यसनवर्गः
  • 08.3.01 अविद्याविनयः पुरुषव्यसनहेतुः
  • 08.3.02 अविनीतो हि व्यसनदोषान्न पश्यति
  • 08.3.03 तान् उपदेक्ष्यामः
  • 08.3.04 कोपजः त्रिवर्गः, कामजश्चतुर्वर्गः
  • 08.3.05 तयोः कोपो गरीयान्
  • 08.3.06 सर्वत्र हि कोपश्चरति
  • 08.3.07 प्रायशश्च कोपवशा राजानः प्रकृतिकोपैर्हताः श्रूयन्ते, कामवशाः क्षयनिमित्तं अरिव्याधिभिरिति
  • 08.3.08 न इति भारद्वाजः
  • 08.3.09 सत्पुरुषाचारः कोपो वैरयातनं अवज्ञावधो भीतमनुष्यता च
  • 08.3.10 नित्यश्च कोपेन सम्बन्धः पापप्रतिषेधार्थः
  • 08.3.11 कामः सिद्धिलाभः सान्त्वं त्यागशीलता सम्प्रियभावश्च
  • 08.3.12 नित्यश्च कामेन सम्बन्धः कृतकर्मणः फल उपभोगार्थः इति
  • 08.3.13 न इति कौटिल्यः
  • 08.3.14 द्वेष्यता शत्रुवेदनं दुःखासङ्गश्च कोपः
  • 08.3.15 परिभवो द्रव्यनाशः पाटच्चरद्यूतकारलुब्धकगायनवादकैश्चानर्थ्यैः सम्योगः कामः
  • 08.3.16 तयोः परिभवाद् द्वेष्यता गरीयसी
  • 08.3.17 परिभूतः स्वैः परैश्चावगृह्यते, द्वेष्यः समुच्छिद्यत इति
  • 08.3.18 द्रव्यनाशात्शत्रुवेदनं गरीयः
  • 08.3.19 द्रव्यनाशः कोशाबाधकः, शत्रुवेदनं प्राणाबाधकं इति
  • 08.3.20 अनर्थ्यसम्योगाद् दुःखसम्योगो गरीयान्
  • 08.3.21 अनर्थ्यसम्योगो मुहूर्तप्रतीकारो, दीर्घक्लेशकरो दुःखानां आसङ्ग इति
  • 08.3.22 तस्मात् कोपो गरीयान्
  • 08.3.23 वाक्पारुष्यं अर्थदूषणं दण्डपारुष्यं इति
  • 08.3.24 वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः इति विशालाक्षः
  • 08.3.25 परुषमुक्तो हि तेजस्वी तेजसा प्रत्यारोहति
  • 08.3.26 दुरुक्तशल्यं हृदि निखातं तेजःसन्दीपनं इन्द्रिय उपतापि च इति
  • 08.3.27 न इति कौटिल्यः
  • 08.3.28 अर्थपूजा वाक्षल्यं अपहन्ति, वृत्तिविलोपः त्वर्थदूषणम्
  • 08.3.29 अदानं आदानं विनाशः परित्यागो वाऽर्थस्य इत्यर्थदूषणम्
  • 08.3.30 अर्थदूषणदण्डपारुष्ययोरर्थदूषणं गरीयः इति पाराशराः
  • 08.3.31 अर्थमूलौ धर्मकामौ
  • 08.3.32 अर्थप्रतिबद्धश्च लोको वर्तते
  • 08.3.33 तस्य उपघातो गरीयान् इति
  • 08.3.34 न इति कौटिल्यः
  • 08.3.35 सुमहताऽप्यर्थेन न कश्चन शरीरविनाशं इच्छेत्
  • 08.3.36 दण्डपारुष्याच्च तं एव दोषं अन्येभ्यः प्राप्नोति
  • 08.3.37 इति कोपजः त्रिवर्गः
  • 08.3.38 कामजः तु मृगया द्यूतं स्त्रियः पानं इति चतुर्वर्गः
  • 08.3.39 तस्य मृगयाद्यूतयोर्मृगया गरीयसी इति पिशुनः
  • 08.3.40 स्तेनामित्रव्यालदावप्रस्खलनभयदिन्मोहाः क्षुत्पिपासे च प्राणाबाधः तस्याम्
  • 08.3.41 द्यूते तु जितं एवाक्षविदुषा यथा जयत्सेनदुर्योधनाभ्याम् इति
  • 08.3.42 न इत्य्कौटिल्यः
  • 08.3.43 तयोरप्यन्यतरपराजयोऽस्ति इति नलयुधिष्ठिराभ्यां व्याख्यातम्
  • 08.3.44 तद् एव विजितद्रव्यं आमिषं वैरानुबन्धश्च
  • 08.3.45 सतोऽर्थस्य विप्रतिपत्तिरसतश्चार्जनं अप्रतिभुक्तनाशो मूत्रपुरीषधारणबुभुक्षाऽऽदिभिश्च व्याधिलाभ इति द्यूतदोषाः
  • 08.3.46 मृगयायां तु व्यायामः श्लेष्मपित्तमेदःस्वेदनाशश्चले स्थिते च काये लक्षपरिचयः कोपभयस्थानेषु च मृगाणां चित्तज्ञानं अनित्ययानं च इति
  • 08.3.47 द्यूतस्त्रीव्यसनयोः कैतवव्यसनम् इति कौणपदन्तः
  • 08.3.48 सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्येव कितवः
  • 08.3.49 कृच्छ्रे च प्रतिपृष्टः कुप्यति
  • 08.3.50 स्त्रीव्यसने तु स्नानप्रतिकर्मभोजनभूमिषु भवत्येव धर्मार्थपरिप्रश्नः
  • 08.3.51 शक्या च स्त्री राजहितेनियोक्तुं, उपांशुदण्डेन व्याधिना वा व्यावर्तयितुं अवस्रावयितुं वा इति
  • 08.3.52 न इति कौटिल्यः
  • 08.3.53 सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्रीव्यसनम्
  • 08.3.54 अदर्शनं कार्यनिर्वेदः कालातिपातनाद् अनर्थो धर्मलोपश्च तन्त्रदौर्बल्यं पानानुबन्धश्च इति
  • 08.3.55 स्त्रीपानव्यसनयोः स्त्रीव्यसनम् इति वातव्याधिः
  • 08.3.56 स्त्रीषु हि बालिश्यं अनेकविधं निशान्तप्रणिधौ व्याख्यातम्
  • 08.3.57 पाने तु शब्दादीनां इन्द्रियार्थानां उपभोगः प्रीतिदानं परिजनपूजनं कर्मश्रमवधश्च इति
  • 08.3.58 न इति कौटिल्यः
  • 08.3.59 स्त्रीव्यसने भवत्यपत्य उत्पत्तिरात्मरक्षणं चान्तर्दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व उच्छित्तिः
  • 08.3.60 तद् उभयं पानव्यसने
  • 08.3.61 पानसम्पत् - संज्ञानाशोऽनुन्मत्तस्य उन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीनदर्शनं श्रुतप्रज्ञाप्राणवित्तमित्रहानिः सद्भिर्वियोगोऽनर्थ्यसम्योगः तन्त्रीगीतनैपुण्येषु चार्थघ्नेषु प्रसङ्ग इति
  • 08.3.62 द्यूतमद्ययोर्द्यूतम्
  • 08.3.63 एकेषां पणनिमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्षद्वैधेन प्रकृतिकोपं करोति
  • 08.3.64 विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्याद् इति
  • 08.3.65ab असतां प्रग्रहः कामः कोपश्चावग्रहः सताम् |
  • 08.3.65chd व्यसनं दोषबाहुल्याद् अत्यन्तं उभयं मतम्
  • 08.3.66ab तस्मात् कोपं च कामं च व्यसनारम्भं आत्मवान् |
  • 08.3.66chd परित्यजेन् मूलहरं वृद्धसेवी जित इन्द्रियः ( इति)


    Chapt |      पीडनवर्गः - स्तम्भवर्गः - कोशसंगवर्गः
  • 08.4.01 दैवपीडनं - अग्निरुदकं व्याधिर्दुर्भिक्षं मरक इति
  • 08.4.02 अग्न्य्.उदकयोरग्निपीडनं अप्रतिकार्यं सर्वदाहि च, शक्यापगमनं तार्याबाधं उदकपीडनम् इत्याचार्याः
  • 08.4.03 न इत् कौटिल्यः
  • 08.4.04 अग्निर्ग्रामं अर्धग्रामं वा दहति, उदकवेगः तु ग्रामशतप्रवाही इति
  • 08.4.05 व्याधिदुर्भिक्षयोर्व्याधिः प्रेतव्याधित उपसृष्टपरिचारकव्यायाम उपरोधेन कर्माण्युपहन्ति, दुर्भिक्षं पुनरकर्म उपघाति हिरण्यपशुकरदायि च इत्याचार्याः
  • 08.4.06 न इति कौटिल्यः
  • 08.4.07 एकदेशपीडनो व्याधिः शक्यप्रतीकारश्च, सर्वदेशपीडनं दुर्भिक्षं प्राणिनां अजीवनाय इति
  • 08.4.08 तेन मरको व्याख्यातः
  • 08.4.09 क्षुद्रकमुख्यक्षययोः क्षुद्रकक्षयः कर्मणां अयोगक्षेमं करोति, मुख्यक्षयः कर्मानुष्ठान उपरोधधर्मा इत्याचार्याः
  • 08.4.10 न इति कौटिल्यः
  • 08.4.11 शक्यः क्षुद्रकक्षयः प्रतिसन्धातुं बाहुल्यात् क्षुद्रकाणां, न मुख्यक्षयः
  • 08.4.12 सहस्रेषु हि मुख्यो भवत्येको न वा सत्त्वप्रज्ञाऽऽधिक्यात् तद्ऽअश्रयत्वात् क्षुद्रकाणां इति
  • 08.4.13 स्वचक्रपरचक्रयोः स्वचक्रं अतिमात्राभ्यां दण्डकराभ्यां पीडयत्यशक्यं च वारयितुं, परचक्रं तु शक्यं प्रैयोद्धुं उपसारेण सन्धिना वा मोक्षयितुम् इत्याचार्याः
  • 08.4.14 न इति कौटिल्यः
  • 08.4.15 स्वचक्रपीडनं प्रकृतिपुरुषमुख्य उपग्रहविघाताभ्यां शक्यते वारयितुं एकदेशं वा पीडयति, सर्वदेशपीडनं तु परचक्रं विलोपघातदाहविध्वंसनापवाहनैः पीडयति इति
  • 08.4.16 प्रकृतिराजविवादयोः प्रकृइतिविवादः प्रकृतीनां भेदकः पराभियोगान् आवहति, राजविवादः तु प्रकृतीनां द्विगुणभक्तवेतनपरिहारकरो भवति इत्याचार्याः
  • 08.4.17 न इति कौटिल्यः
  • 08.4.18 शक्यः प्रकृतिविवादः प्रकृतिमुख्य उपग्रहेण कलहस्थानापनयनेन वा वारयितुम्
  • 08.4.19 विवदमानाः तु प्रकृतयः परस्परसङ्घर्षेण उपकुर्वन्ति
  • 08.4.20 राजविवादः तु पीडन उच्छेदनाय प्रकृतीनां द्विगुणव्यायामसाध्य इति
  • 08.4.21 देशराजविहारयोर्देशविहारः त्रैकाल्येन कर्मफल उपघातं करोति, राजविहारः तु कारुशिल्पिकुशीलववाग्जीवनरूपाजीवावैदेहक उपकारं करोति इत्याचार्याः
  • 08.4.22 न इति कौटिल्यः
  • 08.4.23 देशविहारः कर्मश्रमं अवधाऽर्थं अल्पं भक्षयति भक्षयित्वा च भूयः कर्मसु योगं गच्छति, राजविहारः तु स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्य उपग्रहैः पीडयति इति
  • 08.4.24 सुभगाकुमारयोः कुमारः स्वयं वल्लभैश्च स्वयङ्ग्राहप्रणयपण्यागारकार्य उपग्रहैः पीडयति, सुभगा विलास उपभोगेन इत्याचार्याः
  • 08.4.25 न इति कौटिल्यः
  • 08.4.26 शक्यः कुमारो मन्त्रिपुरोहिताभ्यां वारयितुं, न सुभगा बालिश्याद् अनर्थ्यजनसम्योगाच्च इति
  • 08.4.27 श्रेणीमुख्ययोः श्रेणी बाहुल्याद् अनवग्रहा स्तेयसाहसाभ्यां पीडयति, मुख्यः कार्यानुग्रहविघाताभ्याम् इत्याचार्याः
  • 08.4.28 न इति कौटिल्यः
  • 08.4.29 सुव्यावर्त्या श्रेणी समानशीलव्यसनत्वात्, श्रेणीमुख्य एकदेश उपग्रहेण वा
  • 08.4.30 स्तम्भयुक्तो मुख्यः परप्राणद्रव्य उपघाताभ्यां पीडयति इति
  • 08.4.31 सम्निधातृसमाहर्त्रोः सम्निधाता कृतविदूषणात्ययाभ्यां पीडयति, समाहर्ता करणाधिष्ठितः प्रदिष्टफल उपभोगी भवति इत्याचार्याः
  • 08.4.32 न इति कौटिल्यः
  • 08.4.33 सम्निधाता कृतावस्थं अन्यैः कोशप्रवेश्यं प्रतिगृह्णाति, समाहर्ता तु पूर्वं अर्थं आत्मनः कृत्वा पश्चाद् राजार्थं करोति प्रणाशयति वा, परस्वादाने च स्वप्रत्ययश्चरति इति
  • 08.4.34 अन्तपालवैदेहकयोरन्तपालश्चोरप्रसर्गदेयात्यादानाभ्यां वणिक्पथं पीडयति, वैदेहकाः तु पण्य.प्रतिपण्यानुग्रहैः प्रसाधयन्ति इत्याचार्याः
  • 08.4.35 न इति कौटिल्यः
  • 08.4.36 अन्तपालः पण्यसम्पातानुग्रहेण वर्तयति, वैदेहकाः तु सम्भूय पण्यानां उत्कर्षापकर्षं कुर्वाणाः पणे पणशतं कुम्भे कुम्भशतं इत्याजीवन्ति
  • 08.4.37 अभिजात उपरुद्धा भूमिः पशुव्रज उपरुद्धा वा इति अभिजात उपरुद्धा भूमिः महाफलाऽप्यायुधीय उपकारिणी न क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रज उपरुद्धा तु कृषियोग्या क्षमा मोक्षयितुम्
  • 08.4.38 विवीतं हि क्षेत्रेण बाध्यते इत्याचार्याः
  • 08.4.39 न इति कौटिल्यः
  • 08.4.40 अभिजात उपरुद्धा भूमिरत्यन्तमहा उपकाराऽपि क्षमा मोक्षयितुं व्यसनाबाधभयात्, पशुव्रज उपरुद्धा तु कोशवाहन उपकारिणी न क्षमा मोक्षयितुं, अन्यत्र सस्यवाप उपरोधाद् इति
  • 08.4.41 प्रतिरोधकाटविकयोः प्रतिरोधका रात्रिसत्त्रचराः शरीराक्रमिणो नित्याः शतसहस्राहपारिणः प्रधानकोपकाश्च व्यवहिताः प्रत्यन्तरारण्यचराश्चाटविकाः प्रकाशा दृस्याश्चरन्ति, एकदेशघातकाश्च इत्याचार्याः
  • 08.4.42 न इति कौटिल्यः
  • 08.4.43 प्रतिरोधकाः प्रमत्तस्यापरहन्ति, अल्पाः कुण्ठाः सुखा ज्ञातुं ग्रहीतुं च, स्वदेशस्थाः प्रभूता विक्रान्ताश्चाटविकाः प्रकाशयोदिनोऽपहर्तारो हन्तारश्च देशानां राजसधर्माण इति
  • 08.4.44 मृगहस्तिवनयोः मृगाः प्रभूताः प्रभूतमांसचर्म उपकारिणो मन्दग्रासावक्लेशिनः सुनियम्याश्च
  • 08.4.45 विपरीता हस्तिनो गृह्यमाणा दुष्टाश्च देशविनाशाय इति
  • 08.4.46 स्वपरस्थानीय उपकारयोः स्वस्थानीय उपकारो धान्यपशुहिरण्यकुप्य उपकारो जानपदानां आपद्यात्मधारणः
  • 08.4.47 विपरीतः परस्थानीय उपकारः
  • 08.4.48 इति पीडनानि - आभ्यन्तरो मुख्यस्तम्भो बाह्योऽमित्राटवीस्तम्भः इति स्तम्भवर्गह्
  • 08.4.49 ताभ्यां पीडनैर्यथा उक्तैश्च पीडितः, सक्तो मुख्येषु, परिहार उपहतः, प्रकीर्णो, मिथ्यासंहृतः, सामन्ताटवीहृत इति कोशसङ्गवर्गः
  • 08.4.50ab पीडनानां अनुत्पत्तावुत्पन्नानां च वारणे |
  • 08.4.50chd यतेत देशवृद्ध्य्ऽर्थं नाशे च स्तम्भसङ्गयोः ( इति)


    Chapt |      बलव्यसनवर्गः - मित्रव्यसनवर्गः
  • 08.5.01 बलव्यसनानि - अमानितं, विमानितं, अभृतं, व्याधितं, नवागतं, दूरायातं, परिश्रान्तं, परिक्षीणं, प्रतिहतं, हताग्रवेगं, अनृतुप्राप्तं, अभूमिप्राप्तं, आशानिर्वेदि, परिसृप्तं, कलत्रगर्भि, अन्तःशल्यं, कुपितमूलं, भिन्नगर्भं, अपसृतं, अतिक्षिप्तं, उपनिविष्टं, समाप्तं, उपरुद्धं, परिक्षिप्तं, छिन्नधान्यपुरुषवीवधं, स्वविक्षिप्तं, मित्रविक्षिप्तं, दूष्ययुक्तं, दुष्टपार्ष्णिग्राहं, शून्यमूलं, अस्वामिसंहतं, भिन्नकूटं, अन्धं इति
  • 08.5.02 तेषां अमानितविमानितानियतयोरमानितं कृतार्थमानं युध्येत, न विमानितं अन्तःकोपम्
  • 08.5.03 अभृतव्याधितयोरभृतं तदात्वकृतवेतनं युध्येत, न व्याधितं अकर्मण्यम्
  • 08.5.04 नवागतदूरायातयोर्नवागतं अन्यत उपलब्धदेशं अनवमिश्रं युध्येत, न दूरायतं आयतगतपरिक्लेशम्
  • 08.5.05 परिश्रान्तपरिक्षीणयोः परिश्रान्तं स्नानभोजनस्वप्नलब्धविश्रामं युध्येत, न परिक्षीणं अन्यत्राहवे क्षीणयुग्यपुरुषम्
  • 08.5.06 प्रतिहतहताग्रवेगयोः प्रतिहतं अग्रपातभग्नं प्रवीरपुरुषसंहतं युध्येत, न हताग्रवेगं अग्रपातहतवीरम्
  • 08.5.07 अनृत्व्ऽभूमिप्राप्तयोरनृतुप्राप्तं यथ.ऋतुयुग्यशस्त्रावरणं युध्येत, नाभूमिप्राप्तं अवरुद्धप्रसारव्यायामम्
  • 08.5.08 आशानिर्वेदिपरिसृप्तयोराशानिर्वेदि लब्धाभिप्रायं युध्येत, न परिसृप्तं अपसृतमुख्यम्
  • 08.5.09 कलत्रगर्भ्य्ऽन्तःशल्ययोः कलत्रगर्भि उन्मुच्य कलत्रं युध्येत, नान्तःशल्यं अन्तरमित्रम्
  • 08.5.10 कुपितमूलभिन्नगर्भयोः कुपितमूलं प्रशमितकोपं सामादिभिर्युध्येत, न भिन्नगर्भं अन्योन्यस्माद् भिन्नम्
  • 08.5.11 अपसृतातिक्षिप्तयोरपसृतं एकराज्यातिक्रान्तं मन्त्रव्यायामाभ्यां सत्त्रमित्रापाश्रयं युध्येत, नातिक्षिप्तं अनेकराज्यातिक्रान्तं बह्व्ऽअबाधत्वात्
  • 08.5.12 उपनिविष्टसमाप्तयोरुपनिविष्टं पृथग्यानस्थानं अतिसन्धायारिं युध्येत, न समाप्तं अरिणा एकस्थानयानम्
  • 08.5.13 उपरुद्धपरिक्षिप्तयोरुपरुद्धं अन्यतो निष्क्रम्य उपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम्
  • 08.5.14 छिन्नधान्यपुरुषवीवधयोः छिन्नधान्यं अन्यतो धान्यं आनीय जङ्गमस्थावराहारं वा युध्येत, न छिन्नपुरुषवीवधं अनभिसारम्
  • 08.5.15 स्वविक्षिप्तमित्रविक्षिप्तयोः स्वविक्षिप्तं स्वभूमौ विक्षिप्तं सैन्यं आपदि शक्यं आवाहयितुं, न मित्रविक्षिप्तं विप्रकृष्टदेशकालत्वात्
  • 08.5.16 दूष्ययुक्तदुष्टपार्ष्णिग्राहयोर्दूष्ययुक्तं आप्तपुरुषाधिष्ठितं असंहतं युध्येत, न दुष्टपार्ष्णिग्राहं पृष्ठाभिघातत्रस्तम्
  • 08.5.17 शून्यमूलास्वामिसंहतयोः शून्यमूलं कृतपौरजानपदारक्षं सर्वसन्दोहेन युध्येत, नास्वामिसंहतं राजसेनापतिहीनम्
  • 08.5.18 भिन्नकूटान्धयोर्भिन्नकूटं अन्याधिष्ठितं युध्येत, नान्धं अदेशिकं - इति
  • 08.5.19ab दोषशुद्धिर्बलावापः सत्त्रस्थानातिसंहितम् |
  • 08.5.19chd सन्धिश्च उत्तरपक्षस्य बलव्यसनसाधनम्
  • 08.5.20ab रक्षेत् स्वदण्डं व्यसने शत्रुभ्यो नित्यं उत्थितः |
  • 08.5.20chd प्रहरेद् दण्डरन्ध्रेषु शत्रूणां नित्यं उत्थितः
  • 08.5.21ab यतो निमित्तं व्यसनं प्रकृतीनां अवाप्नुयात् |
  • 08.5.21chd प्राग् एव प्रतिकुर्वीत तन्निमित्तं अतन्द्रितः |
  • 08.5.22ab अभियातं स्वयं मित्रं सम्भूयान्यवशेन वा
  • 08.5.22chd परित्यक्तं अशक्त्या वा लोभेन प्रणयेन वा |
  • 08.5.23ab विक्रीतं अभियुञ्जाने सङ्ग्रामे वाऽपवर्तिना
  • 08.5.23chd द्वैधीभावेन वाऽमित्रं यास्यता वाऽन्यं अन्यतः |
  • 08.5.24ab पृथग् वा सहयाने वा विश्वासेनातिसंहितम्
  • 08.5.24chd भयावमानालस्यैर्वा व्यसनान्न प्रमोक्षितम् |
  • 08.5.25ab अवरुद्धं स्वभूमिभ्यः समीपाद् वा भयाद् गतम्
  • 08.5.25chd आच्छेदनाद् अदानाद् वा दत्त्वा वाऽप्यवमानितम् |
  • 08.5.26ab अत्याहारितं अर्थं वा स्वयं परमुखेन वा
  • 08.5.26chd अतिभारे नियुक्तं वा भङ्क्त्वा परं उपस्थितम् |
  • 08.5.27ab उपेक्षितं अशक्त्या वा प्रार्थयित्वा विरोधितम्
  • 08.5.27chd कृच्छ्रेण साध्यते मित्रं सिद्धं चाशु विरज्यति |
  • 08.5.28ab कृतप्रयासं मान्यं वा मोहान् मित्रं अमानितम् |
  • 08.5.28chd मानितं वा न सदृशं शक्तितो वा निवारितम्
  • 08.5.29ab मित्र उपघातत्रस्तं वा शङ्कितं वाऽरिसंहितात् |
  • 08.5.29chd दूष्यैर्वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति
  • 08.5.30ab तस्मान्न उत्पादयेद् एनान् दोषान् मित्र उपघातकान् |
  • 08.5.30chd उत्पन्नान् वा प्रशमयेद् गुणैर्दोष उपघातिभिः ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]